________________
रम् ॥ ७८ ॥ द्वितीये दिवसे क्वापि पारणार्थं स्थितः पथि । दध्यौ कथं विना पात्रदानं कुर्वेऽद्य भोजनम् ॥ ७९ ॥ एतावन्त्यप्युदप्राणि किं मे भाग्यानि जाग्रति । यदरण्येऽपि कोऽप्यत्र कुतोऽध्येति यतीश्वरः ॥ ८० ॥ इति ध्यायन्नयं पश्यन् | दिशः क्षणमवास्थित । साध्वयोगे दिगालोकः श्रद्धालोः खलु सत्फलः ॥ ८१ ॥ इतश्च पुरि भिक्षायै पक्षक्षपणपारणे । व्रजंस्तत्राययौ कोऽपि साधुर्धर्म इवाङ्गवान् ८२ ॥ तं दृष्ट्वा हृष्टचित्तोऽयमभ्युत्थाय ससंभ्रमम् । प्रणम्य श्रेयसी भक्तिः | सक्तुभिः प्रत्यलाभयत् ॥ ८३ ॥ स कृतार्थमथात्मानं मन्वानः पारणं व्यधात् । प्रस्थितश्चाग्रतः प्राप तुर्येऽह्नि श्वशुरालयम् ॥ ८४ ॥ सच्चक्रुः श्वशुराद्यास्तं परं नैवार्पिपन् धनम् । दरिद्रं नाद्रियन्ते हि प्रायशः स्वजना अपि ॥ ८५ ॥ परस्मैददते प्रायो जनाः प्रत्यर्पणाशया । न संमुखमपीक्षन्ते निःस्वस्य कथमन्यथा ॥ ८६ ॥ ततः संतोषतृतात्मा ववले स निरा कुलः । सम्माने वाऽपमाने वा महान्तस्तुल्यवृत्तयः ॥ ८७ ॥ स्वग्रामसरितस्तीरे प्राप्तश्चिन्तयति स्म सः । मनोरथैर्गणतिथैः प्रेयसी प्रजिघाय माम् ॥ ८८ ॥ तथाऽवस्थं च मां दृष्ट्वा तस्या भावि महत्तमम् । दुःखं तस्मादमुष्याश्च मा स्म भूदसमञ्जसम् ॥ ८९ ॥ ध्यात्वेत्यकर्कशानर्कभासुरान् वृत्तकर्करान् । गृहीत्वा गणशो ग्रन्थौ रतबन्धं बबन्ध सः ॥ ९० ॥ विधाय शिरसि ग्रन्थि जगाम निजधाम सः । दयिताऽपि तथाऽऽयान्तं कान्तमालोक्य पिप्रिये ॥ ९१ ॥ अभ्युत्थानादिकां तस्य प्रतिपत्तिं व्यधत्त सा । तस्माच्चादाय तं ग्रन्थिमन्तर्वेश्म न्यवीविशत् ॥ ९२ ॥ कुशलालापपीयूषपाणगोष्ठीं | तया समम् । विधाय कृतभुक्त्यादिकृत्यः सुष्वाप स क्षणम् ॥ ९३ ॥ तया कौतुकतो ग्रन्थौ रत्नान्युग्रथिते सति । प्रादुरासन् प्रदीप्राणि नानारत्नखनाविव ॥ ९४ ॥ अहो ! ते पितुरौदार्थमहो ! वत्सलता त्वयि । अनयैर्घ्यदयं रतैर्जामातर