________________
दानप्रदीपे
॥ १८९ ॥
धनमित्रसुमित्रसंज्ञितौ सुहृदावत्र पुरे बभूवतुः । प्रथमः प्रथमानवैभवः परमीषत्कृपणः स्वभावतः ॥ ६९ ॥ अपरः पुनरल्पवैभवः सततं दानसमानमानसः । विधिना खलु रत्नदोषिणा वियुते दानधने विडम्बिते ॥ ७० ॥ स्वजनादिजनैरुदीरितो जिनपूजामुनिपूजनादिके । सुकृते बहुधाऽप्यवव्ययद्धनमित्रोऽप्यतिमात्र संपदम् ॥ ७१ ॥ अथ पूर्वकुकर्मतः कुधीनिजदत्ते मुहुरन्वतप्त सः । अहहाऽन्यजनप्रतारणैः कथमर्थो व्ययितो वृथा मया ॥ ७२ ॥ अनुतापमिति प्रतन्वता सुकृतं हानिमनीयताऽमुना । परितः प्रतपस्तपातपः किमु नो शोषयते जलाशयम् ॥ ७३ ॥ मलिनेन च तेन निर्ममे परिणामेन स कर्म कुत्सितम् । अशुभेतर कर्मसंभवः परिणामानुगुणो हि देहिनाम् ॥ ७४ ॥ इतरस्तनुऋद्धिरप्यहो ! निजलाभानुगुणं कियत् कियत् । व्यययांचकृवान् दिवानिशं शुभपात्रेषु पवित्रधीर्धनम् ॥ ७५ ॥ इयदप्यमलं हि मे धनं जिनपूजाद्युपयोगि यद् भवेत् । इति तद्विषयानुमोदना विदधे तेन दिने दिने मुहुः ॥ ७६ ॥ अत एव च तस्य सन्ततं सुकृतं दानजमुत्तरङ्गताम् । श्रयति स्म सुधाकरोदयादिव दुग्धाम्बुधिवारिसञ्चयः ॥ ७७ ॥ अ भवत् परमस्य नन्दनो व्यसनास - तमनाः स ना मनाक् । अमलादपि जातवेदसः किमु धूमो मलिनो न जायते ॥ ७८ ॥ स जुगोप विनाशशङ्कया द्रविणं सारमतः सुतादपि । तस्याभवनिस्तनूभुवो नहि यं विश्वसिति स्वयं पिता ॥ ७९ ॥ अथ दूरदिशं वणिज्यया प्रयियासुः स सुतस्य शङ्कया । कनकादिनिधिरहो ! न्यधाद्धनमित्रस्य गृहेऽतिमैत्र्यतः ॥ ८० ॥ चलितः स्वगृहात्पथि व्रजन् सहसा गूढ विशुचिकावशात् । मृतिमापदपापधीरयं मरणं पाणिगतं हि देहिनाम् ॥ ८१ ॥ स च निर्मलदानपुण्यतो मदनोऽत्रैव पुरे भवानभूत् । विधिना तनुरप्युपासितो जिनधर्मस्तनुतेऽद्भुताः श्रियः ॥ ८२ ॥ अथ सम्यगवेतवृत्तया बहुधाऽयाचि
द्वादश: प्रकाशः ।
॥ १८९॥