________________
प्रत्यहमसेविष्ट पारणैकनिविष्टधीः ॥ ४० ॥ चतुर्मास्यतिमाहे च निमन्त्र्य स्वामिनं मुदा । निजं धामाजगामायं जिनार्वादि चकार च ॥ ४१ ॥ जिनाध्वदत्तदृग् दध्यौ जिनदत्तः स्थितोऽङ्गणे । दास्यामि स्वामिनेऽमूनि भोज्यानि प्रासुकान्यहम् ॥ ४२ ॥ ध्रुवं धन्योऽस्मि संपूर्णपुण्योऽस्मि धाम्नि यन्मम । स्वयमेष्यति विश्वेशः पारणं च करिष्यते ॥ ४३ ॥ हर्षाच्चाभिगमिष्यामि समायान्तं जगत्प्रभुम् । त्रिः परीय च सानन्दं वन्दिष्ये तत्पदाम्बुजम् ॥ ४४ ॥ पारयित्वा च तं पाणौ करिष्ये मोक्षसंपदम् । तस्यै दर्शनमप्यस्य किं पुनः पारणं यतः ॥ ४५ ॥ इत्यनुक्षणवर्धिष्णोर्विशुद्धाध्यवसायतः । बबन्धाच्युतकल्पायुरददानोऽप्ययं तदा ॥ ४६ ॥ तावता श्रीमदोद्रीवाभिनवश्रेष्ठिनो गृहे । तदादेशाज्जिने दास्या पारिते देवताडितम् ॥ ४७ ॥ दिव्यदुन्दुभिमश्रौषी देषोऽतिविषसाद च । हा ! ध्रुवं मन्दभाग्योऽस्मि मुधाऽभून्मे मनोरथः ॥ ४८ ॥ युग्मम् ॥ तादृग्भावस्तदायं चेन्नाश्रोष्यद्देवदुन्दुभिम् । केवलज्ञानमप्याप्स्यद्भुवं भावविशुद्धितः ॥ ४९ ॥ दानं विनाऽप्ययं भावाद्दिव्यां तामृद्धिमार्जिजत् । दत्त्वाऽप्यभिनवश्रेष्ठी न तु किंचित्तदुज्झितः ॥ ५० ॥ अयं प्रत्युत दुष्कर्म निर्ममेऽर्हदवज्ञया । नावज्ञा हि शुभा पात्रे सर्वस्मिन् किं पुनर्जिने ॥ ५१ ॥ तद्गृहे रत्नवृष्ट्यादि निर्ममे यत्तु नाकिभिः । तदर्हद्भक्तिविवशैर्न तु तद्भावरञ्जितैः ॥ ५२ ॥ अतः सर्वत्र संपूर्णफलाय स्पृहयालुना । सद्भावपावितं दानं देयं पात्रे विशिष्य तु ॥ ५३ ॥ इत्याराध्यति दानं यस्त्रिविधादरसुन्दरम् । सोऽश्नुते संपदं श्लाध्यामपरः पुनरन्यथा ॥ ५४ ॥ तथाहि
तमालिनीनामपुरी प्रतीता चैत्याग्रजाग्रवजमालिनी या । तस्यां गरीयश्चतुरङ्गसेनः श्रीमित्रसेनोऽजनि मेदिनीशः॥५५॥ मित्रं च मन्त्री च बभूव तस्य दधद्यथार्थामभिधां सुमन्त्रः । तरङ्गिणीकान्तमिवापगायं समालिलिङ्गुर्मतयः समग्राः ॥५६॥