SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे -ASEARSA पुरीलोकं पुनस्तमभिजग्मुषी ॥ ३४३ ॥ नत्वा स्वामिन् ! महीनाथं सनाथं क्रियतां गृहम् । त्वां विना शून्यमेवेदं यथा है। दशम: जीवं विना वपुः ॥ ३४४ ॥ एवं तया स विज्ञप्तस्तदानीतं नृपद्विपम् । आरुरोह महातेजा बिडौजाः स्वर्गजं यथा ॥३४५॥ प्रकाशः। अथोपकारपुण्यं तु वहन्नातपवारणम् । यशसाऽभिनवेनेव चामरौघेन राजितः ॥ ३४६ ॥ सुखासनस्थया हर्षात्तयाऽनुगतपद्धतिः। प्रीतवारवधूवारवितीर्णधवलध्वनिः ॥ ३४७ ॥ परोपकारपुण्येन प्रौढिमारूढवानयम् । इत्यादिस्तुतिवाचालान् प्रीणयन् मागधान् धनैः॥ ३४८ ॥ सर्वाङ्गाभरणोद्भूतप्रभाप्राग्भारदम्भतः । प्रकाशं प्राच्यपुण्यस्य जनानां दर्शयन्निव ॥ ३४९ ॥ वाद्यमानमहावाद्यनिनादेन निमन्त्रितैः । सद्यस्त्यक्तरुदत्पाकपाकप्रभृतिकर्मभिः ॥ ३५० ॥ गृहद्वारा-13 दिगैः स्मेरलोचनाञ्जलियोगतः। निपीयमानलावण्यपूरः पौराङ्गनागणैः॥ ३५१॥ तया गणिकयाऽत्यर्थ व्यर्थितप्रार्थना शतैः । कामुकैस्तत्र वास्तव्यैः सविशेषमवेक्षितः ॥ ३५२ ॥ कौतुकालोकनोत्तालपौरलोकपरिष्कृतः । पुरः प्रतिपदारब्ध|संगीतादिकडम्बरः ॥ ३५३ ॥ तेषां वापीनियुक्तानामुढेग इव मूर्तिमान् । स प्राप पृथिवीपालप्रतोलीमतुलद्युतिः ॥ ३५४ ॥ नवभिः कुलकम् ॥ अथोत्तीर्य गजादेष तयाऽपितमुपायनम् । पुरस्कृत्य महीपालं विनयेन प्रणेमिवान् ॥३५५॥ भूपो निरूप्य तद्रूपं प्रतिरूपं तु दस्रयोः। विस्मितः स्वागतोत्यादिप्रकारैः सच्चकार तम्॥३५६॥जगाद देवदत्ताऽपि येन मे देव ! हेलया। हस्तिपञ्चशती प्रैषि स एव पुरुषोत्तमः ॥ ३५७ ॥ अनेन नूनमन्यूनदानव्यसनशालिना । अहं स्वेनोपकारेण मूल्यक्रीतीव निर्ममे ॥ ३५८ ॥ तस्मादाजीवितं जज्ञे ममायं प्राणनायकः । अत्रार्थे त्वदनुज्ञाऽस्तु श्रीदृष्टिरिव ॥१६५॥ नाणके ॥ ३५९ ॥ नृपस्तयेति विज्ञप्तः सस्मितं प्रत्यवोचत । को नानुमन्यते विज्ञः संबन्धमनुरूपयोः ॥ ३६० ॥ गुणि AAAAAACANCERS
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy