________________
मुपस्थितः ॥ ३३१ ॥ इत्युदीर्य महावीर्यः प्रजहारातिवज्रया । तन्मारणोद्यतं मुष्ट्या दुर्वारं तं स वारणम् ॥ ३३२ ॥ अथ राजाङ्गजां त्यक्त्वाऽभ्यधावत्तं कुधा द्विपः । मण्डल्याऽभयसिंहोऽपि निर्भयस्तमविभ्रमत् ॥ ३३३ ॥ अचीखिदत्तथा तं च क्षरत्स्वेदाम्बुनिर्झरः । यथास्थिरः क्षणं भेजे वर्षाक्षोणीधरश्रियम् ॥ ३३४ ॥ अथायं द्रुतमुत्पत्य सत्यस्तुत्यपराक्रमः । द्विपस्य स्कन्धमध्यास्त पौराणां हृदयं पुनः ॥ ३३५ ॥ वशीकृत्य वशाकान्तं सृणिना मसृणेन सः । हेलया खेलयामास वासवः स्वर्गजं यथा ॥ ३३६ ॥ तदीयोपकृतिक्रीती तद्गुणावर्जिताशया । तदा मुदा हृदा कन्या वरयामास तं वरम् ॥ ३३७ ॥ अहो ! अस्याद्भुता शक्तिरयं जीयाच्चिराय च । इति तस्य स्तुतिं तेनुः पूर्जना गायना इव ॥ ३३८ ॥ खेलयित्वा क्षणं पौरपुरन्ध्रीनयनोत्सवः । निनाय द्विपमालानं ख्यातिं वीरव्रतं च सः ॥ ३३९ ॥ अथ दध्यौ धराधीशो वणिकसूनुरयं नहि । अस्याकृत्या प्रकृत्या च सूत्र्यते क्षत्रगोत्रता ॥ ३४० ॥ किमेष एव तां दिव्यभाषां सत्यापयिष्यति । तदस्य द्विषतः क्षिप्रमपायोपायमादधे ॥ ३४१ ॥ यतः कार्ये न धीरेण मोक्तव्यं क्वापि पौरुषम् । इति निष्टय दुष्टात्मा भटानादिष्टवान्नृपः ॥ ३४२ ॥ वीरेषु रणदक्षेषु पुरोलक्षेषु सत्स्वपि । अयं नियन्त्रयामास वाणिजस्याङ्गजो गजम् ॥ ३४३ ॥ मालिन्यं तनुते राज्येऽपवादोऽयं निषादवत् । अधिकं वर्धते चायं जीवत्यस्मिन् वणिक्सुते ॥ ३४४ ॥ अतोऽतर्कितमेवायमवरोहन्मतङ्गजात् । भवद्भिरतिथीकार्यो निकाय्ये समवर्तिनः ॥ ३४५ ॥ ततः क्रोधोडुरा योधाः सन्नद्धा विविधा - युधाः । प्रहन्तुं परिवनुस्तं शूकराः करिणं यथा ॥ ३४६ || तान्मत्वाऽभयसिंहस्तु घातकानन्तकानिव । तिरोभूय घुसझेव द्रुतं सद्म स्वमासदत् ॥ ३४७ ॥ तेऽथ विज्ञपयामासुर्वीक्षापन्नमुखा नृपम् । यावदाहन्महे राजन्नयं तावत्तिरोदधे ॥ ३४८ ॥