SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ॥ अथ एकादशः प्रकाशः॥ श्रीगौतमः शर्म स निर्मिमीतां सतां प्रभुर्यः परमान्नपाच्या । तावन्मितानामपि तापसानामकारयत्पारणमेकयाऽपि॥२॥ अथ धर्मार्थदानस्य प्रभेदः पुण्यमेदुरः। सुपात्रपात्रदानाख्यः स्पष्टं निष्टक्ष्यतेऽष्टमः ॥१॥ देयं पात्रं सुपात्राय नेतुं |स्वं पात्रतां बुधैः । यतो मुक्त्यङ्गतां प्राहुस्तस्य धर्मोपकारतः॥२॥ तथाहि___ मोक्षः कर्मक्षयाधीनस्तत्क्षयश्चरणाश्रयः। चरणं वपुरायत्तं वपुराहारकारणम् ॥ ३ ॥ विना पात्रं न चाहारं शक्तो |भोक्तुमलब्धिकः । जिनादिर्लब्धिमानेव भजते पाणिभोजिताम् ॥ ४॥ लब्धिशून्यो विना पात्रमश्नन् पशुरिवाश्नुते । विडम्बनामनेकानां जन्तूनां च विराधनाम् ॥ ५॥ लब्धिश्चैदंयुगीनानां मुनीनां न मनागपि । अतो मुक्त्यङ्गतां तस्य विदुस्तात्पर्यवेदिनः ॥६॥ अंभस्कुम्भसहस्रेऽपि क्षिप्ते येषां न पाणितः। स्पन्दते बिन्दुरप्येको मन्त्रैरिव नियन्त्रणात् ॥७॥ आत्तदीक्षाः स्वशिष्याणां दिदर्शयिषया पथः। जिनेन्द्रा गृहृते तेऽपि पात्रं प्रथमपारणे ॥ ८॥ जिनं दृष्टान्तयन्तो ये भुञ्जते पाणिभाजनाः। नहि मार्गप्रवृत्तास्ते जिनाज्ञाभङ्गसङ्गतः॥९॥ यदुक्तं श्रीदशवैकालिके "पिंडं सिजं च वत्थं च चउत्थं पायमेव य । अकप्पिन इच्छिज्जा पडिग्गहिज कप्पिअं॥१॥" | तुम्बकादिमयं दातुं यतिभ्यस्तच्च युज्यते । यतीनां तादृशस्तस्य यदनुज्ञा जिनागमे ॥ १०॥ तदुक्तं श्रीस्थानाङ्गे "निग्गंथो वा निग्गंथी वा तउ पायाई धारित्तए वा परिहरित्तए वा । तंजहा-लाउअपाए १ दारुपाए २ मट्टिआपाए ३" इति ॥ शास्त्रान्तरेऽपि NERGAOCALCREA TOR
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy