SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १०३ ॥ यथेप्सितं तमासाद्य मुमुदे मेदिनीपतिः । सर्वाङ्गीणगुणोपेतं सुतावप्ता वरं यथा ॥ ११८ ॥ पुनर्जगौ नृपः पुत्र बालिशे ! यदि मन्यसे । मम प्रसादमद्यापि निदानं सुखसंपदाम् ॥ ११९ ॥ तदा राजकुमारस्य मारस्फारतरश्रियः । कारयामि विवाहं त्वां सारशृङ्गारभासुराम् ॥ १२० ॥ प्रसादं यदि तु स्वस्य कर्मणः किल मन्यसे । तदा त्वत्कर्मणाऽऽनीतमेतं स्वीकुरुसत्त्वरम् ॥ १२१ ॥ अथ सा सस्मितं स्माह यद्ययं मम कर्मणा । आनीतो जनकोक्तश्च प्रमाणमयमेव तत् ॥ १२२ ॥ अथ भूप्रष्ठमाचष्ट कुष्ठी विस्पष्टया गिरा । न वक्तुमपि ते युक्तमनया मे विवाहनम् ॥ १२३ ॥ क्वाहं रङ्को रुगाक्रान्तः कासौ सौभाग्यभाग्यभूः । दवदग्धः करीरः स्यात्कल्पवल्याः किमाश्रयः ॥ १२४ ॥ किं चाचिकित्स्यरोगत्वादद्यस्वीना मृतिर्मम । तदिमां मद्विवाहेन विडम्बयति कः सुधीः ॥ १२५ ॥ ततः क्ष्माभृत्तमाचख्यावेषा विद्वेषिणी पितुः । मन्यते प ण्डितंमन्या तृणायापि न मे गुणम् ॥ १२६ ॥ प्रामाण्यं मन्यते स्वस्य कर्मणः स्वात्मवैरिणी । वरस्तेन त्वमानीतो युज्यतेऽस्यास्त्वमेव च ॥ १२७ ॥ इत्युक्त्वा स महीशेन प्रसह्य परिणायितः । संव्यायितजरच्चीरां स्मेरां मदनमञ्जरीम् ॥ १२८ ॥ | जनन्यादिपरीवारे निवारणपरेऽप्यभूत् । तयोर्योगो नृपक्रौर्यसुता धैर्यातिरेकतः ॥ १२९ ॥ अद्यैव तव सत्कर्मद्रुमो मञ्जरितो जडे ! । फलं चैतस्य भोक्तव्यं परिहाय पुरीं मम ॥ १३० ॥ इति भूपविसृष्टा सा प्रणम्य पितरौ मुदा । जीवितेशं करे कृत्वा विस्मेरवदनाऽचलत् ॥ १३१ ॥ हाहाकारपरे पौरलोके शोकेन सङ्कुले । तमानिनाय सा कन्या कथञ्चन चतुष्पथम् ॥१३२॥ पदमप्यग्रतो गन्तुं न शक्रोमीति विब्रुवन् । हाहेति विलपस्तत्र स मूर्छित इवापतत् ॥ १३३ ॥ नृपतिं केऽपि निन्दन्ति तत्र केऽपि सुतां पुनः । प्रमाणीकुर्वते केऽपि केवलं भवितव्यताम् ॥ १३४ ॥ अथावोचद्विनीता सा मम स्कन्धमधीश्वर ! | सप्तमः प्रकाशः । ॥ १०३ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy