________________
दा० १८
भवानेव सेवकानां सुरद्रुमः । अप्रसन्नः पुनस्तेषां सविशेषो यमादपि ॥ १०१ ॥ स्मित्वा तानपि सा स्माह जानन्तोऽपि यथास्थितम् । मुखप्रियं किमु बूथ मिथ्यैवार्थलवार्थिनः ॥ १०२ ॥ सवित्र्यप्याह तत्रैत्य सुते ! सान्त्वय सत्वरम् । पितरं परुषोचैस्तु मा कार्षी रोषभीषणम् ॥ १०३ ॥ अन्यथा रोषतो ह्येष त्वां विडम्बयिता तथा । निमंक्ष्यसि यथा दुःखवा - रिधौ जीवितावधि ॥ १०४ ॥ साऽप्युवाच प्रसूं मातः ! सत्यव्रतमनुत्तरम् । ममास्ति प्रियमत्यन्तं जीवितव्यमिवापरम् ॥ १०५ ॥ कथमैहकसाताय तद्वतं लुप्यते मया । छिनत्ति खलु कल्पद्रुमिन्धनाय न धीधनः ॥ १०६ ॥ आपद्यतामाप दुपैतु दूरतः संपत्तिरायातु कुकीर्तिरुच्चताम् । प्राणाः प्रयाणाय भजन्तु सज्जतां तदप्यसत्यं ब्रुवते न पण्डिताः ॥ १०७ ॥ ततः सत्यव्रतस्थाया मातर्दुःखेऽपि मे सुखम् । स्वर्णालङ्कारभारेऽपि प्रीतिः स्फातिमुपैति हि ॥ १०८ ॥ इत्यायतिहितैस्तस्या घृतैरिव सुभाषितैः । क्रोधाग्निर्धरणीशस्य दधे धगधगायितम् ॥ १०९ ॥ ततः पुनर्नृपादिष्टाः पुरुषाः परुषाशयाः । पुरे गवेषयामासुः सर्वतस्तादृशं वरम् ॥ ११० ॥ नगरान्तमन्तस्ते स्थितमन्तश्चतुष्पथम् । सर्वाङ्गीणगलत्कुष्ठविनष्टाङ्गमजङ्गमम् ॥ १११ ॥ ववसानं जरचीरं मक्षिकाकुलसङ्कुलम् । तं प्राप्य मुदमासेदुः प्रसादमिव भूपतेः ॥ ११२ ॥ युग्मम् ॥ प्रोचुस्ते शीघ्रमुत्तिष्ठ त्वामाह्वयति भूपतिः । तव लावण्यमाकर्ण्य कन्यां दातुं यदीहते ॥ ११३ ॥ ततो दुःखार्दितेनेव जगदे तेन गनदम् । भो भोः किमास्यमुल्लास्य हास्यं मम विधीयते ॥ ११४ ॥ अहं सदैव दुर्दैवहतकेन भृशं हतः । भुवि प्रपतिते प्राणिप्रहारो नैव युज्यते ॥ ११५ ॥ दुहिता व नरेन्द्रस्य क्व चाहं रङ्कनायकः । वराकस्य हि काकस्य न हंसी प्रेयसी भवेत् ॥ ११६ ॥ एवं ब्रुवन्तमप्येनं नृपगृह्याः प्रसह्य ते। स्कन्धमारोप्य सामीप्यं प्रापयन्ति स्म भूपतेः ॥ ११७ ॥