SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१८॥ द्वादशः प्रकाश |ममानयत् ॥९५ ॥ इत्युपश्लोकयन्तीनां सखीनां तां स्मिताननाम् । हर्षसांराविणं तस्य तदा निद्रां व्यदुद्रुवत् ॥ ९६॥ किमेतदिति संभ्रान्तः शय्योत्थाय दुतं धनः। दृषदोऽपि मणीभूता वीक्ष्यमाणो विसिष्मिये ॥ ९७ ॥ विस्मयस्मेरनेत्रं तं दयिता स्माह सस्मितम् । त्वमप्यदृष्टपूर्वीव किं रत्नानि विलोकसे ॥ ९८॥ सोऽप्यूचे श्वशुरादानप्रस्तरग्रहणादिकम् । ततो जज्ञे जनः सर्वो विशेषेण सविस्मयः॥ ९९ ॥ इतश्चाध्यक्षतामेत्य जगौ शासनदेवता । भो ! मुग्धाः! विस्मयध्वे किं शृणुतात्र यथास्थितम् ॥ १०॥ धनेन मुनयेऽनेन दत्ता यत्पथि सक्तवः । पात्रदानस्य तस्यायं महिमाऽश्ममणित्वकृत् ॥१०१॥ प्रहारा अपि हाराः स्युः संपदीस्युस्तथाऽऽपदः। मणीभवन्ति दृषदः पात्रदानान्न किं भवेत् ॥१०२॥ इत्युक्त्वा ४सा तिरोधत्त तदृष्ट्वा च जना मुदा । तुष्टुवुस्तं मुहुः पात्रदाने चादरमादधुः॥ १०३ ॥ स प्रतिष्ठां ययौ रत्नैरप्रतां दानिनां वरः। महिमानं न के दत्ते लक्ष्मीरौदार्यभूषणा ॥१०४॥ सुचिरं धर्ममाराध्य पात्रदानपवित्रितम् । गतिं दिव्यामयं लेभे पक्रमेण परमामपि ॥ १०५॥ इत्थं निराशंसतया द्विधाऽपि सुपात्रदाने सुधियोऽवधत्त । निर्विघ्नमेवोभयलोकसंपद्यथा | समग्रा वृणुते स्वयं वः ॥ १०६ ॥ आशंसा ॥१॥ । तथा न कापि मेधावी दद्यादानमनादरम् । तत्तथा कीर्तये नेह प्रेत्य न श्रेयसे च यत् ॥१॥ ददीताल्पमनल्पं वा यथासंपत्ति सन्मतिः । परमादरसंपन्नं दानश्रेयान् स एव यत् ॥२॥ दानमादरनिर्मुक्तं विद्या विनयवर्जिता । तपः शमविनाभूतं त्रयं क्लेशाय केवलम् ॥३॥ सुपात्रे तु विशेषेण नहि कुर्यादनादरम् । तदवज्ञा यतो दातुः प्रत्युत प्रत्यवायकृत् ॥४॥ अवजानन सुपात्रं हि तद्गुणानवजज्ञिवान् । अवज्ञयेव दूनास्ते नोपसर्पन्ति जातु तम् ॥ ५॥ तदभावे ॥१८॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy