SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे 11 44 11 सुतावार्तासुधावृष्ट्या दिष्ट्या श्वासय सुन्दर ! ॥ १२६ ॥ इति राज्ञा ससम्मानं पृष्टः पार्थिवसूरथ । निमित्तविद्यया सम्यग् बुद्ध्वा तच्छुद्धिमभ्यधात् ॥ १२७ ॥ गगने गच्छतो हेमाङ्गदविद्याधरस्य सा । जहार हृदयं कन्या गवाक्षस्थां स तां पुनः ॥ १२८ ॥ इतः सहस्रयोजन्यामन्यायः स निनाय ताम् । रत्नसानुगिरौ यत्र देवानामप्यगम्यता ॥ १२९ ॥ तत्र चाटुशतैस्तेनात्यर्थमभ्यर्थ्यते स्म सा । दरिद्रस्येव तस्योक्तं न तु मेने मनागपि ॥ १३० ॥ प्रत्युत प्रत्युवाचेयं यः पर्ण पूरयेन्मम । तं विमुच्यापरं कान्तं न कुर्वे सर्वथाऽप्यहम् ॥ १३१ ॥ ततः स कुपितस्तत्र तां विमुध्य भयङ्करे । प्रतस्थे स्वं प्रति स्थानं न दया हि दुरात्मनाम् ॥ १३२ ॥ पुनरेत्यानुनेष्यामि परिणेष्यामि च स्वयम् । माऽपहार्षीदितश्चैतां कश्चनेति विचिन्त्य | सः ॥ १३३ ॥ तस्या रक्षाकृते रक्षोविद्यां गृधीवपुर्धराम् । न्यक्षिपद्भीषणां तत्र पुत्रीं पितृपतेरिव ॥ १३४ ॥ सततं सा च तत्रस्था विधत्ते विविधान् ध्वनीन् । कुशलं वः समस्तीति ब्रुवाणा सा शुभावहा ॥ १३५ ॥ अरे ! क्व यूयमायाताः कृतान्तः कुप्यति स्म वः । पलायध्वं पलायध्वमिति रौति यदा तु सा ॥ १३६ ॥ राक्षस्या इव यस्तस्यास्तदाकर्णयति ध्वनिम् । स लुठत्यवनीपीठे वमन् शोणितमानने ॥ १३७ ॥ दष्टो दुष्टोरगेणेव सद्यश्चायं विपद्यते । ईदृग्दुष्टानुभावा सा कन्याऽभ्यर्णेऽस्ति संततम् ॥ १३८ ॥ परं पिपर्ति चेद्वाणैः शब्दवेधी तदाननम् । तदा प्रहतशक्तिः सा द्रुतमेव पलायते ॥ १३९ ॥ इत्याकर्ण्य भृशं भूपादयो विस्मयमाययुः । अहो ! ज्ञानमहो ! बुद्धिरिति तं सुष्ठु तुष्टुवुः ॥ १४० ॥ प्रोचुश्च तदुदन्तोक्त्या वयमप्रीष्महि त्वया । प्रत्याहृत्याथ तामत्र हर्षमुत्कर्षयाशु नः ॥ १४१ ॥ भवन्तं हि विना सर्वकलाकौशलशालिनम् । न परः पारयेत्कर्तुं तत्समानयनोत्सवम् ॥ १४२ ॥ ततः स्वकलया काष्ठगरुडान् गगनाग्रगान् । त्रिविष्टपादिव प्रथमः प्रकाशः । ॥ ५ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy