SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अत्रैव भरतक्षेत्रे मगधावनिमण्डनः । शालिग्रामाभिधो ग्रामो रामणीयकभूरभूत् ॥४०४॥ धनदेवोऽभवत्तत्र कुटुम्बी कपटोज्झितः । अल्पर्द्धिरप्यहो ! दाने यः सदाऽप्युदकण्ठत ॥ ४०५ ॥ पत्नी यशोमती तस्य प्रशस्यगुणभूषणैः । भूषया-11 मास याङ्गानि स्वर्णभारं विनाऽप्यहो ! ॥ ४०६ ॥ तयोः संपत्त्यभावेऽपि स्थेमप्रेमतया सुखम् । जगाम समयः शर्महेतुःद्र प्रेम हि गेहिनोः॥४०७॥ अन्यदा सदने तस्य सदनेकगुणाकरः। निरतीचारचारित्रः शान्तो रस इवाङ्गवान् ॥४०८॥ मुनीश्वरो धर्मरुचिर्मासक्षपणपारणे । तदारिद्यमुपद्रोतुं कल्पद्रुम इवागमत् ॥४०९॥ युग्मम् ॥ तमालोक्य गृहोपेतं दम्पती तौ महामती । दधानौ सान्द्रमानन्दं चेतसीत्यविचिन्त्यताम् (१)॥ ४१० ॥ अहो ! नौ फलितं पुण्यैरहो! पापैः पलायितम् । अहो ! वन्ध्यागृहे सूनुरहो ! कल्पतरुमरौ ॥४११॥ गङ्गाहो! जङ्गलस्यान्तरहो! दर्श निशामणिः । ग्रामे|ऽस्मिन् नौ गृहे प्राप यदयं साधुरीदृशः॥ ४१२ ॥ यदीदृशाय पात्राय भत्त्या किमपि दीयते । तदा सफलता लक्ष्म्या जन्मनो जीवितस्य च ॥४१॥ प्रदत्तं यत्तदप्यस्मै फलाय महते भवेत् । गवे तृणमपि प्रत्तं स्निग्धदुग्धाय जायते ॥४१४॥ इति मानसिकोल्लासस्मेररोमाञ्चकञ्चुको । ससंभ्रमं समुत्थाय तं मुनि तौ विनेमतुः॥ ४१५ ॥ ततः प्रमोदबाष्पाम्बुपूरैः पुण्यमहीरुहम् । सिञ्चन्ताविव पडूच क्षालयन्ताविवाखिलम् ॥ ४१६ ॥ गृहप्रधानैः शुद्धान्नैर्वर्धमानशुभाशयौ । प्रत्यलाभायतामेतौ तं मुनि बहुमानतः॥४१७ ॥ युग्मम् ॥ इति सर्वोपधाशुद्धपात्रदानप्रसादतः। जातौ तौ विधिना मृत्वा युवां सर्वाद्भुतद्धिकौ ॥४१८ ॥ महिमानममानं हि पात्रदानस्य किं स्तुमः । भान्ति यस्याग्रतो भृत्यकल्पाः कल्पद्रुमादयः ॥४१९॥ सौभाग्यं जगदद्भुतं प्रगुणयत्यैश्वर्यमत्यूर्जितं स्वायत्तं तनुतेतरां वितरति स्वर्भोगभङ्गीः शुभाः। कीर्ति स्फूर्ति-15
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy