SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ RECARSAMAC निरादरं पूर्वमदत्त मूढः । तस्मादसौ सत्यपि वित्तयोगे तद्भोगयोगं लभते न जातु ॥ १२३ ॥ भेदस्त्वयाऽयं धनिभोगिपुंसोरदर्शि वाच्यश्च नृपस्य गत्वा । इत्येनमावेद्य सुरी तिरोऽभूत् हर्षादनैषीच्च स रात्रिशेषम् ॥ १२४ ॥ सत्कृत्य तेनानुमतः प्रभाते सुमन्त्रमन्त्री स्वपुरं समेतः। संदेहशल्यं नृपतेस्तदिभ्यवृत्तोत्ययस्कान्तवशाच्चकर्ष ॥ १२५ ॥ तौ सादरं धर्ममथ प्रपाल्य क्रमादगातां सुगतिं शिवं च । अतो भृशं सादरता विधेया सुपात्रदानावसरे सुधीभिः॥१२६॥अनादरः॥२॥ __ अनुतापमपापधीस्तथा शुभदाने विदधीत न क्वचित् । स हि तस्य फलं विलुम्पते कनकं ध्मातमिवाननानिलः॥१॥ वितनोत्यनुतापमल्पधीः शुभपात्राय वितीर्य यो धनम् । आरोप्य सुपर्वपादपं विषयूषैः स निषिश्चते खलु ॥ २॥ दान फलदायकं तदा यदि तत्रोदयतेऽनुमोदना । सफला खलु सा कृषिर्भवेत् प्रथते यत्र सुवातपद्धतिः॥ ३॥ जलराशिमिवेन्दुदीधितिर्विपिनं वाऽभिनवाम्बुदावलिः । विधिना विहिताऽनुमोदना सुकृतं स्फातिमवापयत्यलम् ॥४॥न परं परमर्द्धिकारणं निजपुण्यानुगताऽनुमोदना । परपुण्यगताऽपि किन्त्वसौ प्रतिभूरद्भुतसंपदर्पणे ॥ ५॥ मोमोत्ति वितीर्य यः श्रियः सुलभास्तस्य विपर्ययेऽन्यथा । सुधनो मदनश्च दर्यते द्वितयेऽस्मिन् युगपन्निदर्शनम् ॥ ६॥ तथाहि _भरते मथुरास्ति दक्षिणा शुशुभेऽभ्रंलिहचैत्यशृङ्गगैः। कलशैरनिशं हिरण्मयैर्भात्यर्के पदे पदेऽपि या॥७॥धनदस्य द समो धनर्द्धिभिस्तत्राभूद्धनदाभिधो धनी । जिनधर्मसुधाइदेऽनिशं मीनामास यदीयमानसम् ॥ ८॥ धनमतिरिति तस्य गहिनी गेहश्रीरिव देहिनी बभौ । यस्यां मणिनेव काञ्चनं रूपं शीलगुणेन दिद्युते ॥ ९॥ अपरा मथुरा तथोत्तरा नगरी स्वर्नगरीगरीयसी । सदनं सदनेकसंपदा मदनस्तत्र धनीश्वरोऽजनि ॥ १०॥ व्यवसायविधित्सयाऽन्यदा मदनस्तां पुरमाप -% % दा० ३२
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy