________________
दानप्रदीपे
॥ ७९ ॥
ज्वालेवाम्रजमञ्जरी समजनि व्यापल्लवाः पल्लवाः कङ्केलेः सखि ! तं विना किमपरं शृङ्गारमङ्गारवत् ॥ १६१ ॥ प्राप्तुं च कामदेवादिदेवतास्तं परःशताः । मया सम्यगापूज्यन्त प्राज्यपुष्पादिपूजया ॥ १६२ ॥ तथाऽपि मन्दभाग्यायाः सङ्गम - स्तस्य मे नहि । अथान्यदशरण्यायाः शरणं मरणान्न मे ॥ १६३ ॥ श्रुत्वेत्यचिन्तयत् सोऽपि तस्याहो ! भाग्यमद्भुतम् । यत्रानुरक्तचित्तेयं ताम्यत्येवं तनूदरी ॥ १६४ ॥ अथाचख्यौ सखी कन्यां मा ताम्य स्वस्थतां भज । तवायं सफलो भावी सपद्यपि मनोरथः ॥ १६५ ॥ यतस्तातेन ते रत्नपुरे रत्नाङ्गदाङ्गजम् । रत्नसारं तमानेतुं सुवेगः प्रैषि खेचरः ॥ १६६ ॥ सोऽपि साम्प्रतमायातः पृथ्वीपतिमवोचत । कुमारः स मयाऽनायि त्वद्वने हस्तिरूपिणा ॥ १६७ ॥ श्रुत्वेति मुदिता सद्यस्त्वत्पार्श्वमहमागमम् । तद्भजामन्दमानन्दं विषादं चाखिलं त्यज ॥ १६८ ॥ इत्याकर्ण्य तयोरुक्तिप्रत्युक्तिप्रीतमानसः । प्राप्तः पुनरशोकद्धुं चिन्तयामास राजसूः ॥ १६९ ॥ जानेऽमुष्याः सरोजाक्ष्याः पाणिग्रहणहेतवे । अत्रानायिषि तत्पित्रा चित्त ! नृत्य ततस्तराम् ॥ १७० ॥ अथ विद्याधराधीशप्रेषितास्तत्क्षणादमुम् । सुसेवका इवोवशं खेचराः परिवत्रिरे ॥ १७१ ॥ तैर्निवेश्य स उत्तुङ्गं तुरङ्गं रङ्गतः पुरे । प्रवेश्य पृथगस्थापि मन्दिरे प्रचुरेन्दिरे ॥ १७२ ॥ विद्याधराधिराजोऽपि तत्र द्रुतमुपेयिवान् । अवोचत स्मराकारं कुमारं वीक्ष्य हर्षितः ॥ १७३ ॥ कुमार ! स्फारसौभाग्य ! यदर्थमहमञ्जसा । त्वामिहानाययामास तदाकर्णय कारणम् ॥ १७४ ॥ अस्त्यभ्यस्तचतुःषष्टिकला मे रत्नमञ्जरी । दुहिता श्रीमतीकुक्षिशुक्तिमुक्तागुणाद्भुता ॥ १७५ ॥ मम प्रणाममाधातुमन्यदा संसदि प्रगे । जनन्या प्रैषि सा नम्रां तां च स्वाङ्के न्यवीविशम् ॥ १७६ ॥ ५ दृष्ट्वा तस्याश्च सौन्दर्य हृष्टः सभ्यानभाषिषि । राजसूरनुरूपोऽस्या वरः कोऽप्यवगम्यते ॥ १७७ ॥ कोऽप्यवादीदथो
॥ ७९ ॥
पञ्चमः प्रकाशः