Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
Catalog link: https://jainqq.org/explore/022559/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अर्हम् श्रीयशोविजयजैनग्रन्थमाला [३२] श्रीभावदेवमूरिविनिर्मितं पार्श्वनाथचरित्रम् । शास्त्रविशारदजैनाचार्यश्रीविजयधर्ममूरि ___ पादाम्भोजचश्चरीकायमाणाभ्यां श्रावकपं०-हरगोविन्ददास-बेचरदासाभ्यां संशोधितम् । तच्च आग्रानगरवास्तव्य-श्रेष्ठिवर्य-लक्ष्मीचन्द्र-वैद इत्येतेषां साहाय्येन वाराणस्यां श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदययन्त्रालये मुद्रितं प्रकाशितं च । Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ YASHOVIJAYA JAINA GRANTHAMALA, 32 THE PARSHVANATH CHARITRA SHREE BHAVA DEVA SURI. 3000---- EDITED BY SHRAVAK PANDIT HARGOVINDDAS OF AND SHRAVAK PANDIT BECHARDAS, MOST DEVOTED SERVANTS OF HIS HOLINESS SHASTRA VISHARAD JAINACHARYA SHRI VIJAYA DHARMA SURI. -~::∞∞ WITH THE PECUNIARY HELP OF SHETH LAKSHMICHAND VAIAD, OF AGRA. 100000 PRINTED AND PUBLISHED BY HARSHCHAND BHURABHAI, Proprietor of Dharmabhyudaya Press. BENARES. •20:0:0 Veer-Era, 2438. 13:00 Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ प्रस्तावना । अस्य भावाङ्कस्य श्रीपार्श्वनाथचरितनानो महाकाव्यस्य कवितारः कवितारकतारकपतयोऽनवद्यत्रैविद्यविद्याविशारदाः कालिकाचार्यसन्तानीयाः श्रीभावदेवसूरयः कर्हि कं मण्डलं मण्डयांचक्रिवांसः ?, इति कथंकथिकानां कथंकथिकता नोत्थातुमक्काशवती, यतः खयमेव ते सूरयः खं परिचाययन्ति, तथाहि "आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्धक्रमः - श्रीमान् कालिकसूरिरद्भुतगुणप्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुझाचल भ्राजिष्णुर्मुनिरनगौरवनिधिः खण्डिल्लगच्छाम्बुधिः ॥४॥ तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशो- ... ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः । यस्याऽऽख्यानसमानमेष बहुशो व्याचक्ष्यमाणोऽधुना गच्छोऽगच्छदतुच्छगूर्जरभुवि प्रष्ठां प्रतिष्ठामिमाम् ॥ ५॥ मनसि घनविवेकस्नेहसंसेंकदीप्तो १ युतिमतनुत यस्य ज्ञानरूपः प्रदीपः । . असमतमतमांसि ध्वंसयन्नासाऽसौ न खलु मलिनिमान किन्तु कुत्राऽपि चक्रे ॥ ६ ॥ .. श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्र मुक्तावलीविमलनायकतां वितेने । ज्योतिः सदुज्ज्वलतरं विकिरन् धरित्र्यां ___ चित्रं न यस्तरलतां कलयांचकार ॥ ७ ॥ दाक्षिण्यैकनिधिय॑धान सहजे देहेऽप्यहो ! वान्छितं कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्माऽनुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं - 'यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमा-ऽश्मनोः ॥ ८॥' तदीयपट्टेऽजनि वीरसूरियन्मानसे निर्मलदर्पणाऽऽभे। . . निरूपयामास सरस्वती सा त्रैविद्यविद्यामयमात्मरूपम् ॥ ९॥ : सदाभ्यासावेशप्रथितपृथुमन्थानमथना Page #6 -------------------------------------------------------------------------- ________________ ( २ ) दवाप्तं तर्काधेर्विबुधपतिसिद्धेश महितम् । थदीयं वाग्ब्रह्माऽमृतमकृत दर्पज्वरभरप्रशान्तिं निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥ १० ॥ तस्मादभूत् संयमराज्यनेता मुनीश्वरः श्रीजिनदेवसूरिः । यो धर्ममारोप्य गुणे विशुद्ध ध्यानेषुणा मोहरिपुं बिभेद ॥ ११ ॥ नामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाssख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽभिरज्यलक्ष्मीलीला निवासान्विमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो . येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः ॥ १३॥ तेषां विनेयविनयी बहु भावदेव सूरिः प्रसन्नजिनेदवगुरुप्रसादात् । श्रीपत्तनाssख्यनगरे रविविश्व ( १३१२ ) वर्षे पार्श्वप्रभोश्वरितरत्नमिदं ततान ॥ १४ ॥ अतः स्पष्टमेवाऽवसीयते यत्, ते कालिकाचार्यकुलतिलकाः श्रीभावदेवसूरयस्त्रयोदश- चतुर्दशशताब्दीमध्यकालिका एवेति । एतच्चरितावले | कनेनैव चैतेषां वैयाकरणचणभूषणत्वम्, कविकुलगुरुत्वम्, लौकिकशास्त्रावलोकन रसिकत्वम्, सामुद्रिकशास्त्रसिद्धमुद्रत्वम्, चिकित्सारहस्याभिज्ञातृत्वम् श्रीजिनागमपारगामित्वं चावगम्यते सुधीभिः । निर्वर्णितं चात्र चरिते, संसारासाराऽऽरम्भरम्भातरुमूलोन्मूलने दुर्वारवारणत्वमाबिभ्रतः, विषमाऽकृशशमनाय मानकोधकृशानुशमने प्रचुरपानीयतां समादधतः, दुर्वहाऽहङ्कारहुङ्कार हिमालय हिमानीनिकरद्रवणे संतप्तसप्तसप्तित्वमनुसरतः, गहना मेयमायावंशवंशघटा विघटने खरतरधाराधर परशुत्वमाश्रयतः दुःक्षोभलोभाऽपारावारपारपानीयप्रशोषणे ज्वलज्ज्वालवडवानलतामाकलयतः, स्वकीय सर्वसहत्वेन सर्वसहां सर्वसहामपि जडीकुर्वाणस्यं, संत्रम्भ्रम्य प्रवासिन इव विचित्रचित्र चरित्रा " Page #7 -------------------------------------------------------------------------- ________________ ऽगमदुर्गमनवभवगहनगहनम् , प्रमामथ्य पीताम्बस्येव निजपवित्रजीवनजीवासहितसध्यानामन्दमन्दराचलेन दुरवगाहागाधदशमभवार्णवम् , ततः सम्प्राप्तं विमलकेवललक्ष्मीलीलाविलासित्वं लोकोत्तररङ्गरङ्गितोत्तुङ्गचङ्गप्रासादात् समुपभुञ्जानस्य श्रीपार्श्वनाथस्वामिनो गुरुगुरोगुर्वपि भाररहितम् , कुमुदिनीकान्तकान्तमपि गतकलङ्कपकम् , पतङ्गवत् पापपङ्कशोषकमपि शीतलम् , तरङ्गिणीदयितवद् गभीरमपि क्षरितक्षारतम् , मुदिरप्रकरवत् तापापहारकमपि नाऽसितम् , संचञ्चूर्यमाणसद्गुणगणं चारुतरं चरितम् । .. तत्र तत्र च प्रस्तावात् सदुपदेशपदं प्रापितानि सरसावबोधविधायकानि नैकानि कथानकानि, श्रोतृणामुपश्रावितं च चिकित्सारहस्यम् , दर्शितानि च समुद्रमुनिशास्त्रशरीरशुभा-ऽशुभाभिज्ञानानि, समावेशितानि च सर्वाणि सुधास्यन्दीनि वर्णनानि, किमुच्यतेऽधिकम् ?, समासादितमिदं चरितं महाकाव्यगणनागण्यताम् । ____एतच्चरितमुद्रणादिसर्वव्ययदातारो वदान्यवरेण्याः श्रीलश्रीलक्ष्मीचन्द्रश्रेष्ठिनो धन्यवादस्थानम् । एतस्य श्रीपार्श्वनाथचरितस्य पुस्तकत्रयमाप्तमस्माभिस्तदर्थ ते पुस्तकदातारो धन्यवादपात्रम् , तत्र पुस्तकद्वयं गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरीणां शुद्धम् । एकं च पंन्यासपदभूषितश्रीवीरविजयमुनिमहाशयानां शुद्धतरम् । तस्मात् पुस्तकत्रयात् संशोधितमिदं सुचरितं श्रवणपथं प्रापय्य पवित्रो भवतु पुरुषगणः, स्वकर्मोत्करमुत्करितुं पारयतात् साधुजनः, तदनुमोदकः स्ताच प्रवरेतरनरगणः, उत्साहयेच्चास्माकमुद्यम ग्राहकमहोदयः, संक्षालयेत् , प्रकटयेच्च यदत्र स्थलं सहज-कृत्रिमदोषपङ्कपकिलमिति ज्ञापयतःहरगोविन्द-बेचरदासौ। Page #8 -------------------------------------------------------------------------- ________________ विषयानुक्रमः। 'onorm is सर्गे मङ्गलम् , भगवतः प्रथम-द्वितीय-तृतीयजन्मजातवृत्तान्तम् । स्वामिनश्चतुर्थ-पञ्चममवव्यावर्णनम् । ,, श्रीपार्श्वप्रभोः षष्ठ-सप्तमभवाधिकारः । श्रीवामेयजिनस्य अष्टम-नवमभववृत्तम् । , तीर्थेशितुश्च्यवन-जन्म-जन्माभिषेक-कौमार-विजययात्रासं वर्णनम् । जिनविवाह-दीक्षा-केवलज्ञान-समवसरण-देशनादिग्दर्शनम् । जिनगणधरदेशना-शासनदेववर्णनम् । भगवतो विहार-निर्वाणरामणीयकम् । प्रशस्तिः , शुद्धिपत्रं च । wr. V Page #9 -------------------------------------------------------------------------- ________________ अर्हम् । परमोदारश्रेष्ठिवर्वलक्ष्मीचन्द्रस्य वंशवृक्षः, प्रशस्तिश्च । मनसुखदास भार्या अमरुदे *हंसराज भार्या नवलादे धनसुखदास भार्या नवलीबाई पचन्द्रपाल यादराम छोगमल्लजी भार्या चुन्नीबाई लक्ष्मीचन्दजी भार्या सुगुणवाई अमरचन्द मोहनलाल फूलचन्द श्रीचन्द recccccccoधन्वीव मार्गणगणाय वितीर्णलक्षः कम्रो मरुष्वमरशास्त्रिगुणान् दधद् यः । श्रीओसवाल इति नाम वरं दधानो वंशोऽस्ति वंश इव मौक्तिकराशिशाली ॥१॥ तत्राभूद् व्यवहारिमौलिसुमणिर्दासो मनःसौख्ययुक् सद्योषाऽमरुदेयुतस्ततमतिः श्रीशीललीलालसन् । येनाऽऽरोपि च पार्श्वमन्दिरशिरे । कुम्भः फलोधीपुरे + अकारान्तोऽपि। - - - Page #10 -------------------------------------------------------------------------- ________________ श्रीनाभेयगृहे महेभ्यजगडूवत साधुसंसेविते ॥ २॥ अभूतां तत्पुत्रौ सुखिधनसुखो हंसनृपतिः प्रियायुक्तावेतौ दिवसुखसखौ धर्मरसिकौ । तयोः पुर्याऽऽग्रायां *ख-युग-निधि-सोमे सुशरदि न्यधत्त श्रीपाच जिनमतरतो हंसमहिपः ॥ ३ ॥ तयोः पन्यौ क्रमेणाऽऽस्तां नवली-नवलाभिधे । धर्मकर्मप्रवाणे ते भर्तृभक्तिपरे वरे ॥ ४ ॥ *हंसेन हंसता तेन चैत्यं सीमन्धरप्रभोः । + लोका-ऽक्षि-रस-भूम्यब्दे उदधार्यर्गले पुरे ॥ ५ ॥. मा तत्सूनुश्चन्द्रपालाहो मुनिमानसहंसति । पुत्रो धनसुखस्याभूच्छोगमल्लो विभूतिमान् ॥ ६ ॥ अभूत् तस्योरुवंशस्य भार्या चुन्नीति संज्ञया । दयां दधाना दीनेषु संघभक्तिं वितन्वती ॥ ७ ॥ तत्पुत्रो वृद्धशाखायामुपकेशगणे गुणी। वैदगोत्रो लसच्छ्रीको लक्ष्मीचन्द्रो विराजते ॥ ८ ॥ केचिद् दानविधौ बलिप्रभृतयोऽभूवन् दकाराप्रियाः __केचित् क्षुद्रतयाऽभवंश्च कपिलादास्यादयो नप्रियाः । धर्माऽधर्मजकर्मणोविधिविधौ भूत्वाऽपि दा-नप्रियो __ यः कीर्तिमतुलामलब्ध भुवि यत् तल्लक्ष्मिचन्द्रोऽद्भुतम् ॥९॥ पाताले मर्त्यलोके सुरपतिभवने सागरे भूधरेऽपि । यत्कीर्त्या व्याप्नुवत्या चिति-जडपटलं सर्वमेकीकृतं यत् । तस्माद् वेदान्तवादी भ्रमयुतमतिकोऽनाप्तवस्तुस्वरूपः सर्व चैकस्वरूपीति निगदनपरः सत्य एवैष किन्न ? ॥१०॥ श्रीमानकब्बरधरापतिरेव जात अच्युत्वाऽयमस्ति सदयो जिनवाक्यसेवी । प्राप्याऽऽगमद् विजयधर्ममुनीन्द्ररूपं * विक्रमसंवत्सरे, १९४० । । विक्रमवर्षे, १९२७ । . Page #11 -------------------------------------------------------------------------- ________________ श्रीहीरसरिरिति कोविदतर्कणैषा ॥ ११ ॥ धर्माख्यानात् तदाऽऽदानात् प्राग्जन्मस्मरणादिव । स एवाऽजनि संबन्धस्तयोर्मुनि-धनाढ्ययोः ।। १२ ॥ जिनधर्मरतो मुनिभक्तियुतः शुभशास्त्रगतिस्तपदत्तमतिः । उपदेशमवाप्य गुरोः सुमुखात् त्वरितः प्रथितुं महमात्मनि यः ॥ १३ ॥ येन श्रीलक्ष्मिचन्द्रेण परदुःखापहारिणा । कारितं पथिकस्थानमौषधी-पुस्तकालयम् ॥ १४ ॥ सिद्धाचले च सत्क्षेत्रे तीर्थे सम्मेतभूधरे । खकीयं कर्म दग्धुं यो देवसद्मान्यकारयत् ॥ १५ ॥ सुदुस्तपं तपस्तप्त्वाऽऽराधयद् यो यथाविधि । एकादशीतिथिं पुण्यो भावशुद्धिसमन्वितः ॥ १६ ॥ तेनैव धर्मानुचरेण हर्षात् श्रीपार्श्ववृत्तं निजवित्तदानात् । उद्यापनायै तपसो निजस्य प्राकाशि धर्माख्यमुनीन्द्रवाक्यात् ॥१७॥ तस्यास्ति वल्लभा नाम्ना सुगुणा सुगुणालयम् । दग्धं कामं पतिं ज्ञात्वाऽऽगमत् किं कामवल्लभा ? ॥ १८ ॥ यः संसन्ति तत्पुत्रास्तेष्वाद्योऽमरचन्द्रकः । मध्यमो मोहनो धर्मी पश्चिमः फुल्लचन्द्रकः ॥ १९ ॥ एते सर्वे महापुण्या धर्मकर्मपरायणाः । मातृ-पितृमहाभक्तिभाजो भान्ति महाशयाः ॥ २० ॥ पौत्रोऽप्यस्यास्ति श्रीचन्द्रो मध्यपुत्राङ्गजः शुभः । नयनानन्दको योऽस्ति बालचन्द्र इवाङ्गिनाम् ॥ २१ ॥ कुटुम्बमेवमेतस्य जीवतान्नन्दतादपि । आकल्पं धर्मकर्माणि कुर्याद् धर्मप्रभावतः ॥ २२ ॥ ॥ इति वंशप्रशस्तिः ॥ ३ -आस्मार्थम् । Page #12 --------------------------------------------------------------------------  Page #13 -------------------------------------------------------------------------- ________________ अहम् श्रीविजयधर्मसूरिगुतायो नमः । श्रीभावदेवमूरिविरचिलिम श्रीपार्श्वनाथचरितम् < Cake –– नाभेयाय नमस्तस्मै यस्य क्रमनखांशवः । मौलौ दधति नम्राणां मङ्गल्यामक्षतश्रियम् ॥१॥ स्तुमः श्रीशान्तिनाथस्य क्रमच्छायाद्रुमद्वयम् । यस्मिनश्रान्तविश्रान्तैर्द्वन्द्वतापो न वेद्यते ॥२॥ मनोदृशि यदंशांशुदिव्याञ्जननियोजनम् । कल्याणनिधिलाभाय सतां नेमि तमाश्रये ॥३॥ भक्तिमहो द्विजिह्वोऽपि प्रापोचैःपदसम्पदः। यस्मिन्नस्मि नतो' भक्त्या तं श्रीपार्श्वजिनेश्वरम् ॥ ४ ॥ तं नमामि जिनं वीरं यदुत्था त्रिपदी नदी। क्षमाधरगुरुं प्राप्य विश्वं व्यापाऽस्तकल्मषा ॥ ५॥ समस्तेभ्यः शुभज्ञानवदान्येभ्यो जगत्रये । त्रिकालविषयेभ्योऽपि जिनेन्द्रेभ्यो नमोऽस्तु मे ॥६॥ श्री-विद्यावास्तु हस्ताभ्यां वाग्देवी पद्म-पुस्तकम् । जीयाद् दधाना दौर्गत्सदुःखोच्छेदाय देहिनाम् ॥ ७ ॥ नमोऽस्तु गुरुचन्द्राय यत्करस्पृष्टमुर्द्धनि । आविर्भवति भव्येऽश्मन्यपि वाक्यसुधारसः ॥८॥ जयन्त्यऽन्येऽपि ये सन्तो भवपङ्केऽपि पद्मवत् । १ कर्तरि क्तः। २ शुभज्ञानदानशीलेभ्यः । ३ चन्द्रपक्षे अश्मनि चन्द्रकान्ताऽश्मनि । Page #14 -------------------------------------------------------------------------- ________________ श्रीभावदेवमूरिविरचितंन लिप्यन्ते सदात्मानं दधाना भुवनोत्तरम् ॥ ९॥ इत्थमेताननुज्ञाप्य भावोल्लासवशादहम् । मन्दधीरऽपि संक्षिप्तमतीनां हितकाम्यया ॥ १० ॥ अनन्तसुखसर्वस्वनिधानाख्यानबीजकम् । दुष्टमोहविषद्रोहाऽपोहगारुडमुत्तमम् ॥ ११॥ . समस्तविपदुच्छेदसिद्धमन्त्रमयन्त्रितम् । इष्टसम्पत्तिवल्लीनां कन्दकन्दलनाऽम्बुदम् ॥ १२ ॥ संसारोदन्वदुत्तारयानपात्रमखण्डितम् । जरा-मरणविध्वंससुधाकुण्डं यथातथम् ॥ १३ ॥ सुहृदां हृदये दिव्यमुक्ताहारं महागुणम् । कर्णयुग्मे सकर्णानां सद्रत्नखणेकुण्डलम् ॥ १४ ॥ मनोऽतिमत्तमातङ्गबन्धनाऽऽलानमश्लथम् । अज्ञाननिद्राविद्राणसुप्रभातमिदं नृणाम् ॥ १५॥ निबद्धमष्टभिः सर्गः संबद्धं दशभिर्भवैः। चरितं कीर्तयिष्यामि श्रीमत्पार्श्वजिनप्रभोः ॥ १६ ॥ (कुलकम् ) अस्त्यत्र भरतक्षेत्रे पवित्रे पृथवीतले । नानाऽऽरामपुरग्रामसङ्काशाऽऽत्रासमण्डितम् ॥ १७ ॥ कृतपर्वतसंवाददिव्यप्रासादसुन्दरम् । विदेहविजयस्पर्धि विपणिश्रेणिराजितम् ॥ १८ ॥ अनेकाऽनेकैपैरश्वैः नररनैरलंकृतम् । सवारवलयाऽऽकारपाकारजगतीकृतम् ॥ १९ ॥ अपत्यमिव सश्रीकं जम्बुद्वीपस्य विश्रुतम् । .. नगरं विपुलाऽऽकारद्योतनं पोतनाभिधम् ॥ २०॥ (कलापकम् ) १ उदन्वान् समुद्रः । २ अनेकपा हस्तिनः । Page #15 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितम् । तत्राऽऽसीत् कोशसंपन्नः पत्रांऽऽन्यः स्वगुणोज्ज्वलः । यशःपरिमलस्फातिप्रीणिताऽशेषविष्टपः ॥ २१ ॥ प्रीताऽर्थिप्रस्तुतस्तोत्रभ्रमरस्वरबन्धुरः। संसेव्यो राजहंसानां समस्तसुमनोगुरुः ॥ २२ ॥ . अरविन्दोपमः श्रीमान् अरविन्दो नरेश्वरः । किन्तु नित्यश्रिया ज्येष्ठस्तथा कण्टकवर्जितः ॥ २३ ॥ (त्रिभिर्विशेषकम् ) तस्य सद्गुणमाणिक्यमण्डना गजगामिनी । सुवर्णशालिनी न्यायधर्ममार्गप्रवर्तनी ॥ २४ ॥ परैरपरिभूतात्मा नाथाऽभ्युदयकारिणी । प्रियाऽस्ति धारणी नाम राज्यलक्ष्मीरिवाऽपरा ॥ २५ ॥ (युग्मम् ) कुलकादिक्रमेणैवमूोर्ध्व स्तोकवृत्तवान् । आरम्भोऽयं प्रभोराद्यभवाऽऽधाराय मेरुवत् ॥ २६ ॥ राज्ये राज्ञोऽरविन्दस्य विधिना कृतशान्तिकः । कुलीनऋमिकः स्पष्टभाषको विदुषां वरः ॥ २७ ॥ नृपधर्मसमाचारविचारचतुरः स्थिरः । ब्रह्मकर्मणि निष्णातो विश्वभूतिः पुरोहितः ॥ २८ ॥ निर्मलं मानसं यस्य त्यक्ताऽखिलजलाशयः। सर्वज्ञोपज्ञसद्धर्मराजहंसः समाश्रयत् ॥ २९ ॥ सधर्मचारणी तस्य नामतोऽभूदनुद्धरा । निजवंशे पताकेव या रराज गुणोज्ज्वला ॥३०॥ कुलाचारधुराभारधरणोधुरकन्धरौ । कमठो मरुभूतिश्चाऽभूतां सुतकृषौ तयोः ॥ ३१ ॥ कमठस्य प्रिया जज्ञे वरुणा हरिणेक्षणा । . मरुभूतेस्तु लावण्यवसुभूमिर्वसुन्धरा ॥ ३२ ॥ १ राजपक्षे पत्राणि वाहनानि, तैराढ्यः । २ अत्र ड-लयोरक्यं समाश्रेयम् । Page #16 -------------------------------------------------------------------------- ________________ ४ श्रीभावदेवसूरिविरचितं शब्द-रूप-रस- स्पर्श - गन्धाख्यैः सुमनोहरैः । विषयैः पञ्चभिः कालं निन्युस्तेऽनन्यसन्निभाः ॥ ३३ ॥ अथ योग्यतया गेहभारमारोप्य पुत्रयोः । जिनधर्मसुधाssस्वादछिन्नतृष्णार्तिसुस्थितः ॥ ३४ ॥ चटत्प्रकर्षवैराग्यरङ्गप्रेरितमानसः । विविक्तस्य गुरोः पार्श्वे गृहीताऽनशनः सुधीः ॥ ३५ ॥ परमेष्ठिनमस्कार मन्त्रमेकमनाः स्मरन् । विश्वभूतिस्तनुं त्यक्त्वा सौधर्मेऽभूत् सुरोत्तमः ॥ ३६ ॥ ( विशेषकम् ) पत्युर्वियोगविधुराऽनुद्धराऽपि ममाऽधुना । श्रेयो नाऽन्यदिहेत्युग्रं तपः कृत्वा व्यपद्यत ॥ ३७ ॥ परेतकार्य कमठ-मरुभूती तयोरथ । कृत्वा कुटुम्बचिन्तायां जाताऽऽवाहितमानसौ ॥ ३८ ॥ अन्यदा बहिरुद्याने तत्र नेत्रामृतं सताम् । सच्छायः सुमनःशाली क्षमऽऽधारो महोदयः ॥ ३९ ॥ प्रशमाऽमृतसिक्तात्मा सदाऽभीष्टफलप्रदः । हरिश्चन्द्रमुनिः कल्पशाखीव समवाऽसरत् ॥ ४० ॥ ( युग्मम् ) तदीयगुणसौरभ्येणाऽकृष्टा भ्रमरा इव । आययुः परितः पौराः स्तुतिझङ्कारहारिणः ॥ ४१ ॥ पित्रोर्वियोगदुःखार्त्ती विश्वभूतिसुतावपि । हृदि धर्मविनोदाय तदा तत्र समेयतुः ॥ ४२ ॥ प्रणिपत्य च तं शुद्धभावेन भवनिःस्पृहम् | धन्यंमन्यास्ततः सर्वे यथास्थानमुपाविशन् ॥ ४३ ॥ मुनिनाऽपि दयोल्ला सिमानसक्षीरनीरधेः । १ प्रेत- पर्यायोऽयम् । २ क्षमा शान्तिः पृथिवी च । 1 Page #17 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितम् । लोलकल्लोलसद्धीची प्रारेभे धर्मदेशना ॥४४॥. धर्मरत्नं भवपुरे चतुर्गतिचतुष्पथे । वर्णहट्ट नृजन्माऽऽप्य सद्व्यैरेव लभ्यते ॥ ४५ ॥ तत्प्रायः सुलभं येन भवन्ति विपुलाः श्रियः । दुर्लभं तत्पुनर्भाग्यं येन धर्मे मतिर्भवेत् ॥ ४६॥ मालास्वमेक्षणमिदं सुप्तानां मोहनिद्रया । धर्मशून्यमधीतादि तत्रोत्स्वमायितं पुनः ॥४७॥ अघाटमपि कल्याणं सुघटादपि कूटतः । यथा प्रशस्यते तद्वद् मुग्धोऽपि सुकृती नरः॥४८॥ असाऽवनक्षरो लेखो निर्देवं देवमन्दिरम् । निर्जलं च सरो धर्म विना यन्मानुषो भवः ॥ ४९॥ धनैश्वर्याऽभिमानेन प्रमादमदमोहिताः। दुर्लभं प्राप्य मानुष्यं हारयध्वं मुधैव मा ॥ ५० ॥ छिन्नमुलो यथा वृक्षो गतशिर्षों यथा भटः । धर्महीनो धनी तद्वत् कियत्कालं ललिष्यति ॥ ५१ ॥ धराऽन्तःस्थं तरोर्मूलमुच्छ्रयेणाऽनुमीयते । अदृष्टोऽपि तथा प्राच्यधर्मो लक्षेत संपदा ॥ ५२ ॥ मूलभूतमतो धर्म सिक्त्वा भोगफलं बुधाः। गृह्णन्ति बहुशो मूढास्तमुच्छियैकदा पुनः ॥ ५३ ॥ आस्तां सिद्धिगतं सौख्यं मनोऽभीष्टं यदैहिकम् । जनास्तदपि धर्माख्यवृक्षस्य कुसुमोपमम् ॥ ५४ ॥ कुलं गतमलं कामाऽनुरूपं रूपमव्यथम् । विश्वभोग्यं च सौभाग्यं श्रीविलासो विकस्वरः॥ ५५ ॥ अनवद्या पुनर्विद्या कीर्तिः स्फुर्तिमती सती । अभिरामो गुणग्रामः सर्व धर्मादवाप्यते ॥ ५६ ॥ - - .... (युग्मम् ) । कल्याणं कनकम् । २ 'लल विलासे' भौवादिकः । Page #18 -------------------------------------------------------------------------- ________________ श्रीभावदेवमूरिविरचितंयद्यपि ज्वरितस्याऽर्तिजन्तोर्जनयते जलम् । तथाऽप्युष्णीकृतं तस्य मुख्यपथ्यं तदेव हि ।। ५७ ।। तथा प्राकर्मदोषण पीड्यमानस्य यद्यपि । धर्मो न रतये, कार्यो नीरसोऽपि तथाऽप्यसौ ।। ५८ ॥ अतो धर्म न मुञ्चन्ति कथञ्चन विचक्षणाः । विपद्यपि गता वाढम् , मुच्यते किमु संपदि ? ॥ ५९॥ पक्षपातोऽपि धर्मस्य जयाय ललिताङ्गवत् । तत्भृत्यसज्जनस्येव क्षयाय पुनरन्यथा ॥ ६० ॥ तथाहि जम्बूद्वीपेऽत्र क्षेत्रे भरतनामनि । अस्ति विस्तारगं श्रीभिः श्रीवासं नाम पत्तनम् ॥ ६१ ॥ आसीद् दासीकृताऽशेषभूपतिर्भूपतिः पुरा । तत्र चित्रगुणवातविख्यातो नरवाहनः॥ ६२ ॥ तदीयदयिता देवी कमला कमलानना । कमलेव हरेः किं तु न चला न चलाकृतिः ॥ ६३ ॥ तस्या विश्वपनोनेत्राऽऽनन्दनो नन्दनोऽजनि । लालित्याऽतिशयाऽऽक्लुप्तललिताङ्गाभिधः सुधीः ॥६४॥ यथासमयमभ्यस्तशास्त्रशस्त्रकलापटुः ।। उवास हृदि बालोऽपि विदुषां विद्विषां च यः॥६५॥ सत्पात्रविहिताऽऽधारः प्रचुरस्नेहपूरितः। वृत्तोज्ज्वलगुणश्रीकः स्फुरत्तेजोमयात्मकः ॥६६॥ निजमुद्योतयामास प्रदीप इव यः कुलम् । परमुष्णस्वभावो न न च कष्पलदृषितः ॥६७॥ प्रीतिर्देवे गुरौ पित्रोभक्तिः स्वजनमाननम् । सत्यमार्त्तपरित्राणं वात्सल्यं चाऽऽश्रिते जने ॥६८॥ लघोरपि हि तस्यैवं स्वाभाविकगुणोदयः । अपकस्याऽपि कर्पूरस्योच्चैः परिमलो यथा ॥६९॥ (युग्मम्) १ स्नेहस्तैलमपि। Page #19 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितम् । एवं भूरिगुणस्याऽपि तस्य दातृगुणो भृशम् । जज्ञे कुत्रापि कस्याऽपि बोभवीति मनोरतिः ॥७०॥ न तथाऽऽशु कथाकाव्यैर्न गीतवनितादिभिः। न चाऽश्वगजलीलाभिः सुखं दृष्टे यथाऽर्थिनि ॥७१॥ गलितेव तिथिस्तस्य चित्ते मास इवाऽधिकः । तदिनं गणनां नैति यस्मिन्नार्थिसमागमः ॥७२॥ सुतलाभादभीष्टस्याऽर्थ्याऽऽगमस्याऽपि शंसिने । दानव्यसनिनः तस्याऽदेयं किमपि नाऽभवत् ॥७३॥ अथाऽऽसीत् सज्जनो नाम्ना प्रकृत्या दुर्जनः पुनः। भृत्यः कृत्येषु सर्वत्र कुमारस्याऽनिवारितः ॥ ७४ ॥ वर्धितोऽपि कुमारेण तं प्रति प्रतिकूलकृत् । जलैः पुष्टोऽपि किं वाः सुखाय वडवानलः? ॥ ७५॥ सकलोऽपि सुवृत्तोऽपि दृष्यमाणोऽप्यलं जनैः । न मुञ्चति कुमारस्तं कलङ्कमिव चन्द्रमाः ॥ ७६ ॥ अनर्थहेतुः तत्सर्व पूर्वदुष्कर्मचेष्टितम् । वैद्योऽपि यदपथ्याऽऽशी यद् विद्वान् नीचसंगतः ॥७॥ आयुक्तः प्रीतिदो लोके वियुक्तः श्रवणप्रियः। प्रयुक्तः सर्वविद्वेषी केवलः स्त्रीषु वल्लभः ॥७८॥ इतः कश्चित् कलादेने विहितो गुरुकारणे । ढौकितः भूपतेः सोऽग्रे पुना राज्ञो ततः परम् ॥७९॥ अन्यदा तद्गुणप्रीतमानसोल्लासतो ददौ।. अलङ्कारं कुमारस्य महामूल्यं महीपतिः ॥८॥ दानमेवाऽस्तु किं भारकारिभिः भूषणान्तरैः ? । इतीव सपदि त्यागं चक्रे तस्याऽपि राजमः ॥८१॥ अथ विज्ञपयामास तस्यातित्यागदूषणम् । तत्सर्व सज्जनो गत्वा सविशेषं महीभुजे ॥८२।। १ दृष्टैर्यथाऽर्थिभिः, इत्यपि। २ सुवर्णकारेण । ३ गृहीत इति शेषः । Page #20 -------------------------------------------------------------------------- ________________ श्रीभावदेवसूरिविरचितं कर्णेजपतया तस्य फुत्कृत्येव हुताशनः । अदीपिष्ट भृशं राजा, किं तु पुत्रोऽपि मित्रवत् ॥८३॥ द्रष्टव्यः शैशवोत्तारे नीतिवाक्यमिति स्मरन् । रहः कुमारमाकार्य शिक्षयामास कोमलम् ||८४|| ( युग्मम् ) तात ! यद्यपि सद्वृत्तैर्वृद्धत्वं जरसा विना । जातं तदपि ते किञ्चिद् योग्यत्वादुपदिश्यते ॥ ८५ ॥ वत्स ! नो वेत्सि किं राज्यं बहुकार्य निरन्तरम् ? । स्वार्थेक करणव्यग्र परिवारसमावृतम् ||८६|| सावधानतया चिन्त्यं करण्डस्थभुजङ्गवत् । नियन्त्रणीयं कपिवद् गुणैः शाखान्तरं व्रजत् ॥८७॥ फलितक्षेत्रवद् नित्यं रक्षणीयं प्रयत्नतः । नव्याऽऽराम इव स्थित्या सेवनीयं मुहुर्मुहुः ||८८ ॥ समूलमपि कोशेन दृढस्कन्धं महीभुजा । तदपत्यैर्महाशाखं विस्तीर्ण नृचतुष्पदैः ॥ ८९ ॥ स्फुरद्रत्नसुवर्णादिपल्लवोल्लाससुन्दरम् । यशःकुसुमसंभारैराकृष्टाऽर्थिमधुव्रतम् ॥ ९० ॥ नानाऽऽयातकलादक्षपक्षिभिः कृतसंश्रयम् । सुधाधवलितोत्तुङ्गप्रासादेन महोच्छ्रयम् ॥९१॥ अनीतिजलकल्लोलैर्लोलमुच्चैः क्षणाद् भुवि । व्यसनाख्यो नदीपूरः पातयेद् राज्यपादपम् ||१२|| (कलापकम् ) किञ्चित् किञ्चिदकुर्वाणोऽप्यशृण्वन्नचलन्नपि । प्रमादश्छलयत्येवाऽनवधानं पिशाचवत् ॥ ९३ ॥ गम्यं तदस्य दूरेण पुरुषेण हितैषिणा । विश्वासो नैव कर्त्तव्यस्तथा लक्ष्म्यामियं यतः ॥ ९४ ॥ १ फुत्कारेण इव । २ जात !, एवमपि । ३ मधुव्रता भ्रमराः । Page #21 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। क्षीरनीरनिधेर्जन्मलाभादिव सतृष्णताम् । करोति मत्तमातङ्गसंगादिव मदान्धताम् ॥ ९५ ॥ रजोबहुलतां पासबवासादिवाऽधिकाम् । तनोति क्रूरतां तीक्ष्णासिधाराचरणादिव ॥९६।। (त्रिभिर्विशेषकम् ) नैव मूर्ख न विदुषि न शूरे न च कातरे । न कुरूपे न सद्रूपे न वृद्धे तरुणे न वा ॥९७॥ प्रकाश्य विविधान् भावानसतोऽपि सतो यथा । रञ्जयन्ती जगत्सर्व नैव श्रीः काऽपि रज्यते ॥९८॥ पण्यं पण्याङ्गनेवाऽसौ केवलं पुण्यमीक्षते । नराणां तेन तैर्नित्यमर्जनीयं तदेव हि ॥१९॥ भवेद् नैकान्ततस्तच्च व्यसनाऽऽसक्तचेतसाम् । तदेवं भण्यते जात! भवानित्थं पुनः पुनः ॥ १०० ।। एष यद्यपि ते दानगुणः सर्वगुणोत्तमः । तथाऽपि नियतं तत्राऽप्यत्याऽऽसक्तिन शोभना ॥१०१॥ सर्वथा सर्वकार्येषु माध्यस्थ्यं शस्यते नृणाम् । दन्तपातः कथं न स्यादतिकपूरभक्षणात् ॥ १०२॥ तथा तरुदाहोऽतिशीतेन दुर्भिक्षमतिवर्षणात् ।। अतित्यागादनौचित्यमऽतिः कुत्राऽपि नेष्यते ॥१०३॥ एतदेव हि पाण्डित्वं यदाऽऽयादल्पको व्ययः । अत्रोदाहरणं दृष्टं स्पष्टं मुनिकमण्डलुः ॥१०४॥ नित्यं कृतव्ययः स्वैरं मेरुरप्यपचीयते । तेजसीव गते वित्ते नरोऽङ्गारसमो भवेत् ॥१०५॥ बन्धुर्वन्धुरधीस्तावत्. तावद् भार्या मनोऽनुगा । सर्वः कलकलः तावद् यावद् द्रव्यसमागमः ॥१०६।। तदभावे पुनः शान्तध्वनि तमनुजीविनः । Page #22 -------------------------------------------------------------------------- ________________ १० श्रीपार्श्वनाथचरिते मुञ्चन्ति विहगाः सद्यस्तडागमिव निर्जलम् ॥ १०७॥ विशुद्धोऽपि गुणवातो विना लक्ष्मीं न शोभते । उन्मीलति यथा चित्रं न विना कृष्णतूलिकाम् ।। १०८ ।। मलरूपाऽपि तेनैषा' सज्जनैरपि कायते । अतो नाऽर्थव्ययः कार्यस्त्वया वत्स ! यदृच्छया ॥ १०९ ॥ अद्य श्वो वा तवैवाऽयं राज्यभारोऽवतिष्ठते । तन्निर्वाक्षमं विद्वन् ! साधारणगुणं श्रय ॥ ११० ॥ ललिताङ्गकुमारस्तदुपदेशाऽमृतं पितुः । कर्णाञ्जलितं पीत्वा मुदितो हृद्यऽचिन्तयत् ॥ १११॥ धन्योऽहं यस्य मे तातः प्रत्यक्षमिति शंसति । गुरुवत् तत्वमेकान्ते तदिदं स्वर्णसौरभम् ॥ ११२ ॥ मातापित्रोर्गुरूणां च शिक्षणादपरं जने । अमृतं नास्ति, नास्त्येव तदुपेक्षासमं विषम् ॥ ११३॥ पूज्याssदेशः प्रमाणं मे इत्यानन्य गुरुं गिरा । भक्त्या कृतनमस्कारः कुमारः स्वगृहं ययौ ॥ ११४॥ अथ स्तोकतमं तस्य यच्छतः पितुराज्ञया । अपवादः प्रववृते याचकानां मुखादिति ॥ १९५॥ कुमार ! किमिदं विश्वदानेश्वरशिरोमणे ! आकस्मिकमिहाऽऽरेभे वैलोम्याssचरणं त्वया ? ॥ ११६ ॥ चिन्तामणिसमो भूत्वा देव ! दानेन भूतले । पाषाण इव संवृत्तः तदिदानीं कथं भवान् ? ॥११७॥ कलामिन्दुः करं दाता, धारां धाराधरो यदि । संकोचयिष्यते तर्हि जीविष्यति कथं जगत् ? ॥ ११८ ॥ व्यञ्जनं यद्वदन्नस्य यथा चाऽङ्गस्य भूषणम् । दानस्याऽन्ये गुणास्तद्वत् परीवाराय केवलम् ॥ दानमेकं ततः श्रेष्ठम्, महर्द्धिरपि मानवः । १ श्यामकूचिकाम् । २ विपरीतताचरणम् । ११९ ॥ Page #23 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। तेन हीनो विना क्षीरं स्थूला गौरिव नार्हति ॥ १२० ॥ धैर्य-शौर्यादिकं द्वीपि'-कोलादिष्वपि दृश्यते । दानं तु महतामेव गजेन्द्राणां प्रवर्तते ॥ १२१ ॥ कीटिकानामनक्षीणामपि संग्रहशीलता । .. दानं पुनर्न देवानामपि निर्निमिषेक्षिणाम् ॥ १२२ ॥ संग्रहैकपरः प्राप समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ १२३ ॥ धनाङ्गपरिवाराचं सर्वमेव विनश्यति । दानेन जनिता लोके कीर्तिरेकैव तिष्ठति ॥ १२४ ॥ अदातैव वरं जातमृतपुत्रादपुत्रवत् । दानेन जनयित्वाऽऽशां न तु तस्मात् च्युतः पुमान् ॥१२५॥ प्रहित्य सर्वतः कीर्ति निमन्त्र्य भृशमर्थिनः । द्वारं पिदधतो देव! कस्ते धातुविपर्ययः ? ॥ १२६ ॥ चित्रं दातृकरो मुक्तद्रविणोऽपि गुरुर्भवेत् । अर्थिनः पुनरत्यन्तलघुर्धनभृतोऽप्यसौ ॥ १२७॥ दातुर्नार्थिसमो बन्धुर्भारमादाय यः परात् । लक्ष्मीरूपाऽऽपदि गतं निस्तारयति तं खलु ॥ १२८ ॥ तस्मिन् सदुत्सव इवाऽऽगते तुष्यति पण्डितः । मूर्खस्तु दूयते दीर्घरोगीव हि चिकित्सके ॥ १२९ ॥ समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्वताः। प्रलयेऽपि न मुञ्चन्ति महान्तोऽङ्गीकृतं व्रतम् ॥ १३०॥ पालयित्वा चिरं दानगुणं पावनमुन्नतम् । मा नाशय निषेधेन शिखाबन्धेन दर्भवत् ॥ १३१॥ ललिताङ्गो निशम्यैवं हृदये पीडितो भृशम् । अचिन्तयदिदं हन्त ! विषमं समुपस्थितम् ॥ १३२ ॥ एकतः पितुराज्ञा में परिवादस्तथाऽन्यतः । १ चित्रक-शूकरादिषु । २-मर्जितमित्यपि । Page #24 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसैष व्याघ्रतटिन्यायः किं करोमि द्वयाश्रयः ॥ १३३ ॥ उच्चैरारोहतां किं वा ममाऽऽज्ञाभङ्गदूषणम् । सर्वतः प्रसरनेपोऽवर्णवादस्तु दुस्तरः ॥ १३४ ॥ इति कृत्वा तथैवाऽसौ दातुं प्रववृते पुनः । उष्णीकृतमपि स्वीयं शैत्यं याति यतः पयः ॥ १३५ ॥ तद् ज्ञात्वा कुपितः कामं कुमारस्य नराधिपः । द्वारं निवारयामास सेवाहेवाकिनोऽपि हि ॥ १३६ ।। अथाऽसावऽपमानेन बाढमापूरितो हृदि । नदीपुर इवाऽऽवत्तबद्धरुद्धगतिर्गतः ।। १३७ ॥ अहो ! मे व्यसनं नैव तावद् द्यूतादि किश्चन । नैव राज्यस्पृहा नैवाऽविनयः कोऽपि नाऽनयः ॥ १३८ ॥ जन्तुप्रीतिकरं दानं यदेवं दोषतां गतम् । तदत्र युज्यते नैव मम स्थातुमतः परम् ।। १३९ ।। व्याधि-मालिन्य-दारिया-ऽपमान-व्यसनाऽऽगमैः । परदेश विना नाऽन्यदिह श्रेयो मनस्विनाम् ॥ १४० ॥ इति निश्चित्य निगूढं कुमारो निशि निर्जने । बरं तुरङ्गमारुह्य चचालैका दिशं प्रति ॥ १४१ ॥ इङ्गितज्ञस्तु तद् ज्ञात्वा निजदौर्जन्यदोषतः । तत्र स्थातुमशक्तः सन् सज्जनोऽपि तमन्वगात् ॥ १४२ ॥ आत्मवत् कर्मणा तेनाऽनुगतः श्रितवत्सलः । कुमारः प्राह भो भृत्य ! वद किंचिद् विनोदकृत् ।। १४३ ॥ तेनोचे देव ! कि श्रेष्ठं कथ्यतां पुण्य-पापयोः । सोऽप्यवादीदरे ! मूर्ख ! किमिदं गदितं त्वया ॥ १४४ ॥ अबला-बाल-गोपाल-हालिकानामपि स्फुटम् । इदं हि यद् जयो धर्मादधर्मेण पुनः क्षयः ॥ १४५॥ देव ! सत्यमई मूर्खः परं कथय कीदृशौ । धर्माऽधौ, कुमारेण भणितं शृणु सजन !? ॥ १४६ ॥ Page #25 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । वचः सत्यं गुरौ भक्तिः शक्त्या दानं दयाऽर्दिते । धर्मोऽयमिष्टसंयोगकरोऽनिष्टनिवारकः ॥ १४७ ॥ अधर्मः पुनरेतस्माद् विपरीतोऽथ सोऽवदत् । नैवम्, समय एवात्र कारणं संपदापदोः ॥ १४८ ॥ दिवा बलक्षये सूरोऽप्यस्तमेति गलद्युतिः । निशाबलवशात् क्षुद्रा अपि ताराः स्फुरन्त्यमूः ॥ १४९ ॥ समयस्य बले नृणामधर्मोऽपि सुखावहः । पुनस्तस्य बलाsभावे न धर्मोऽपि सुखावहः ॥ १५० ॥ यदिदानीं तवावस्था धर्मिणोऽपीदृशी ततः । अधर्मसमयोऽयं तद् धनं चौर्यादिनाऽर्जय ॥ १५१ ॥ कुमारोऽप्याह रे ! पापिन् ! न श्रोतव्यमिदं वचः । मा वादीः सर्वदा येन धर्मादेव जयो ध्रुवम् ।। १५२ ।। यस्तु कोऽप्यजयस्तत्राऽन्तरायं कर्म कारणम् । शर्करामश्नतां दन्तव्यथायै किं न कर्करः १ ॥ १५३ ॥ अन्यायेन तु या लक्ष्मीः स उद्योतः प्रदीपनात् । क्षणं प्रकाश्य वस्तूनि निर्वाह केवलं रजः ॥ १५४ ॥ अरण्यरुदितैः किं वा पुरो ग्रामे जरन्नराः ? | जयं वक्ष्यन्ति चेद् धर्मात् तदा त्वं किं करिष्यसि १ ॥ १५५ ॥ तेनोचे भृत्यभावं ते करिष्ये जीवितावधि | १३ पणबन्धं कुमारोऽपि तमेव प्रतिपन्नवान् ॥ १५६ ॥ तावेवं कृतमर्यादौ वेगाद् ग्रामं गतौ ततः । परिषत्स्थानुपागत्य भृत्यः प्रणतिपूर्वकम् ।। १५७ ॥ वृद्धान् प्रपच्छ यदहो ! संदेहश्चिरमावयोः । जयो धर्मादधर्माद् वा सम्यग् निर्णीय कथ्यताम् १ ॥ १५८ ॥ ( युग्मम् ) तैस्तु दैवादसंभाव्यनवीनप्रश्नविस्मितैः । रभसादिदमाचख्ये यदधर्माद् जयोऽधुना ॥ १ समाप्तौ । १५९ ॥ Page #26 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते ततः पुनः पुरो यान्तं कुमारं सज्जनोऽवदत् । सोपहासं यथा देव! सत्यैकधनधार्मिक ! ॥ १६० ॥ मुञ्चेमं तुरगं शीघ्रं भृत्यभावं कुरुष्व मे । तेनोचे वचनं मे स्यात् प्रलयेऽपि किमन्यथा ।। १६१ ॥ गृहाण तुरगं भृत्य ! पृष्ठचारी सदाऽस्मि ते । सर्व यातु ममासारं सारं सत्यं तु तिष्ठतु ।। १६२ ॥ सोऽश्वारूढो व्रजन् वेगात् सहर्षमवलोकते । कुमारमनुधावन्तं श्रमस्वेदमलाविलम् ॥ १६३ ॥ raat त्वया धर्मपक्षपातभवं फलम् । कुमार ! ददृशे साक्षात् तदथाऽपि तदाग्रहम् ॥ १६४ ॥ मुञ्च वञ्चय भोः ! लोकं बधबन्धादिके कृपाम् । मा कार्षीर्जीवनोपायः कोऽपि नान्यस्तवाऽधुना ॥ १६५ ॥ ( युग्मम् ) कुमारोऽवोचदाः ! पाप ! वृथा ते सज्जनाभिधा । मधुराख्या विषस्येव त्वत्समो यन्न दुर्जनः ॥ १६६ ॥ किंचैवं दुर्मतिं यच्छन् व्याधादप्यधिकोऽभवः । अतिनिन्द्योऽहि पापस्य कारकादुपदेशकः ॥ १६७ ॥ यथा कोsपि वने व्याध ! कर्णान्ताऽकृष्टकार्मुकः । घाताग्रगतया मृग्या सदैन्यमिदमर्थितः ।। १६८ ॥ प्रतीक्षस्व क्षणं व्याधः बाध्यमानानि मे अवतिष्ठन्तेऽपत्यानि मदीयागमनाऽऽशया ॥ १६९ ॥ स्तन्यपानमहं तानि कारयित्वा तवान्तिकम् । क्षुधा । यावदायामि तेनोचे नैषि चेत् तव किं ततः १ ।। १७० ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनाऽऽगमः । महान्ति पातकान्याहुस्तत्संसर्गश्च पञ्चमम् ॥ १७१ ॥ ब्रह्महत्यादिपञ्चाऽतिपातकाङ्गीकृतावपि । १ न एपि आगच्छसि । १४ Page #27 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। १५ यदा न प्रत्ययस्तस्य तदाऽभाणि पुनस्तया ॥ १७२ ॥ कुधियं पृच्छतो दत्ते विश्वस्तस्य च दुर्मतिम् । तस्य पापेन गृह्येऽहं यदि नाऽऽयामि सत्वरम् ।। १७३ ॥ तेन मुक्ता तथा कृत्वा पुनरागत्य तत्र सा। पप्रछ वद भो व्याध ! तव बाणप्रहारतः ॥ १७४ ॥ कथं छुट्ये ततस्तेन चिन्तितं हन्त ! सर्वथा । पशूनामपि निर्भत्स्या कथं यच्छामि दुर्मतिम् ? ॥ १७५ ॥ कथितं चेति भद्रे! मां दक्षिणे न प्रयोसि चेत् । तथैव वचसा तस्य सा जगाम जिजीव च ॥ १७६॥ तदेवं कथ्यते ते यन्मा पापमतिमातथाः। येनाऽक्षत्रकृतां बाढं जीविताद् मरणं वरम् ॥ १७७ ॥ एकस्य निजजीवस्य कृते जीवाननेकशः। दुःखे क्षिपन्ति ये मूढाः तेषां किं जीवितं स्थिरम् ? ॥१७८॥ विपद्यपि गताः सन्तः पापकर्म न कुर्वते । . हंसः कुर्कुटवत् कीटानत्ति किं क्षुधितोऽप्यलम् ? ॥ १७९ ॥ किश्च क्षेत्रेषु जीवानामुप्त्वा बीजं वधादिकम् । समीहन्ते हहा! मूर्खाः कथं सौख्योदयं ततः ? ॥ १८० ॥ निर्गुणस्य शरीरस्य प्रतिक्षणविनाशिनः । गुणोऽस्ति सुमहानेकः परोपकरणाभिधः ॥ १८१.॥ तेऽप्यधन्याः पशुपायाः परार्थे य उदासते। ... तेषां त्वजननिर्भूयाद् ये परद्रोहकारिणः ॥ १८२॥ यदि ग्राम्यैरजानद्भिर्धर्मो न बहुमानितः। किमेतेन सतामिष्टो न प्रमाणं भवेदसौ ? ॥ १८३ ॥ खादुस्वादाऽनभिज्ञश्चेद् द्राक्षासु करभो मुखम् । १ मां न प्रयासि न प्रामोषि, इत्यन्वितिः । २ 'तनूयी विस्तारे' अद्यतन्यामापूर्वकं थासि रूपम् । ३ उत्पूर्वकः 'आसिक् उपवेशने। Page #28 -------------------------------------------------------------------------- ________________ १६ श्रीपार्श्वनाथचरिते १८५ ।। वक्रीकुर्यात्, ततस्तासां माधुर्य काऽपि किं गतम् ॥ १८४ ॥ एक एव सुहृद् धर्मस्तस्माच्च विमुखीभवन् । न भावी भाविभद्राणां कदाऽप्यभिमुखो भवान् ।। सज्जनः प्राह भद्राणि दृश्यन्ते त्वयि कोविद ! | इयता ते किमयाऽपि न पूर्यन्ते मनोरथाः ? ।। १८६ ॥ यथा कोsपि पुरा ग्राम्यो जनन्याऽभाणि यत्त्वया । गृहीतोऽर्थो न मोक्तव्यः कुलपुत्र ! कथंचन ।। १८७ ॥ अन्यदा वृषभं पुच्छे स जग्राह महाबलम् । तेनाऽसौ हन्यमानोऽथ कृष्यमाणो विसंस्थलम् ॥ १८८ ॥ मुच मुश्चेति लोकेन प्रोच्यमानोऽपि नो जडः । पुच्छं मुमोच भोस्तद्वदेकग्राहो भवानपि ।। १८९ ॥ पृच्छयते तर्हि भूयोऽपि कोऽपि किं तु पणस्तव ? | इदानीं विद्यते नान्यश्चक्षुरुत्पाटनं विना ॥ १९० ॥ अमर्षाच्च कुमारेण तदप्यङ्गीकृतं वचः । ततः शाखापुरे गत्वा काऽपि पमच्छिरे जनाः ॥ १९१ ॥ तैरपि प्रागिवाऽऽख्यातं भवितव्यनियोगतः । अथ तं प्रस्थितो मार्गे सज्जनः पुनरूचिवान् ॥ १९२ ॥ सत्यशौण्ड ! कुमारेन्द्र ! परोपकृतिकर्मठ ! | धर्मकर्मनिधे ! ब्रूहि किमिदानीं करिष्यसि ? ॥ १९३ ॥ सोल्लुण्ठवचनैस्तस्य शाणघृष्टकृपाणवत् । भृशमुत्तेजितस्वान्तो गत्वाऽरण्ये बटादधः ॥ १९४ ॥ शृण्वन्तु वनदेव्यो मे लोकपालाच साक्षिणः । एक एव जयी धर्मः, एष ऊर्ध्वकृतो भुजः ॥ १९५॥ न भयान्न तमोभावान्न च धर्मपराजयात् । केवलं वचनं स्वीयं कर्तुं सत्यं करोम्यदः ॥ १९६ ॥ इत्युदित्वा मुदोल्लासिरोमाञ्चैरञ्चितां तनुम् । तत्सच्चतुष्टदेवीभिः पुष्पकोशैरिवाऽर्चिताम् ॥ १९७ ॥ Page #29 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । दधानः सहसा सूर्यस्याऽपि निर्मितविस्मयः । नेत्रे शस्त्रीकयोत्पाव्य सज्जनाय समर्पयत् ॥ १९८ || (कुलकम् ) सर्वश्री नाशपुष्पस्य धर्मस्वीकारशाखिनः । १७ 40 फलं भुङ्क्ष्वेदमित्युक्त्वा हयारूढोऽन्यतो ययौ ॥ १९९ ॥ अथ तंत्र कुमारोऽपि कृत्याऽन्तरसमापनात् । दुस्तराssपनदीपूर कल्लोलोत्तालमानसः ॥ २०० ॥ दध्याविदमसंभाव्य संभवाच्चेतसि क्षणम् । किमिदं न् ! धर्मै निरतस्य ममाऽभवत् ॥ २०१ ॥ तदीयवचनस्याsपि प्रामाण्यं जाघटोति किम् ? । आः ! ज्ञातमथवा सिद्धिः कष्टेनान्तरिताऽखिला ॥ २०२॥ यथाऽङ्गक्षालकः पूर्व मलाऽपनयनोद्यतः । तैलचूर्णादिकं देहे नियोजयति किञ्चन ।। २०३ ॥ तथा धर्मोऽपि जीवस्य सिद्धिशुद्धिविधित्सया । प्राच्यकर्ममलोच्छियै करोति क्षणमापदम् ॥ २०४ ॥ fara मे मोहतकादिदं वैलोम्यचिन्तनम् | धर्म एव धुवं नाऽन्यो जयहेतुर्जगत्रये ॥ २०५ ॥ तदेकशरणः स्वान्तमित्याऽऽनिन्ये पुनः पथि । दैवायते हि देहे तु सतामास्था न विद्यते ॥ २०६ ॥ दुःखे पतन्तं मुग्धत्वाद् मनः कायमनुव्रजत् । अन्योऽयमिति संबोध्य धीरः स्थिरयते' निजम् ॥ २०७ ॥ तदा तस्य महादुःखं सतोऽप्युच्छेत्तुमक्षमः । अद्रष्टुमित्र सूर्योऽस्त पर्वताऽन्तरितोऽभवत् ।। २०८॥ शब्दायमाना विविधं पक्षिणोऽपि तदाऽऽपदि । क्रन्दन्त इव दुःखेन निलीना नीडवेश्मसु ॥ २०९॥ मुखानि ककुभां सद्यस्तमसा श्यामतामगुः । कुमाराऽऽपत्तिसंजातशोकेनेव प्रसर्पवा ।। २१० ॥ १ स्थिरं करोतीत्यर्थः । Page #30 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते अहो ! कथमऽसौ भावी महात्मेतीव चिन्तया । । क्षणमेकमजायेतां रोदसी अपि निःस्वने ॥ २११ ॥ अत्राऽन्तरे वटे तत्रैकत्र संमिलितास्तदा। भारण्डपक्षिणः स्वैरं संलापमिति चक्रिरे ॥ २१२ ॥ कथ्यतां येन यद् दृष्टं श्रुतं वा काऽपि कौतुकम् । एकेन व्याहृतं तेषु कथयामि निशम्यताम् ॥ २१३॥ इतोऽस्ति ककुभि प्राच्यां चम्पा नाम महापुरी । तस्यां भुवनविख्यातो जितशत्रुर्महीपतिः ॥ २१४ ॥ पुत्री पुष्पावती तस्य जीवितव्यादपि प्रिया। सकलस्याऽपि राज्यस्य रहस्यमिव मूर्तिमत् ।। २१५ ॥ यस्याः क्रमयुगं धत्ते दायादत्वं सरोरुहाम् । ऊरुयुग्मं पुना रम्भास्तम्भगर्भ जिगीषति ॥ २१६ ॥ मध्यदेशः कृशोदर्यास्तुच्छः कृपणचित्तवत् । सविस्तारमुरस्त्वेष्यद्गुणग्रामादिवाऽधिकम् ॥ २१७ ॥ वाहू सह मृणालैः सस्पद्धौं मृदुतरावपि । अधरोऽपि हरत्येव प्रसभं विद्रुमश्रियम् ॥ २१८ ॥ उदारचित्तवद् नासावंशोऽतिसरलोन्नतः । कर्णपाली चलदोलालीलां धत्ते मनोभुवः ॥ २१९ ॥ केशपाशो बर्हिबर्हलक्ष्मीलाभादिवोज्ज्वलः। तद्रूपमथ किं वयं निर्वर्ण्य शुसदामपि ॥ २२० । किं तु सर्व वृथा जज्ञे दैवाचक्षुरभावतः। लक्षाकोऽप्यऽप्रमाणं स्याद् यथा पाश्चात्यबिन्दुना ॥२२१॥ अन्यदा तां सभाऽऽसीनः कन्यामङ्कगतां तथा । . निरूप्य सहसा चिन्ताऽऽचान्तस्वान्तोऽभवद् नृपः॥२२२॥ अहो ! पश्य हताशस्य प्रतीपाऽऽचरितं विधेः।। एवं निर्माय यदियं कथं हन्त ! विडम्बिता ? ॥ २२३ ।। इह तावनिसर्गेण चिन्तायै पुत्रिका पितुः। . Page #31 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । १९ विशेषेण पुनर्दोषदृषिता तत् करोमि किम् ? ॥२२४॥ अथवाऽलमुपालम्भैर्दत्तैर्दैवस्य संप्रति । इयं प्राप्तवरा तेन कोऽप्युपायो विधीयते ॥ २२५ ॥ इति निश्चित्य भूपालः कारयामास घोषणाम् । . सर्वत्र पटहध्यानपूर्वकं यदहो ! जनाः ! ॥ २२६ ॥ जितशत्रोः पुत्रिकाया लोचने यः करिष्यति । तस्मै राजा निजं राज्यस्याऽध कन्यां च दास्यति ॥२२७।। भ्रमन्तः सन्ति ते नित्यमित्यादेशकरा नराः। अतः परमहं तत्र न जाने किं भविष्यति ? ॥२२८॥ तच्छ्रुत्वा विस्मयादेक: पप्रच्छ लघुपक्षकः। तात ! कश्चिदुपायोऽपि भवेत् तन्नेत्रसंभवे ।। २२९ ।। जात्यऽन्धायाः कथं नेत्रे भवतो वत्स ! किन्त्विह ? । मणिमन्त्रमहौषध्यः सन्त्येवाऽचिन्त्यशक्तयः ॥ २३० ॥ कथ्यतां तर्हि तेनोक्तः स ऊचे नैव कथ्यते । । तरोरपि यतो जातु रजन्यां भवतः श्रुती ॥ २३१ ।। निर्बन्धेन तथा तेन शिशुभावादपृच्छयत । दिव्यज्ञानी यथा सत्यं भारण्ड इदमाख्यत ॥२३२।। वल्ली याऽस्य तरोः स्कन्धे देशमावेष्ट्य तिष्ठति । . तदीयरससंसेकात् सद्यो नव्यदृशोर्भवः ॥ २३३ ।। तात ! प्रातः क गन्तासि तत्रैव पुरि पुत्रक ?। नयेः सहैव मां तर्हि येन मेऽस्त्यतिकौतुकम् ॥ २३४ ॥ इत्थं संलपतां तेषां प्रमीला क्षणमागमत् । कुमारोऽपि वटाऽधस्थः सर्व श्रुत्वेत्यचिन्तयत् ॥ २३५ ॥ किन्तु सत्यमिदं किंवाऽसत्यमेवाऽत्र को भ्रमः । धर्म एव सतां नित्यं जागर्ति विपदुच्छिदे ॥ २३६ ॥ करस्पर्शाल्लतां ज्ञात्वा छित्त्वा क्षुरिकया च सः । १ श्रवणद्वयम् । २ भाग्रहेण । ३ उत्पत्तिः । ४ निद्रा । ५ चतुर्थ्यन्तमेतत् । Page #32 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेआत्तैकखण्डस्य रसेनाऽक्षिकूपाऽवपूरयत् ॥ २३७ ॥ अथ सद्यो नवोद्भिन्नदिव्यनेत्रो महामनाः । सर्व निरूपयामास वस्तु रात्रावपि स्फुटम् ॥२३८॥ इदं पुष्पावती-राज्यलाभाय मम दैव ! किम् । सर्वम् , तदमुना सार्धं यामीत्यारुह्य तं वटम् ? ॥२३९॥ निलीय पक्षिपक्षान्तस्तस्थावथ निशात्यये । उड्डीय तद्युतः पक्षी चम्पोद्यानवनं ययौ ॥२४॥ ( युग्मम् ) ततः कुमारो निर्गत्य स्नात्वा सरसि निर्मले । कृतस्वादुफलाऽऽहारश्चलितो नमरी प्रति ॥२४१॥ पटहोद्घोषणं शृण्वन् प्रतोलिद्वारमागतः । तस्योपरिष्टाल्लिखितं श्लोकमेवमलकियत् ॥२४२।। जितशत्रोरियं वाचा मत्पुत्रीनेत्रदायिने । राज्यस्याऽध च कन्यां च प्रदास्यामीति नान्यथा ॥२४३॥ वाचयित्वा च तं रात्रीश्रुतसंवाददर्शनात् । शुभसंभावनोत्कर्षादतीव मुमुदे हृदि ॥२४४॥ इङ्गितज्ञैश्च तद् ज्ञात्वा नियुक्त राजपूरुषैः । नृपाय तदनुज्ञातैरिति सर्व निवेदितम् ॥२४५।। दिष्ट्या वर्धाप्यसे देव ! जयेन विजयेन च । प्राप्तो द्वारे पुमानेकस्त्वन्मनोरथपूरकः ॥२४६।। श्रुत्वा तत्कर्णपीयूषं सहर्षोच्छ्वसिताऽऽत्मनि । अादिव तनौ तेषां सर्वाङ्गाभरणं ददौ ॥ २४७ ॥ उत्कण्ठितश्च तं द्रष्टुं सहस्राक्षममन्यत । बाहुं सहस्रबाहुं च तस्याऽऽश्लेषाय भूपतिः ॥ २४८ ॥ शीघ्रमाकार्य दृष्ट्वा च तं गुणाऽधिकरूपिणम् । यत्राऽऽकृतिगुणास्तत्र निश्चिकायेति भाषितम् ॥ २४९ ॥ १-मेकमलोकत, इत्यपि। २ शत्रन्तस्य मा-धातोर्नपूर्वकं प्रथमान्तमेतत् । Page #33 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ः । गाढमालिङ्गय दूर्वाभरोमाञ्चैरर्चयन्निव । अङ्कमारोप्य हर्षाश्रुसलिलैः स्त्रपयन्निव ।। २५० ॥ प्रीणयनम्रताssस्वादसोदरैस्तं गिरां रसैः कुमारमिदममाक्षीत् सस्नेहमधुरं नृपः ।। २५१ ॥ किं कुलं वत्स ! का जातिः को देशो निजजन्मना । भवता पावनीचक्रे ब्रूहि यन्मेऽतिकौतुकम् ? ।। २५२ ॥ व्याजहार कुमारोऽपि देव ! किं संभ्रमोदितैः ? | कृत्यमादिश्यतां शीघ्रं तदेवोत्तरमत्र मे ।। २५३ ॥ अहो ! कृत्यैकनिष्ठत्वमस्य नो फल्गु वल्गितम् । ते देतेनानुमीयेत कुलाद्यं सर्वमुत्तमम् ॥ २५४ ॥ विमृश्येति नृपस्तेन समं कन्यागृहं ययौ । श्रुत्वा कृत्यं कुमारोऽपि कन्यान्तिकमुपेयिवान् ।। २५५ ।। चित्रग्राह्यो जनोऽयं तच्चारुपट्टासने स्थितः । सुगन्धद्रव्यमानाय्य विधाय विधिमण्डलम् ।। २५६ ॥ पूजयित्वा च पुष्पाद्यैर्जपित्वा किञ्चन क्षणम् । ध्यानमापूरयामास विस्मापितनरेश्वरम् || २५७ ॥ कटीन्यस्तं लताखण्डं गृहीत्वा तद्रसेन च । अपूरयद् दृशौ तस्याः स्पष्टे जाते च तत्क्षणात् ॥ २५८ ॥ रूपलावण्य सौन्दर्यनिर्जिताऽनङ्गविग्रहम् । २१ भारय सौभाग्यनिकर्षं तं वीक्ष्य पुरुषं पुरः ॥ २५९ ॥ हर्षो-त्सुक्य-त्रपा- जाड्यप्रमुखं भावसंकरम् । दधाना कामनामेनां सा चकार नृपात्मजे ।। २६० ॥ ( युग्मम् ) इयत्कालं दृशोरान्ध्यमजनिष्ट यथा मम । आजन्माऽपि तथा भूयात् त्वदन्यपुरुषेक्षणे ॥ २६१ ॥ तन्निशम्य जगादैवं नृपः पूर्णमनोरथः । अनेन स्वगुणैरेव त्वमात्ता कनकोत्तमे । ॥ २६२ ॥ Page #34 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते SS स्वयाऽपि स्वयमेवास्मै स्फुटमात्मा समर्पितः । नाऽहं निमित्तमात्रोऽपि चिरं जीव सभर्तृका ॥ २६३ ॥ ततो मौहूर्त्तिकश्रेष्ठं सपद्याऽऽजूहवद् नृपः । गणयित्वाssख्यदेषोऽप्याऽऽसन्नं वैवाहिकं क्षणम् । २६४ ।। चित्तवित्ताsनुमानेन सर्वसंवाहपूर्वकम् । तयोरकारयद् राजा पाणिग्रहणमहोत्सवम् ।। २६५ ॥ ददावथ कुमाराय महासौधं मनोहरम् । देशकोशा दिसप्ताङ्गराज्यसार्द्ध विभज्य च ।। २६६ ॥ पुष्पावत्या समं सोऽपि तत्र काव्यकथारसैः । धर्मशास्त्रविनोदैश्व दोगुन्दक इवामरः ।। २६७ ॥ पुण्यप्रभावाऽऽविर्भूतिप्रभूतः सुखसम्पदा । सुधापन इवाऽजस्रं वासरान्निरवाहयत् || २६८ || ( युग्मम् ) कुमारस्तावदन्येद्युः वातायनगतः पुरम् । आलोकयन्नकस्मात् तं भृत्याधममवैक्षत ।। २६९ ॥ गलनेत्राssस्यवीभत्सं श्रस्तव्यस्त शिरोरुहम् | दुर्निवारक्षुधावाधाकरालवदनोदरम् || २७० ।। सर्पाकार सिराजालैः कङ्कालमिव भीषणम् । पापाऽतिरेकाद् उद्वृत्तं नरकादिव नारकम् ॥ २७१ ।। विशीर्णदण्डिखण्डैक परिधानं दुरीक्षणम् । २२. मलीमसतनुं मूर्त्त पाप्मानमिव जङ्गमम् ।। २७२ ।। व्रणपट्टैर्दरिद्रेषु बद्धपद्यमिवाऽऽपदा । घृणाजनक मत्यन्त कठोरमनसामपि ॥ २७३ ॥ अलाभेन च भिक्षायाः पर्यटन्तं गृहे गृहे । aissत्तकर्परं दीनं प्रस्खलन्तं पदे पदे ।। २७४ ॥ ( षड्भिः कुलकम् ) १ नाडिकाः । २ अस्थिपञ्जरः । ३ "विरलेऽल्पे कृशे दण्डी" इति हैमोऽनेकार्थसंग्रहः । Page #35 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । २७९ ॥ उपलक्ष्य पुनः सम्यक् करुणार्द्रमना भृशम् । - अहहाऽस्य वराकस्य दशैषाऽजनि कीदृशी ।। २७५ ॥ अहमित्थमयं चैवं धिग् दैवमिति चिन्तयन् । तमाकार्य पुनश्रेटैः कुमार इदमभ्यधात् ।। २७६ ॥ अहो ! जानासि मां ब्रूहि सोऽपि कम्पितविग्रहः । भयेन तरलं नेत्रयुगं कुर्वन्नवोचत ।। २७७ ॥ देव ! पूर्वाऽचलोत्तुङ्गशृङ्गसङ्गतमण्डलम् । को न वेत्ति रवि को वा गगने घनमुन्नतम् १ ॥ २७८ ॥ अलं संभ्रमवाक्येन सत्यमाख्याहि तेन सः । . इत्युक्तः पुनरप्याह तर्हि देव ! न वेद्यऽहम् ॥ ललिताङ्गोऽब्रवीद् यस्य चक्षुरुत्पाटनेन भोः ! | उपचक्रे त्वया तं मां कथं नो वेत्सि सज्जनः १ ॥ २८० ॥ तत् श्रुत्वा सहसाऽऽशङ्कालज्जाभाराऽतिरेकतः । विविक्षुरिव पातालमधोमुखमसौ स्थितः ।। २८१ ॥ अथ त्याजित दुर्वेषं कारितस्नानभोजनम् । परिधापितसद्वस्त्रं कुमारस्तमभाषत ।। २८२ ॥ प्रभूतेनाsपि किं तेनोपार्जितेन धनेन भोः ! । येनाssत्मीय मनुष्याणां संविभागो न विद्यते १ ।। २८३ ।। अद्य मे सफलं राज्यं यत्र दुःखसखो भवान् । समाजगाम तत्सौख्यं भुङ्क्ष्व निश्चिन्तमानसः ॥ २८४ ॥ सविस्मयमनाः सोऽपि दध्याविति हृदि क्षणम् । अहो ! क्वाऽरण्यजावस्था के चासावस्य दृश्यते ? || २८५ ॥ चित्तेऽपि यदसम्भाव्यं देवात् तदपि जायते । अस्तु वा किं वितर्केण भणामि समयोचितम् १ ॥ २८६ ॥ सतोऽपि लयंतां दोषानऽसतोऽपि परे गुणान् । वदतां विगतोपाधिः काऽप्यऽपूर्वा स्थितिः सताम् ॥ २८७ ॥ १ षष्ठीबहुवचनम्, आच्छादयतामित्यर्थः । .२३ Page #36 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेव्यञ्जयन्त्यऽधमन्येषां खला गलनवस्त्रवत् । अधः क्षिपन्ति सन्तस्तु महादवदम्भसाम् ॥ २८८ ॥ श्रूयतां च तदा देव! तादृशं त्वां वटादधः । विमुच्य विततं भाग्यमिव मार्गे चलनरम् ॥ २८९ ॥ गृहीतं तस्करैः सर्व दृढमाहत्य यष्टिभिः । दुष्कर्मफलभोगाय जीवन् मुक्तश्च तैरहम् ॥ २९० ॥ नाथ ! साक्षाद् मया दृष्टं स्वस्येदं पाप्मनः फलम् । त्वयाऽपि सुकृतस्यैकधर्मादेव ध्रुवं जयः ॥ २९१ ॥ तददृश्यमुखं पापं मां दूरेण विसर्जय । ईक्सम्भावनायोग्यो नाऽहमस्मि विचारय ॥ २९२ ॥ कुमारः प्राह भो मैवं विकल्पं हृदये कृथाः। साहाय्येन तवैवेदं मम सर्व विजृम्भते ॥ २९३ ॥ कथमत्रागमो राज्य-कन्यालाभाधमन्यथा ? | मम सत्त्वसुवर्णस्य परीक्षणकषोपल! ॥ २९४ ।। तदस्मिन्नधुना राज्ये मदीयेऽखिलकृत्यकृत् । प्रधानपदवीमेत्य गतचिन्तं विधेहि माम् ।। २९५ ।। निवृत्तेऽथ तथा राज्ञः पुत्र्या प्रकृतिदक्षया । विदित्वा तस्य दौरात्म्यमभाणीति नृपात्मजः ॥ २९६ ॥ नोपदेशः कुलस्त्रीणां पुरुषं प्रति बुध्यते ।। किन्तु देव ! त्वदीयोऽतिप्रसादो मे तदुच्यते ॥ २९७ ॥ प्राणेश! यदि ते स्नेहात् प्रतिपनेतयाऽथवा । आर्त्तत्राणस्वभावाद् वा सज्जनो हृदि सम्मतः ॥ २९८ ॥ तदस्य दीयतां देशो द्रव्यं वा किश्चिदद्भुतम् । अनेन सह किन्त्वेवं सङ्गति व युज्यते ।। २९९ ॥ लालितः सत्कृतस्त्रादुभोजितोऽथ चिरादपि। अकृत्वा सर्पवद् नीचो विकार नाऽवतिष्ठते ॥ ३०० ॥ १ अम्भसामघम् , इति योजना । २ पूर्व ज्ञाततया। .. Page #37 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । तेजोमयोsपि पूज्योsपि घातिना नीचधातुना | लोहेन सङ्गतो वह्निः सहते घनताडनम् ।। ३०१ ॥ वदने समतां विभ्रत् पश्चाच्च विषमुल्वणम् । दूरं वृश्चिकवत् त्याज्यः क्षुद्रात्मा दुर्जनो जनः ॥ ३०२ ॥ स्तोकमप्युद्गमं प्राप्य न्यग्रोधाङ्कुरवत् खलः । प्रसरन् पाटयन् सन्धि प्रासादं पातयेद् नृपम् ||३०३ || स्नेहे नाशं गुणे दाहं वितनोत्यमले मलम् । दीपज्वालोपमा देव ! खले मैत्री नृणां खलु ॥ ३०४ ॥ श्रूयते नीतिशास्त्रेषु हदोचारोपकारिणः । 3 हंसस्य यदभूद् नीचकाक संसर्गदोषतः ॥ ३०५ ॥ यथा कोऽपि सरस्याssतिस्पर्धया मूर्खवायसः । पतितोऽन्तर्जलं मीनजिघृक्षुर्व्याममण्डलात् ॥ ३०६ ॥ स तरीतुमजानानः सलिलप्लुतपक्षतिः । सेवालैर्वेष्टितोऽत्यन्तं जातो मृत्युभयाssकुलः ॥ ३०७ ॥ तं दृष्ट्वा कृपया हंसी तीरगा हंसमब्रवीत् । प्रिय ! पश्य कथं काको वराको म्रियते पुरः १ ॥ ३०८ ॥ विश्वपक्षिगणेषु त्वमुत्तमो मीयसे जनैः । तदस्य दीयतां जीवदानमुत्तार्य नीरतः ॥ ३०९ ॥ साधु साध्विति भाषित्वा हंसो हंसी च वायसम् । चञ्चत्राssदाय तृणं तत्र विलग्नं निन्यतुर्बहिः ॥ ३१० ॥ क्षणादाऽऽश्वास्य काकोऽथ वातेनोद्वानपक्षतिः । विलग्य पादयोर्वाढमिति हंसं न्यमन्त्रयत् ।। ३११ || कोsपि प्रत्युपकारस्ते नैव निष्पद्यते मया । तथाऽपि कुरु मे तोषं समागम्याऽद्य मद्दनम् ॥ ३१२ ॥ हंसेनाsपि तदाssकर्ण्य प्रियाया वीक्षितं मुखम् । १ दवरके अपि । ३ पक्षिविशेषः । ४ पक्षमूलम् । ४ २५ २ कज्जलमपि । Page #38 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसाऽपि ज्ञाततदाता प्रच्छन्नमिदमब्रवीत् ॥३१३॥ सर्वस्योपकृतिर्देव निर्विचारं विधीयते । स्तोकाऽपि न पुनः कर्तुं युज्यते नीचसंगतिः ॥३१४॥ कान्तया वारितोऽप्येवमतिदाक्षिण्यतोऽथ सः । क्षणं यामीति तामुक्त्वा सहाऽनेन गतो वनम् ॥३१५॥ तत्र निम्बस्य शाखायामुपविष्टावुभावपि । वाह्यालिक्रीडया श्रान्तस्तदाऽधश्वाऽऽगतो नृपः ॥३१६॥ उड्डीनो वायसो विष्टां कृत्वाऽथ नृपमस्तके । दृष्ट्या हंसो नरैकैन धनुर्गुलिकया हतः ॥३१७॥ पतितं भुवि तं वीक्ष्याऽवदद् परिच्छदः। अहो ! चित्रं यदीक्ष्येत हंसरूपेण वायसः ॥३१८॥ हंसः कण्ठगताऽऽत्माऽपि जनालापं निशम्य तम् । खजातिदूषणोद्धारहेतवे नृपमब्रवीत् ॥३१९॥ यतःनाऽहं काको महाराज ! हंसोऽहं विमले जले । नीचसंगप्रसङ्गेन मृत्युरेव न संशयः ॥३२०॥ इत्यादि गदितं तस्य श्रुत्वा सदयमानसः। नृपस्तद्दिनमारभ्य निवृत्तो नीचसंगतः ॥३२१॥ कुर्वतो हि तमप्येवमहिताय खलो भवेत् । अतः प्रिय ! तदाऽऽसंगो वार्यते ते पुनः पुनः ॥३२२।। सज्ज नेनापि किं तेन यः शङ्खसमलक्षणः। धवलो बहिरत्यन्तमन्तस्तु कुटिलस्थितिः ॥३२३॥ स्त्रीणामपि वचः कालेऽनुकूलं मन्यते बुधैः । दुर्गा वामरवा किं न शस्यते मार्गगामिभिः ॥३२४॥ इदं हृदि कुमारस्य चमच्चक्रे तयोदितम् । १ विदितहंसाऽभिप्राया। २ तृतीयान्तम् । ३ पक्षिविशेषः, यो वाम शब्दायमानः सुशकुनचिह्नम् । Page #39 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। परमार्यस्वभावस्य कर्त्तव्यमिति न स्थितम् ॥३२५।। महतामप्यहो ! दैवाद् दुर्वारा नीचसंगतिः ।... कर्पूरस्य कथं न स्यादगारेण समं रतिः ? ॥३२६॥ स्वस्वास्थित्या ततः काले कियत्यपि गतेऽन्यदा। पप्रच्छ वसुधाऽधीशः प्रच्छन्नमिति सज्जनम् ॥३२७॥ कः संबन्धः कुमारस्य त्वय्येवं यत् तदादरः । कुद्रव्यजीवदोषेण सोऽपि चिन्तितवानिदम् ॥३२८॥ स्मृत्वा पूर्वविकारं मे कुमारोऽनर्थहेतवे । .. काऽपि भावी, विपद्येनं तदादावेव पातये ॥३२९॥ पापः स्वपोषकस्याऽपि संपदा हृदि खिद्यते । हरिताद्री भुवं पृष्ठे यथा दृष्ट्वा खरश्चरन् ॥३३०॥ जगाद च त्वया देव ! भूयः कथितसुन्दरम् । न पृष्टव्यमिदं राजा सुतरामादृतस्ततः ॥३३१॥ ददौ शपथमूचेऽसाऽवहो ! संकटमागतम् । निषेधाज्ञा कुमारस्य कथनाज्ञा महीपतेः ॥३३२॥ कुमारस्याऽपि पूज्यस्य दुर्लध्याऽऽज्ञाऽथवा तव । तेनैष कथयनस्मि शृणु देव ! यथातथम् ।।३३३॥ श्रीवासनगराधीशनरवाहननन्दनः। . अहं देव ! महीयस्यकौरिकस्य सुतस्त्वयम् ॥३३४॥ प्रकृत्या रूपवानाऽऽप्तविद्यालाभः कुतोऽपि हि । खजातिलज्जया गेहं त्यक्त्वा देशान्तरं भ्रमन् ॥३३५॥ अत्राऽऽयातस्तदूर्व तु प्राच्यभाग्यवशादभूत् । यत् किञ्चिदिह तत्सर्वं तवैव विदितं विभो ! ॥३३६।। (युग्मम् ) पितुः परिभवादत्राऽऽयातोऽहमपि पर्यटन् । दृष्टोपलक्षितस्तेन मर्मज्ञ इति संभ्रमात् ॥३३७॥ पुरस्त्वरितमाकार्य मा मामुद्घाटयेरिति । Page #40 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेआज्ञां दत्त्वा विशेषेण संमान्य स्थापितोऽन्तिके ॥३३८॥ नितान्तममुना कर्णविषेण व्याकुलीकृतः । नृपो दध्यौ हहा ! कीदृक् संजातमसमञ्जसम् ॥३३९॥ पणबद्धामसौ कन्यां बाढं गृह्णातु, मेऽखिलम् । यत्पुनर्मलिनीचक्रे राज्यं दुःखाकरोति तत् ॥३४०॥ तदेनं निग्रहीष्यामि पापमित्यात्तनिश्चयः । आह्वास्त स रहो भृत्यान् यत् कृत्यादेशकारिणः ॥३४१।। आदिशच य एकाकी निशि सौधाऽन्तराऽध्वना। एति वध्यः स युष्माभिर्निर्विचारमुदायुधैः ॥३४२।। देवाऽऽदेशः प्रमाणं मे इति व्याहृत्य ते नराः । ततो गत्वाऽभूवन राज्ञो निदेशकरणोद्यताः ॥३४३॥ अथ वर्षसमं नीत्वा दिनं राजा महानिशि । शिक्षयित्वा नरं प्रेषीत् कुमारऽऽह्वानहेतवे ॥३४४॥ सोऽपि गत्वाऽवदद् देव ! नृदेवस्त्वां दिदृक्षते । कायॊत्सुक्यात् ततो मध्यमार्गेणैव समेयताम् ॥३४५॥ खड्गमादाय पल्यङ्कादुत्थाय सहसाऽचलत् । कुमारः प्रिययाऽभाणि करे धृत्वा पटाऽञ्चलम् ।।३४६॥ देव ! मुग्धस्वभावोऽसि राजनीति न वीक्षसे । इयत्यामविचार्येव यदेवं चलितो निशि ॥३४७।। एतदेव कुलीनानां जीवितव्यं प्रिये ! नृणाम् । । निर्विकल्पं परीक्ष्याऽऽज्ञां यदादेशो विधीयते ॥३४८॥ विकल्पेन पुनस्तस्मिन् भक्तिव्याजाद् विडम्बना । इति शिष्टे कुमारेण राजपुत्री पुनर्जगौ । ३४९।। सत्यमेतत् परं कापि विकल्पोऽप्युचितः प्रिय !।। जैनदर्शनवन्नैव सिद्धिरेकान्तपक्षतः ॥३५०॥ ऋजुता धन्व-गुणयोरस्तु वस्तुस्वरूपतः । १ लैंग् स्पर्धाशब्दयोः । २ स्वामित्यर्थः । Page #41 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । कार्यसिद्धौं प्रशस्येत वक्रतैव तयोः पुनः || ३५१ ॥ अन्यच्चित्तेऽन्यथा वाचि कर्त्तव्यं त्वन्यदेव हि । गणिकाक्रमवन्नाथ ! राजधर्मोऽप्यनेकधा ।। ३५२ ।। विश्वासोऽत्र न कर्त्तव्यस्तन्नरेण विजानता । नीतौ किं न श्रुतं राजा मित्रं कस्याऽपि नो भवेत् १ ॥ ३५३ ॥ अकारणप्रसादोऽपि प्रस्तावं न विना शुभः । अरिष्टाय तरोः पुष्पोद्भेदोऽप्यसमये भुवि || ३५४॥ यथा दाहभयाद् देव ! धियते दारुहस्तकः । फलकं घातरक्षार्थं प्रस्तावार्थे तथाऽनुगः ॥ ३५५॥ आस्ते समस्त कृत्येषु प्रधानस्तव सज्जनः । स एव प्रेष्यतां ज्ञात्वा कार्यं कुर्याद् यथोचितम् ॥ ३५६॥ दयितायाः स तादृक्षमिक्षुरम्भाफलोपमम् | वचः श्रुत्वा परं तोषाऽऽपूरितो ऽचिन्तयत् || ३५७॥ कुलव्रतधरा नारी नरस्य यदि जायते । तदा सैव गुरुर्लक्ष्मीः शास्त्रं मित्रं मतिः सखा ।। ३५८ ।। अहो ! केयं मतिप्रौढिरस्याः कीदृक वचः क्रमः । पक्षपातः सरस्वत्याः स्त्रीजातित्वादियं ध्रुवम् ॥ ३५९ ॥ प्रहितः सज्जनवाथ व्रजन् सौधाऽन्तराऽध्वना । तत्रस्थपुरुषैः तीक्ष्णखड्गघातैर्दृढं हतः ॥ ३६० ॥ २९ अपतच्च हताशत्वादऽसावुभयथाऽप्यधः । सत्यमाभाणको जातः स्वस्य स्याच्चिन्तितं परे ।। ३६१ ॥ श्रुत्वा कलकलं तत्र ज्ञात्वा च नृपपुत्रिका । पूरिता शोक- हर्षाभ्यां जगादेति सगगदम् || ३६२ | हा ! नाथ ! सरलखच्छमकृते ! कथितं यदि । नाsकरिष्यः तदाऽवस्था काऽभविष्यन्ममाऽधुना १ ।। ३६३ ॥ आर्यपुत्र ! तदद्यापि मुक्त्वा गजनिमीलिकाम् । भूत्वा स्वसैन्यसन्नद्धो बहिस्तिष्ठ पुरादरम् ।। ३६४ ॥ Page #42 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेतथैव विहिते तेन विदित्वा तन्नृपोऽपि हि । स्पष्टकोपो बलाटोपं कृत्वा सज्जो युधेऽभवत् ॥३६५।। प्रसरत्तरलोत्तुङ्गतरङ्गाभतुरङ्गमे । दृश्यमानमहामानमत्तमातङ्गपर्वते ॥ ३६६ ॥ करालमकराकारवरूथिरथसंकुले । स्फुरचारभटाऽनेकनक्रचऋभयङ्करे ॥ ३६७ ॥ डिण्डीरपिण्डसंकाशच्छत्रशङ्खविराजिते । . महाकलकलवानपूरितव्योममण्डले ।। ३६८ ॥ दुर्वाताभितोत्तालपूर्वापरसमुद्रवत् । प्राणिक्षयाय सञ्जाते संग्रामे सैन्ययोर्द्वयोः ॥ ३६९ ॥ मन्त्रिभिश्चिन्तितं हन्त ! सत्स्वप्यऽस्मासु यद्यसौ।' राज्ञा संहार आरेभे ततो जीवन्मृता वयम् ॥ ३७० ॥ (पञ्चभिः कुलकम् ) पुष्पैरपि न योद्धव्यं प्रबुद्धेन यथा तथा । अयं ह्यवसरोऽस्माकं तनिवारणकर्मणि ॥ ३७१ ॥ सर्वे समुदितीभूय पश्चात्कृत्य बलद्वयम् । उपाऽसर्पन नृपं नत्वा तेष्वेक इदमूचिवान् ॥ ३७२ ॥ कलानामिव शीतांशुनंदीनामिव सागरः। निधिस्त्वमेको विद्यानां देव ! संपति भूतले ॥ ३७३ ।। यथा च नृषु राजा त्वं विवेकश्च गुणेष्वयम् । अविमर्शो महानेष दोषो दोषेष्वयं तथा ॥३७४॥ शल्य वह्नि-विषादीनां सुकरैव प्रतिक्रिया । सहसाकृतकार्योत्थाऽनुतापस्य तु नौषधम् ॥३७५॥ गुरुत्वं च लघुत्वं श्रीभावाऽभावती जडाः । वदन्ति तत्पुनर्दक्षाः सद्विवेकाविवेकतः॥ ३७६ ॥ निर्विवेकनरं नारी प्रायोऽन्याऽपि न कासति । किं पुनः श्रीरियं देवी पुरुषोत्तमवल्लभा ? ॥३७७॥ Page #43 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । ३१ निजपत्युनिरीक्ष्यांऽशं श्रीरियं श्रयते नृपम् । तमनेनाऽविवेकेन मा हारय नरोत्तम ? ॥३७८॥ उक्तं चअविज्ञातविशेषस्य सर्वतेजोऽपहारिणः। स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ? ॥३७९॥ कुदृष्टं कुश्रुतं चाऽपि कुज्ञातं कुपरीक्षितम् । कृत्वा कार्य पुरा देव ! बहवः प्रापुरापदम् ॥३८०॥ सहसाकारिणं सद्यो मुश्चन्ति सुखसंपदः । इत्यर्थे श्रूयतां देव ! जयराजो निदर्शनम् ॥३८१॥ तथाहिअस्ति विन्ध्याचलासन्नभूमिभागे महाटवी । अधृष्या हरि-भल्लूक-शार्दूल-सरभादिभिः ॥३८२।। अभिगम्या च हिन्ताल-सरलाऽ-ञ्जन चन्दनैः । आम्र-जम्बू-प्रियालाद्यैर्वकुला-ऽशोक-चम्पकैः ॥ ३८३ ॥ तस्यामुत्सङ्गविस्तीर्णो नानालीनविहङ्गमः। वटवृक्षोऽस्ति तत्रैकं युग्मं वसति कीरयोः ॥ ३८४॥ तयोर्नितिसारेण सुखेन समयं सदा । सस्नेहं निर्गमयतोः शुकापत्यमजायत ॥३८५॥ पित्रोः पक्षाऽनिलस्वेदचूर्णिदानादिना क्रमात् । वर्धमानो बभूवाऽसौ किश्चिदुद्भिनपक्षतिः ॥३८६॥ अन्यदा बालचापल्यादुड्डीय गमनोत्सुकः। कियद् दूरं गतो मार्गाऽन्तराले सहसाऽपतत् ॥३८७॥ श्रान्तो व्यात्तमुखो बिभ्यत् सलिलायाऽऽगतेन सः । दृष्ट्वा तपस्विनैकेन गृहीतः कृपया करे ॥३८८॥ वीजयित्वा वल्कलेन पाययित्वा कमण्डलोः । . जलमाश्चास्य निन्येऽसौ तापसेन निजाऽऽश्रमम् ॥३८९॥ पुत्रवत् पोषितः स्वादुनीवारफलवारिभिः। .... Page #44 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसंभूय मुनिभिश्चक्रे शुकराज इति प्रथा ॥३९०॥ सल्लक्षणधरो ज्ञात्वाऽऽदेशात् कुलपतेः शुकः । पाठितः शिक्षितश्चासौ तापसहष्टमानसैः ॥३९१।। पितरावपि तन्मोहाद् तत्रैवाऽऽगत्य तस्थतुः । अन्यदा निजशिष्याणां पुरः कुलपति गौ ॥३९२॥ द्वीपो वारिनिधेमध्ये हरिमेलाऽभिधो वरः । तिष्ठतीशानकोणेऽत्य सहकारो महाद्रुमः ॥३९३॥ देव-दानव-गन्धर्व किन्नर-व्योमचारिणाम् । मिथुनैः सेवितच्छायः सुधासिक्तः सदाफलः॥३९४॥ (युग्मम् ) देवाऽनुभावात् तस्योपजीवति स्वादु यः फलम् । दोषरोगजरामुक्तः स्फुटं स्यात् स पुनर्नवः ॥३९५।। शुकोऽपीदं वचः श्रुत्वा दध्यौ हृष्टमना भृशम् । ध्रुवं मदर्थमेवेदं व्याख्यानं विदधे गुरुः ॥३९६।। दृष्टिभ्रष्टौ जराजीर्णौ यद् मातापितरौ मम । तदाम्रफलदानेन किंचित् स्यामऽनृणस्तयोः ॥३९७॥ किं तेन जातु जातेन पृथिवीभारकारिणा । आस्तामऽन्यस्य पित्रोरप्याशां पूरयते न यः ॥३९८॥ स पुत्रो यः पितुर्मातुर्भूरिभक्तिसुधारसैः । निर्वापयति संतापं शेषस्तत्कृमिकीटकः ॥ ३९९ ॥ उक्तं च कुलपतिनामातृपित्रोरऽभरकः क्रियामुद्दिश्य याचकः । मृतशय्याप्रतिग्राही न भूयः पुरुषो भवेत् ॥ ४००॥ वरं वृक्षोऽपि सिक्तोऽसौ यस्य विश्रम्यते तले । सचेतनोऽपि नो पुत्रो यः पित्रोः क्लेशकारकः ॥४०१॥ १ अपोषकः । Page #45 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । उच्यन्ते दुष्प्रतीकारा यद्यप्यम्बा पिता गुरुः । नरैस्तथाऽपि यत् शक्यं कृत्यं तेषां पदाऽर्चनम् ||४०२|| पूज्यपूजनबीजोत्थः स्फुटं भाग्यद्रुमो नृणाम् । तदभक्तिसलिलैः सिक्तः सदा सौख्यैः फलत्यलम् ४०३ इति ध्यात्वा शुकः कीराssवापृच्छ्योड्डीय सत्वरम् । art वार्ध्यन्तरद्वीपं तमेवाssस्रं ददर्श च ॥ ४०४ ॥ प्रतिश्चारु फलं चञ्चुपुटेनाऽऽदाय तस्य सः । व्यावृत्य गगने गच्छन् शुकः श्रान्तोऽभवद् भृशम् ||४०५|| अशक्तः स्वां तनुं धर्तुं पपात सहसाऽम्बुधौ । नाऽमुचत् चञ्चुतस्त्वाम्रं चिन्तातत्त्वं सुधीरिव ||४०६ || अत्राऽन्तरे सागराख्यसार्थेशेन महापुरात् । यानेन गच्छता दृष्टो व्याकुलः स जले ब्रुडन् ||४०७॥ अरे ! गृह्णातु गृह्णातु कोऽप्येनमिति संभ्रमात् । उदिते सागरेणैकस्तारकः स्वं जलेऽक्षिपत् ॥ ४०८ ॥ गत्वाऽन्तिके शुकं धृत्वा सागरस्य स चाऽऽर्पयत् । सागरोsपि करे धृत्वा शुकमाश्वासयच्चिरम् ||४०९ ॥ शुकोऽपि लब्धचैतन्यः सागरं प्रत्यभाषत । उपकारिशिरोरत्न ! सार्थवाह ! चिरं जय ॥ ४१० ॥ न केवलं त्वयैकोऽहं जीवितः सार्थनायक ! । मम पित्रोऽरपि प्राणा दत्ता जीर्णाऽन्धयोर्ध्रुवम् ॥ ४११ ॥ सूर्याचन्द्रमसौ व्योम्न्नः द्वौ नरौ भूषणं भुवः । उपकारे मतिर्यस्य यश्च तं न विलुम्पति ॥ ४९२ ॥ उक्तं च , ३३ परकार्याय पर्याप्तं वरं भस्म वरं तृणम् । परोपकृतिमाधातुमक्षमो न पुनः पुमान् ।। ४१३ ॥ किमपि प्रार्थये तत् त्वां प्रार्थनायोग्य ! सत्तम ! | यद् योग्यं प्रार्थयस्वेति सागरोक्ते शुको तुषत् ।। ४१४ ॥ ५ Page #46 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेवृत्तान्तं सर्वमाख्याय तत्फलं दातुमुद्यतः। सागरेणोदितः कीरस्त्वत्पित्रोहन्त ! का गतिः १ ॥४१५॥ सोऽप्याह गतभारत्वात् तत्र गत्वा पुनः फलम् । पूर्व भुक्त्वा स्वयं पित्रोर्योग्यं नेष्यामि निश्चितम् ॥४१६॥ ततस्तत्मार्थनाभङ्गं सागरः कर्तुमक्षमः ।। जग्राहाऽऽम्रफलं कीरात् सोऽपि तुष्टः खमुद्ययौ ॥ ४१७॥ सागरोऽपि शुकं ध्यायन् चूतं यत्नेन धारयन् । क्रमाद् जयपुरं प्राप्तः स्वस्थित्याऽवासयद् बहिः ॥४१८॥ अचिन्तयच्च यदहो ! पक्षिणोऽपीदृशी मतिः । उपकर्तुं तदा मर्त्य भवे किं कृतऽमन्यकत् ॥४१९।। तत् किं कुक्षिभरित्वेन ममैतत्फलभक्षणात् । तथा कुर्वे यथा विश्वविश्वस्योपकृतिर्भवेत् ? ॥ ४२० ॥ यतःतुन्दस्य भरणे नीचास्तुष्टाः, स्वीयस्य मध्यमाः । उत्तमा भुवनस्यापि सतां स्वपरता न हि ॥४२१॥ स च सर्वोपकारोऽत्र न हि विश्वाधिपं विना । तदत्र राज्ञो दास्येऽदो हृदीदं निश्चिकाय सः ॥४२२॥ न्यस्य मुक्ताभृतस्थालोपरिचूतफलं क्षणे । तदुपायनमादाय जगाम नृपधाम सः ॥४२३॥ आस्थाने नृपमऽद्राक्षीत् प्रतीहारनिवेदितः। मुक्तास्थालं पुरो मुक्त्वा साष्टाङ्गं पणनाम च ॥४२४॥ तस्मिन् यथासनासीन चूतं मुक्ताफलोपरि । भूपालो वीक्ष्य विस्मेरमुखः पप्रच्छ सादरम् ॥४२५।। सार्थेश ! किमियानः फलमात्रस्य दृश्यते । कथं कदापि नो दृष्टः सहकारतरुस्त्वया ॥४२६॥ तत्प्रभावादिकं सवे कथयामास सागरः। १ अन्यत् । Page #47 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । अतिप्रीतो नृपस्तस्य सन्मानं बह्वकारयत् ॥ ४२७॥ आकार्याssरामिकं स्वीयं शिक्षयित्वाऽतियत्नतः । रोपणाद्राजा तदाऽऽम्रं सह यामिकैः ||४२८|| सोsपि गत्वा शुभस्थाने विधिना परिकर्मवित् । सिञ्चते रोपयित्वाssव्रं सदाऽऽत्मानमिवाऽऽत्मवित् ।। ४२९ ।। क्रमेणाकुरमुनिं श्रुत्वा नृपतिरुत्सवम् । S ३५ सुदा तत्र सुपुत्रस्य जन्मेवाऽकारयत्तराम् ॥४३०॥ भक्तवस्त्रादिसत्कारैस्तोषयामास पूर्जनान् । विशेषेण तदेकाग्रचित्ताऽऽरामिकयामिकान् ॥४३१ ॥ स्वयं याति नृपो द्रष्टुं पल्लवे पल्लवेऽनिशम् । वर्धमाने प्रवर्धन्ते राज्ञो हृदि मनोरथाः || ४३२ | कन्दलस्कन्धशाखासु वर्ण्यमानासु भूपतिः । तन्न यन्नेप्सितं दत्ते शक्रंमन्यो मुदा हृदि || ४३३ ॥ एवं सर्वाङ्गरम्यस्य सौभाग्यस्येव मञ्जरी । प्रादुर्बभूव चूतस्य तस्य विश्वदृशां सुधा ||४३४ || फलैश्वाऽलङ्कृतो भूरिभाग्यस्याऽऽरम्भवत् तरुः । मन्यते स्म जनं राजा गतरोगजरापदम् ।। ४३५ ॥ अथैकस्य पपाताऽऽम्रफलस्योपरि पुष्करे । व्रजत् कुन्तिकात्तस्य सर्पस्य गरलं मुखात् ||४३६ ॥ सद्यः पकं च तत् तेन गलित्वा चाऽपतद् भुवि । तद् नीत्वाऽऽरामिकस्तुष्यन् राज्ञोऽद्भुतमढौकयत् ॥४३७॥ प्रसाददानं कृत्वाऽस्य नृपो निजपुरोधसे । आद्यमिष्टेऽस्त्विति ध्यात्वा ददावा सगौरवम् ॥ ४३८ ॥ सोsपि गत्वा निजावासे कृत्वा देवार्चनं मुदा । तदात्रं भक्षयामास सहसा च विपन्नवान् ||४३९|| शोककोलाहले तत्र जाते ज्ञात्वा नराधिपः । १ गगने । Page #48 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेकिमेतदिति संभ्रान्तचित्तः श्याममुखोऽभवत् ॥४४०॥ दधौ च हन्त ! केनाऽपि वैरिणा वणिजः करात् । स्फुटं विषफलं मेऽदो दापितं हा ! करोमि किम् ? ॥४४१॥ सोऽथ पशुधरान् सर्वान् आदिदेश क्रुधा ज्वलन् । अरे ! छेद्यस्तथाऽऽम्रोऽयं यथा नामाऽपि नो भवेत्॥४४२॥ तैः कुठारकरैः शीघ्रं गत्वाऽसौ तत्र शत्रुवत् । हारावपरलोकानां छिन्नः सह मनोरथैः ॥४४३॥ तद् ज्ञात्वा जीवितोद्विग्नैः कुष्टिपङ्ग्वन्धलादिभिः । गत्वाऽस्य फलपत्राद्यं भक्षितं सुखमृत्यवे ।।४४४॥ क्षणेन तत्पभावात् ते भूत्वा मन्मथसंनिभाः । उपतस्थुनृपं तुष्टास्तवृत्तं च न्यवेदयन् ॥४४५॥ विस्मितोऽथ नृपो दध्याऽवहो ! किमिदमद्भुतम् ! । ध्रुवं सत्यं वचः तस्य सार्थेशस्य महात्मनः ॥४४६॥ केनाऽपि कारणेनाऽभूदिदं विषमयं फलम् । इत्याऽऽरामिकमाकार्याप्राक्षीत् शपथमपूर्वकम् ॥४४७॥ वद भोः ! यदिहाऽऽनिन्ये तदानं किं त्वया द्रुमात् । जगृहे भूमिभागाद् वा स ऊचे देव ! भूतलात् ? ॥४४८॥ अचिन्तयद् नृपो नूनं कुतोऽप्यहिविषादिदम् । तापेन सहसा पकं गलित्वा भूतलेऽपतत् ॥४४९।। प्रैषीच पुरुषान् वेगादाम्रशेषस्य रक्षितुम् । तैर्गत्वा वीक्ष्य चागत्य विज्ञप्तं श्रूयतां विभो ! ॥४५०॥ विषवृक्ष इति श्रुत्वा संभूय स तथा जनैः । चूर्णीकृतो यथा तस्य न स्थानमऽपि लक्ष्यते ॥४५१॥ तद् निशम्य नृपः सास्रं विललाप महार्तिभाक् । हा! मया मन्दभाग्येन विहितं विश्ववैशसम् ॥४५२॥ विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुं न युज्यते । १ हाशब्दं कुर्वतां लोकानां पश्यतामित्यर्थः । २ विश्वहानिः । Page #49 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । ३७ पीयूषवृक्षः किं त्वेष धिग् ममाऽचिन्त्यकारितम् ||४५३ || इत्येवं जीवितं यावत् पश्चात्तापाऽनलेन सः । मानोऽनिशं तस्थौ राज्यसौख्यपराङ्मुखः ॥४५४ ॥ तदेवं त्वमपि स्वामिन् ! सम्यग् हृदि विभावय । विमृश्य विहितं कार्यं कदाऽप्येति न विक्रियाम् ||४५५|| समस्तगुणसंपूर्णे ललिताङ्गेऽपि तत् त्वया । अपरीक्ष्य समारेभे संरम्भः कथमीदृशः ? ॥४५६ ॥ ततो यद्याssदिशेद् देवः कुमारस्याऽन्तिकं तदा । गत्वा जानीमहे सम्यक् सर्वं तस्य कुलादिकम् ||४५७|| अमात्य ! साधु साध्वेतत् कुरुष्वेति नृपोदिते । तदमाक्षीदुपागत्य मन्त्रिवर्गो नृपात्मजे ||४५८॥ कुमारः प्राह मन्त्रीश ! जात्यादिकथको मम । हतोऽसौ सज्जनः स्वं तत् कथयामि कथं स्वयम् ? ॥४५९ ॥ मन्त्र्यूचे सज्जनेनैव पापिना जातिदोषजम् । तवैवं रिष्टमानिन्ये तत् त्वं तत्त्वं निवेदय ||४६०॥ तन्निशम्य कुमारोऽपि ज्ञातकारणधीरधीः । स्वकीयं पुरपित्रादि यथातथमचीकथत् ॥ ४६१ ॥ शशंसुर्मन्त्रिणो राज्ञे तन्निशम्य नृपोऽभवत् । समं हर्ष - विषादाभ्यां संकीर्णहृदयः क्षणम् ||४६२॥ प्राहिणोच्च नरानाप्तानाऽऽशु गत्वाऽथ तत्र ते । श्रीवास नगरेशाय तत्स्वरूपं न्यवेदयन् ॥४६३॥ सहसा वचसा तेन भेकवज्जलदाम्भसा । स प्रत्युज्जीवित इवाऽभूद् नृपो नरवाहनः ||४६४॥ हर्षेण च जगादाऽथ ममाsहो ! कोऽपि संप्रति । जितशत्रुमो बन्धुर्न परो भुवनत्रये ||४६५ || अतित्यागभवाssस्मांकतिरस्काराऽपमानितः । १ आस्माकः अस्मदीयः । Page #50 -------------------------------------------------------------------------- ________________ ३८ श्रीपार्श्वनाथचरितेहंसः सर इव स्थानं मुक्त्वा देशान्तरं भ्रमन् ॥४६६॥ येन जीवितसर्वस्वं मम विश्वजनस्य च । स्थापितो ललिताङ्गोऽसौ पोषितश्चात्मसनिधौ ॥ ४६७ ॥ किश्च भोः पुरुषाः ! वाच्यः स्वस्वामी वचसा मम । स्नेहसारं यथा शीघ्र कुमारः प्रेष्यतामिह ॥ ४६८ ॥ कलशो ह्यस्मद्वंशस्य त्वदीयसुकृतस्य च । चटतादिति संभाष्य सन्मान्य च महादरात् ॥४६९॥ स्वप्रधाननरैः सार्द्ध विशिष्टप्राभृतान्वितैः । विससर्ज पुरे गत्वा सर्व राज्ञो न्यवेदयत् ॥ ४७० ॥ तत् श्रुत्वा जितशत्रुः स्वाऽज्ञानदोषार्दितो हृदि । अचिन्तयदिदं मे धिग् महामोहविजृम्भितम् ॥ ४७१ ॥ इत्थं दुष्कीर्ति-पापाभ्यां जिघांसति भवद्वयम् । यस्तमेवाऽऽन्तरं शत्रु मोहराजं विनिर्जये ॥४७२॥ इति निश्चित्य दीनाऽऽस्यामङ्कमारोप्य पुत्रिकाम् । गलदश्रुजला क्षो जगादेति सगद्गदम् ॥ ४७३ ॥ वत्से ! यद् जीवितव्यादऽप्यधिकायां मया त्वयि । अचिन्ति गुरुवैधव्यदुःखमित्यसमञ्जसम् ॥४७४॥ विधित्सितं समस्तं तत् क्षन्तव्यं दुष्पितुर्मम । त्वत्तेजसा मुखोद्योतो बभूव कुलदीपिके ! ॥४७५॥ चिरं जीव समं भर्चा परिपूर्णमनोरथा । साऽप्येवं वत्सलं तातं ननाम प्रहमानसा ॥४७६॥ अथाऽऽहूय कुमारेन्द्रं प्रणामनतविग्रहम् । ऊ/कृत्य नृपो दोभ्या सलज्जवदनोऽवदत् ॥४७७॥ कुमार ! मयका पुत्रनिर्विशेषेऽपि यत् त्वयि । दुर्जनाऽहिवचस्तीवविषविह्वलचेतसा ॥४७८॥ विरुद्धमिदमारेभे तत्पतीकारकर्मणि । तवैव सुकृतस्फूर्तिर्जागर्ति परमौषधी ॥४७९॥ Page #51 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । यत तेन पापिनाऽलीकं त्वच्चित्ते मनसश्च मे । मालिन्यमाहितं तत्तु तस्यैव फलितं क्षणात् ॥ ४८० ॥ अग्राह्यनामधेयस्य तस्य भृत्याऽधमस्य तत् । विचिन्त्य चरितं भूयः कुसंगं वत्स ! मा कृथाः ॥४८१ ॥ किं चाऽर्धमऽस्य राज्यस्य गुणैरेवाऽर्जितं त्वया । शेष मर्ध च ते दत्तं प्रायश्चित्ते मया निजे ||४८२|| इति संबोध्य तं गाढमनिच्छन्तमपि स्वयम् । निजसिंहासनाssसीनं विधाय विधिपूर्वकम् ॥ ४८३ ॥ मन्त्रपूतजलाऽऽपूर्ण स्वर्णकुम्भाऽभिषेकतः । नृपं कृत्वा ययौ राजा तपस्यायै तपोवनम् ||४८४ ॥ ललिताङ्गोऽपि तद् राज्यं प्राप्य कुर्वन् व्यवस्थया । जातः पितेव लोकानां सुखाय सुकृताय च ॥४८५ ॥ अथ तत्र समादिश्य मन्त्रिणं सुपरीक्षितम् । प्रधानपरिवारेण समं पुष्पावतीयुतः || ४८६ ॥ पौरानापृच्छ्य सोत्कण्ठस्त्वरिताऽऽकारणात् पितुः । स प्रयाणैरविछिन्नैः श्रीवासनगरं ययौ ॥ ४८७ ॥ अद्राक्षीद् निर्विलम्बं च सौधमध्यस्थितं नृपम् । पुत्र विश्लेषसप्तार्चिस्तापग्लपितविग्रहम् ||४८८|| गलनेत्रजलैस्तापं पितुर्विध्यापयन्निव । प्रणम्य चरणौ मूर्ध्ना ललाटघटिताञ्जलिः ||४८९॥ सस्नेहमधुरं सान्द्रं सानन्दं विनयान्वितम् । भक्तिव्यक्तीकृतात्मीयकुलीनत्वो व्यजिज्ञपत् ॥ ४९०॥ ( युग्मम् ) कथ्यन्ते तात ! शास्त्रेषु नन्दनाः कुलदीपकाः । कुपुत्रेण तु पूज्यानां कृतं दुःखतमो मया ॥ ४९१ ॥ मुक्तामणिनिभा वंशे पुत्राः स्युरितरे पितः ! | १ दुःखान्धकारः । ३९ Page #52 -------------------------------------------------------------------------- ________________ ४० श्री पार्श्वनाथचरिते उत्किरंस्तु प्रविश्याऽन्तरऽहं घुण इवाभवम् ||४९२॥ पितृपादान् सुदुर्लम्भान् निरन्तरमपश्यता । हा ! मया मन्दभाग्येन स्वार्थ एव विनाशितः ॥४९३ ॥ किं वाऽथ बहुना तात ! बालकालादवर्त्तिषम् । अद्य यावदहं पित्रोः क्लेशकार्येव केवलम् ||४९४ ॥ तत् सर्वं क्षमयित्वैतत् ढौकनीये कृतं मया । कस्याऽप्यादिश्यतां चम्पाराज्यं पूज्यैः प्रसद्य मे || ४९५|| इतः कुलवधूचैषा पूज्यपादान् नमस्यति । यथोचितसमाचारेष्वऽनुज्ञां चाऽभिवाञ्छति ||४९६|| वदन्तमिति तं दोर्भ्यामादाय पृथुवक्षसा । दृढमालिङ्ग्य भूपालो मुखेनाऽऽघ्राय मूर्धनि || ४९७॥ चिरेण निःसरदुःखप्रविशद्धर्षपूरतः । बभूव हृदि सांकय्यात् पर्याकुल इव क्षणम् ||४९८ || ( युग्मम् ) अथ पुत्रमुखं वीक्ष्य पूर्णचन्द्रसमं नृपः । उल्लसन्मानसाऽम्भोधिर्वचोवीचीर्वितेनिवान् ॥४९९ ॥ त्वं मैवं वत्स ! भाषिष्ठाः सुवर्णे श्यामता यदि । जायते तत् तवापि स्याद् गुरुष्ववहुमानिता ।। ५०० ॥ स्वपुण्यस्येव मूर्त्तस्य द्वारं वारयता तव । तदा मयैव कल्पद्रौ कुकूलक्षेपणं कृतम् ॥ ५०१ ॥ यदि मे वृद्धभावेन परावृत्तिं गता मतिः । ततः पित्रेकभक्तेन किमऽहं मुमुचे त्वया ? ॥ ५०२ ॥ त्वद्वियोगार्त्तिलूनस्य यावस्था मनसो मम । बभूव वत्स ! सा भूयः शत्रूणामपि मा स्म भूत् ॥ ५०३॥ महते राज्यलोभाय तव देशान्तरोऽप्यऽभूत् । त्वदेकजीवितव्यस्य दुर्दशेयं पुनर्मम ॥ ५०४ ॥ १ तुषाग्निक्षेपः । Page #53 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। किं च कृत्रिमरोषेण तवैवाऽऽयतिमुत्तमाम् । विधित्सता मया तादृक् कृतं लोके यदुच्यते ॥ ५०५ ।। पितृभिस्ताडितः पुत्रः शिष्यस्तु गुरुशिक्षितः । घनाहतं सुवर्ण च जायते जनमण्डनम् ॥ ५०६ ॥ अथवाऽलमुपालम्भैः शुभायाऽखिलमप्यऽभूत् । ईदृक् स्वपुत्रमाहात्म्यं पश्यामि कथमन्यथा ? ॥५०७॥ ललिताङ्ग ! तदऽद्यापि मम भाग्यानि जाग्रति । अनभ्रष्टिवद् दृष्टो यदद्य सहसा भवान् ॥ ५०८ ।। इदं राज्यमिदं गेहमयं परिजनो जनः । सर्वमङ्गीकुरुष्वेदं योग्यस्त्वत्तो हि नाऽपरः ॥ ५०९ ॥ अस्याश्च वध्वास्तत् तादृक् कुलमेवोपदेशकम् । यत् कर्त्तव्यविधौ पाणिगृहीत्यस्तेि विशेषतः ॥ ५१० ॥ विधिसृष्टाऽनुसारेण सततं पालय प्रजाः । वत्स ! त्वं हरिवल्लक्ष्म्या राजपुच्या युतो भुवि ॥५११।। अहं तु पूर्वजाऽऽचीर्ण व्रतं सुगुरुसंनिधौ । त्वय्याऽऽरोपितभारत्वाद् निश्चिन्तमतिराश्रये ॥ ५१२ ॥ ललिताङ्गो वचः श्रुत्वा पितुर्विरहसूचकम् । सदैन्यमवदद् देव ! किं मया दुष्कृतं कृतम् ? ॥ ५१३ ॥ यदेतावन्ति मे तात ! दिनानि विफलान्यगुः। . दुरेण गुरुपादानां तदद्य यदि कर्मणा ॥ ५१४ ॥ दत्तेऽन्तरे मया तातो हृष्टस्तत् तेन किं पुनः ?। वर्षारविरिवाऽभ्रेण ममाऽदृष्टीकरिष्यति ॥ ५१५ ॥ पुन व समादेश्यमऽश्रोतव्यमिदं विभो । कस्याऽपि दिवसो मा गात् सतः पूज्यानपश्यतः ॥५१६॥ तात ! किं तेन राज्येन जीवितेन दिनोदये । प्रसन्नं नेष्यते यत्र पितृपादाम्बुजद्वयम् ? ॥ ५१७ ॥ १ वध्वाः । Page #54 -------------------------------------------------------------------------- ________________ ५२ श्रीपार्श्वनाथचरितेपितुः पुरो निषण्णस्य या शोभा जायते भुवि । उच्चैः सिंहासनस्थस्य तच्छतांशेऽपि सा कुतः? ॥५१८॥ यः कोऽपि परमाऽऽस्वादो गुरुभुक्तोज्झितेऽभवत् । दिव्यपाकेऽपि मिष्टाऽन्नरसवत्या न तं लभे ॥ ५१९ ॥ या प्रीतिर्लभमानस्य गुरोरादेशमुज्ज्वलम् । भुवनत्रयलाभेऽपि न सा भवति निश्चितम् ॥ ५२० ॥ देवाऽऽदेशय यत् कृत्यं सेवाहेवाकिनो मम । चिरान्नेत्रपथाऽऽयातः संपूरय मनोरथान् ॥ ५२१ ॥ इति पुत्रवचोनीरसिक्तमोहतरुः क्षणम् । भूत्वा किंकृत्यतामूढो भूयोऽक्ष्टभ्य धीरताम् ॥ ५२२॥ जगाद नृपतिर्मैवं प्रतिबन्धं विधेहि मे । क्रमाऽऽयातं द्वयं वत्स ! तव राज्यं व्रतं मम ॥ ५२३ ॥ इति धृत्वा करे बाढं विलक्षवदनं सुतम् । तत्कालमुच्छलत्पञ्चशब्दनिर्घोषपूर्वकम् ।। ५२४ ॥ राज्ये निवेशयामास शिक्षयामास चेदृशम् । वर्तितव्यं तथा येन न स्मरन्ति प्रजा मम ॥ ५२५ ॥ मन्त्रिसामन्तमुख्यांश्चाऽऽदिदेश यदऽतः परम् । एतदाज्ञापरैर्भाव्यं युष्माभिरिह सर्वथा ॥ ॥ ५२६ ॥ क्रोधोद्बोधेन लोभेन चिरं परिचयेन च । श्रीभवोन्मादवैकल्याद् दोधुरतया मया ॥ ५२७ ॥ यत् किंचिदपचक्रे तत् क्षन्तव्यमिति भूपतिः । लोकानापृच्छय जग्राह सद्गुरोरन्तिके व्रतम् ॥५२८॥ (युग्मम् ) स परित्यक्तराज्यश्रीकलत्रादिपरिग्रहः । प्रोज्ज्वलः शुशुभेऽत्यन्तं मुक्ततोय इवाऽम्बुदः ॥५२९॥ महाव्रतधरः शान्तो दान्तः समितिगुप्तिभिः । सदाविशुद्धसद्धर्मश्रद्धानध्यानतत्परः ॥५३०॥ Page #55 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। अल्पकालेन चाऽऽभ्यस्तसदागमपरिश्रमः । गुरुणा गुणगौरव्यो न्यस्तो गुरुपदक्रमे ।।५३१॥ जनस्याऽप्यन्तरङ्गारिमथनाय कृतोद्यमः । महामुनिपरीवारी विजहार धरातले ॥५३२॥ ललिताङ्गो नृपः प्राप्य प्राज्यसाम्राज्यसम्पदम् । .. विश्वस्यापि मुदेऽत्यन्तं पूर्ण सर इवाऽभवत् ॥५३३।। शुद्धपक्षद्वयेनेव न्याग्रराज्यद्वयेन सः । विराजन् राजहंसोऽथ कस्य नोवास मानसे ? ॥५३४॥ उत्खन्याऽऽरोपयन् भूयः कुर्वन् कण्टकिनो बहिः । अत्युच्चान् नमयन्नुच्चैः कुर्वन्नीचाऽनपि क्रमात् ॥५३५॥ मूलानि पालयन् नीत्या चिन्वानः पुष्पितान् शनैः । स लोकाऽऽरामवृद्ध्यर्थ मालाकार इवाऽभवत् ॥ ५३६ ॥ तथाहिजननीव परित्राणात् पितेव धनदानतः । गुरुवद् धर्मकारित्वादाचार्य इव शिक्षणात् ॥५३७।। मित्रवञ्च हिताऽऽख्यानाद् न्यायधर्मपरायणः । राजा किमिव लोकानां न करोति समीहितम् ? ॥५३८॥ (युग्मम् ) तस्यैवं शासतो राज्यमन्येद्युमुदिताननः । उद्यानपालकोऽभ्येत्य विहिताञ्जलिरब्रवीत् ॥५३९॥ दिष्ट्या वाप्यसे देव ! जयेन विजयेन च । आययौ बहिरुद्याने राजर्षिनरवाहनः ।। ५४० ॥ तत् श्रुत्वा भाविभद्राशाजातहर्षोल्लसन्मनाः । शकुनायाऽर्थवत् तस्मै कोटिसङ्ख्यं धनं ददौ ॥५४१।। सत्वरं च गुरोः पादवन्दनाय महादरः । सान्तःपुरपरीवारो ललिताङ्गनृपो ययौ ॥५४२॥ सोऽपश्यत् तत्र तं नेत्राऽऽनन्दनं मुनिमण्डनम् । . Page #56 -------------------------------------------------------------------------- ________________ ४४ श्रीपार्श्वनाथचरिते विधिना शुद्धभूभागे कृतासनपरिग्रहम् ||५४३॥ तपःप्रभावसम्पन्नज्ञानाऽतिशयभासुरम् । साधुहंसगणै रम्यैः संसेतिपदाम्बुजम् ||५४४|| अन्तःशमसुधोल्ला सिवदनेन्दुप्रभाभरैः । प्रीणयन्तमऽसङ्ख्याताज्यातवन्दारुनागरान् ||५४५|| (त्रिभिः विशेषकम् ) विश्व प्रदक्षिणीकृत्य भूतलन्यस्तमस्तकः । प्रणम्य पुरतो भक्त्या प्राञ्जलिः समुपाविशत् ||५४६॥ आशिषं गुरुsts मै दत्त्वा कल्याणकारिणीम् । रहस्यं जिनधर्मस्य सप्रसादमुदाहरत् ।। ५४७ ।। मरुस्थलपथे यद्वद् दुष्प्रापः कल्पपादपः । तथा भवेत्र जन्तूनां मानुष्यमतिदुर्लभम् ॥ ५४८ ॥ आर्यदेशश्च तत्राऽपि सुकुलं निर्मला मतिः । विशिष्टगुरुसम्पर्को भूरिभायैरवाप्यते ॥ ५४९ || आसादिते पुनस्तस्मिन्नऽक्षयं सुखमिच्छुभिः । धारणीयं हृदि ज्ञात्वा सम्यक् सम्यक्त्वमऽच्युतम् ||५५०॥ यथा विना प्रतिष्ठानकाष्ठं पोतो न सिध्यति । प्रासादो निष्ठुरं पीठवन्धं च न विना भवेत् ।। ५५१।। गाढमूलं विना प्रौढिं नाऽऽसादयति पादपः । सम्यक्त्वं च विना तद्वद् धर्मो नैवावतिष्ठते ॥५५२३|| तद् देवगुरुधर्माणां तवनिश्चयलक्षणम् । भवे भवति भव्यानामभव्यानां कदापि न ॥ ५५३ ॥ | विश्वं विश्वमपि व्याप्तं रागद्वेषादिभिर्भृशम् । निःशेषा यस्य ते क्षीणा वीतरागः स देवता ॥ ५५४ || शान्तचित्तवचस्काये सर्व सत्रोपकारिणि । वीतरागे विसंवादः सहृदां हृदये कुतः ? || ५५५ ॥ दुःखगर्भ सुखं रागे निरागत्वे निरन्तरम् । Page #57 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । ४५ तत् पुनः प्राप्यते देववीतरागप्रसादतः ॥५५६॥ यादृक् संसेव्यते स्वामी लेश्या भवति तादृशी । वीतरागे ह्यऽतो नाथे नीरागं जायते मनः ॥५५७।। स्वपरोत्तारणे काष्ठयानतुल्यो भवाम्बुधौ । संविग्नः स्याद् गुरुर्धारः सदा सदुपदेशकः ॥५५८।। अन्तःपरिग्रहो रागो बहिस्त्वऽनुचितोपधिः । स द्विधाऽप्युज्झितो येन स महात्मा गुरुर्गुरुः ॥५५१।। लोकेऽपि वन्द्यते त्यक्तवहिरन्तःपरिग्रहः । अत्र निस्तुषरागाणामक्षतानां निदर्शनम् ।।५६०॥ अश्रीदोऽपि गुरुः सेव्यश्चित्तक्लेशोपशान्तये । अफलोऽपि तरुस्तापं हरते मार्गयागिनाम् ॥५६१॥ धर्मतत्त्वं त्विदं ज्ञेयं भुवनत्रयसम्मतम् । यद् दया सर्वभूतेषु त्रसेषु स्थावरेषु च ।।४६२।। मूलमन्त्रं विना सिद्धिर्मालामन्त्रेण नो यथा । भूयोभिरपि नो कृच्छ्रेस्तथा धर्मो दयां विना ॥५६३।। तद् ध्येयं मनसा तच वाच्यं वाचा मनीषिभिः । चेष्टितव्यं तदङ्गेन येन कोऽपि न पीड्यते ॥५६४॥ यथाऽऽत्मनः प्रियं वाञ्छेत् ततः कुर्वीत तत् परे । बुभुक्षुः शालिधान्यं यः क्षेत्रेऽपि वपते स तत् ॥५६५॥ अहिंसैव परो धर्मः शेषस्तु व्रतविस्तरः। अस्यैव परिरक्षायै, पादपस्य यथा वृति': ॥५६६॥ इति तत्त्वत्रयीरूपं शमप्रमुखलक्षणैः । लक्षितं पञ्चभिधर्मस्थैर्याधैर्भूषितं पुनः ॥५६७॥ सम्यक्त्वरत्नं यत्नेन धार्य चित्तकरण्डके । रक्ष्यं शङ्कादिचौरेभ्यः सहगामि भवाऽन्तरे ॥५६८॥ इतरोऽपीह नो मन्त्रो नृणां सिद्ध्यति शङ्कया । १ वाटी, इ त्यर्थः । Page #58 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसम्यक्त्वाऽऽख्यमहामन्त्रः किमु शाश्वतसौख्यदः ॥५६९॥ आसीत् पुरे वसन्ताख्ये गन्धारः श्रावको वरः। देवपूजा दया दानं दाक्ष्यदाक्षिण्यसंयुतः ॥५७०॥ स याति प्रायशो दूरमुद्यानवनमध्यगे । जिनेन्द्रभवने देवपूजार्थ सदुपस्करः ।।५७१॥ चैत्येऽसौ यावदऽन्येयुः प्रविश्य विधिना जिनम् । स्नपयित्वा समऽभ्यर्च्य सुगन्धकुसुमादिभिः ॥५७२॥ रोमाश्चितवपुः स्तौति स्तवैर्भावमनोहरैः । विद्याधरो महाजनः तत्रैकस्तावदागतः ।। ५७३ ।। दृष्ट्वा श्रुत्वा च तत्सर्वमखर्वाऽऽनन्दमेदुरः। साञ्जसं निकटीभूय गन्धारमिदमऽब्रवीत् ।। ५७४ ।। अहो ! धार्मिक ! वन्दे त्वाऽमद्य में नेत्रकर्णयोः । चिरात् पारणकं जज्ञे तेन किंचिद् ददामि ते ।।५७५।। अदृश्यीकरणाऽऽकृष्टी रूपान्तरकृतिस्तथा । परकायप्रवेशाद्या विद्याः सन्तीह भूरिशः ॥ ५७६ ॥ आकाशगामिनी विद्या दुर्लभा किं तु भूतले । गृहाण तदिमां साधो ! योग्योऽसि कुरु मे प्रियम् ।।५७७॥ यतःयथा दोषोऽत्र विद्यायाः कुपात्रन्यासतो भवेत् । तथा स्थाननियोगेन महानाऽऽसाद्यते गुणः ॥ ५७८ ॥ गन्धारः प्राह भो भद्र ! किं ममाऽपरविद्यया । एकैव धर्मविद्याऽस्तु या दुष्पापा सुरैरपि ? ॥ ५७९ ॥ किं चसर्वमौपाधिकं सौख्यं विपाके दुःखदायकम् । स्वभावाद् जायमानं तु धर्मिणां स्यात् चटत्क्रमम् ॥ ५८०॥ खेचरोऽप्याह जानामि संतोषं तव धार्मिक !। समाधानाय मे किन्तु करणीयमिदं त्वया ॥ ५८१ ॥ Page #59 -------------------------------------------------------------------------- ________________ ४७ प्रथमः सर्गः। . जडैकप्रकृतिनं स्याद् महात्मा तेन तद्वचः । श्रेष्ठिनाऽङ्गीकृतं सोऽपि मन्त्रं विधियुतं ददौ ॥ ५८२ ॥ स्वस्वस्थानं जग्मतुस्तौ कृतकृत्यावुभावऽपि । परोपकारी गन्धारो गते काले कियत्यपि ॥ ५८३ ॥ वृथैषोऽरण्यजातीव मा गादिति विचिन्त्य तम् । मन्त्रमात्मीयमित्राय स्कन्दिलाय प्रदत्तवान् ॥ ५८४ ॥ विद्या साधयितुं सोऽपि सोपस्करकरो निशि । ययौ कृष्णचतुर्दश्यां श्मशानाऽऽसनकानने ॥ ५८५ ॥ कृत्वा बलिविधानाद्यं विशिष्टैकतरोरधः । प्रज्वलत्खादिराऽङ्गारपूरितं कुण्डमातनोत् ॥ ५८६ ॥ बद्धं तस्यैव शाखायां द्रुतमारुह्य शिक्यकम् । अष्टोत्तरशतं वारान् जपित्वा मन्त्रमक्षतम् ॥ ५८७ ॥ यावत् क्षुरिकया रज्जुपादमेकं छिनत्त्यऽसौ । वीक्ष्याऽङ्गारानधस्तावदिति शङ्का मनस्यऽभूत् ॥ ५८८ ।। छिन्ने पादचतुष्केऽपि शिक्यकस्य क्रमेण मे। अत्राऽहो ! सिद्धिसन्देहो वह्निपातस्तु निश्चितः ॥५८९॥ हार्यन्ते किं मुधा प्राणा जीवतां भविता शुभम् । इति कृत्वा समुत्तीर्य ततो भूमावुपागतः ॥ ५९० ॥ भाविन्येवंविधा भूयः सामग्री दुर्लभा खलु । किं करोमीति कर्तव्यसंकुलो यावदस्ति सः ॥५९१॥ आदाय नृपतेः सौधादलङ्कारकरण्डकम् । तावत् तत्र भयव्यग्रश्चौर एकः समाययौ ॥ ५९२ ॥ पदाऽनुसारतः पृष्ठलग्नास्तं राजपुरुषाः । ज्ञात्वा तत्रस्थमा रात्रिं वेष्टयित्वा स्थिता वनम् ॥५९३॥ उद्योतदर्शनाचौरोऽप्यागत्य स्कन्दिलाऽन्तिके । किमेतदिति पाछ सोऽपि सर्व शशंसिवान् ? ॥ ५९४ ॥ १ अरण्यस्थमालतीवत् । Page #60 -------------------------------------------------------------------------- ________________ ४८ श्रीपार्श्वनाथचरितेचिन्तितं दस्युनेदं यद् गन्धारो जिनधार्मिकः ।। तदाख्यातमतोऽलीकं युगान्तेऽपि न संभवेत् ।। ५९५ ।। उक्तं चाऽऽख्याहि मे मन्त्रं त्वं गृहाण करण्डकम् । साधयित्वा यथा सद्यः प्रत्ययं जनयामि ते ॥ ५९६ ॥ स्कन्दिलोऽपि तदा तस्मै कौतुकेन भयेन च । संपूरितमना मन्त्रं यथातथमञ्चीकथत् ॥ ५९७ ॥ चौरः शिक्यकमारुह्य मन्त्रमेकमनाः स्मरन् । चिच्छेद युगपत् पादांश्चतुरोऽप्यस्य साहसात् ॥५९८॥ विद्याऽधिष्ठायिनी तुष्टा विमानं देव्यऽढौकयत् । तस्करोऽपि तदाऽऽरुह्य ययौ गगनमण्डलम् ।।५९९॥ अथ प्रभातसमये विष्वग् व्याहारका नराः। अरे ! गृह्णीत बनीत लब्धश्चौरः सवस्तुकः ॥६००॥ जल्पन्त इति ते यावत् स्कन्दिलं प्रति ढौकिताः । चौरविद्याधरस्तावद् विकुर्व्य महतीं शिलाम् ॥६०१॥ मद्गुरोः स्कन्दिलस्याऽस्य विरुद्धं यः करिष्यति । तस्योपरि शिलां मोक्ष्ये गगनस्थोऽब्रवीदिति ॥६०२॥ (विशेषकम् ) भीताः सर्वेऽथ तद् गत्वा शशंसुर्भूभुजे भटाः । नृपोऽपि सम्भ्रमात् तत्राऽऽगत्य तं विनतोऽवदत् ॥६०३॥ कथ्यतां खेचराधीश ! कथं गुरुरऽयं तव ? । वृत्तान्ते कथिते तेन गताः सर्वेऽपि विस्मयम् ।।६०४॥ अन्वय व्यतिरेकाभ्यां शङ्कोदाहरणं बुधैः । इत्थं विभाव्य सम्यक्त्वं धार्य निःशङ्कमानसैः ॥६०५।। चारित्रयाने भग्नेऽपि गुणमाणिक्यपूरिते । तरत्येव भवाऽम्भोधिं सम्यक्त्वफलकग्रहात् ॥६०६॥ तमोग्रस्तस्य सामस्त्याद् जीवेन्दोर्यदि जायते । सचैतन्यकला काऽपि व्यक्ता मुक्तिस्ततो ध्रुवम् ॥६०७।। Page #61 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। . वृद्धिमायोति सद्धर्मः स्तोकोऽपि वटबीजवत् । परं कृपणवत् कोऽपि न ग्रन्थफलमश्नुते ॥६०८॥ निसर्मरुचिमुख्याश्च कथ्यन्ते दशधा श्रुते । तारतम्यविभागेन सर्वे सम्यक्त्वधारिणः ॥६०९॥ तथाहिद्रव्यक्षेत्रादिभावा ये जिनैः ख्यातास्तथैव यः । श्रद्धत्ते स्वयमेवैतान् स निसर्गरुचिः स्मृतः ॥६१०॥ यः परेणोपदिष्टांस्तु च्छद्मस्थेन जिनेन वा । तानेव मन्यते भावानुपदेशरुचिः स वै ॥६११।। रागो द्वेषश्च मोहश्च यस्याऽज्ञानं क्षयं गतम् । तस्याज्ञायां रुचिं कुर्वनिहाज्ञारुचिरिष्यते ॥६१२॥ अधीयानः श्रुतं तेन सम्यक्त्वमवगाहते । अङ्गाऽनङ्गप्रविष्टेन यः स सूत्ररुचिः स्मृतः ॥६१३॥ स बीजरुचिरासाद्य पदमेकमनेकधा । योऽध्यापयति सम्यक्त्वे तैलबिन्दुमिवोदके ॥६१४॥ श्रीसर्वज्ञागमो येन दृष्टः स्पष्टार्थतोऽखिलः । आगमज्ञैरभिगमरुचिरेषोऽभिधीयते ॥५१५॥ द्रव्याणां निखिला भावाः प्रमाणैरखिलैर्नयैः । उपलम्भं गता यस्य स विस्ताररुचिर्मतः ।।५१६॥ ज्ञानदर्शनचारित्रतपःसमितिगुतिषु । यः क्रियासु रतो नित्यं स विज्ञेयः क्रियारुचिः॥६१७॥ आज्ञाप्रवचने जैने कुदृष्टावनभिग्रहः । यः स्याद् भद्रकभावेन तं संक्षेपरुचिं विदुः ॥६१८॥ यो धर्म श्रुतचारित्राऽस्तिकायविषयं खलु । श्रद्दधाति जिनाख्यातं स धर्मरुचिरिष्यते ॥६१९॥ इत्येवं सर्वभेदानां मानसं मूलकारणम् । १ बन्धनं धनफलं च। Page #62 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेतस्मात् तदेव कर्तव्यमेकतानं मनीषिणा ॥६२०॥ तथा सर्वज्ञचैत्यादिसप्तक्षेत्र्यां नियोजितम् । चित्तं वित्तं च सम्यक्त्वपुष्टिमिष्टां तनोत्यलम् ॥६२१॥ यतःअधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः । सन्तस्तु गुरुतीर्थादौ समुच्चैःपदकाशिणः ॥६२२॥ गुरोर्वदननिर्यातैरित्यादिवचनामृतैः । सिक्तस्वान्ततरूल्लासिप्रमोदकिशलोज्ज्वलः ॥६२३॥ ललितानृपो देशविरत्या सह सप्रियः। अङ्गीचकार सम्यक्त्वं चकार सफलं जर्नुः ॥६२४॥ (युग्मम् ) प्रणिपत्य गुरुं भूयो निजं धामगतोऽनिशम् । कुर्वाणो धर्मकृत्यानि श्रद्धानातिशयादसौ ॥६२५।। कुलीनमिव गम्भीरदृढमूलं सुभूमिकम् । पुरो वदान्यगृहवदर्दकस्तवमण्डितम् ॥६२६॥ घृतापणमिव स्फूर्जत्याज्यकुम्भमनोहरम् । दर्शनीयकणालीकं सुग्रासं च सुभिक्षवत् ॥६२७॥ गजाश्चनरपीठाढ्यं पृथिवीधवसौधवत् । योगीन्द्रमिव सम्पूर्णकुम्भकं कलसानुगम् ॥६२८॥ आसनोद्वाहकन्योक इव प्रवरमश्चिकम् । दिव्यस्त्रीरूपवचारु तारजामनोहरम् ॥६२९॥ प्रचूर्णिलेख्यकमिव सद्वितीयार्धपादकम् । भृशं भरणिकारम्यं पृथुलाभेभ्यसार्थवत् ॥६३०॥ कपोत-पालिकोपेतं गिरिक्षनिकुञ्जवत । १ किशलाः पल्लवाः । २ जन्म । ३ अर्दका याचकाः । ४ प्राज्या बहवः, बहुताश्च । ५ कणालीकं उच्चशिल्पमपि । ६ योगीन्द्रपक्षे कुम्भकाख्यो योगः । ७ यत्र पक्षिणो विश्राम्यन्ति तत्काष्ठं कपोतपालिका कपोतश्रेणी च । Page #63 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । विततच्छाद्यकाकीर्ण मालाकारनिकेतवत् ॥६३१॥ दिव्योरुशिखरं प्राप्तसनेखं सुरशैलवत् । रामसैन्यमिव व्यक्तं सुग्रीवामलसारकम् ॥६३२॥ धनदागारवत् स्फारद्रव्याट्यकलशाश्चितम् । आयशास्त्रमिवाऽभिवर्णनीयगुरुध्वजम् ॥६३३॥ अखण्डमण्डपच्छायं सुविशालबलानकम् । प्रतिबिम्बचलच्चित्रं जगतीपरिवेष्टितम् ॥६३४॥ सुवर्णभित्तिविच्छित्तिसद्रत्नस्तम्भशोभितम् । स्फुरन्मणिमयोत्तानपट्टसोपानतोरणम् ॥६३५॥ वै राज्यकुलसम्भूतं शुद्धनागरजातिकम् । सर्वाङ्गसुन्दरं विश्वकर्मणेव स्वयं कृतम् ॥६३६॥ यशः स्वमिव विस्तीर्ण स्वमानसमिवोन्नतम् । प्रत्यक्षीभूतमात्मीयपुण्यराशिमिवोज्ज्वलम् ॥६३७।। चश्चच्चूडामणीकल्पं श्रीवासनगरश्रियः । जिनेन्द्रभवनं चारु कारयामास भूपतिः ॥६३८॥ (त्रयोदशभिः कुलकम् ) कन्दमानन्दवल्लीनां बीजं सद्धर्मभूरुहः । कर्पूरपिण्डं नेत्राणां मुक्तापुण्ड्रं शिवश्रियः ॥६३९॥ हारतारककुन्देन्दुक्षीरनीररुचामिव । जनितसारमादाय विश्वानन्दाय वेधसा ॥६४०॥ तत्रात्मानमिव स्वच्छस्फटिकोपलनिर्मितम् । नाभेयविम्बं विधिना प्रतिष्ठाप्य न्यवीविशत् ॥६४१॥ (त्रिभिर्विशेषकम् ) कृत्वाऽस्य विधिना मात्रं कुम्भैर्गन्धाम्बुपूरितैः । उच्छलदिव्यवादित्रनिर्घोषापूरिताम्बरम् ॥६४२॥ १ प्रकटसुग्रीवनिर्मलबलमपि । २ आयभवनस्थो गुरुर्यथा.वर्यते तद्वत् । ३ रचना । ४ मुकुटदेश्यम् । Page #64 -------------------------------------------------------------------------- ________________ ५२ श्रीपार्श्वनाथचरितेविलेपनं च कर्पूरमिश्रसच्चन्दनद्रवैः । त्रिजगभूषणस्यापि भक्त्यारोप्य विभूषणम् ॥६४३॥ पाटला-मल्लिका-जाती-केतकी-चम्पकादिभिः । अभ्यर्च्य कुसुमैः कृष्णाऽगरुधूपमुदक्षिपत् ॥६४४॥ (विशेषकम् ) भूमिः स्नात्रजलैरार्दा धूपधृमाभ्रितं नमः । वादिवं गर्जिताभासं भूषणश्रीस्तडिनिभा ॥६४५॥ पञ्चवर्णप्रसूनश्रीः सुरचापसमप्रभा । तदा शस्याय लोकानां मेघाऽऽगम इवाभवत् ॥ ६४६ ॥ (युग्मम् ) ततः कृत्वोत्तरासङ्गं शुद्धदेशस्थितः पुरः।। न्यस्तजानुयुगो भूमौ त्रिः प्रणम्य कृताञ्जलिः ॥ ६४७ ॥ चिरं निर्वर्ण्य सद्रूपातिशयं परमेशितुः । कृतद्रव्यस्तवो भावस्तवमेवं प्रचक्रमे ॥ ६४८ ।। जय त्रिभुवनाधीश ! श्रीयुगादिजिनेश्वर ! । नम्रामरशिरोरत्नदीपनीराजितक्रम ! ॥ ६४९ ॥ अज्ञानतिमिरं हत्वा नवभानुरिव प्रभो।। प्रकाशितजगद्विद्याव्यवहार ! नमोऽस्तु ते ॥ ६५० ॥ निष्कषायतया चेतःपटे शुभ्रगुणे तव । रागो लगतु मा किंतु तेनाऽरञ्जि कथं जगत् ? ॥ ६५१ ॥ सद्गन्धशीतलस्वच्छो नत्वा पादौ तव स्तवम् । कृत्वा श्रुत्वा च नाथ ! स्यादऽक्षाणां युगपत् सुखम् ॥६५२॥ त्रिलोकीसुभगं वीक्ष्य त्वां चलाया अपि प्रभो ! । स्तम्भस्वेदाताभावो जायते कस्य नो दृशः ? ॥६५३॥ शमाई ! सुकृताऽऽराम ! भवभ्रान्तिभवं मम । त्वत्पादपादपच्छाया तापं निवापयेत् चिरात् ॥ ६५४ ॥ १ मङ्गलाय धान्याय च । Page #65 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । तचित्रं यनिरालम्ब चिरं भ्रान्तं भवार्णवे । त्वां चालम्ब्य मनो मेऽद्य शमनीरे ममज्ज यत् ॥६५५।। धर्मकोशाद् धनं दत्ते सेवकेभ्यः प्रभुर्भवान् । प्रसन्नः समतावस्तु कस्मैचन पुनर्निजम् ॥ ६५६ ॥ इति स्तुत्वा जगन्नाथमुत्थाय पुलकाश्चितः । आनन्दजलपूर्णाक्षो विज्ञप्तिं कृतवानिमाम् ॥ ६५७ ॥ तथा मम जगन्नाथ ! प्रसीद नतवत्सल !। यथा क्षणमपि स्वामिन्नवोत्तरसि चेतसः ।। ६५८ ॥ सर्वोऽपि वदति श्राद्धो यत् त्वं मे नाथ जीवितम् । नाहं तु जीवितं येन चलं मे त्वं तु निश्चलः ॥ ६५९ ॥ न कुले न बले रूपे न च न श्रीषु ते विभोः। यत् किंचिद् वीतरागत्वं तत्र लीनं मनो मम ।। ६६० ।। नानानामानि संकल्प्य विवदन्तां विचक्षणाः । मन्दमेधास्त्वहं नाथ ! नीरागत्वे तव स्थितः ॥६६१॥ विकल्पकल्पनालोलकल्लोलैर्नाथ ! रक्ष मे । धूयमानं मनःपोतं यत् तरामि भवाम्बुधिम् ।।६६२।। वपुः शस्तं प्रसन्ना दृग् जन्तुरक्षाकरं वचः । अतस्त्वयि कथं नाथ ! सतां न रमते मनः ॥६६३।। भ्रमन्तुं भावाः प्रस्तावादितरे तारका इव । सर्वज्ञ ! तव तत्वाद्रौ ध्रुवीयति मनस्तु मे ॥६६४॥ अलं परिग्रहै रम्यैरपि क्लेशकरैः प्रभो !। सदानन्दमयं देहि भावदेव ! प्रियं पदम् ॥६६५।। इति कृत्यपरो नित्यं निर्वाह्य बहुवासरान् । वार्धकं प्राप तारुण्यवनीदहनपावकम् ॥६६६।। पालितस्यातियत्नेन लालितस्य महासुखैः । स्वदेहस्यापि वैगुण्यं भृशं वीक्ष्य विषादितः ॥६६७॥ विहाय तृणवद् राज्यं समस्तविरतिव्रतम् । Page #66 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते गृहीत्वा पालयित्वा च पर्यन्तेऽनशनक्रमात् ॥६६८।। देहमौदारिकं त्यक्त्वा ललिताङ्गो दिवं गतः । ततश्च्युत्वा समुत्पद्य विदेहे सिद्धिमेष्यति ॥६६९॥ (विशेषकम् ) ज्ञात्वा धर्मजयादेवमैहिकामुष्मिकं फलम् । सर्वदुःखापनोदाय धर्मे कार्यः सदोद्यमः ॥६७०॥ मुनेर्वाक्यमिति श्रुत्वाऽबुध्यन्त बहवो जनाः। नियमाऽभिग्रहादीनि स्वस्खभाग्याऽनुमानतः ॥६७१।। रोहणादिव रत्नानि तस्मादादाय सद्गुरोः । भक्त्या कृतनमस्कारा ययुः सर्वे यथास्पदम् ॥६७२॥ उज्ज्वले सद्गुणे स्वच्छे पटे रङ्ग इव स्थिरः । निविष्टो मानसे धर्मो मरुभूतेगुरूदितः ॥६७३॥ प्रकृत्या लघुकर्माऽसौ विशेषेणोपदेशतः। विषयेभ्यो विरक्तात्मा धर्मकृत्यपरायणः ॥६७४॥ दाक्ष्य-दाक्षिण्य-सौजन्य-सत्य-शौच-दयादिभिः । कनिष्ठोऽपि गुणैर्येष्ठो मरुभूतिरभूत् तदा ॥६७५।। मिथ्यात्वकठिनत्वेन ज्येष्ठोऽपि कमठः पुनः । तथैवाऽभिन्नहृदयो मुद्गशैल इव स्थितः ॥६७६॥ वेधसा मलिनात्माऽसौ कषोपल इव ध्रुवम् । मरुभूतेगुणस्वर्णरेखोद्योताय निर्मितः ॥६७७॥ यथा केतकपत्राणामेकत्रोत्पन्नवासिनाम् । वर्णगन्धादिना भेदो महानित्थं नृणां गुणैः ॥६७८।। तथाप्रदीप-सर्षपौ श्लाघ्यो लघू अपि गुणोज्ज्वलौ । महान्तावपि न श्रेष्ठौ प्रदीपन-विभीतकौ ॥६७९।। वसुन्धरा पुनर्भावयतिना मरुभूतिना । १ विषविशेषः। Page #67 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। स्वमेऽप्यवीक्षिता बाढं जज्ञे मदनविह्वला ॥६८०॥ अथ दौरात्म्यदोषेण दुर्जेयत्वाद् मनोभुवः । कमठस्य भृशं तस्यां सविकारं मनोऽजनि ॥६८१॥ ततस्तेन कुलाचारविरुद्धवचनोक्तिभिः । अनिच्छन्ती बहिर्वृत्त्या मानसैक्याद् वशीकृता ॥ ६८२ ॥ निरङ्कुशतया लोकद्वयदोषाऽनपेक्षया । अनाचारपरौ जातौ कामान्धौ तौ रहोऽन्वहम् ॥ ६८३॥ तज्ज्ञात्वा वरुणा जातविततेारुणेक्षणा । गत्वा न्येवदयत् सर्व सहसा मरुभूतये ॥६८४॥ श्रुत्वा तत् तादृशं सोऽपि नामान्तरगमच्छलात् । आपृच्छय कमठं गत्वा कियभूमि न्यवर्तत ॥६८५॥ श्रान्तः कार्पटिकीभूयागत्यासौ कमठं मृदु । आश्रयं निशि वासाय ययाचे सोऽप्यचिन्तयत् ॥६८६॥ अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥६८७॥ किञ्चतृणानि भूमिरुदकं वाक् चतुथी च मूनृता । सतामेतानि गेहेषु नो छिद्यन्ते कदाचन ॥६८८ ॥ ध्यात्वेति कमठस्तस्य गृहकोणमदर्शयत् । व्याजनिद्रागतस्तत्र मरुभूतिरपि स्थितः ॥६८९॥ कुपितश्च भृशं दृष्ट्वा दुश्चरित्रं तयोरथ । जायापराभवो येन तिरश्चामपि दुस्सहः॥६९०॥ भवितव्यनियोगेन दीर्घदृश्वाऽपि दीर्घया । अनवेक्ष्याऽऽयतिं दृष्टया कथयामास भूभुजे ॥६९१॥ राज्ञः तत्कथनात् तेजोनिधेः प्रकुपितं मनः । पित्तं पित्तात्मनः सद्यस्तैलपकाऽशनादिव ॥ ६९२ ॥ स राजा धर्मिणां सोमो यमस्त्वन्यायवर्तिनाम् । Page #68 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेवरुणः करुणाधीनामर्थिनां धनदः सदा ।। ६९३ ॥ नृणामन्यायलेशोऽपि केशो नेत्र इवाऽमले । मार्गप्रकाशके तस्मिन् न रतिं कुरुते भृशम् ॥६९४॥ दण्डपाशिकमाकार्य कार्यमन्यदचिन्तयन् । आदिदेश विशामीशो द्रुतं कमठनिग्रहे ॥६९५॥ स तस्य भवने गत्वा यमदूत इव स्वयम् । रुद्धवा बढ़ा च कमठं हठादारोप्य रासभे ।। ६९६ ॥ शिखाभिः सप्तभिः श्वभ्रंवर्णिकाभिरिवान्वितम् । उपरिष्टाद् वृतस्थूलैकातपत्राभशूर्पकम् ॥६९७॥ मस्तके कलितं स्थूलबिल्वैः पापफलैरिव । शरावैः कण्ठविन्यस्तवरमालमिवापदा ॥६९८।। पुरतो वाद्यमानोचैर्डिण्डिमोड्डामरस्वरैः। आह्वयन्तमिवाशेषमीक्षकं बालकव्रजम् ॥ ६९९ ॥ भ्रमयित्वा पुरि मध्ये दर्शयित्वा विडम्बनाम् । अवध्यमिति जीवन्तं निष्काश्य मुमुचे बहिः ।। ७०० ॥ (पञ्चभिः कुलकम् ) पुरस्कृतोऽपि तत्रासीत् स पुरस्कारवर्जितः। सदैव कमठोऽप्येवमभूदकमठस्तथा ॥७०१॥ सर्वथा विपरीतात्मा संवृत्तः कर्मदोषतः । सत्यमात्माऽपि नाऽऽत्मीयः प्रतिकूले विधौ भवेत् ॥७०२॥ स्वस्वस्थानं गते राजपूरुषप्रमुख जने । मन्युभारभरेणेव नीचैःकृतशिरोऽधरः ॥ ७०३॥ दुःखातिपातजाताऽश्रुपूर्णाक्षियुगलच्छलात् । खजनस्नेहसौख्यानां यच्छन्निव जलाञ्जलिम् ॥ ७०४॥ भाग्यसूर्यास्तविस्तीर्णतमःश्यामीकृताननः । १ नरेश्वरः । २ श्वभ्रं नरकम् । ३ अकं दुःखम् , तस्य मठः स्थानम् , अकमठः। Page #69 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । भवान्तरमिवायातं धनस्वजनवर्जितम् ॥७०५॥ पश्यन्नात्मानमेकाकी कमठस्तत्र कानने । शरण्यरहितो दीनो मनस्येवमचिन्तयत् ॥७०६॥ (कलापकम् ) अहो ! सहोदरादेवं शतसंख्येषु बन्धुषु । दानाद्यावर्जिताऽभीष्टसहायेषु सहस्रशः ॥७०७॥ संचितेषु चिरं भूरिवित्तलक्षेषु सत्स्वपि । वैरिणामपि दुर्दर्शा दशा मेऽजनि कीदृशी ॥७०८॥ . अथवा मन्दभाग्यस्य स्तोकमात्रमिदं मम । भवतु प्राप्तकालीनं कुर्वे तावदिहाऽधुना ॥७०९॥ . (विशेषकम् ) भृशं रोषेण पूर्णोऽपि प्रतिकर्तुमपारयन् । भ्रमन्नितस्ततस्तत्र स ययौ तापसाश्रमम् ॥७१०।। निवेद्य दुःखमात्मीयं शिवतापससंनिधौ । गृहीत्वा तापसी दीक्षां तप्यते स्म गिरौ तपः ॥७११॥ इतश्च मरुभूतिस्तं कमठस्यातिदारुणम् । वृत्तान्तं वीक्ष्य कुत्रापि रतिं न लभतेतराम् ॥७१२।। कोटरान्तःप्रविष्टेन पावकेनेव पादपः । दह्यमानोऽनिशं पश्चात्तापेन मनसोऽन्तरे ॥७१३।। निन्दत्यात्मानमेवं च धिगिदं यन्मयेदृशम् । ज्येष्ठेऽपि बान्धवेऽनिष्टमसमीक्ष्य कृताकृतम् ॥७१४॥ . (युग्मम् ) यथा स्वच्छतया वस्तु दर्पणे प्रतिबिम्ब्यते । शुद्धवृत्ते तथाचित्ते परदुःखं महात्मनः ॥७१५॥ महात्मा परपीडां चेद् दैवतः कुरुते तदा । प्रायश्चित्तसमेन स्वं पश्चात्तापेन शोधयेत् ॥७१६॥ ततः पृष्ट्वा महीनाथं वार्यमाणोऽपि तेन सः । Page #70 -------------------------------------------------------------------------- ________________ ५८ श्री पार्श्वनाथचरिते मरुभूतिः क्षमयितुं जगाम कमठं वने ।। ७१७ ॥ पतित्वा पादयोस्तस्य नीचैः स गद्गदखरम् | क्षन्तव्यं दुष्कृतं भ्रातर्ममाज्ञस्येत्यभाषत ।। ७१८ ॥ प्रणामाऽनुनयात् तस्य कमठस्तीत्रमत्सरः । तप्ततैलं जलक्षेपादिवान्तर्ज्वलितो भृशम् ।। ७१९ ॥ समुत्पाट्य शिलामेकां नमतस्तस्य मस्तके | मुमुचे सहसा कोपाद्दष्टोष्ठः पाटलेक्षणः ।। ७२० ॥ पुनरादाय देहस्योपरि क्षिप्त्वा च तां शिलाम् । निजेन तपसा सार्द्धं कमठस्तमचूर्णयत् ।। ७२१ ॥ तत्महारार्तजातार्तध्यानो मृत्वाऽभवत् करी । स विन्ध्यपर्वते भद्रजातिजो यूथनायकः ।। ७२२ ॥ स्थूलोपलसदृक्कुम्भो गम्भीर मुखकन्दरः । युक्तो जनोर्ध्व संचारदण्डकाकारशुण्डया || ७२३ ॥ पङ्किलीकृत भूभागः प्रोद्दाममदनिर्झरैः । तद्गन्धलुब्धभृङ्गालीकीचकध्वनिबन्धुरः ।। ७२४ ॥ गण्डशैलसमैर्विष्वक् कलभैः परिवेष्टितः । गुरुपादाऽन्वितोऽत्युच्चैर्विन्ध्याद्रिरिव जङ्गमः ।। ७२५ ॥ ( कलापकम् ) कोपान्धा वरुणा साsपि कालधर्ममुपेयुषी । तस्यैव यूथनाथस्य वल्लभाऽभूत् करेणुका ॥ ७२६ || गिरिनद्यादिषु खैरं तया सह विशेषतः । अखण्डसुखसम्भोगश्चिक्रीड स गजाग्रणीः ।। ७२७ ॥ इतश्च पोतनपतेररविन्दमहीभुजः । भुञ्जतोऽनुपमं सौख्यं शरत्कालः प्रवृत्तवान् ॥ ७२८ ॥ उपरिस्थरविव्याजसुवर्णकलशान्वितम् । सिताभ्रपटलं छत्रायते यत्र नभोङ्गणे ।। ७२९ ॥ सरोगृहेषु स्फटिकोत्तानपट्टाऽमलप्रभे । Page #71 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । ५९ सलिले पद्मिनीखण्डं धत्ते सिंहासनश्रियम् ॥ ७३० ॥ विकासकाशपुष्पाणि दधन्ते चामरोपमाम् । ढक्कानिनादसंवादि मत्तगोपनर्द्दितम् ।। ७३१ ॥ इत्येवं राज्यचिह्नेर्यो गोपस्त्रीगीतमङ्गलः । शस्यसम्पादनाल्लोके राजेवर्तुषु राजते || ७३२ ॥ तत्रान्येद्युररविन्दनृपः सौधोपरिस्थितः । रममाणः परस्त्रीभिः सहातिरसनिर्भरम् || ७३३ ॥ अपश्यत् सहसा व्योमव्यापिनं गर्जितोर्जितम् । नवोदयं वारिधरं शक्रचापतडिद्वरम् || ७३४ ॥ क्वचित् कज्जलरोलम्बतमालदलपेशलम् । क्वापि स्फटिकशङ्खेन्दुहिमानीपिण्डपाण्डुरम् || ७३५ ।। कापि हिङ्गुलगुञ्जार्द्धजपाविद्रुमपाटलम् । हरिद्राभङ्गनारङ्गहरितालच्छवि कचित् ।। ७३६ ॥ कचिच्च शुकपिच्छेन्द्रनीलका चसमप्रभम् । नयनाक्षेपकं पञ्चवर्ण निर्वर्ण्यमुन्मुखैः ॥ ७३७ ॥ ( कुलकम् ) अहो ! रम्यत्वमस्येति पार्थिवे वदति क्षणात् । अभाग्याद् धनवन्मेघः स वाताद् विलयं गतः ॥ ७३८ ।। तं दृष्ट्ा निजदेहादावपि तेन सदृक्षताम् । विभाव्य हृदि सञ्जातवैराग्यादित्युवाच सः ॥ ७३९ ॥ अहो ! चित्रमहो ! चित्रं यत् तादृशमपि क्षणात् । घनवृन्दं विदद्रे तद् वातक्षिप्तार्कतूलवत् ॥ ७४० ॥ मन्ये यथाभ्रपटलमिदमग्रे व्यशीर्यत । तथाऽन्यदपि संसारे सर्वे क्षणविनश्वरम् ॥ ७४१ ॥ यतः - विद्युदुद्योतवद् लक्ष्मीरिष्टानां सङ्गमाः पुनः । मार्गस्थतरुविश्रान्तसार्थसंयोगसन्निभाः ॥ ७४२ ॥ Page #72 -------------------------------------------------------------------------- ________________ န် श्रीपार्श्वनाथचरिते रमणीयं कियत्कालं तारुण्यं शक्रचापवत् । प्रियाणामपि निर्वाहे स्नेहरङ्गः पतङ्गवत् ।। ७४३ ॥ प्रचलज्जलसंक्रान्तचन्द्रविम्बवदग्रहे । नारी मनसेि कश्चेतःप्रतिबन्धः सतां भवेत ? ॥ ७४४ ॥ आपातमधुराः सर्वे विषयाः प्रान्तदारुणाः । भवे किञ्चिद् न पश्यामि सारं रम्भान्तरे इव ॥ ७४५ ॥ क्षणदृष्टविनष्टत्वात् स्वप्नः सर्वमिदं भुवि । एको भवति सुतानां द्वितीयो जाग्रतां पुनः ॥ ७४६ ॥ तथा चोक्तम् प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः स विभाव्यते ॥ ७४७ ॥ आसन्नतरतामेति मृत्युर्जन्तोदिने दिने । आघातनीयमानस्य वध्यस्येव पदे पदे ।। ७४८ ॥ आयुर्नासाग्रसञ्चारिनिःश्वासोच्छ्वासकैतवात् । अत्यन्तगमनायेव सदाऽभ्यासे कृतोद्यमम् ।। ७४९ ॥ दूरेऽस्तु लोपवत् सर्वापहारी मृत्युरङ्गिनाम् । जरैवादेशवद् रूपं हत्वाऽऽद्यं कुरुतेऽन्यथा ।। ७५० ।। विधत्ते वार्द्धकं मृत्योरग्रसैन्यमिवोत्कटम् । विडम्ब्य विविधं जन्तून् जीवतोऽपि मृतानिव ॥ ७५१ ॥ सञ्जातदन्तपातत्वादिव तेजश्च्युतं वपुः । दृष्टिकर्णवध्वंसादिव शून्यं मनोऽभवत् ॥ ७५२ ॥ स्वरक्षतिर्गतेर्भङ्गः सङ्कोचः पाणिपादयोः । कम्पश्चासन्नकीनाशकारणोत्यभयादिव ।। ७५३ ॥ वार्द्धकाऽनलदग्धस्य सारयौवनवस्तुनः । दृश्यते देहगेहेषु भमेव पलितच्छलात् ॥ ७५४ ॥ अशौचेsपि चेद् देहे मलिनस्यात्मनो रतिः । मातङ्गस्येव मातङ्गसङ्गतिः किं न तुष्टये ? ।। ७५५ ।। Page #73 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । एभ्यो जातश्चिरात् तावत् ते गताः स्वसमानऽपि । पश्यन् मृत्युहतानेष चित्रं जन्तुरनाकुल: ।। ७५६ ॥ स्थित्वापि सुचिरं भोगा गमिष्यन्ति न संशयः । तस्मादेते स्वयं त्यक्ताः कुर्युः शमसुखं महत् ।। ७५७ ।। मह प्राप्य सदेहं पण्यगेहं नरोऽत्र यः । तल्लालनपरः स्वार्थ नार्जयेत् तस्य का गतिः ? ।। ७५८ ।। इति राजा विवेकख्यमन्त्रनीरेण मोहजे । अन्तरङ्गदृशोर्बन्धे ध्वस्तेऽपश्यद् यथास्थितम् ।। ७५९ ।। इत्थं तं विरक्तात्मानं नृपं ज्ञात्वा व्रतोन्मुखम् | सदुःखमित्यभाषिष्ट रुदन्नन्तः पुरीजनः || ७६० ॥ तत्र राज्यपरित्यागवार्त्तयाऽशनितुल्यया । हृदयं यावदस्माकं शतखण्डं न भिद्यते ॥ ७६१ ॥ तावत्प्रसीद मुञ्चेममाग्रहं जीवितेश्वर ! | क तपः कर्कशं केदं सुकुमारं वपुस्तव ? || ७६२ ।। ( युग्मम् ) ६१ किं जातिकुसुमे वह्निः क्षिप्यते किं महाकरी | मृणाले बध्यते किंवा रम्भा क्रकचमर्हति ? || ७६३ ।। त्यागः शौर्यमुभावेतावनन्यसदृशौ गुणौ । त्वयि मत्रजिते नाथ ! पदं कुत्र करिष्यतः । ७६४ ।। विजयश्रीवर स्वामिंस्त्वया पालितपोषिताः । लप्स्यन्तेऽमूः कुतोऽन्यस्मात् पितृमातृसुखं प्रजाः || ७६५॥ तद्देव ! सर्वथाऽप्यऽस्माद् रक्ष रक्ष भयङ्करात् । अकाले कालग्रसनात् कुरु राज्यं चिरं प्रिय ! || ७६६॥ इत्येवं प्रबलस्नेहनिर्भरा निजवल्लभाः । संबोधयितुमारब्धो दक्षः सप्रणयं नृपः ॥ ७६७ ॥ हे ! प्रियाः ! कस्य नाभीष्टः प्रिययोगो न कः श्रियम् ? । ईहते किंतु मत्तेभकर्णलोलं हि जीवितम् ॥ ७६८ ।। 1 Page #74 -------------------------------------------------------------------------- ________________ ६२ श्रीपार्श्वनाथचरितेपीडयेद् न जरा यावद् व्याधिर्यावद् न बाधते । । मृत्युर्धावति नो यावद् तावत् धर्मो विधीयते ॥ ७६९ ॥ अनलज्वलदावाससंकाशभववासतः । निःसरन्तं निजं कान्तं कथं रक्षत वल्लभाः ! ॥ ७७० ॥ इति संबोधनीरेण तासां मानसकोद्रवान् । उत्तार्य मदनं शुद्धीचकार नरपुङ्गवः ।। ७७१ ॥ निष्कषायात्मनः शुद्धपटस्येव महात्मनः । तस्य रक्तिरभूद् रागकारणैर्न घनैरपि ।। ७७२ ॥ किं चोच्यतेद्वाविमौ बन्धमोक्षार्थौ ममेति न ममेति च । ममेति मूलं दुःखस्य न ममेति च निस्तेः ।। ७७३ ॥ मार्जारभक्षिते दुःखं यादृशं गृहकुर्कुटे । न तादृग् ममतात्यक्ते कलविङ्के' च मूषिके ।। ७७४ ।। चिन्तयन्ते बुधाः पूर्व मध्यमा दोषदर्शनात् । विकारदर्शनेनाऽपि येनैवं ते नराधमाः ॥ ७७५ ॥ पलाशं पादपस्यापि विरागं जायते क्रमात् । सचेतनोऽपि यो नैवं स काष्ठादपि बालिशः ॥ ७७६ ।। संवेगरगतस्तस्य क्षयोपशममीयतुः। ज्ञानावरण-चारित्रमोहनीये महीभुजः ॥ ७७७ ॥ सद्यो जातावधेय॑स्य महेन्द्रं स्वपदे सुतम् । समन्तभद्राचार्यस्य पार्थे जग्राह स व्रतम् ।। ७७८ ॥ गुरोरनुज्ञयैकाकिविहारप्रतिमाधरः। विजहाराऽरविन्दर्षिर्गन्तुं मुक्तिपुरीमिव ।। ७७९ ।। निर्ममो निरहङ्कारः शान्तात्मा त्यक्तगौरवः । समः सर्वेषु भूतेषु तुल्यधीः काञ्चनाश्मनोः ॥ ७८० ॥ उद्वैसे वसतौ ग्रामे पुरे चापि न कुत्रचित् । १ चटके । २ गिर्जने । Page #75 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । अभूद् विहरतस्तस्य प्रतिबन्धो महात्मनः ॥ ७८१ ।। तनुमूषांगतं चित्तशुल्वं शमरसेन सः । कल्याणीय क्षमौषध्या तपस्तापादमेलयत् ॥ ७८२ ॥ विविधाभिग्रही नित्यमचालीदथ सोऽन्यदा । सागरदत्तसार्थेशसार्थेनाष्टापदं प्रति ।। ७८३ ॥ मुनि सागरदत्तस्तं पप्रच्छ क नु यास्यथ ? । स ऊचे वन्दितुं देवान् यास्यामोऽष्टापदाऽचले ॥ ७८४ ॥ सार्थेशः पुनरमाक्षीत्के देवास्तत्र पर्वते ? । कारिताः केन कति ते फलं तद्वन्दने च किम् ? ॥७८५।। आसन्नभव्यं तं ज्ञात्वाऽरविन्दमुनिराख्यत । अर्हन्तो भद्र ! सत्याख्या देवा देवगुणान्विताः ॥७८६'! केऽर्हन्तस्ते वीतरागाः सर्वज्ञाः शक्रपूजिताः ? । धर्मदेशनया विश्वविश्वस्योत्तारकाश्च ये ।। ७८७ ॥ ऋषभस्त्वादिमस्त्वेषामिक्ष्वाकुकुलसम्भवः । आसीत् तीर्थकरस्तस्य सुतो भरतचक्रभृत् ॥ ७८८ ॥ आदिनाथस्य निर्वाणं गतस्याऽष्टापदाचले । चक्री च दिव्यमुत्तुङ्गं तत्र चैत्यमकारयत् ॥ ७८९ ॥ तस्मिंश्च वृषभादीनां चतुर्विंशतिमहताम् । प्रतिमाः स्वस्खमानेनास्थापयद् रत्ननिर्मिताः ॥ ७९० ॥ तद्वन्दनाफलं मुख्यं मोक्षोऽन्यच्चाऽऽनुषङ्गिकम् । नरेन्द्र स्वर्गसाम्राज्यपदलाभादिकं पुनः ॥ ७९१ ॥ पूजयन्ति च तान् भूरिभाग्या एव नरा भुवि । यतस्तत्पूजनाद् न स्युराधिदुर्गतिदुर्धियः ॥ ७९२ ॥ जिनानां बिम्बमप्यर्कप्रतिबिम्बमिव ध्रुवम् । चित्तादर्श स्थितं स्वच्छे हरत्यन्तस्तमो नृणाम् ॥ ७९३ ॥ .या- अनित्ये क्लेशदे नास्था महतां बाह्यभूषणे । १ सुवर्णावर्तनी पात्री मूषा । २ ताम्रम् । ३ सुवर्णायाऽपि।। Page #76 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसंग्राह्यं विदुषा सारनेपथ्यमिदमान्तरम् ॥ ७९४ ॥ जिनाज्ञाभूषणं मूनों ललाटस्याऽञ्जलिगुरोः । सच्छ्रतं कर्णयोः सत्यं जिह्वायाः स्वच्छता हृदः ॥ ७९५॥ पादयुग्मस्य सत्तीर्थ प्रति चङ्क्रमणक्रमः । जिनेन्द्रपूजनं दानं निर्विकल्पं करस्य च ।। ७९६ ॥ विकल्पेन पुनर्देवार्चनं दानं करोति यः। स खं हारयते पुण्यमत्रोदाहरणे शृणु !। ७९७ ।। तथाहि- वणि नौ कापि पुरेऽमण्डयतामुभौ । नन्दको भद्रकाख्यश्च नैकव्येनाऽऽपणद्वयम् ॥ ७९८ ॥ भद्रकः प्रातरुत्थाय नित्यं याति निजाऽऽपणे । नन्दको देवपूजार्थ पुनर्याति जिनालये ॥ ७१९ ॥ भद्रकश्चिन्तयत्येवमहो ! धन्योऽत्र नन्दकः । त्यक्ताऽन्यकृत्यो यः प्रातर्जिनेन्द्र नित्यमर्चति ॥ ८०० ॥ अहं तु निर्धनः पापी धनोपार्जनलालसः। अत्राऽऽगत्य मुखं प्रेक्षे पामराणां दिनोदये ॥ ८०१ ॥ धिर धिम् मे जीवितं गोत्रमिति ध्यानजलेन सः। मलं क्षालयति स्वीयं पुण्यबीजं च सिञ्चति ॥ ८०२ ॥ चिन्तयन् नन्दकस्त्वेवं मम देवार्चनक्षणे । भद्रको निस्सपनोऽयं धनं बहर्जयिष्यति ।। ८०३ ॥ अभिग्रहगृहीतोऽहं किं करोम्यधुना पुनः । देवार्चायाः फलं दूरे सद्यो हानिर्धनस्य तु ॥ ८०४ ॥ कुविकल्पैरिमैरेष कृतं हारितवान् निजम् । एकतानमनोभिस्तत् कार्य देवार्चनं बुधैः ।। ८०५ ॥ तथैकत्र पुरे धन्यो वणिपुत्रो निजापणे । उपविष्टो मुनि भिक्षामटन्तं वीक्ष्य हृष्टवान् ।। ८०६ ॥ आकार्य च घृतं दातुमुद्यतस्तस्य भाजने । - अखण्डधारया यच्छन्नुच्चैर्गतिमुपार्जयत् ॥ ८०७ ॥ Page #77 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। प्रवर्धमानतत्पुण्यविघाताशङ्कया मुनिः । यावद् न विरतस्तावद् दातुरेवं मनस्यभूत् ॥ ८०८ ॥ अहो ! किमियतैकाकी घृतेनैष करिष्यति । यन्नाद्यापि विरमतीत्यपतत् परिणामतः ॥ ८०९ ॥ ततो येन क्रमेणैष देवलोकानुपाऽर्जयत् । तेनैव निपतस्तेन ज्ञानिना मुनिनोदितः ॥ ८१० ॥ इयदूर्ध्वमहो ! गत्वा मा पत मुग्ध ! मा पत । स ऊचे नन्विहास्म्येष किमसंबद्धमुच्यते ? ॥ ८११ ॥ अथर्षिः कथयामास श्रद्धादानस्य सत्फलम् । . महाद्भुतकरं सद्यो विकल्पस्य च दृषणम् ॥ ८१२ ॥ निर्विकल्पमतो दानं देयं साविकमुत्तमैः । लोकेऽपि शकुनः स्वमो विकल्पादुच्यतेऽफलः ॥ ८१३ ॥ अनेन भूषणेनात्मा सुभगंभावुको भवन् । स्पृहणीयतमः सिद्धिवध्वा अपि भवेद् ध्रुवम् ॥८१४॥ इत्यादिविविधां धर्मशिक्षां शृण्वन् निरन्तरम् अरविन्दस्य राजर्षेवेदनात् सार्थनायकः ॥ ८१५॥ मन्वानो गुरुसंयोगं कल्पद्रुप्राप्तिसंनिभम् । मिथ्यात्वं सर्वथा त्यक्त्वा श्रावकत्वं प्रपन्नवान् ॥ ८१६ ॥ नित्यं सागरदत्तोऽथ गच्छन् मार्गे क्रमेण ताम् । अटवीं प्राप यत्रास्ते मरुभूतिः करीश्वरः ॥ ८१७ ॥ कदलीगर्भसंकाशमृदुकल्लोलबाहुभिः। सुप्रसन्नतया गन्तूनालिङ्गितुमिवोधतम् ॥ ८१८ ॥ वातनदैर्धेमभृङ्गाऽऽरावहृयाम्बुजाननैः। आकारयदिवानम्य पान्थानातिथ्यहेतवे ।। ८१९ ॥ हंस-सारस-हारीत-चक्र-कादम्बकादिभिः । शब्दायमानै नेव गीयमानगुणोत्करम् ॥ ८२० ॥ १ पान्थान् । Page #78 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेअतिस्निग्धतया निर्यत्तुषारकणिकामिषात् । अर्थितापहृतिप्रीत्या मुक्तहर्षा(कैरिव ।। ८२१ ॥ मिलितोन्नतविस्तीर्णैः पुष्पपत्रफलान्वितैः । विचित्रवृक्षैः परितः परीतं स्वजनैरिव ॥ ८२२ ॥ परागैरिव कापूरैर्मुक्तानामिव चूर्णिभिः। द्रव्यैरिव हिमानीनां सुधांशोरिव रश्मिभिः ॥ ८२३ ॥ मुनीनामिव चेतोभिर्निर्मितं मन्यते जनैः । यदत्यच्छत्नशैत्येन तत्रास्त्येकं महासरः ॥ ८२४ ॥ (सप्तभिः कुलकम् ) तस्यान्ते सुजनस्येव विश्वस्तः सार्थ आवसत् । जनः प्रवकृते नीरेन्धनानपचनादिषु ॥ ८२५ ॥ तदा च मरुभूतीभः करिणीभिः समावृतः। एत्य तत्र सरस्यम्भः पपी मेघ इवाऽर्णवे ।। ८२६ ।। पयःपूर्णकरोत्क्षेपं करिणीभिः समं चिरम् । तत्र रत्वा स निर्यातः पालिमध्यारुरोह च ।। ८२७ ॥ दिशोऽवलोकयंस्तत्रापश्यत् तं सार्थमोषितम् । कृतान्त इव चाधावत् कोपात् ताम्रमुखेक्षणः ॥ ८२८॥ कुण्डलीकृतशुण्डाको निष्कम्पश्रवणद्वयः । पूरिताशः स गर्जाभिर्नाशयामास सार्थिकान् ॥ ८२९ ॥ नरनार्यो वाहनानि करभादीनि चाऽभितः । पलायांचक्रिरे जीवग्राहं सर्वो जिजीविषुः ॥ ८३० ॥ पर्यस्यच्छकटं त्रुट्यत्पटगेहं रटजनम् । आरटत्करभं तत्र तदासीदतिभीषणम् ।। ८३१ ॥ ज्ञात्वाऽवधेर्बोधिकालं करिणः तस्य संमुखम् । भगवानरविन्दोऽपि कायोत्सर्ग ददौ स्थिरः ॥ ८३२ ॥ दूरतो धावितः क्रोधादिभः पार्श्वगतोऽस्य तु । १ युक्तम् । २ महतो हिमानाम् । ३ ओषितं स्थितम् । Page #79 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः प्रशान्तमत्सरो जज्ञे तत्तपःश्रीप्रभावतः ॥ ८३३ ॥ सद्यश्च जातसंवेगाऽनुकम्पः स्थिरदेहभृत् । तस्थौ मुनेः पुरस्तस्य स शैक्ष इव नूतनः ॥ ८३४ ॥ मुनिस्तस्योपकाराय कायोत्सर्गमपारयत् । शान्तगम्भीरया वाचा तं बोधयितुमब्रवीत् ।। ८३५ ।। भो भोः ! स्मरासि किं न त्वं मरुभूतिभवं निजम् । किं न प्रत्यभिजानासि मामरविन्दभूपतिम् ॥ ८३६ ॥ तद्भवे प्रतिपन्नं किं व्यस्मार्षीर्धर्ममार्हतम् ? । स्मर सर्व विमुञ्चमं मोहं श्वापदजातिजम् ।। ८३७ ॥ गिरं पीयूषदेशीयां मुनेस्तस्य मतङ्गजः । पपौ निश्चलविस्तारिकर्णपर्णपुटेन सः ॥ ८३८ ॥ अथोहापोहतो जातिस्मरणं प्राप्य तत्क्षणात् । अत्यन्तोल्लासिहर्षाश्रुसलिलप्लुतलोचनः ॥ ८३९ ॥ भूत्वाऽवनतकायाग्रः करेण चरणौ स्पृशन् । शिरसा तं नमश्चक्रे संविनात्मा मुनिं गजः ॥ ८४० ॥ भूयोऽपि तं मुनिः स्माह भवेऽस्मिन्नाटकोपमे । प्राणी नट इवाप्नोति रूपान्यत्वं क्षणे क्षणे ।। ८४१ ।। तथाहि क तदा धीमांस्तत्त्वज्ञः श्रावको द्विजः । जातिस्वभावमूढात्मा केदानीं त्वमसि द्विपः ? ।। ८४२ ॥ किंवाऽथ बहुनोक्तेन कार्यसारो भव द्रुतम् । कषायविषयासङ्गं विमुच्य करिपुंगवः ॥ ८४३ ॥ नासि सर्वविरत्यहस्तद् द्वादशव्रतात्मकः । भूयः श्रावकधर्मोऽस्तु प्रारजन्माङ्गीकृतस्तव ॥ ८४४ ॥ इत्यादि गदितं धर्मरहस्यं मुनिनाखिलम् । श्रद्धानसहितः सोऽनुमेने हस्ताग्रसंज्ञया ॥ ८४५ ॥ वरुणा करिणीभूता सापि तत्रैव तस्थुषी । १. खेदेनेत्यपि । Page #80 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेतदैव जातिस्मरणमुपलेभे गजेन्द्रवत् ।। ८४६ ॥ भूयोऽप्याख्यजिनधर्म तस्यर्षिः स्थैर्य हेतवे । ययौ च श्रावकीभूय मुनि नत्वा स कुञ्जरः ॥ ८४७ ॥ मिलितः सर्वलोकोऽपि पुनस्तद्बोधविस्मितः । कोऽपि दीक्षामुपादत्ते कोऽप्यभुत् श्रावकस्ततः ॥८४८॥ तदा सागरदत्तोऽपि जिनधर्मे दृढाशयः । विशिष्टश्रावको जज्ञे सुरैरप्यविकम्पितः ॥ ८४९ ॥ अष्टापदाद्रौ गत्वा च सोऽरविन्दमहामुनिः । अवन्दतार्हतः सर्वान् विहरंश्वान्यतो ययौ ॥ ८५० ॥ कुञ्जरश्रावकः सोऽपि भूत्वा भावयतिः स्वयम् । ईर्यादिनिरतोऽचारीत् कुर्वन षष्ठादिकं तपः ।। ८५१ ।। सूर्यतप्ताम्भसः पाता शुष्कपत्रादिपारणः । स करी करिणीकेलिविमुखोऽस्थाद् विरक्तधीः ॥ ८५२ ॥ इति दध्यौ च धन्यास्ते मर्त्यत्वे प्रव्रजन्ति ये । पात्रदानमिवाऽर्थस्य मर्त्यत्वस्य फलं व्रतम् ॥ ८५३ ॥ द्रविणं तद्धनेने मर्त्यत्वं धिग् मया तदा । अहार्यनात्तदीक्षेण किं करोम्यधुना पशुः ? ॥ ८५४ ॥ तिर्यक्त्वेऽपि शरीरस्य गुरुत्वेनास्य पापिना । अभवं बहुजीवानां क्षयकारी भयङ्करः ॥ ८५५ ॥ येन तेन वनाहारेणैष कुक्षिः प्रपूर्यते । तज्जीव ! ममतां देहे त्यक्त्वा धर्मपरो भव ॥ ८५६ ॥ भावयन् भावनामेवं गुर्वाज्ञास्थिरमानसः । स कालं गमयन्नस्थात् सुस्थितः सुख-दुःखयोः ॥ ८५७॥ इतश्च कमठो शान्तो मरुभूतिवधादपि । अभाष्यमाणो गुरुणा गर्यमाणोऽन्यतापसैः ।। ८५८॥ विशेषेणार्तध्यानस्थो मृत्वाऽभूत् कुर्कुटोरगः । १ कृपणेनेव । Page #81 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ६९ अटव्यां दर्शनेनाऽपि सर्वसत्त्वभयंकरः ॥ ८५९ ॥ दंष्ट्रया पक्षविक्षेपैनखैश्चञ्चुपुटेन च । जातपक्षो यम इव संहरन् प्राणिनोऽखिलान् ॥ ८६० ॥ सरस्युष्णांशुसंतप्तं स पिबन् प्रासुकं पयः । ददृशे मरुभूतीभस्तेन बम्भ्रमताऽन्यदा ॥ ८६१ ॥ पङ्के मग्नस्तदा दैवात् तपःक्षामतनुत्वतः। निर्गन्तुमक्षमः कुम्भे स दष्टः कुर्कुटाहिना ॥ ८६२ ॥ तद्विषप्रसरैत्विाऽवसानं स मतङ्गजः। चक्रे चतुर्विधाहारप्रत्याख्यानं समाहितः ॥ ८६३ ॥ तत्क्षणोल्लासिवीर्यश्च विमृश्यन् मुनिभाषितम् । सस्मारैकमनाः पञ्चपरमेष्ठिनमस्कृतिम् ॥ ८६४ ॥ व्यभावयच्च रे ! जीव ! मरणे ध्रुवभाविनि । धर्मध्यानक्षणः सोऽयं महाभाग्येन लभ्यते ॥ ८६५ ॥ परो निमित्तमात्रं स्यात् स्वकर्मैवाऽपराध्यति । प्रद्वेषं मा स्म तत् कार्षीरस्मिन् कुर्कुटपन्नगे ॥ ८६६ ॥ इत्थं शमसुधातृप्तो धर्मध्यानी विपद्य सः । सहस्रारे सप्तदशसागरायुः सुरोऽभवत् ॥ ८६७ ॥ विमानेऽन्तर्मुहूर्तेनोत्थाय दृष्ययुगान्तरात् । आसीनं तरुणनराकारं सर्वाङ्गभूषितम् ।। ८६८ ॥ रत्नकुण्डलकोटीरतारहारादिभूषणाः । सहसा सुरसुन्दर्यः सहर्षमिदमूचिरे ।। ८६९॥ : (युग्मम्) जय,नन्द, चिरं भद्र ! प्रीणय स्वशाऽनुगान् । अद्यास्माकमनाथानां नाथत्वं यत् त्वमासदः ॥ ८७० ॥ अद्य पुण्याहमद्यैव मङ्गलं प्रीतिरद्य च । अद्यैव वसतिवर्गो नाथ ! यत् त्वमिहागमः ॥ ८७१ ॥ . देवादेशय यत् कृत्यं किंकरा वयमास्महे । Page #82 -------------------------------------------------------------------------- ________________ ७० श्रीपवनाथचरितेइयं च श्रीस्त वायत्ता यद्विभाति कुरुष्व तत् ॥ ८७२ ॥ ततः स विहितस्नानः कल्पपुस्तकवाचनः । सिद्धालयस्थप्रतिमाः स्तुत्वाऽऽस्थानीमशिश्रियत् ॥८७३॥ देवदेवीगणैरेवं विहिते मङ्गलक्रमे । संगीताऽमृतमनात्मा दिव्यभोगानभुक्त सः ॥ ८७४ ॥ वरुणा करिणी सापि तपस्तेपे सुदुस्तपम् । तथा यथा विपद्याभूद् देवी कल्पे द्वितीयके ॥ ८७५ ॥ स कोऽपि देवो नैवाभूदीशाने यन्मनस्तया । न ह्यहारि मनोहारिरूपलावण्यसंपदा ॥ ८७६ ॥ देवे कापि मनश्चक्रे न मनागपि सा पुनः । गजेन्द्रजीवदेवस्य संगमध्यानतत्परा ॥ ८७७ ॥ गजेन्द्रजीवदेवोऽपि यस्यामत्यनुरागवान् । रक्तां तां चावात्वा सहस्रारमुपानयत् ।। ८७८ ॥ चक्रे स देवो देवी तामन्तःपुरशिरोमणिम् । पूर्वजन्माभिसंवद्धः स्नेहो हि बलवत्तरः ॥ ८७९ ॥ नन्दीश्वरे शाश्वताहत्पतिमानां महार्चनैः । संगीतेन पुरस्तासां मुनीनां पर्युपासनैः ॥ ८८० ॥ कदाचिन्नन्दनोद्यानदीर्घिकाजलकेलिभिः। कदाचिद् गीतवादित्रनित्योत्सवमहारसैः।। ८८१ ॥ खच्छन्दक्रीडया तत्र सुखं वैषयिकं परम् । भुञ्जानोऽगमयत्कालं स गजेन्द्रसुरो दिवि ॥ ८८२ ॥ कालेन कियता सोऽपि कुर्कुटाहिर्विपन्नवान् । नारकोऽभूत् सप्तदशार्णवायुः पश्चमावनौ ।। ८८३ ॥ पश्चमावनियोग्याश्च वेदना विविधाः सदा । सोऽन्वभूत् कमठजीवो विश्रान्ति नाप जातुचित् ॥८८४॥ दानादिपान् निखिलजन्तुगुरुः प्रधान१ दानादयः पादा यस्य सः । Page #83 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ७१ ध्यानद्वयीदशनवानुरुकीर्तिशुण्डः । पार्थः करी शमवनैकविहारभावो गीर्दानतः शमयताजगतीरजांसि ॥ ८८५ ॥ इति श्रीकालिकाचार्यसंतानीयश्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरित्रे महाकाव्येऽष्टसर्गे भावाके श्रीपार्श्वनाथप्रथम द्वितीय तृतीयभववर्णनो नाम प्रथमः सर्गः । अर्हम् अथ द्वितीयः सर्गः। अथ पूर्व विदेहेषु सुकच्छे विजये गिरौ । वैताढ्येऽस्ति धनैराढ्या तिलका नामतः पुरी ॥१॥ उत्तुङ्गचङ्गधवलप्रासादच्छद्मनाऽनिशम् । पुरीप्रभुतया यस्या यशोराशिरिवोच्छ्रितः ॥ २॥ सर्वदाऽनेकविद्याभिर्यत्र विद्याधरा नराः। आश्लिष्टा अपि मुच्यन्ते नैव क्षणमपि श्रिया ॥ ३ ॥ मुखैश्चन्द्रमसं, नेत्रैः कमलं, कोकिलं स्वरैः । गमनै राजहंसं च जिग्युर्यत्राऽबला अपि ॥ ४ ॥ तत्र विद्युद्गति म राजा विद्याधरेश्वरः। बभूव स्वयशोदुग्धक्षालिताशेषदिग्मुखः ॥ ५॥ नम्रखेचरकोटीरमाणिक्यमकरी सदा । यस्य पादनखश्रेणिप्रभाजालजलेऽवसत् ॥ ६॥ निजाचारेण लोकानां मानसानि हरनपि । न्यायनिष्ठ इति ख्यातिमवाप खेचरेषु यः ॥ ७ ॥ रूपलावण्यसौभाग्यैः तिलकत्वेन योषिताम् । Page #84 -------------------------------------------------------------------------- ________________ ७२. श्रीपार्श्वनाथचरितेअभूत् सार्थाऽभिधा तस्य दयिता तिलकावली ।। ८ ॥ भुञ्जानस्य तया साधं तस्य वैषयिकं सुखम् । कियानपि ययौ कालो विद्युद्गतिमहीपतेः ॥९॥ इतश्च सोऽष्टमात् कल्पाद् गजजीवः परिच्युतः । देव्याः श्रीतिलकावल्या उदरे समवातरत् ।। १० ॥ सा काले सुषुवे सूनुमनूननरलक्षणम् । पित्रा च किरणवेग इति नामाऽस्य निर्ममे ॥ ११ ॥ स्त्रीभिाल्यमानः सन् व्यवर्धिष्ट क्रमेण सः। विद्याकल्पनिधिश्चाभूदारुरोह च यौवनम् ॥ १२ ॥ सर्वलक्षणसंपूर्ण दधानोऽप्यङ्गमुज्ज्वलम् । यत्रासौ हरिणाक्षीभिरनङ्ग इव दृश्यते ॥ १३ ॥ विद्युद्गतिरथो एनं महासामन्तवंशजाम् । पद्मावतीं राजपुत्रीं महा पर्यणाययत् ।। १४ ॥ परत्रहितसद्धर्मक्रियावसरमात्मनः । ज्ञात्वा दत्त्वा च पुत्रस्य राज्यं राजेत्यभाषत ॥ १५ ॥ भोः ! प्रधानाः ! यतः स्वामी चक्षुश्च भवतामयम् । अर्पितः किरणवेगो द्रष्टव्योऽहमिवानिशम् ॥ १६ ॥ खप्नेऽप्याज्ञा न लवयाऽस्य प्रतिकूलकृतोऽपि हि । विकारः कुलवध्वेव दर्शनीयो न जातुचित् ।। १७ ॥ त्वयाप्येष महाराज ! राजलोको मयेव भोः । अनुवर्योऽपराधेऽपि भाव्यं बाह्यरुषैव हि ॥ १८ ॥ हृदयान्तः पुनः पितृशिशुन्यायेन सुन्दरम् । चिन्तनीयं, न मर्यादा लङ्गनीया समुद्रवत् ॥ १९ ॥ कार्यो ज्ञानवयोवृद्धविदग्धैः सह सङ्गमः । द्यूतादिव्यसनं वार्य कृत्यः षट्शत्रुनिग्रहः ॥ २० ॥ आराम इव लोकोऽयं पालनीयः प्रयत्नतः। . येनामोषि यशःपुष्पं सौख्यपुण्यमयं फलम् ॥ २१ ॥ Page #85 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। तथागुणेष्वनादरं वत्स ! भूरिश्रीरपि मा कृथाः। संपूर्णोऽपि घटः कूपे गुणच्छेदात् पतत्यधः ॥ २२ ॥ खाम्यमात्यश्च राष्ट्रं च दुर्गः कोशो बलं सुहृत् । राज्यं सप्ताङ्गमप्येतत् सद्गुणैरेव धार्यते ॥ २३ ॥ मा जात ! संपदामग्रमारूढोऽस्मीति विश्वसीः । दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ॥ २४ ॥ किश्वकुलजस्यापि ते वत्स ! भूयो भूयः प्रचक्ष्यते । येनेदं यौवनं नव्यं दावपावकसंनिभम् ॥ २५ ॥ दग्ध्वा गुणवनं तच विस्रसातः प्रशाम्यति । धन्यास्ते तु शमाऽम्भोभिः प्रागेव शमयन्ति ये ॥ २६ ॥ निःस्वानामपि तारुण्यं विकाराय भवत्यलम् । विद्यारूपबलैश्वर्योद्धतानां किं नु कथ्यते ? ॥२७॥ यौवनस्यावतारे हि बाल्येनैव सह व्रजेत् । स्नेहो गुरुजने, वाञ्छा वक्षसा सह वर्धते ॥ २८ ॥ वयसेव सहारोहत्यहो ! प्रीतिर्नवा नवा । बलेनेव सह स्फीति मदो याति दिने दिने ॥ २९ ॥ दोयेन सह स्थूलभावमापद्यते मतिः । मध्येनेव सहात्यन्तकृशतां भजति श्रुतम् ॥ ३०॥ हृदयं च सहोरुभ्यां दुर्नयैरुपचीयते । मोहो मालिन्यहेतुश्चोज्जृम्भते श्मश्रुणा सह ॥ ३१ ॥ आकारमनुवर्तन्ते विकारा अपि पुत्रक !। तदिदं यौवनारण्यं कोऽपि क्षेमेण लङ्घयेत् ॥ ३२ ॥ नरकान्तं तदा राज्यं यदि राजा न धार्मिकः । धार्मिके तु परं तस्मिन् सौख्यमत्र परत्र च ॥ ३३ ॥ १ सुकुलस्येत्यपि। २ वार्धक्यात् । - - Page #86 -------------------------------------------------------------------------- ________________ ७४ श्रीपार्श्वनाथचरिते अनुशिष्टिं विधायैवं क्षमयित्वाऽखिलं जनम् । श्रुतसागरगुर्वन्तेऽग्रहीन विद्युद्गतिव्रतम् ॥ ३४ ॥ राजाथ किरणवेगः पैत्रिकी राज्यसम्पदम् । अगृध्नुः पालयामास नीतिशास्त्रानुसारतः ॥ ३५॥ अनासक्तमनाः सौख्यं सिषेवे विषयोद्भवम् । इत्यर्थकामौ तस्याऽऽस्तां धर्मायैव महात्मनः ॥ ३६॥ पद्मावतीकुक्षिभवस्तस्यापि तनयोऽभवत् । नामतः किरणतेजास्तेजसामेकमास्पदम् ॥ ३७ ।। क्रमाच्च कवचहरः सिद्धविद्यश्च सोऽभवत् । मूर्तिः किरणवेगस्य द्वितीयेव महामनाः ॥ ३८ ॥ अन्यदा बहिरुद्याने तत्रैत्य समवासरत् । मुनिः सुरगुरुनाम नाम्नैव ध्वस्तकल्मषः ॥ ३९ ॥ गत्वा किरणवेगस्तं नमश्चक्रेऽतिभक्तितः । पुरीलोकश्च सर्वोऽपि मुनि वन्दितुमागमत् ॥ ४० ॥ ततो राज्ञो जनस्याऽपि यथास्थानं निषेदुषः । अनुग्रहाय विदधे स साधुर्धर्मदेशनाम् ॥ ४१ ॥ आसाद्यते भवाऽम्भोधौ भ्रमद्भिर्यत् कथश्चन । मूद्वैस्तत् प्राप्य मानुष्यं हा ! रत्नमिव हार्यते ॥ ४२ ॥ नराणां कीटकानां च दैवदत्ताऽशनायुषाम् । आर्तध्यानकृतोऽभेदो यदि धर्म न कुर्वते ॥ ४३ ॥ नरके पातनायैव विषयाः सेविताश्चिरम् । सेव्यो मोक्षफलस्तस्माद् धर्मः सर्वज्ञभाषितः ॥ ४४ ॥ स च द्वेधा भवेदत्र गृहस्थ-यतिभेदतः । अणुव्रतानि मुख्यानि गृहिणां पश्च तद् यथा ॥ ४५ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्याऽपरिग्रहौ । धर्मः खाख्यायि सर्वज्ञैरेष पञ्चवतात्मकः ॥ ४६॥ . Page #87 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। तत्रअहिंसा नाम यल्लोके खखभावप्रवर्तिनाम् । जीवितव्यैकसाराणां प्राणिनां प्राणरक्षणम् ॥ ४७ ॥ जीवितव्यं ददानेन दत्तं त्रिभुवनं ततः। हरता तत्तु सर्वखं हृतं शून्यीकृतं जगत् ॥ ४८ ॥ ग्रन्थातरेऽप्युक्तम्सर्वे वेदा न तत् कुर्युः सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया. ॥ ४९ ॥ कृमिकीटपतङ्गेषु तृणक्षादिकेष्वपि । दयां सर्वत्र कुर्वीत यथात्मनि तथा परे ॥ ५० ॥ स्वयं रक्षति यो जीवान् रक्षयत्यपरानपि । इहापि सोऽद्भुतामृद्धिमेति भीमकुमारवत् ॥ ५१ ॥ तथाहिपुरमस्त्यत्र कमलपुरं यद् भूमिपल्वेले । श्रिया नित्यकृतावासं विकाशि कमलायते ॥ ५२ ॥ तत्र प्रजापतिायस्रष्टाऽऽसीद् हरिवाहनः । तत्प्रिया मालती नाम मालतीव गुणोज्ज्वला ॥ ५३ ।। साऽन्यदा सिंहमङ्कस्थं स्वप्ने दृष्ट्वा न्यवेदयत् । राज्ञः, राजापि सानन्दं निशम्याभिननन्द तम् ॥ ५४॥ अथ प्रभातकृत्यानिः कृत्वाऽऽस्थानगतो नृपः । .. द्विजमाकारयामास स्वमशास्त्रविशारदम् ॥ ५५ ॥ तत्र दत्तासनासीनं तं पप्रच्छ नृपो ननु । पूर्व कथय मे तावत् कस्य स्वप्नस्य किं फलम् ? ॥ ५६ ॥ द्विजः प्राह शृणु स्वामिन् ! दृष्टचिन्तितवर्जितः। स्वच्छदेहैश्च यो दृष्टः स स्वप्नः फलदोऽखिलः ॥ ५७ ॥ आरोहो गो-वृषे वृक्ष-शैल-प्रासाद-हस्तिषु ।। । सर्वदानानि चैव हि, एवमपि । २ भूमिसरसि। Page #88 -------------------------------------------------------------------------- ________________ ७६ श्रीपार्श्वनाथचरिते रोदनाऽगम्यगमने स्वप्ने मृत्युश्च शस्यते ॥ ५८ ॥ वस्त्रा-ऽन-फल-ताम्बूल-पुष्प-दीप-दधि-ध्वजाः। सद्रन-चामर च्छत्र-मन्त्रा लब्धा धनप्रदाः ।। ५९ ॥ आसनं शयनं यानं शरीरं वाहनं गृहम् । यो ज्वलद्वीक्ष्य जागर्ति तस्य लक्ष्मीः समन्ततः ॥ ६ ॥ चन्द्रग्रासेऽम्बुधेः पाने निजान्त्रैर्वेष्टिते पुरे । राज्यलाभः सरो-नद्योस्तरणे च शुभोदयः ॥ ६१ ॥ देवस्य दर्शनं धन्यमर्चनं च विशेषतः । आज्यलाभः पयःपानं श्रिये चार्केन्दुदर्शनम् ।। ६२ ।। तैलकुङ्कुमलिप्तं स्वं गीतनृत्यपरं तथा । हसन्तं वीक्ष्य दुःखाय श्वापदोपद्रवो भिये ।। ६३ ॥ शय्या-द्वारा-गलाभङ्गे भार्याया जायते मृतिः । अङ्गच्छेदे पुनदृष्टे पितृमातृसुतव्ययः ॥ ६४ ॥ रक्तकृष्णाम्बरभृता स्त्रिया श्लिष्टस्य रुग् मृतिः । शुक्लमाल्यांशुकभृता पुनः श्रीः सर्वतोमुखी ॥ ६५ ॥ निगडे पाशबन्धे च प्रतिष्ठा स्यात् सुतोऽथवा । गुरुदेवपितृक्ष्मापैरादिष्टं यत् तथैव तत् ॥ ६६ ॥ शस्तं शुक्लं शुभं सर्व निन्द्यं कृष्णं त्वशोभनम् । इत्यादि बहुधा देव ! स्वमशास्त्रे निगद्यते ।। ६७ ॥ पुनः पप्रच्छ भूपालो राझ्या स्वप्नेऽद्य वीक्षितः । प्रशान्तः सिंह उत्सङ्गे किं फलं तस्य भो द्विज ! ? ॥६८॥ सोऽवदद् देव ! सत्पुत्रलाभाय स्त्रीभिरीक्षिताः । स्वमे कलश-सूर्ये-न्दु-गज-सिंह-महाषाः ॥ ६९ ॥ ततो भूपोऽतिसंतुष्टः संमान्य व्यसृजद् द्विजम् । आशंसाऽपि सुपुत्रस्य कस्य नोल्लासयेद् मनः ? ॥ ७० ॥ अथ स्वसमये राज्याः प्राज्यतेजाः सुतोऽजनि । पूर्वक्रमागतं भीम इति नामाऽस्य निर्ममे ॥ ७१ ॥ Page #89 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । तस्य क्रमेण वर्धिष्णोः सुतो बुद्धिलमन्त्रिणः । अभूत् तुल्यवया मित्रं मन्त्री च मतिसागरः ॥ ७२ ॥ अन्यदा स्नेहतो भीमः प्रातर्यातो नृपान्तिकम् । प्रणमन् भूभुजालिङ्गय निजोत्सङ्गे निवेशितः ॥ ७३ ॥ अथोचितासनासीनः स्वाङ्के पदयुगं पितुः । कृत्वा संवाहयंस्तस्य शासनं यावदिच्छति ॥ ७४ ॥ तावदारामिकेणैत्य विज्ञप्तं देव ! दिव्यवाक् । अभिनन्दमुनीन्द्रोऽद्य चम्पकोद्यानमागतः ॥ ७५ ॥ तत् श्रुत्वा हर्षरोमाञ्चैरसंमादिव भूषणम् । स्वाङ्गादुत्तार्य मुकुटवर्ज तस्मै ददौ नृपः ॥ ७६ ॥ कुमार मन्त्रि - सामन्तसहितो वन्दितुं नृपः । गतो गुर्वन्ति पञ्चविधाभिगमपूर्वकम् ॥ ७७ ॥ सचित्ताचित्तयोस्त्यागात्यागौ तद्दर्शनेऽञ्जलिः | चित्तैक्यमुत्तरासङ्गोऽभिगमः पञ्चधा गुरोः ॥ ७८ ॥ तत्रार्कवत्तपस्तेजोदीसं तापहरं पुनः । सोमवच्छीतलं किन्तु वक्रतामलवर्जितम् ॥ ७९ ॥ ज्ञानादिगुणरत्नाढ्यं गम्भीरं च समुद्रवत् । न तु क्षारत्वदोषेण जडत्वेन च दूषितम् ॥ ८० गुरुं दृष्ट्वा भृशं तुष्यन्नवन्दत नरेश्वरः । धर्मलाभाशिषं सोऽपि ददौ दुरितहारिणीम् ॥ ८१ ॥ (विशेषकम् ) नासने नातिदूरे च निविष्टो नृपतिः पुरः । सूरिणापि समारंभे विशुद्धा धर्मदेशना ।। ८२ । अहो ! कोsपि यथा कूर्मो वसन्निर्गापल्वले । वातोत्सारितशेवालाऽवकाशेनेन्दुमैक्षत ॥ ८३ ॥ वातेनैव पुनस्तत्राऽवकाशे नीलिपूरिते । १ अतलस्पृशि सरसि । ७७ Page #90 -------------------------------------------------------------------------- ________________ ७८ श्रीपार्श्वनाथचरिते कूर्मस्येन्दुर्दुरापोऽभूद् मनुष्यत्वं तथाङ्गिनः ॥ ८४ ॥ प्राप्यते हि प्रयत्नाद् यदनुत्तरसुरैरपि । तदिदं प्राप्य मानुष्यं यतितव्यं शिवाऽध्वनि ॥ ८५ ॥ स च द्वेधास्ति तक ऋजुर्वक्रोऽपरः पुनः । ऋजुमार्गो यतेर्धर्मस्तेनाशु शिवमाप्यते ॥ ८६ ॥ रागद्वेषाभिधौ तत्र सिंहव्याघ्रौ तु तिष्ठतः । क्रोधनामा महादाको मानो विषमपर्वतः ॥ ८७ ॥ मायागुपिलवंशाली लोभो गर्तोऽतिविस्तृतः । विषया विषवृक्षाच धूर्ताः पाखण्डिकादयः ॥ ८८ ॥ वेतालाच पुनर्घोरा द्वाविंशतिः परीषहाः । सावधानैरविश्रान्तैर्गन्तव्यं तत्र सर्वदा ॥ ८९ ॥ ततो यद्यस्ति ते शक्तिरेताञ्जेतुं तदाश्रय । ऋजुमार्ग यतः श्रेष्ठं यतिधर्मात् परं न हि ।। ९० ॥ अन्यथा वक्रमार्गोऽस्ति गृहिधर्मापराभिधः । चिरात् तेनाप्यते सिद्धिः किन्त्वेष न हि दुर्गमः ॥ ९१ ॥ ततो भालतलन्यस्तकरपङ्कजकुड्मलः । नत्वा विज्ञपयामास गुरुं गुरुमुदा नृपः ।। ९२ । नाद्यापि यतिधर्मेऽहं समर्थः सुप्रभो ! ततः । प्रसद्य गृहिधर्मो मे दीयतां यदि योग्यता ॥ ९३ ॥ गुरुणा गृहिधर्मोऽथ भूभुजेऽणुव्रतादिकः । दत्तः सम्यक्त्वमूलस्तं नृपः सम्यक् प्रपन्नवान् ॥ ९४ ॥ जातश्रद्धः कुमारोऽपि तं प्रपित्सुर्विशेषतः । प्रसादितः स योग्यत्वाद् गुरुणैव हितैषिणा ।। ९५ ।। प्रवृत्त्याख्य- निवृत्याख्यनियमौ यस्य सुक्रमौ । सत्सङ्गः कटिरास्तिक्यमुदरं हृद्विवेचनम् ||१६|| भुजौ शमदमौ पृष्ठं पश्चात्तापो गलं क्षमा । १ वंहितेक्षणात् इत्यपि । > Page #91 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । साम्यसौम्येऽक्षिणी नासा सन्तोषो विनयो मुखम् ॥१७॥ प्रिय-सत्ये श्रुती भालं सम्यक्त्वं वासना शिरः । तदाज्ञा चारुधम्मिलः प्रबोधः श्मश्रु सुन्दरम् ॥ ९८ ।। इत्यङ्गैस्त्रिषु लोकेषु धर्मनामा प्रतिष्ठितः । योऽयं राजास्ति तस्यान्तरात्मा जीवदयाभिधः ॥ ९९॥ (कलापकम् ) कुमार ! तदिय कार्या विशेषेण त्वयाऽधुना । ततो हृष्टः समित्रोऽपि भीमः सम्यक्त्वमाश्रयत् ॥ १०० ॥ तथा निरपराधानां जीवानां वधकर्मणि । यावज्जीवं नितिं च मृगयादौ तु सर्वथा ॥ १०१ ॥ ततो हृष्टेन गुरुणा भीमो नववयस्त्वतः । प्रतिपन्नव्रतस्थैर्य कर्तु प्रत्युपछंहितः ॥१०२।। अहो ! धन्यतमः कोऽन्यः कुमार ! भवता समः । नवे वयसि यस्यैवं पुराणवयसो मतिः ॥ १०३ ।। यत उच्यतेपूर्व मनः ततः कायं सतामालिङ्गते जरा । असतां च पुनः कायं कालेनापि न मानसम् ॥ १०४ ॥ रम्यो द्राक्षेत्र कोऽप्यन्तरिन्द्रवारणवत् परः। बहिः संपूर्णभाग्यस्तु द्विधापि सहकारवत् ।। १०५ ॥ गतापराधजीवानामपि हिंसानिषेधतः । कथ्यते ह्युत्तमा लेश्या तत्रोदाहरणं शृणु ॥ १०६ ॥ तथाहिवैरिग्रामविघाताय केपि षद् पुरुषाः पुरा । चलिताः समुदायेन तेष्वेक इदमब्रवीत् ॥१०७ ॥ सर्व हन्तव्यमेवात्र द्विपदं वा चतुष्पदम् । अन्यः प्राह मनुष्याणां वधोऽस्तु पशुभिः किमु ? ॥१०८॥ Page #92 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते तृतीयः प्राह हन्तव्या नरा एव न हि स्त्रियः । तुर्येणाऽभाणि हन्यन्तां पुरुषेष्वपि सायुधाः ।। १०९ ॥ पञ्चमोऽप्याह ये घ्नन्ति ते वध्याः सायुधेष्वपि । षष्ठस्त्वाह विना शत्रून् घातः कार्यों न कस्यचित् ॥११०॥ इति भिन्नं मनस्तेषामभल्लेश्याविशेषतः । ताः कृष्ण-नील-कापोत-तेजः पद्म-सिताभिधाः ॥ १११ ॥ तदेवं तारतम्येन विशुद्धपरिणामतः । येन सर्वे रिपुभ्योऽन्ये रक्षिताः सोऽपि सत्तमः ॥११२॥ किञ्च, उत्तमा लघुकर्माणः स्तोकादप्युपदेशतः । कुपवृत्तेर्निवर्तन्ते नलधर्मो यथा नृपः ॥ ११३ ॥ कोऽयं कथमयं बुद्धो नलधर्मनृपः प्रभो ! ? | इति पृष्टे कुमारेण गुरुः प्राह निशम्यताम् ।। ११४ ॥ विजयाख्ये पुरे पूर्व नलधर्माभिधोऽभवत् । राजा राजेव यः पूर्णकलया प्रिययान्वितः ॥ ११५॥ तस्याऽऽसीत् तिलको मन्त्री मन्त्रिणां तिलकोपमः । बुद्ध्या लोकस्य राज्ञश्च रञ्जयामास यो मनः ॥ ११६॥ अन्यदा मृगयार्थ सोऽश्वारूढः प्रस्थितो नृपः। गतोऽरण्यं क्रमात् तत्र प्रसृतं सर्वतो बलम् ॥ ११७ ॥ स्वयं तु मन्त्रिणा साधं यावदग्रतरं व्रजेत् ।। तावदेकं मृगं दीर्घदृढशृङ्गं ददर्श सः ॥ ११८ ॥ चापमारोप्य बाणेन तं जिघांसु मृगोऽब्रवीत् । क्षत्रस्य युज्यते किं ते यन्मां बाणेन विध्यसि ? ॥११९॥ नो क्षत्रशब्दस्याऽर्थ त्वं जानासि यदहो ! क्षतात् । त्रायन्ते सकलं लोकं कथ्यन्ते क्षत्रियास्ततः॥ १२० ॥ कुलद्वयविशुद्धा ये क्षत्रियाः सत्त्वशालिनः । नैव तेऽपगताऽस्त्रस्य प्रहरन्ति रिपोरपि ॥ १२१ ॥ Page #93 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। पुनर्निरपराधानां पशूनां तृणमश्नताम् । प्रहरन्ति गतास्त्राणां ये तेषां क्षत्रता कुतः १ ॥ १२२ ॥ वैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवते हन्यन्ते पशवः कथम् ? ॥ १२३ ॥ चुकितास्तव किं कोशेऽन्तःपुरे नगरेऽपि वा ? । दीनानशरणानेवं यदस्मान् हंसि भूपते ! ॥ १२४ ॥ अत उच्यतेमीन-रङ्क-सतां नीर-तृण-सन्तोषवर्तिनाम् । धीवरा लुब्धकाः क्षुद्रा हा ! निष्कारणवैरिणः ।। १२५ ॥ इति श्रुत्वा नृपोऽमात्यमुवाच महदद्भुतम् । मर्त्यवाचा प्रजल्पन्ति निर्भयाः पशवोऽपि यत् ॥ १२६ ।। मन्त्रिणा भणितं देव ! देवोऽयं दानवोऽथवा । केनापि हेतुना क्लुप्तमृगवेषोऽवतीर्णवान् ॥ १२७ ॥ तद् गच्छ त्वरितं मुञ्च वाजिनं मुक्तकं करात् । प्रेक्षस्व किं करोत्येष ततो भूपस्तथाऽकरोत् ।। १२८ ।। उच्चोच्चझम्पया याति मृगो राजाऽपि पृष्ठतः । तावद् दूरे वनस्यान्तः प्रेक्षते मुनिपुङ्गवम् ।। १२९ ।। प्रलम्बभुजमुत्तप्तस्वर्णवर्ण सुदर्शनम् । द्विधापि जितकन्दर्प देहेन मनसापि च ॥ १३० ॥ निरुद्धवचनं मुक्तचेष्टमेकाग्रमानसम् । नासाग्रन्यस्तदृष्टिं च ध्यायन्तं ब्रह्म किञ्चन ॥ १३१ ॥ (त्रिभिर्विशेषकम् ) ततोऽवोचद् मृगो भो भोः ! नमतेमं महामुनिम्। , अवन्देतां च तं वाहादुत्तीर्य नृप-मन्त्रिणौ ॥ १३२ ॥ निविष्टौ तत्र तो यावत् तावत् सैन्यमपि क्षणात् । . अन्वगाद् मुनिरप्याख्यद् ध्यानान्ते धर्मदेशनाम् ॥१३३॥ १ समाप्ता इति तत्वम् । २ क्षेप्यशस्त्रम् ।। Page #94 -------------------------------------------------------------------------- ________________ ८२ श्रीपार्श्वनाथचरितेमूर्त्या वचःपरिमलेनापि चम्पकपुष्पवत् । तस्यातिशायिना भूपो विस्मितः पृष्टवानिदम् ॥ १३४ ॥ सर्वोत्तमं कुलं नाथ ! ज्ञातं मूत्यैव ते मया । ईदृग्वयसि वैराग्यकारणं किन्तु कथ्यताम् ॥ १३५ ॥ मुनिरूचे महाभाग ! चातुर्गतिकदुःखदः। कारणं भव एवात्र विशेषस्तु निशम्यताम् ।। १३६ ॥ अस्ति सिद्धपुरं नाम नगरे तत्र पार्थिवः । भुवनसार इत्याख्यस्तस्यामात्यो महामतिः १३७ ॥ अन्यदा दाक्षिणात्यानां चङ्गसंगीतकारिणाम् ।। आययौ समुदायोऽदात् स तस्यावसरं नृपः ॥ १३८ ॥ समतालमृदङ्गाद्यातोद्यनादमनोहरम् । तालच्छन्दानुगारब्धनर्तकीनृत्यबन्धुरम् ॥ १३९ ।। समश्रुतिगतैः शुद्धस्वरैरालापसुन्दरैः। गीतध्वनिसुधासारैः पूरितश्रुतिकोटरम् ॥ १४० ॥ आरब्धं प्रेक्षणीयं तैरनारीभिरावृतः। आस्थानस्थो नृपो द्रष्टुं लयलीनः प्रवृत्तवान् ॥ १४१॥ अथो व्यज्ञपयद् वेत्री प्रभोऽष्टाङ्गनिमित्तवित् । बटुरस्त्यागतो देवं दिक्षुर्मुच्यतां न वा ॥ १४२ ।। नृपतिः प्राह मा मुश्च को ह्यस्यावसरोऽधुना ?।। सति प्रेक्षाक्षणेऽत्रैवं देवानामपि दुर्लभे ॥ १४३ ॥ मन्त्र्यूचे मैवमाचक्ष्व यत् प्रेक्षाकौतुकं विभो । सुलभं दुर्लभोऽष्टाङ्गनिमित्तः पुनः पुमान् ॥ १४४ ॥ ततो राज्ञः समादेशाद् मुक्तोऽसौ वेत्रिणा बटुः । आगतः पुस्तिकाहस्तः श्वेतवस्त्रः सदाकृतिः ॥ १४५ ॥ मन्त्रोच्चारणपूर्व च नरेन्द्राय सिताऽक्षतान् । अर्पयित्वाऽपमृत्यासौ यथास्थानमुपाविशत् ॥ १४६॥ गीतसूरसमाप्तौ च स राज्ञा भाषितो यथा । Page #95 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। कुशलं भो निमित्तज्ञ ! बटुर्दीनमथाब्रवीत् ॥ १४७॥ कुशलं तादृशं देव ! यादृग् वक्तुं न शक्यते । क्षुभितेनोदितं राज्ञा किमभ्रं भोः ! पतिष्यति ॥ १४८ ॥ स प्राह सत्यमेवेदं यत् त्वया गदितं विभो !। . निमित्तेन मया ज्ञातं मा कोपं कुरु भूपते ! ॥ १४९ ।। सशङ्केन ततो राज्ञा भणितं पुनरादरात् । निःशङ्कं ब्रूहि यज् ज्ञातं त्वया ज्ञानेन सुन्दर ! ॥ १५० ॥ सोऽप्याह देव ! किं तेनाऽशिवेन कथितेन यत् । निरोढुं शक्यते नैव तथापि तव कथ्यते ॥ १५१ ।। मुहूर्तानन्तरं धाराधरोऽद्य धरिणीतले । मुसलाकारधाराभिर्वर्षिष्यति तथा, कथम् ॥ १५२ ॥ यथा ह्यफलितस्थूलस्थलपासादमन्दिरम् ।। सर्वमेकार्णवाकारं पुरमेतद् भविष्यति ॥ १५३ ॥ . (युग्मम्) ब्रुवाणस्यैव तस्यैवं भ्रान्त्वाऽभूदुत्तरोऽनिलः। कच्चोलमुखमात्रं च मेघरखण्डं समुन्नतम् ।। १५४ ॥ बटुः पटुरथ ब्रूते प्रेक्ष्यतामभ्रकं जनाः । उत्तरस्यामिदं व्योम सर्व प्रच्छादयिष्यति ।। १५५ ॥ व्योम गन्तुमिवाऽऽस्थानलोकः सर्वोऽप्युदैवत । • अभ्रखण्डं तु तं रोडुमिव प्रसृतमम्बरे ॥ १५६ ।। तस्य स्तनितनादेन भीतेव कुरुते मही ।। प्रतिशब्दमिषाद् बुम्बारवं गिरिगुहामुखैः ॥ १५७ ॥ उद्दण्डाश्च तडिद्दण्डाः स्फुरन्ति स्म घनान्तरे। जिह्वा कालमुखस्येव चश्चला ग्रसितुं महीम् ॥ १५८ ।। नृपप्रभृतिलोकानां पश्यतां भीतिविस्मितम् । घनो मुसलधाराभिरारेभे वर्षितुं ततः ॥ १५९ ॥ १. कच्चोलं पात्रविशेषः ।। Page #96 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेक्षणेनैव पयःपूरे प्लावनायोद्यते भुवः । पुरः क्षोभोजनि, क्षमापः प्रलयं तममन्यत ॥ १६० ॥ अथाऽऽगाद् नीरमास्थानं ततः सप्तमभूतले । आरुरोह नृपः सार्ध मन्त्रिणा बटुनापि च ॥ १६१ ॥ तत्र पौरजनाक्रन्दं शृण्वानो विविधं नृपः । यावदस्ति जलं प्राप्तं तावत् सप्तमभूमिकाम् ॥१६२।। तद् वीक्ष्य नृपतिः प्राह पश्य मन्त्रीश ! कीदृशम् । आगादकृतधर्माणामस्माकमतिसङ्कटम् ॥ १६३ ॥ न कृतं सुकृतं क्षीणमायुर्वीक्ष्याधुनाऽऽपदम् । तुङ्गशृङ्गपताकेव हृदयं मम वेपते ।। १६४ ॥ श्रावकं कुलमाप्यापि विषयासक्तचेतसा । जिनेन्द्रधर्मो नो चक्रे हारितं जन्म हा ! मया ।। १६५ ॥ स्नुहीक्षेण कल्पठ्ठाव्णा चिन्तामाणिः पुनः । वैडूर्य काचखण्डेन मया मूढेन हारितम् ।। १६६ ॥ किं कुर्वे के स्मराम्येवं सङ्कटे पतितोऽधुना । इत्थं प्रलपतो नीरं राज्ञो निकटमागतम् ।। १६७ ।। ततो हृदि नमस्कारं यावचिन्तयते नृपः । तावत् संमुखमायान्तं पोतमेकं प्रपश्यति ।। १६८।। सप्तमे भूतले लग्नं तं दृष्टा सचिवोऽब्रवीत् । नाथेह रुह्यतां कोऽपि सुरस्ते डोकयत्यमुम् ॥ १६९ ।। तत्रारोढुं नृपः सौधाद् यावदुत्क्षिपति क्रमम् । तावन्नो वारि नो मेघो न पोतो न च गर्जितम् ॥ १७०॥ स्वच्छावस्थं तथैव खं पश्यति स्वपुरे नृपः। सर्व च मुदितं लोकं गीतनृत्योत्सवादिभिः ॥ १७१ ।। अहो ! किमिदमाश्चर्य दैवज्ञ ! वद भूभुना ?। . इति पृष्टे बटुः प्राह दैवज्ञो न भवाम्यहम् ।। १७२ ।। इन्द्रजालमिदं देव ! पुरस्ते दर्शितं मया । Page #97 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ततस्तोषादहु द्रव्यं दत्त्वा राज्ञा व्यसर्जि सः ॥ १७३ ॥ राज्ञी मन्त्रिजनानेवं विरक्तो नृपतिर्जगी। इन्द्रजालमहो ! दृष्टं, तैरूचे त्वत्प्रसादतः ॥ १७४ ॥ नृपोऽवोचदिदं यादृगिन्द्रजालविजृम्भितम् । तादृशं रूपतारुण्यस्नहायुर्विभवादिकम् ।। १७५ ॥ तथाहियेऽनङ्गतुल्यरूपेण कामिनीनयनोत्सवाः । कुष्ठरोगदवप्लुष्टाः शक्यन्ते ते न वीक्षितुम् ॥ १७६ ।। कृतास्तारुण्यचैत्रेण ये स्फुरन्नवपल्लवाः । शटत्पत्रदुमायन्ते जरसा फाल्गुनेन ते ॥ १७७॥ नखमांससमा प्रीतिर्जाता येषां परस्परम् । तेऽप्येकत्रानवस्थाना दृष्टा दीपान्धकारवत् ॥ १७८ ॥ आयुः सच्छिद्रकुम्भस्थजलवद् गलनात्मकम् । श्रीस्तु वातस्फुरद्दीपकलिकेव चलाचला ॥ १७९ ।। इत्यनित्ये जगवृत्ते नात्मा मे रज्यतेऽधुना। . मोक्षाय पूर्वजाचीर्ण चरिष्यामि यतिव्रतम् ॥ १८० ॥ इत्युक्त्वा स्वपदे न्यस्य कुमारं हरिविक्रमम् । । दत्त्वा धर्मे धनं जातः श्रमणः सोऽहमेव तु ॥ १८१ ॥ स्ववृत्तं यद्यपि खेन कथ्यमानं लघुत्वकृत् । तथापि नृपते ! युष्मादृशां स्याद् गुणकारणम् ॥ १८२ ॥ इति श्रुत्वा बहून्मीलन्मना नलनृपोऽब्रवीत् । । महासत्व ! त्रुटन्त्येवं बन्धनानि भवादृशाम् ॥ १८३ ।। मादृशां तु महामोहशृङ्खलाबद्धचेतसाम् । कषायारातिरुद्धानां मोक्षवार्ताऽपि दुर्लभा ।। १८४ ॥ मन्ये प्राच्यभवे पुण्यं पापं चाऽलं मयाऽर्जितम् । यत्ते पादयुगं दृष्टं यन शक्नोमि सेवितुम् ॥ १८५॥ तदेवं यस्य धर्मस्य योग्यताऽस्ति मम प्रभो!। Page #98 -------------------------------------------------------------------------- ________________ ८६ श्रीपार्श्वनाथचरिले आदेशो दीयतां तत्र ततो मुनिपतिर्जगौ ।। १८६ ॥ अर्हन् देवो गुरुः साधुः श्रद्धानं च जिनागमे । शङ्कादिदोषनिर्मुक्तं सम्यक्त्वमिति पालय ।। १८७ ॥ ततोऽसौ मन्त्रिणा सार्धं तत्प्रपद्य पुनर्मुनिम् । पप्रच्छ भगवन् ! कोऽयं मृगो मे शुभकारणम् ।। १८८ ।। मुनिराख्यदयं प्राच्यभवे विमोऽभवत् तव । मित्रमज्ञानतपसा मृत्वा यक्ष इहाऽजनि ।। १८९ ॥ प्राप्तो भद्रकभावं च नित्यमास्माकदर्शनात् । तत्त्वां पूर्वभवमीत्या मृगो भूत्वेत्यबोधयत् ।। १९० ॥ प्रत्यक्षीभूय यक्षोsपि प्रहृष्यन्नित्यभाषत । मयापि तब पादान्ते प्रभो ! सम्यक्त्वमादृतम् ॥१९१॥ शिक्षामन्यामपि प्राप्य मुनीन्द्राद् धर्मगोचराम् । यक्षो निजस्थानं ययौ नलनृपोऽपि हि ।। १९२ ॥ अथ राजा विधाप्याद्विम्बं तस्यार्चनं सदा । कुर्वन् प्रभावनां धर्मे स महाश्रावकोऽजनि ।। १९३ ॥ प्रतिपद्य परिव्रज्यां प्रान्ते चानशनक्रमात् । सर्वार्थमगमत् तस्मादिहैवागत्य सेत्स्यति ।। १९४ ॥ इति श्रुत्वा नलाख्यानं भीमसेन ! त्वया स्वयम् । प्रतिपन्नत्रते भाव्यं दृढेनान्योऽपि बोध्यताम् ।। १९५ ।। भीमोऽप्याह तवादेशः प्रमाणं मे मुनीश्वर ! । धन्योऽहं यस्य मे पूज्यैर्विशिष्टोऽनुग्रहः कृतः ॥ १९६ ॥ क्रोधव्याघ्रे मानशैले मायावंशालिसंकुले | लोभ भवारण्ये येकः सार्थपो गुरुः ॥ १९७॥ अथ नत्वा मुनिं पर्षद् निजस्थानं गताऽखिला । भीमोsपि कुरुते धर्म देवपूजादिना सुखी ।। १९८ ।। अन्यदा निजधामस्थं कुमारं मित्रसंयुतम् । १ त्वत्पदोपान्ते, एवमपि । Page #99 -------------------------------------------------------------------------- ________________ ८७ द्वितीयः सर्गः। एकः कापालिकोऽभ्यागात् प्रतीहारनिवेदितः ।। १९९ ।। आशीर्वादवचःपूर्वमुपविश्य नृपाङ्गजम् ।। याचित्वैकान्तमित्याह पाखण्डी प्रणयान्वितम् ॥२०॥ भुवनक्षोभिनी नाम वरविद्यास्ति भीम ! मे । सस्या द्वादश वर्षाणि पूर्व सेवा कृता मया ॥ २०१॥ अधुनोत्तरसेवां तु गत्वा प्रेतवनान्तरे । एष्यत्कृष्णचतुर्दश्यां चिकीर्षुरहमस्मि भोः ! ॥ २०२ ॥ अतस्त्वं चेद् महासत्त्व ! भवस्युत्तरसाधकः । तदा सिध्यति में विद्या तत् श्रुत्वोवाच राजमूः ॥२०३॥ असारेण शरीरेण यद्यनेन विनाशिना । गुणः कस्यापि कोऽपि स्यात्तन्नु किं नार्जितं मया? ॥२०४। प्रतिपद्येति भीमेन विसृष्टः सोऽब्रवीदिदम् । कुमार ! दशभिर्घौरायास्यति चतुर्दशी ।। २०५॥ तावन्त्यहानि ते पार्श्वे स्थास्येऽथ नृपजन्मना । अनुज्ञातः, स्थितस्तत्र स कुर्वन् भोजनं सह ॥ २०६॥ ततो मंन्त्रिसुतोऽवादीत् पाखण्डी किमिह प्रभो ! ? । कुमारः प्राह कार्येण पुनमन्त्रिसुतोऽब्रवीत् ।। २०७॥ कार्य किममुनाऽऽलापोऽप्यनेन सह नोचितः। कुसंसर्गेण माऽऽत्मीये सत्सम्यक्त्वे मलं कुरु ॥ २०८ ॥ किंच दुर्जनसंसर्गो मधुरोऽपि मुखे सखे ! । निर्वाहे मारयत्येव कालकूट इव ध्रुवम् ॥ २०९ ॥ कुमारः प्राह सत्यं भोः ! किन्तु दाक्षिण्यतो मया । प्रतिपन्नमिदं तेन श्रेयान् निर्वाह एव मे ॥ २१० ॥ अथवाकिं करोति कुसंसर्गो निजधर्मदृढात्मनः । सर्पशीर्षोषितः किं न हरतेऽहिविषं मणिः ? ॥ २११ ॥ पुनमन्त्रिसुतः प्राह दृष्टान्तोऽयं न किंचन । Page #100 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेयज्जीवो भावुकं द्रव्यं मणिः पुनरभावुकम् ॥२१२ ॥ तेनातिभणितोऽप्येवं भीभो नामुश्चदाग्रहम् । क्रमेण च समायाता सैव कृष्णचतुर्दशी ।। २१३ ॥ तस्यां कपालिना साध वीरवेषधरो निशि । सखड्गश्चलितो भीमः श्मशानं प्रति निर्षयः ॥ २१४ ।। आलिख्य मण्डलं तत्रार्चित्वा कामपि देवताम् । कुमारस्य शिखाबन्धं पाखण्डी कर्तुमुद्यतः ॥ २१५ ॥ तावद्भीमो जगौ भद्र ! मा शङ्किष्ठा यतो मम । सत्वमेव शिखाबन्धः प्रकृतं क्रियतां त्वया ॥ २१६ ॥ आकृष्टासिललजिह्वाभीमो भीमस्तदन्तिके। पश्चानन इवात्युग्रः साहसैकरसः स्थितः ॥ २१७ ।। शिखाबन्धच्छलं व्यर्थ जातमस्य ततः शिरः । पराक्रमेण मे ग्राह्यमिति निश्चित्य चेतसि ।। २१८ ।। कर्तनीभृत्करो रूपं कृत्वा व्योमसमं निजम् । कूपाकारश्रवश्छिद्रो विकटं गर्जति स्म सः ॥ २१९ ॥ ततश्च प्रलयाम्भोदगर्जितादिव दारुणः । विश्वक्षोभः क्षणं जज्ञे संभ्रान्तसुरदानवः ॥ २२० ॥ भीमस्तच्चेष्टितं दृष्ट्वा यमजिह्वानिभं करे । कृपाणं कम्पयामास निष्पकम्पः क्रुधं दधत् ।। २२१ ।। प्राह कापालिको रे ! रे ! बाल ! गृहामि ते शिरः । स्वयं चेदर्पयस्येतत् स्यास्तदन्यभवे सुखी ॥ २२२ ।। भीमेनाऽभाणि चण्डाल ! रे ! कुपाखण्ड ! मायिक !। हत्वा मृत्युमिवाद्य त्वां करोमि सुखिनं जनम् ।।२२३॥ शस्त्रीघातस्ततस्तेन मुक्तस्तं नृपनन्दनः। स्खलयित्वाऽसिनोत्प्लुत्य तत्स्कन्धमधिरूढवान् ॥ २२४॥ १ भवस्यन्य, एतदपि । Page #101 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। तं गजेन्द्रमिवारूढो नखतीक्ष्णः कृशोदरः। करवालललजिह्वो भीमः सिंह इवाऽशुभत् ।। २२५ ॥ दध्यौ च मारयाम्येनं किंत्वेष च्छद्मनापि मे। . सेवां चक्रे तथा जीवन् यदि धर्मेऽपि रज्यति ॥ २२६ ध्यायन्निति कुमारेन्द्रः कथश्चिदपि लाघवात् । धृत्वा चरणयोः कापालिकेनोच्छालितोऽम्बरे ॥ २२७ ॥ स पतन् यक्षिणीदेव्या दैवयोगादवाप्यत । करयोः संपुटीकृत्य नीतश्च निजमन्दिरे ॥ २२८ ॥ उत्तुङ्गचङ्गविस्तीर्णे पुण्यराशाविवोज्ज्वले । तत्र भीमः स्वमैक्षिष्ट दिव्यसिंहासनस्थितम् ॥ २२९॥ सार्धत्रिभङ्गघटितमिव रूपं दधत्यथ । पाञ्जलिः पुरतो भूत्वा यक्षिणी वदति स्म सा ॥२३०॥ अयं विन्ध्याचलो भद्र ! ममेदं वैक्रियं गृहम् । क्रीडार्थ निवसाम्यत्र कमलाक्षाऽस्मि यक्षिणी ॥२३१।। निजदेवपरीवारता खैरमिहानिशम् । तिष्ठाम्यद्य पुनः शैलमष्टापदगहं गता ॥ २३२ ॥ ततो वलन्त्या दृष्टोऽसि प्रक्षिप्तस्त्वं नमोऽङ्गणे । कापालिकेन तस्माच्च पतन् यत्नातो मया ।। २३३ ॥ अधुना मारदुर्वारशरघातनिपीडिता ।। शरणं त्वां प्रपन्नास्मि रक्ष मां पुरुषोत्तम ! ॥ २३४ ॥ परिवारो मदीयोऽयं सर्वोऽपि तव किङ्करः। भविता तद्विधायाऽत्र प्रसाद, संगृहाण माम् ॥ २३५ ॥ यक्षिण्यास्तद्वचः श्रुत्वा हसित्वेषद् नृपाङ्गनः । बमाण यदहो ! काचित् परा काष्ठा मनोभुवः ॥२३६॥ दूरेऽस्तु मादृशस्तावदबुधो भूमिगोचरः । इत्थं विबुधलोकोऽपि मदनेन विडम्ब्यते ॥ २३७ ॥ अनेनाभिद्रुता जीवाः कृत्याकृत्यं हिताहितम् । १२ Page #102 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते न जानन्ति न शृण्वन्ति नेक्षन्तेऽपयशोमषीम् ।। २३८ ॥ मोहान्धानां सुखायन्ते विषया दुःखदा अपि । लोहं धत्तूरितानां हि कथं न कनकायते ? ॥ २३९ ॥ तद्विभाव्यति कन्दर्पदर्पसर्पविषापहम् । महागारुडमन्त्राभं जिनमेव हृदि स्मर ॥ २४० ॥ तुष्टाऽथ यक्षिणी प्राह चित्रं मन्त्राक्षरादिव । त्वद्वाक्याद् मम तत्तादृक् गतं मोहविषं क्षणात् ॥२४१ ॥ ममैव किमिदं भाग्यं किंवा ते सिद्धिरीदृशी । भाल-पिण्ड-वचो-हस्तसिद्धयः स्युर्यतः सताम् ।। २४२ ।। तन्मम त्वत्प्रसादेनान्यभवेऽपि न दुर्लभः । सर्वदुःखक्षयो मोक्षो विषयाऽपास्तचेतसः ॥ २४३ ॥ इत्थं तत्त्वोपदेशेन पूज्यस्तावत्त्वमत्र मे । यस्तु पूज्यस्तवाप्येष जिनो मे शरणं सदा ॥ २४४॥ संलापं यावदित्येवं कमलाक्षा करोति सा । भीमेन शुश्रुवे तावत् कुतोऽपि मधुरध्वनिः ॥ २४५ ॥ पृष्टं च सुन्दरि ! ध्वानः श्रूयते कस्य साऽब्रवीत् ।। सन्त्यत्र मुनयो विन्ध्ये चतुर्मासीमुपोषिताः ॥ २४६ ॥ तेऽधुना कुर्वते धन्या स्वाध्यायं कृत्यतत्पराः । ततो भीमोऽवदत् सोऽयमनभ्रा दृष्टिरद्य मे ॥ २४७ ॥ यदेवंविधसाधूनामचिन्त्योऽत्र समागमः। रात्रिशेषं ततस्तत्र गत्वा निर्गमयाम्यहम् ॥ २४८ ॥ इत्युदित्वा स यक्षिण्या दर्शिताध्वा ततोऽगमत् । कृतनानागमाभ्यासा यत्र सन्ति तपोधनाः ॥ २४९ ॥ पुनः सपरिवाराऽहं मुनीनेष्यामि वन्दितुम् । इत्युक्त्वा साऽप्यगाद्धाम स्मरन्ती भीमशासनम् ॥२५० ॥ भीमसेनकुमारोऽपि धर्मध्यानसमाहितान् । मुनीस्तत्र गुरुं चाऽपि दृष्ट्वा हृष्टानचिन्तयत् ॥ २५१ ॥ Page #103 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। अहो ! भूपालसत्कार-भोगाभावेऽप्यबन्धनात् । .. साधूनां सिन्धृराणां च वनवासे महासुखम् ।। २५२ ॥ धन्या धर्मधनैश्वर्यगर्जितोर्जितवृत्तयः। इमे यैर्द पैदुष्प्रेक्षा धनिनो नावलेकिताः ॥ २५३ ॥ यतः-भक्ते द्वेषो जडे प्रीतिः प्रवृत्तिगुरुलङ्घने । मुखे कटुकता नित्यं धनिनां ज्वरिणामिव ॥ २५४ ॥ भीमोऽनुमोदनामेवं कुर्वन् गत्वान्तिके गुरुम् । अवन्दत महाभक्त्या शेषसाधूनपि क्रमात् ॥ २५५ ॥ लब्धाशीर्यावदस्त्येष शृण्वन् धर्म तदन्तिके । गगनात् तावदायान्तीं ददशैंको महाभुजाम् ॥ २५६ ॥ कालदण्ड इवाकस्मात् कोऽयमित्याकुलं जनैः ? । वीक्षिता सा कुमारस्य सन्निधौ सहसातत् ।। २५७ ।। किं करिष्यत्यसावेवं ध्यायन् भीमोऽपि धीरधीः । प्रेक्षते तावदेतस्य खड्गमादाय साऽचलत् ॥ २५८ ।। दीर्घा कृष्णा च कस्येयं भुजा याति क चेति सः । कुमारः कौतुकं द्रष्टुं द्रागुत्प्लुत्यारुरोह ताम् ॥ २५९॥ उत्पत्य गगनं तस्यां वजन्त्यां स नृपात्मजः । रराज कालियव्यालपृष्ठारूढ इवाच्युतः ।। २६० ॥ तथा पोतपतिभिन्नपोतः फलकमाश्रितः । दुस्तरं गगनाम्भोधिं तितीर्घरिव सोऽरुचत् ।। २६१ ॥ गच्छंश्च नभसाऽनेकनदी-कानन-पर्वतान् । प्रेक्षमाणो भुवि प्राप कालिकाभवन क्रमात् ।। २६२ ॥ नानाऽस्थिमयभित्तिस्थनृमुण्डकपिशीर्षकम् । कङ्कालकल्पितद्वारं दन्तिदन्तोरुतोरणम् ॥ २६३ ॥ केशपाशपताकाढ्यं लम्बिताऽसितचामरम् । व्याघ्रकृत्तिकृतोल्लोचं रुधिरारुणभूतलम् ॥ २६४ ॥ (आदि विशेषकम् ) Page #104 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेतस्य मध्ये च भीमेन मुण्डमालास्त्रधारिणी । क्रूराक्षी महिषारूढा कालिकामूर्तिरीक्षिता ॥ २६५ ॥ पुरस्तस्याश्च पाखण्डी स एवं ददृशे शठः । वामहस्तेन केशेषु बिभ्राणः सुन्दरं नरम् ।। २६६ ॥ आरूढस्त्वागतो यस्यां भुजायां नृपनन्दनः । कापालिकस्य तस्यैव सापि वामेतरा भुजा ॥ २६७ ॥ करात्तपुरुषस्यायं पापात्मा किं करिष्यति ? । प्रच्छन्नीभूय तद्वीक्षे पश्चात् कुर्वे यथोचितम् ॥ २६८ ॥ इति संचिन्त्य तस्यासौ भुजादुत्तीर्य सत्वरम् । तस्यैव पृष्ठदेशेऽस्थाद् निभृतीभूय राजमूः ॥ २६९ ॥ (युग्मम् ) भीमस्य खड़मादाय भुजा यावत् समागता । ततः कापालिको वामकरात्तं नरमब्रवीत् ॥ २७० ॥ रे ! वराक ! स्मराऽभीष्टदेवतामाशु यत्तव । शिरोऽनेनासिना छित्त्वा पूजयिष्यामि देवताम् ॥ २७१ ॥ स प्राह त्रिजगज्जीवबान्धवो जिनपुंगवः । सर्वावस्थास्वपि ध्येयः शरणं मेऽस्तु सम्पति ॥ २७२ ।। तथा यस्तत्पदाम्भोजभृङ्गः स्वामी क्रमागतः । परार्थव्यसनी यश्च यस्याहं जीविताधिकः ॥ २७३ ॥ कापालिकस्य विश्वस्तो यश्च वारयतोऽपि मे । गतस्तेन समं कापि यो ममास्ति सदा हृदि ॥ २७४ ॥ स एव सुगृहीताहो हरिवाहननन्दनः । भीमनामा कुमारेन्द्रः स्मृतः कुरु यथेप्सितम् ॥ २७५ ॥ .. (त्रिभिर्विशेषकम् ) पाखण्डी प्राह रे ! पूर्वमयं लक्षणवानिति । देवीपूजार्थमारब्धा मया तस्य शिरश्छिदा ॥ २७६ ॥ Page #105 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। अथ नंष्ट्रा गतः कापि मत्करात् तदिहाधुना । त्वमानीतोऽसि, तत्तेन निःसत्त्वेन स्मृतेन किम् ? ॥२७७॥ किश्च रे ! स तव स्वामी देव्या मे कथितः पुरः । विन्ध्याचलगुहासन्नश्वेतभिवन्तिके स्थितः ।। २७८ ।। तस्य सल्लक्षणत्वेन खड्गोऽप्येष मया हृतः। ततः कथमिहागत्य स हि त्वां मूर्ख ! रक्षिता ? ॥२७९॥ भीमः श्रुत्वा तदालापं दुःखा ऽमर्षातिपूरितः । दध्यौ मे मन्त्रिणं पापो विडम्बयति हा कथम् ? ॥२८०॥ हकित्वा चाह रे ! पाप ! सोऽहं सर्वेषु जन्तुषु । सौम्योऽपि भीम एवाऽद्य त्वयि संहारकारणात् ॥२८१।। ततोऽसौ मन्त्रिणं मुक्त्वा वलितो भीमसम्मुखम् । भीमेनापि लुलित्वाऽऽशु पद्भ्यां धृत्वा स पातितः।।२८२॥ धृत्वा केशेषु दत्त्वाऽहिं हृदि कृत्वा करे त्वसिम् । भीमो भीमोऽभवद् यावत् तावद् देवाऽऽकुलाऽवदत्।२८३। मा भो मा मारय स्वैनं कुमार ! मम वत्सलम् । नृशीर्षकमलैर्नित्यं यः करोति मदीप्सितम् ।। २८४ ।। अनेन शिरसा यावदष्टोत्तरशिरःशते । पूर्णेऽस्य किल सेत्स्यामि प्रत्यक्षीभूय सम्प्रति ॥२८५।। तावत् त्वमागतो वत्स ! पौरुषेण तवाऽमुना । तुष्टाऽस्मि यदभीष्टं ते प्रार्थयस्व तदद्य माम् ॥ २८६ ॥ यतः-- अस्थिवर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्व सच्चे प्रतिष्ठितम् ॥ २८७ ॥ ततो भीमोऽवदद् देवि ! यदि तुष्टाऽसि मे प्रियम् । दत्से तच्चित्त-वाक्-कायैर्जीवहिंसां परित्यज ॥ २८८ ॥ सिद्धिः कष्टमयी सर्वा रौद्रहोमादिकमभिः । सदा सुखमयी सिद्धिः पुनर्धर्मेण, नान्यथा ॥२८९।। Page #106 -------------------------------------------------------------------------- ________________ ९४ श्रीपार्श्वनाथचरितेधर्मस्य च दया बीजं युज्यते तत्तवाप्यसौ । 'तपः-शीलविहीनायाः कोऽन्यधर्मो भवेत्तव ? ॥२९॥ ये कार्येणापि निघ्नन्ति जीवानां तेऽपि पापिनः । ये तु कार्य विना त्वेवं तेषां पापं किमुच्यते ? ॥२९१॥ किं ते कावलिकाहारविकलाया महामिषैः । वीभत्सैस्तज्जिनादिष्टं दयाधर्म सदा श्रय ? ॥ २९२ ॥ शुद्धधर्मे च लीनानां सांनिध्यं कुरु सर्वदा । सुनरत्वं सुदेवत्वं प्राप्य येनाऽऽशु सिध्यसि ॥ २९३ ॥ ततस्तद्वाक्यसंबुद्धा दध्यौ देवी सुलज्जिता। अस्याहो ! मानुषत्वेऽपि मतिः कीदृग् महामतेः ॥२९४॥ अयप्रभृति सर्वोऽपि जीवराशिः स्वजीववत् । रक्षितव्यो मयेत्युक्त्वा कालिकाऽभूददर्शना ।।२९५॥ अथ लब्धक्षणो भीमं ननाम मतिसागरः । सोऽप्यश्रुजलपूर्णाक्षो मित्रमालिङ्गय पृष्टवान् ॥२९६॥ अनेन पापिना तत्त्वं जानन्नपि कथं भवान् । प्रापितो दारुणावस्थामिमां सज्जनशेखर ! ? ॥ २९७ ॥ मन्त्री पाह प्रभो ! रात्रिप्रथमप्रहरे तव । वासौकसि प्रिया याता तावत्त्वां तत्र नैक्षत ॥२९८॥ ततः संभ्रान्तया पृष्टा यामिकास्तेऽपि सर्वतः । निरीक्ष्य त्वामपश्यन्तो गत्वा राज्ञे न्यवेदयन् ॥२९९॥ केनाऽप्यपहतो वत्सो निःसंशयमिति ब्रुवन् । नृपः सिंहासनात् सद्यः पपात गतचेतनः ॥ ३०० ॥ मुमूर्छ मातृवर्गो पि मालतीप्रमुखोऽखिलः । श्रीखण्डरससंसिक्तः कथमप्याऽऽप चेतनाम् ॥३०१॥ ततो विलपितुं लग्ना राजा राश्यश्च मन्त्रिणः। एका मध्यवयास्तावन्नायिका सहसाऽऽययौ ॥३०२।। तयाऽऽदिष्टं नृपोत्तिष्ठ मम पूजां कुरु द्रुतम् । Page #107 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। आगता तव पुत्राा येनाहं कुलदेवता ॥ ३०३ ॥ नीतः पाखण्डिना खस्योत्तरसाधककैतवात् । शिरो ग्रहीतुं पुत्रस्ते यक्षिणी तं ततोऽनयत् ॥ ३०४ ॥ इत्यादि कथयित्वान्ते सुतः कतिपयैदिनैः । तवैष्यति महयेति नृपस्याऽऽख्याय सा गता ॥ ३०५॥ इदं च वचनं तस्याः संवादयितुमुत्सुकः । अन्वेष्टुं शकुनान प्रातः पुराद् बहिरहं गतः ॥ ३०६ ॥ तित्तिरीतोरणे तावत् सहसा चक्रतुः स्वरम् । वामे गत्वा शुनः शीर्षमस्पाक्षीद् दक्षिणाहिणा ॥३०७॥ दक्षिणाद् वाममायातो वायसो मधुरं रसन् । चाषेण दर्शनं दत्तं मयूरेणाऽप्यनृत्यत ॥ ३०८ ॥ दुर्गाऽपि पार्थिवं कृत्वा वामे चिलिचिलिस्वरम् । ताराभक्ष्यमुखी भेजे क्षीरदृशं प्रियान्विता ॥ ३०९ ॥ इत्यादिशकुनान् भावस्थानचेष्टागतिस्वरैः । प्रशान्तान् वीक्ष्य संतुष्टो यावञ्चलितुमुद्यतः ॥३१०॥ तावदेत्याऽम्बरादेष उत्क्षिप्य मामिहाऽऽनयत् । दृष्टश्च पुण्ययोगेन मया त्वमधुना विभो ! ॥ ३११ ।। तत्त्वादित्यपकार्येष तत्संप्रत्यनुगृह्यताम् । धर्मोपदेशदानेन ततः कापालिकोऽब्रवीत ॥ ३१२ ॥ कालिकां प्रत्यहो! मन्त्रिन् ! स्वधर्म दिशताऽमुना । ममोपदिष्ट एवाऽयं शरणं तत् स मेऽधुना ॥ ३१३ ॥ किश्च, . . . मित्र ! त्वचरितं वन्देऽपकारेऽप्युपकारिणः। गुणमाणिक्यरत्नाद्रेः कुमारस्य तु किं स्तुवे ? ॥ ३१४ ॥ यावदेवं प्रजल्पन्ति ते तावदुदिते रवौ। . . महानेकः करी तत्राऽऽगात् सप्ताङ्गप्रतिष्ठितः ॥ ३१५ ॥ कुमारं स करे कृत्वा निजपृष्टे समन्त्रिणम् । Page #108 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसंस्थाप्य कालिकाचैत्यादुत्पपात नभस्तलम् ॥ ३१६ ॥ कुमारो विस्मितोऽवादीदहो ! मित्राऽत्र भूतले।। किमीग् दृश्यते हस्तिरत्नं किं चेत् समुत्पतेत् ? ॥३१७।। मन्त्री सर्वज्ञवचनभावितात्मा ततोऽब्रवीत् । संविधानं कुपारेन्द्र ! तन्न यन्न भवे भवेत् ॥ ३१८ ॥ किन्तु कोऽपि भवत्पुण्यप्रेरितोऽयं सुरः स्फूटम् । तद् यातु तत्र यत्रापि सर्वतः सुन्दरं हि नः ॥ ३१९ ॥ क्षणेन स करी व्योम्नोऽवतीर्यैकत्र पत्तने । उद्वसे गोपुरद्वारे तो विमुच्य गतः कचित् ॥ ३२०॥ कुमारो मन्त्रिणं मुक्त्वा बहिरेवाथ कौतुकात् । एकाकी नगरस्यान्तः प्रविवेश सुनिर्भयः । ॥ ३२१ ॥ ऋद्धिपूर्णाश्च शून्यांश्च पश्यन् हट्टगृहानसौ । तत्रैकं सिंहमद्राक्षीद् मुखात्तनरपुंगवम् ॥ ३२२॥ तद् दृष्ट्रा सकृपो नूनं दैवतं किश्चिदित्यसौ । ध्यात्वा सविनयं प्राह सिंहेमं मुञ्च पूरुषम् ॥ ३२३ ॥ उन्मील्य चक्षुषी भीमं दृष्ट्वा सिंहोऽपि तं नरम् । निजपादान्तरे क्षित्वा जातशङ्क इवाऽब्रवीत् ॥३२४॥ अहो ! सत्पुरुषोत्तंस ! मया भक्ष्यमिदं चिरात् । आसादितं क्षुधार्तेन मुश्चामि तदिदं कथम् ? ॥३२५ ॥ कुमारः प्राह नन्वेतद् वैक्रिय रूपमुद्वहन् । सुरस्त्वं कोऽपि, देवाश्च कवलाहारिणो न हि ॥३२६॥ किश्च, विबुधस्यापि ते हिंसामबुधस्येव कुर्वतः । यदि नाम न शङ्काऽभूत् तदा लज्जापि किं नहिं १ ॥३२७॥ अथवा ते यदि खेच्छा मानुषामिषभक्षणे । तदाहं स्वागतो मांसान्यर्पये तानि भक्षय ॥ ३२८ ॥ Page #109 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ९७ सिंहोऽप्याख्यदिदं सत्यं किन्तु प्राच्यभवे मम ।। तथाऽनेन कृतं दुःखं यथा वक्तुं न पार्यते ॥ ३१९ ॥ अतो भवशतेऽप्येनं नतः कोपो न याति मे । कृताश्च विविधाः पीडा मारयिष्यामि संप्रति ॥ ३३० ।। कुमारः प्राह चेत् कोपोऽपकारिणि तदा कथम् । कोपे एव न ते कोपः सुखसर्वस्वहारिणि ? ॥ ३३१ अतो दीनमिमं मुश्च कुरु धर्म दयामयम् । येन पापं विनिर्धय मोक्षमन्यभवे बजेः॥ ३३२ ।। इत्यादियुक्तिभिर्वादं बोधितोऽपि यदा हरिः । न मुश्चति नरं तावञ्चिन्तयामास राजमूः ॥ ३३३ ।। कोपाविष्टस्य दुष्टस्य कोऽपि वान्त्वेन नो गुणः । ज्वरितस्य जलेनेव केवलं ताडनोचिता ॥ ३३४॥ " ततः प्रेर्य बलात् सिंहं नरमादाय स स्वके । पृष्ठे चिक्षेप सिंहोऽपि मुखं व्यादाय धावितः ॥ ३३५ ॥ भीमेन स खुरे धृत्वोपरि भ्रमयितुं यदा। वस्यारेभे तदा सूक्ष्मीभूयाऽपेयाय तत्करात् ।। ३३६ ॥ अदृश्योऽसौ स्थितस्तत्र कुमारगुणरञ्जितः। करे नरस्य भीमोऽपि लग्नो राजकुलेऽविशत् ॥ ३३७ ॥ मन्दुरा-हस्तिशाला-न्तःपुराणि करणानि च । शून्यानि परितः पश्यन् विस्मयस्फारितेक्षणः ।। ३३८ ।। विचित्ररूपकोल्लोचे चित्रभित्तिविराजिते । आरुरोह शनैमिस्तले सोधस्य सप्तमे ॥ ३३९ ॥ (युग्मम् ) भीमस्य स्वागतं तत्र स्तम्भस्थाः शालभञ्जिकाः। योजयित्वा करावुच्चारयामासुम॒दुखरम् ॥ ३४० ॥ अवतीर्योर्ध्वतश्चैताः सुवर्णमयमासनम् । 1 अपेत्तः । २ स्थानानि । ३ मुले, इत्यपि । Page #110 -------------------------------------------------------------------------- ________________ ९८ श्रीपार्श्वनाथचरितेददुः सगौरवं भीमो निविष्टस्तत्र विस्मितः॥ ३४१ ॥ क्षणेन स्नानसामग्यमामतायां नभस्तलात् । अभाणि दारुपुत्रीभिमज्जनं क्रियतां विभो ! ॥ ३४२ ॥ भीमः प्राह वयस्योऽस्ति बहिर्मे मतिसागरः। आकारयत तं, ताभिः सोऽप्यानीतः क्षणादपि ॥ ३४३॥ समित्रः कारितो भीमः स्नानं दिव्यं च भोजनम् । खापितो वरपल्यङ्के यावदस्ति स विस्मितः ॥ ३४४ ॥ तावदेव कुतोऽप्येत्य स्फुरत्कान्तिः सुरः पुरः । प्रोचे भीम ! वरं ब्रूहि तुष्टोऽस्मि तव साहसात् ॥३३५ ॥ भीमः प्रोवाच तुष्टश्चेत् ततः कथय को भवान् । किमिदं पत्तनं किंच शून्यं देवस्ततोऽब्रवीत् १ ॥३४६ ॥ इदं हेमपुरं नाम पुरं हेमरथो नृपः। पुरोधास्तस्य चण्डाख्यो द्विष्टः सर्वजने पुनः ॥ ३४७ ॥ एषोऽपि नृपतिः क्रूरः प्रकृत्या कर्णदुर्बलः। शङ्कयाऽप्यपराधस्य कुरुते दण्डमुल्बणम् ॥ ३४८॥ अथ केनापि चण्डस्य द्वेष्यत्वादसहिष्णुना। अलिकं कथितं राज्ञो यन्मातङ्ग्यैष विप्लुतः ॥ ३४९ ॥ याचन्नपि महादिव्यमविचार्यैव भूभुजा । वेष्टयित्वा सणैश्चण्डो ज्वालितस्तैलसेकिमैः ॥ ३५० ॥ सोऽकामनिर्जराभावाद् मृत्वा सर्वगिलाभिधः । राक्षसोऽभूत , स चाहं तु स्मृत्वा वैरमिहागतः ॥३५१॥ तिरोहितः समग्रोऽपि पुरलोको मया तथा । सिंहरूपं विकुव्र्यैष स गृहीतो नरेश्वरः ॥ ३५२ ॥ करुणा-पौरुष-प्रज्ञाप्रकर्षोदधिना त्वया । इमं मोचयता चक्रे चमत्कारो महान् मम ॥ ३५३ ॥ अदृश्येन ततः सर्वोऽप्युपचारः कृतो मया । , अग्निपातादिना शुद्धिप्रदर्शनं दिव्यम् । २ महात्मना एवमपि । Page #111 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ९९ भक्त्या च दिव्यशक्त्या च भवतो मज्जनादिकः ॥३५४॥ तथा तवानुवृत्त्यैष लोकः प्रकटितो मया । भीमेनालोकितं यावत् तावद् दृष्टोऽखिलो जनः ॥३५४॥ अत्रान्तरे कुमारेण स्तूयमानः सुरा-ऽसुरैः । आगच्छन् ददृशे व्योम्ना श्रीचारणमुनीश्वरः ॥ ३५६ ॥ स्थितः पद्मासने देवनिर्मिते स पुरो बहिः । भीम ऊचे राक्षसेन्द्र ! ममायं गुरुरागतः॥ ३५७ ॥ अस्य पादाम्बुजं दृष्ट्वा करिष्ये सफलं भवम् । . खस्येति भणितो रक्षोराजः पियममन्यत ।।३५८ ॥ यत उच्यतेदेवताप्रणिधानेन गुरूणां वन्दनेन च । न तिष्ठति चिरं पापं छिद्रहस्ते यथोदकम् ।। ३५९ ॥ ततः कुमारो मन्त्री च रक्षो हेमरथस्तथा । ययुः सर्वेऽपि कल्याणीभक्तयो मुनिसनिधौ ॥ ३६० ॥ मुनिस्तैः प्रणतस्तोषाद् भूतलन्यस्तमस्तकैः । सुधासिक्तैरिवागत्य सर्वपौरजनैरपि ॥ ३६१ ।। मुनिनाऽथ समारब्धा देशना यदहो ! जनाः!। कषाया इह चत्वारश्चतुर्गतिनिबन्धनम् ॥ ३६२॥ तेषु क्रोधो विशेषेण दारुणो यः कृशानुवत् ।। सर्व दहति जीवानामगणश्च नितरम् ।। ६६३ ॥ अहो ! जडत्वं जन्तूनामन्यस्थानस्थितोऽपि यः । संतापं कुरुते क्रोधाङ्गारः, स. हृदि पार्यते ॥ ६६४ ॥ परं प्रति विघाताय साहाय्यमिव देहिनः। कुर्वस्तमेव हन्त्युच्चैरहो ! कोपस्य कैतवम् ॥ ३६५ ॥ अत उच्यतेस एव सात्विको विद्वान् स तपस्वी जितेन्द्रियः । १ अगणयन् , इत्यर्थः । Page #112 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेयेनाशु शान्तिखड्गेन क्रोधशत्रुर्निपातितः ।। ३६६ ॥ रसो लवणतुल्यो न न विज्ञानसमः सुहृत् । धर्मतुल्यो निधिर्नास्ति न क्रोधसदृशो रिपुः ॥ ३६७ ॥ क्रोधधर्माभिभूतस्य केनापि सह संहतिः । सुखायते न जीवस्य तज्जे योऽसौ महाग्रहः ॥ ३६८ ॥ इत्यादिमुनिवाक्येन बुद्धः सर्वगिलोऽवदत् । अकृत्याचरणान्नाथ ! निवृत्तोऽद्य प्रभृत्यहम् ॥ ३६९ ॥ कुमारस्यानुभावेन कोपः पुरजने मया । निर्जितस्त्वत्प्रभावेणाऽधुना हेमरथे पुनः ॥ ३७० ॥ मुनिराहोदितः क्रोधविपाकस्त्वत्कृते मया । अन्यथा मोहभेदेषु मिथ्यात्वमति भीषणम् ॥ ३७१ ॥ एवंवाचि मुनौ गर्जस्तत्रायातो महागजः । क्षुभिता परिषत् तस्य दर्शने सहसाऽभवत् ।। २७२ ॥ भीमो धारयितुं तां तु. सान्त्वयामास तं गजम् । सोऽपि शान्तमनाः साधु ववन्दे त्रिःप्रदक्षिणम् ॥३७३॥ संहत्य हस्तिरूपं च प्रत्यक्षो यक्ष एव सः। चलकुण्डलभूषाढ्यो बभूव कृतविस्मयः ॥ ३७४ ।। सोऽभाणि मुनिना किं भोः ! प्रति पुत्रं निजं भवान् । अनुसृत्यागतो हेमरथं भूत्वा करीश्वरः ॥ ३७५ ॥ अयं पूर्वमिहानीतः खपौत्रं रक्षितुं त्वया। भीमः साम्प्रतमेतं तु खं पुरं नेतुमिच्छसि ॥ ३७६ ॥ यक्षेण भणितं नाथ ! सत्यमेवं यतो मम। एष हेमरथो नप्ता बभूवान् प्राच्यजन्मनि ॥३७७ ॥ किञ्च, मयाङ्गीकृत्य सम्यक्त्वं कुसंसर्गेण दृषितम् । तेनाहं व्यन्तरो जातस्तदाऽऽरोपय मे पुनः॥ ३७८ ॥ नरेन्द्रादिभिरप्येवं प्रार्थिते मुनिपुंगवः। ..... . Page #113 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः।। यक्ष-रक्षो-नृपादीनां सम्यक्त्वं विधिना व्यधात् ॥३७९।। भीमेन तु कुपाखण्डिसंसर्गात् शुद्धिरर्थिता। तस्य सा मुनिना दत्ता तुष्टाः सर्वेऽपि तेऽभवन् ॥ ३८०॥ अथ मोहरिपुं नत्वा राक्षसेन्द्रादिभिः सह । कुमारो नृपतेर्हेमरथस्य भवनं ययौ ।। ३८१ ॥ श्रीमान् हेमरथोऽप्येनं सामन्ता-ऽमात्यसंयुतः । प्रणिपत्य कुमारेन्द्रं कृतज्ञात्मा व्यजिज्ञपत् ।। ३८२ ॥ देव ! यज्जीव्यते यच्च भुज्यन्ते राज्यसंपदः। : यदेष पुरलोकवाऽशनपानमनोहरः ।। ३८३ ॥ यच्च दुर्लभसम्पच्च रत्नलाभोऽयमद्भुतः। कुमार ! जगतांसार ! माहात्म्यं तत्तवाऽखिलम् ॥ ३८४॥ तदेष भवदादेशकारी नित्यं जनस्त्वया । प्रयो यथोचित कार्येऽनुगृहीतो यथा भवेत् ॥ ३८५ ॥ कुमारः प्राह भो राजन् ! कस्य केन कृतं भवेत् ? । जन्म मृत्युः सुखं दुःखं सर्व स्यात् स्वस्वकर्मतः ।। ३८६॥ व्यापारस्त्वेष युष्माकं सर्वेषां कुलजन्मनाम् । प्रमादो नैव कर्तव्यो जिनधर्मे सुदुर्लभे ॥ ३८७ ।। साधर्मिकेषु वात्सल्यं जिनधर्मप्रभावना । तथा निरपराधानां जीवानां वधवर्जनम् ॥ ३८८ ॥ अन्येष्वपि यथाशक्यं निवृत्तिः पापकर्मसु । इदं कार्य सदा येन नैव दुःखं पुनर्भवेत् ॥ ३८९ ॥ तैरभाणि कुमारेन्द्र ! दिनानीह कियन्त्यपि । स्थीयतां जिनधर्मे स्याद् यथाऽस्माकं प्रवीणता ॥ ३९० ॥ इति श्रुत्वा पुनदत्ते कुमारो यावदुत्तरम् । तावदुड्डामरो व्योम्न जातो डमरकध्वनिः ॥३९१॥ संभ्रान्तनृप-लोकानां पश्यतामेव च क्षणात् । । मुनिमित्यर्थः । Page #114 -------------------------------------------------------------------------- ________________ १०२ श्रीपार्श्वनाथचरितेसा विंशतिभुजा प्राप्ता काली कापालिकान्विता ॥३९२॥ कुमारमभिवन्द्यासावुपविष्टा तदन्तिके। ....उवाच नृप-लोकानां तन्वतां भय-विस्मयम् ॥ ३९३ ॥ अहो ! भीम ! तदा तेऽत्राऽऽनीयमानस्य हस्तिना । मयेत्यवधिना ज्ञातं कुमारे यदसौ हितः ।। ३९४ ॥ अथ तत्र तथैवाऽस्थामहं स्थानेऽधुना पुनः । तव माता पिता पौरलोकश्चातीवदुःखितः ॥ ३९५ ॥ रुदन निरन्तरं सौम्य ! स्मारं स्मारं गुणांस्तव । किञ्चित्कार्यवशात्तत्र गतया बोधिता मया ॥ ३९६ ॥ विहिता च पुरस्तेषां प्रतिज्ञा यदिह ध्रुवम् । भीमो दिनद्वयस्यान्तरानेतव्यो मया ननु ॥ ३९७ ॥ कथितं च यथा भीमकुमारेण बहुर्जनः। धर्मेऽस्थापि, तथा भूयान् मार्यमाणोऽपि रक्षितः ॥३९८॥ अस्ति हेमपुरे सार्ध मतिसागरमन्त्रिणा। कुमारः कुशली तन्मा हर्षस्थाने विषद्यताम् ॥ ३९९ ॥ इति श्रुत्वोत्सुकीभूय भीमो यावत् प्रतिष्ठते । । भेरी-पटह-भम्भानां तावदुच्छलितो रवः ॥ ४०० ॥ ततोऽनेकविमानानां विमाने मध्यगे स्थिता । तारहाराञ्चितोरस्का कुण्डलोल्लसितानना ॥ ४०१॥ गगने देवता दृष्टा तेजःप्रसरभासुरा । ततः किमिदमित्याख्यद् राक्षसः सहसोत्थितः ॥ ४०२ ॥ यक्षोऽपि गर्जितं कुर्वन् करे धृत्वोरुमुद्गरम् । उत्तस्थौ कालिकाऽकर्षत् कराला कर्तरी करे ॥ ४०३ ॥ असंभ्रान्तं कुमारस्तु यावत्तिष्ठति संमुखः । जय नन्देति जल्पन्तस्तावद् देवाः समाययुः ॥ ४०४ ॥ आख्यान्ति च कुमारस्य पुरः सरभसा इव । यक्षिण्याः कमलाख्यायाः समागमनमुच्चकैः ॥ ४०५॥ Page #115 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १०३ ततो झगिति सा मुक्त्वा विमानं हसितानना। भीमं नत्वा निविश्याग्रे विज्ञा विज्ञापयत्यदः॥४०६॥ सम्यक्त्वं भद्र ! दत्त्वा मे विन्ध्याचलगुहासदाम् । मुनीनां त्वं तदा पार्थे स्थितोऽहं च गता प्रगे॥ ४०७ ॥ ततो युष्मत्प्रसादेन मया सपरिवारया। वन्दित्वा तान् मुनीन् भक्त्या स्वजन्म सफलीकृतम् ।।४०८॥ तत्र यूयं तु नो दृष्टाः पृष्टाश्च मुनयो न तैः । उत्तरं दत्तमित्यार्त्या प्रयुक्तो मयकाऽवधिः ॥ ४०९ ॥ दृष्टा यूयमिह स्नानं कार्यमाणास्तदुत्सुकाः । चलिताऽस्मि परं किश्चिद् बृहत्कार्याद् विलम्बिता॥४१०॥ सुविमानं विकुाथ यक्षेन्द्रो भीममब्रवीत् । अस्मिन्नारुह्यतां शीघ्रं गन्तव्यं यत् पितुः पुरे ॥ ४११ ॥ अथोत्थाय नृपं हेमरथं संबोध्य राजसः । तं विमानं समारुह्य प्रतस्थे मन्त्रिसंयुतः ॥ ४१२ ॥ देवास्तस्य पुरो गीतं नृत्यं कुञ्जरगर्जितम् । हयहेषां च कुर्वन्तो वल्गन्तश्च प्रतस्थिरे ॥ ४१३ ॥ महता तूर्यनादेन पूर्यमाणे नभोऽङ्गणे । कुमारः पाप कमलपुरस्यासनकाननम् ॥ ४१४ ॥ तत्रस्थे जिनचैत्येऽसौ रक्षो-यक्षादिभिः सह । वन्दित्वा विधिना देवानथ स्तोतुं प्रचक्रमे ॥ ४१५ ॥ मुनीन्द्रहृदयानन्दकन्दकन्दलनाम्बुद ।। विकल्पकल्पनापेतं वीतरागत्वमेव मे ॥४१६ ॥ पुण्यभाजितयाऽऽत्मीये जिन ! ध्यायन्ति ये हृदि । ध्यातारोऽपि परं ध्येया भुवनस्यापि ते मताः ॥ ४१७ ॥ तैस्तैर्भुवनविख्यातैश्चरितैरिन्दुसुन्दरैः । जिन ! ध्वस्ततमस्तोम ! त्वमेव परमं पदम् ॥४१८॥ सत्पथप्रतिपन्धित्वान्यवधीदेव ! यः पुरा । Page #116 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेज्ञानैकसम्पदे रूपातीत ! तस्मै नमोऽस्तु ते ॥ ४१९ ॥ निर्वापयसि संसारमरुस्थलपथस्थितम् । दृष्टोऽप्याकस्मिकाम्भोदसोदरः परमेश्वर ! ॥ ४२० ॥ ध्यातो येन जिनेश ! त्वं विकाशिकमलानन !। तस्य विश्वोत्तमानन्तसौख्यलक्ष्मीनिधे ! प्रभो ! ॥४२१॥ गुणैरेव त्वया देव ! शरच्चन्द्रप्रभासितैः । अन्तर्वैरिगणो वीरधर्ममर्मविदा मुदा ॥ ४२२ ॥ नयद्वयभुजा पीनगात्रकाङ्गा जनैः सुगा। सौम्य ! त्वदागमाख्याऽसौ निश्रेणिः सिद्धिधामनि ॥४२३।। गुप्तकर्मक्रियं भव्य भावदेव मुनिस्तुत ! । क्षीणकर्मक्रियं नाथ ! देहि सर्वज्ञ ! मे पदम् ॥ ४२४ ॥ इति चित्रगुणं चित्रस्तोत्रेण जगतां पतिम् । स्तुत्वा कुमारो देवेभ्यः समहस्तमदापयत् ।। ४२५ ॥ भेरी-शम्बूक-ढक्काभिमृदङ्ग-पटहादिभिः । आतोद्यैर्वाद्यमाननिर्घोष उच्छलितो भृशम् ॥ ७२६ ॥ तमाकर्ण्य निजास्थाने स्थितो राड् हरिवाहनः । पप्रच्छ मन्त्रिणः कोऽयाकस्मिकोऽयं महाध्वनिः ? ॥४२७।। तद् यावच्चिन्तयेद् मन्त्रिजनस्तावद् नराधिपम् । . काननाधिकृतोऽभ्येत्य नरो वर्धापयत्यदः ॥ ४२८ ।। देव ! देववनाहानवनेसुरपरिच्छदः। भीमः समागतस्तत्रारब्धश्चैत्यमहोत्सवः ॥ ४२९ ॥ नृपस्तस्याङ्गसंलग्नं दत्त्वाऽऽभरणमुद्धसन् । प्रतीहारं समादिश्य पुरशोभामकारयत् ॥ ४३० ॥ महा स स्वयं दूरादागतं सुतमभ्यगात् । उल्लसन् वलितं कृष्णपक्षादिन्दुमिवाम्बुधिः ॥ ४३१ ॥ आगच्छन् भूभुजं दृष्ट्रा पथि भीमो विमानतः। अवतीर्य पितुर्मातुश्चरणौ प्रणमन्नतः ॥ ४३२ ।। Page #117 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। औचित्यमन्यलोकानामपि कृत्वा पितुर्गिरा । भीमो गजेन्द्रमारूढः पश्चादारोप्य मन्त्रिणम् ॥ ४३३॥ समं पित्रा गतः सौधं मङ्गलैः स परश्शतैः । अशेषमङ्गलावासो यतो धर्मः श्रितोऽमुना ॥ ४३४ ॥ भोजनान्तरं पृष्टो भीमस्य मतिसागरः । चरित्रं यद्यथावृत्तमाचख्यौ भूभुजः पुरः॥ ४३५ ॥ बढी राजसुताः पुत्रः स पित्रा परिणायितः । निजराज्येऽभिषिक्तश्च जिनदीक्षाऽऽददे स्वयम् ॥ ४३६ ॥ ततो भीमनरेन्द्रोऽपि जिनधर्मप्रभावकः । प्रान्ते प्राप्तपरिव्रज्यो जगाम परमं पदम् ॥ ४३७ ॥ स्वयं प्राणिवधादेवं विनिवृत्तः परानपि । निवर्त्य परमां सिद्धिमाप लोकद्वयेऽपि सः ॥ ४३८ ॥ वचोऽपि हिंसाविषयं महानर्थविधायकम् । अत्र मातृ-सुतौ चन्द्रा-सर्गाहानौ निदर्शनम् ॥ ४३९ ।। तथाहिअस्त्यत्र भरतक्षेत्रे वर्धनागपुरं पुरम् । सदडो नाम कोऽप्येकस्तत्रासीत् कुलपुत्रकः ॥ ४४० ॥ तस्य चन्द्राभिधा पत्नी सुतः सर्गस्त्रयोऽप्यमी । अभाग्यवशतोऽभुवन् दारिद्यकुलमन्दिरम् ॥ ४४१ ।। विपन्ने सवडे चन्द्रा तुन्दार्थ परवेश्मसु । कुरुते कर्म, सर्गोऽपि वनादानयतीन्धनम् ॥ ४४२ ॥ पूर्णश्रेष्ठिगृहेऽन्येद्युर्जामातरि समागते । जलमानेतुमाहूता चन्द्रा पुत्रे वनं गते ॥ ४४३ ॥ सोऽपि पुत्रार्थमारोप्य भोजनं शिक्यकेऽद्भुतम् । ययौ कटिकया द्वारं पिधायेभ्यगृहं मुदा ॥ ४४४ ॥ चित्रं केऽपि प्रभुत्वेऽपि प्रतिबध्नन्ति नो मनः। परप्रेष्यत्वमप्याप्य बाढं हृष्यन्ति केचन ॥ ४४५ ॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते वेलायामागतः सर्गो मुक्तं मुद्रेन्धनं ततः । अप्रेक्ष्य जननीं क्षुत्तृपीडया कुपितो भृशम् ॥ ४४६ ॥ जलमानीय चन्द्राऽपि व्यग्रत्वादिभ्यमानुषैः । दीना न केनाप्यकृतसारा स्वगृहमागता || ४४७ ॥ त्वां दृष्ट्रा त्वं कथं पापे ! शूलायां तत्र रोपिता । स्थिता यदियति वेलां सर्ग इत्याह निष्ठुरम् ? ॥ ४४८ ॥ तत् श्रुत्वा साऽपि तापेन सहसोवाच किं करौ । छिन्नौ ते शिक्कादन्नमुत्तार्य बुभुजे न यत् १ । ४४९ ॥ इत्युक्तिप्रत्ययं बद्धमुभाभ्यां कर्म दारुणम् । कालेन सुगुरोर्योगात् श्रावकत्वमवापि च ।। ४५० ॥ प्रवर्धमानसंवेगाद् यतिव्रतमपि क्रमात् । गृहीत्वा विधिनाऽऽराध्य सुरलोकं गतावुभौ ।। ४५१ ॥ ततश्च्युत्वा सर्गजीवस्तामलिप्त्यां धनेशितुः । जातः कुमारदेवस्याsरुणदेवाभिधः सुतः ।। ४५२ ॥ चन्द्राजीवः पुनश्च्युत्वा समभूत् पाटलापुरे । जसादित्यमहेभ्यस्य देविणी नाम पुत्रिका ।। ४५३ ॥ सा दत्ताsरुणदेवस्य किन्त्वनिष्पन्न एव सः । विवाहेऽगाद् वणिज्यायै कटाहे जलवर्त्मना || ४५४ ॥ ततो व्यावर्तमानस्य दैवाद् यानमभज्यत । महेश्वराख्यमित्रेण स तीर्त्वाब्धितटं गतः ॥ ४५५ ॥ ततो गच्छन् क्रमेणासौ पाटलापुरमागतः । ईश्वरेणोदितं मित्र ! श्वशुरस्थानमत्र ते ।। ४५६ ॥ तत्तत्र गम्यते, सोऽपि माह नैवंविधस्य मे । श्वशुरान्तेऽईति गन्तुमीश्वरः पुनरवीत् ।। ४५७ ॥ तत्तिष्ठ बहिरेव त्वं पुरान्तर्याम्यहं पुनः । आनेतुं भोजनं तेनानुज्ञातः स तथाऽकरोत् ।। ४५८ ॥ अरुणस्तु श्रमात्तत्र विश्रान्तो मिलितेऽक्षिणी । १०६ Page #119 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। तदा चारुण-देविण्योः कर्मोदीर्ण वचस्कृतम् ॥ ४५९ ॥ गतायाः क्रीडनोद्यानं देविण्याः कटकद्वयम् । गाढाविति करौ छित्त्वा दस्युना जगृहे रहः ॥ ४६० ॥ कूजितं वनपालिन्या ततश्चौरानुसारतः । दृष्ट्वा पलायमानं तं धाविता दण्डपाशिकाः॥ ४६१ ॥ क्षीणशक्तिरथो पूर्व दृष्टं जीर्णसुरालयम् । प्रविष्टो यत्र सुप्तोऽस्त्यरुणदेवः सुनिर्भरम् ॥ ४६२ ॥ अयमेवाधुनोपाय इति ध्यात्वा स तस्करः। तत्पार्चे कटको मुक्त्वा शस्त्रीं च शिखरेऽविशत् ॥ ४६३ ॥ उत्थितोऽरुणदेवोऽथ निरीक्ष्य कटकद्वयम् । दत्तं देव्येति संतोषाद् गृहीत्वाऽगोपयत् कटौ ॥४६४ ॥ छुरिकां पुनरादाय किमेतदिति चिन्तयन् । यावदस्त्यरुणस्तावदागता दण्डपाशिकाः ॥ ४६५ ॥ संक्षुब्धः सन् स तैरुक्तो रेऽधुना कुत्र यास्यसि । इत्युक्त्वा ताडयत्स्वेषु पपात कटकद्वयी ॥ ४६६ ।। ततो बद्ध्वार्पितो राज्ञो वृत्तान्तश्च निवेदितः। नृपादेशाच्च शूलायां भिन्नो नीत्वा बहिः स तैः ॥४६७॥ अत्रान्तरे भोज्यपाणिस्तत्रागादीश्वरः पुरात् । अदृष्ट्वाऽरुणदेवं च पप्रच्छारामपालकान् । ४६८ ॥ अहो! एवंविधः कोऽपि दृष्टो देवकुलादितः। गच्छन् कुत्रापि युष्माभिस्तैरूचे कोऽपि नेक्षितः ? ॥४६९॥ किन्त्वेकः कोऽपि चौरोऽत्र धृत्वा व्यापादितोऽधुना । गतश्चेत् कौतुकात् तत्र न जानीमस्तदा वयम् ॥ ४७० ॥ ततो व्याकुलितो यावद् वध्यस्थानं गतो द्रुतम् । अरुणं दारुणावस्थं शूलायां तावदैवत ॥ ४७१ ॥ हा ! श्रेष्ठिपुत्र ! हा! मित्र ! किं तवासीदिति ब्रुवन् । आराटिं भीषणां मुक्त्वा मूर्छितो न्यपतत् क्षितौ ॥४७२॥ Page #120 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते सकौतुकोदयं तत्राश्वास्य प्रेक्षार्थकैर्जनैः । आर्य! श्रेष्ठितः कोऽयमिति पृष्टः स्खलन् जगौ ? ॥४७३ ॥ किं कथ्यतेऽधुना हन्त ! न्यवर्तत कथानकम् । असौ कुमारदेवस्य तामलिप्तीनिधेः सुतः । । ४७४ ॥ एतन्नगरवास्तव्यजसादित्य सुतापतिः । यानभङ्गवशादित्थमद्यैवात्र समागतः || ४७५ ॥ इत्याद्यशेषवृत्तान्तं निवेद्यात्मानमीश्वरः । शिलया हन्तुमारब्धो धृतश्च प्रेक्षकैर्जनैः || ४७६ ॥ इमं व्यतिकरं श्रुत्वा जसादित्यो निजाङ्गजाम् । आदाय देविणीमागादरुणं तं तथैक्षत || ४७७ ॥ ततस्तं प्रत्यभिज्ञाय धिक् पापं मामिति ब्रुवन् । मूर्च्छितः सह देविण्याऽऽश्वासितश्च स बन्धुभिः ||४७८ ॥ शलिकान्तः समाकर्ण्याऽरुणदेवं स पूर्जनात् । काष्ठान्ययाचत श्रुत्वा तद् नृपो द्रुतमागतः || ४७९ ॥ अब्रवीच्च जसादित्य ! दैवमत्रापराध्यति । १०८ नाहं तु यन्ममाऽप्येवं सहसाकारिताऽभवत् ।। ४८० ॥ तदाग्रहमिमं मुञ्च हृदि कर्मस्थितिं स्मर । अन्यथा चिन्तितं कार्य कर्मणा क्रियतेऽन्यथा ।। ४८१ ॥ अत्रान्तरे चतुर्ज्ञानी मुनिर्नाम्नाऽमरेश्वरः । ज्ञात्वा तत्राययौ बोधोपकारं बहुदेहिनाम् || ४८२ ॥ तत्प्रभावाच्च सर्वेषां गलिताः शोकशङ्कवः । शान्तो देवोऽर्च्य इत्यस्माज्जाता धर्मश्रुतौ मतिः || ४८३॥ देवैर्गन्धाम्बुसंसिक्तभून्यस्त स्वर्णपङ्कजे । उपविश्य महात्माऽसौ धर्ममाख्यातुमुद्यतः ॥ ४८४ ॥ मुञ्चताsहो ! मोहनिद्रां जाग्रत ज्ञानजागरैः । त्यजत प्राणिघाताद्यं लात क्षान्त्यादिकान् गुणान् ||४८५|| प्रमादमुज्झत द्विष्टं प्रमादादल्पतोऽपि यत् । Page #121 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। बध्यते दारुणं कर्म देविन्य-रुणदेववत् ॥ ४८६ ॥ नृपमुख्यैरथो पृष्टं शिष्टं च मुनिनाऽखिलम् । तच्चरित्रं, ततः पर्षद् महासंवेगमागमत् ।। ४८७ ॥ देविन्य-रुणदेवौ तु जातजातिस्मृती मुनिम् । अयाचतामनशनं धर्मध्यानैकमानसौ ॥ ४८८ ॥ मुनिराह महाभागाविदं वां युज्यतेऽधुना । ततो नृपादिसांमत्यात् ताभ्यामनशनं कृतम् ॥ ४८९ ॥ विज्ञप्तं भूभुजा नाथ ! दुष्कृतादियतोऽपि चेत् ।। भवेदेवंविधावस्था मादृशां का गतिस्ततः ? ॥ ४९० ॥ मुनिरूचेऽमुना भूम्ना तिर्यग्-नरकसंभवः। अतः शत्रु-विषा-निभ्यः प्रमादो ह्यधिकः स्मृतः ॥४९१॥ राजाह क उपायः स्याद् दुःखस्यास्य निवारणे ? । मुनिराह प्रमादस्य रोधनं संयमेन यत् ॥ ४९२ ॥ राज्ञाऽभाणि किमेताभ्यां ह्यप्रमादो न सेवितः ? । प्रचुरेण प्रमादेन नियतं दुर्गतिर्भवेत् ॥ ४९३ ।। अप्रमादस्यातिशयात् सर्वदुःखक्षयो ध्रुवम् । किश्चाभ्यामप्रमादेन क्षपितं भूरि कर्म भोः ! ॥४९४॥ शेषः कर्माश एवाऽयं मुक्तो धन्याविमौ ततः । इयानेवानयोः क्लेशः शुभधीः कथमन्यथा ? ॥ ४९५ ॥ प्रतिबुद्धस्ततो राजा जशादित्येश्वरान्वितः। दीक्षां जग्राह चौरोऽपि तज्ज्ञात्वाऽनुतताप सः ॥ ४९६ ॥ आगत्य च सनिर्वेदं निवेद्य निजदुष्कृतम् । अयाचत मुनेः पार्थात् संन्यासं मुनिरप्यदात् ॥ ४९७ ॥ आत्तपञ्चनमस्कारो निन्दित्वात्मानमुच्चकैः । तस्करोऽरुणदेवश्च देविणी च दिवं ययुः॥ ४९९ ॥ तदेवं वचनस्याऽपि हिंस्रस्य फलमीदृशम् । विज्ञायाऽऽक्रोशदानाचं वर्जनीयं प्रयत्नतः ॥ ४९९ ॥ Page #122 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते आस्तां वचन कायाभ्यां हिंसा जीवव्यथाकरी | चिन्तिता मनसाऽप्येषा नृणां नरकदायिनी ॥ ५०० ॥ यथा कोऽपि पुरा रङ्क उद्यानवनयात्रया । गते लोके पुरासन्नर्वैभारगिरिसन्निधौ ॥ ५०१ || भिक्षामलभमानः सन्निजदुष्कर्मदोषतः । हृदि चिन्तितवानेवमज्ञानाऽऽहितदुर्मतिः ।। ५०२ ॥ अहो ! कोऽपि न मे भिक्षां भक्ष्यभोज्येषु सत्स्वपि । ददाति, तदिमं सर्वे हरिष्यामीति कोपतः ।। ५०३ ॥ रौद्रध्यानवशं यातो द्रुतमारुह्य पर्वतम् । ११० एकं महोपलं मूलाच्चालयामास निर्दयम् || ५०४ ॥ तेनाधः पतता लोकः समस्तोऽपि प्रनष्टवान् । स पुनश्चूर्णितो मृत्वा द्रमको नरकं गतः ।। ५९५ ॥ आख्यातमित्यहिंसायां द्वितीयेऽपि व्रतेऽधुना । आख्यानं वसुराजस्य कथ्यमानं निशम्यताम् ॥ ५६० ॥ अस्ति शुक्तिमती नाम नगरी नगरीषु या । शुक्तिमत्याख्यया नद्या मुक्तावल्येव राजते ।। ५०७ ॥ अभूत् तस्यां स्वतेजोभिर्ध्वस्तवैरितमोभरः । चूडामणिसमः श्रीमानभिचन्द्रो नरेश्वरः || ५०८ ॥ अजायत सुतस्तस्य वसुनामा महामतिः । बालकालादपि प्रायो यस्य सत्यव्रते रतिः ।। ५०९ ॥ पुरुषेषु नयौदार्यविनयप्रमुखैर्गुणैः । वसुत्वं दधता येन चक्रे साथ वसुन्धरा । ५१० ॥ तत्र क्षीरकदम्बाख्यः सर्वशास्त्रविशारदः । उपाध्यायोsस्ति तस्याऽपि सुतः पर्वतकाभिधः ॥ ५११ ॥ वसुः पर्वतश्चैव तथान्यो नारदस्त्रयः । पार्श्वे क्षीरकदम्बस्य पठन्त्येते दिवानिशम् || ५१२ ॥ द्विरद संकाशे यौवनेऽनर्थकारिणि । Page #123 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १११ पुरुषस्याधिरूढस्य न शास्त्रादन्यदकुशम् ॥ ५१३ ॥ भास्वता स्वकरौधेन यद्वदुद्घाटितेऽम्बुजे ।। नासिकाप्यायको गन्धः प्रसरत्येव सर्वतः ॥ ५१४ ॥ तथा शास्त्रेण गुरुणा नृणामुद्बोधिते हृदि । परमानन्दजनकं तत्त्वमुन्मीलति स्वयम् ॥ ५१५॥ 'बुद्ध्येति तानुपाध्यायोऽप्यध्यापयति सादरम् । गुरोर्मात-पितृभ्यां च कोऽन्योऽस्ति भुवने हितः ॥५१६॥ रजन्यामन्यदा तेषां पठतां सौधमूर्धनि । जाग्रत्येव गुरौ निद्रा क्षणं श्रमवशादभूत् ॥ ५१७ ॥ तदा च गगने यान्तौ चारणश्रमणावुभौ । तान् निरूप्य विदित्वैवं परस्वरमवोचताम् ॥ ५१८ ॥ एषामेकतमः स्वर्ग गमिष्यत्यपरौ पुनः । नरकं यास्यतस्तच्चाऽश्रौषीत्क्षीरकदम्बकः ॥ ५१९ ।। तच्छ्रुत्वा सहसा जातविषादम्लानमानसः । अचिन्तयदुपाध्यायो दुःश्रवं धिगिदं वचः ॥ ५२० ॥ मय्यप्यध्यापके शिष्यो नरकं यास्यतो हहा !। न चालीकमिदं येन केनापि ज्ञानिनोदितम् ॥ ५२१ ॥ एभ्यः को यास्यति स्वर्ग नरकं कौ च यास्यतः ? । जिज्ञासुरित्यसौ शिष्यांस्त्रीनप्याऽऽकारयत्समम् ॥ ५२२ ॥ यावत्तूर्ण समप्युषामेकैकं पिष्टकुर्कुटम् । स ऊचेऽमी तत्र वध्या यत्र कोऽपि न पश्यति ॥ ५२३ ।। वसु-पर्वतको तत्र गत्वा शून्यप्रदेशयोः । शुभां गतिमिवात्मीयां जन्नतुः पिष्टकुर्कुटौ ॥ ५२४ ।। महात्मा नारदाख्यस्तु व्रजित्वा नगराद् बहिः । स्थित्वा च विजने देशे दिशः प्रेक्ष्येत्यवर्णयत् ॥ ५२५ ॥ गुरुपादरिदं तावदादिष्टं वत्स ! यत्वया । वध्योऽयं कुर्कुटस्तत्र यत्र कोऽपि न पश्यति ॥ ५२६ ॥ Page #124 -------------------------------------------------------------------------- ________________ ११२ श्रीपार्श्वनाथचरितेअसौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचराः। लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ ५२५ ॥ नास्त्येवं स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरुगिरां न वध्यः खलु कुर्कुटः ॥ ५२८ ॥ गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतद् नियतमादिशन् ॥ ५२९ ॥ विमृश्यैवमहत्वैवं कुर्कुटुं स समाययौ। कुर्कुटाऽहनने हेतुं गुरोर्व्यज्ञपयञ्च तम् ॥ ५३० ॥ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सखजे । गुरुणा नारदः स्नेहात् साधु साध्विति भाषिणा ॥५३१॥ अभीष्टः सुकृती युक्तं सतां धर्ममयं हि ते । संविभागमिवादातुं तस्य कुर्वन्ति गौरवम् ॥ ५३२ ॥ महतां काऽपि नापेक्षा परकीये स्वकेऽपि वा। यत्रैव गुणमीक्षन्ते तत्त्वतस्तत्र ते रताः ॥५३३ ॥ वसु-पर्वतको पश्चादागत्यैवं शशंसतुः ।। निहतौ कुर्कुटौ तत्र यत्र कोऽपि न पश्यति ॥ ५३४ ॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुर्कुटौ रे ! पापावित्यशपद् गुरुः ? ॥ ५३५ ॥ इत्थं च निर्णयं ज्ञात्वा महोद्वेगाकुलो हृदि । इति दध्यावुपाध्यायो ज्ञातव्यं धिगिदं मम ।। ५३६ ॥ आदर्शो दर्शितोऽन्धस्य मन्त्रितं बधिराग्रतः । अरण्ये रुदितं चक्रे रोपितं कमलं स्थले ॥ ५३७ ॥ वर्षितं चोषरक्षेत्रे एतावन्ति दिनानि यत् । अनयोः पाठनायासो मयाऽकारि निरर्थकः ॥ ५३८ ॥ तच्छूतं यातु पातालं तच्चातुर्य विलीयताम् । ते विशन्तु गुणा वह्नौ येषु सत्स्वप्यधोगतिः ॥ ५३९ ॥ तज्जलं यत् तृषां छिन्यात्तदनं यत्क्षुधापहम् । Page #125 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ११३ बन्धुर्यो धीरयत्यात स पुत्रो यत्र निर्वृतिः ॥ ५४० ॥ तदधीतं श्रुतं येन नैवात्मा नरके पतेत् । क्लेशायासकरं शेषं सर्वमेव विडम्बना ॥ ५४१॥ यदर्थमयमारम्भस्तयोरेवंविधा गतिः । तदध्रुवकृते कृत्यं हारयामि ध्रुवं कथम् ? ॥ ५४२ ॥ गुरूपदेशो हि यथापात्रं परिणमेदिह । स्थानभेदेन मेघाम्भो मुक्ता-लवणतां ब्रजेत् ॥ ५४३ ।। प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः। नरकं यास्यतस्तस्माद् गृहवासेन किं मम ? ॥ ५४४ ॥ निर्वदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ॥ ५४५ ॥ गुरुप्रसादतो भूत्वा सर्वशास्त्रविशारदः। नारदः शारदाम्भोदशुद्धधीः स्वां भुवं ययौ ।। ५४६ ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततो वसुरभूद् राजा वासुदेवसमः श्रिया ॥ ५४७ ॥ सत्यवादीति स पाप प्रसिद्धिं पृथिवीतले। . तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः॥५४४ ॥ यः प्राप यादृशीं ख्यातिमशुभामथवा शुभाम् । तदाश्लिष्ट इव प्रायस्तल्लेश्यः स भवेत् सदा ।। ५४९ ।। अथैकदा मृगयुणा मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ॥५५०॥ बाणस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलामज्ञासीत् पाणिना स्पृशन् ॥ ५५१॥ स दध्याविति मन्येऽस्यां संक्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशौ ददृशे हरिणो मया ॥ ५५२ ॥ पाणिस्पर्श विना नैषा सर्वथाऽप्युपलक्ष्यते । अवश्यं तदियं योग्या वसोर्वसुमतीपतेः ।। ५५३ ॥ Page #126 -------------------------------------------------------------------------- ________________ ११४ श्रीपार्श्वनाथचरिते रहो व्यज्ञपयद्राज्ञे गत्वा तां मृगयुः शिलाम् । हृो राजाऽपि जग्राह ददौ चास्मै महद्धनम् ।। ५५४ ॥ स तथा घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिसिनोऽघातयच्च नात्मीयाः कस्यचिद् नृपाः ॥५५५॥ तस्यां सिंहासनं वेदौ नरेन्द्रस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः ।। ५५६ ॥ सत्याद्धि तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिर्व्यानशे दिश: ।। ५५७ ॥ तया प्रसिद्ध्या राजानो भीतास्तस्य वशं ययुः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ||५५८ ।। आगाच्च नारदोऽन्येद्युस्ततश्चक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् ॥ ५५९ ॥ अजैर्यष्टव्यमित्यस्मिन् मेषैरित्युपदेशकम् । भाषे नारदो भ्रातर्भ्रान्त्या किमिदमुच्यते ? ।। ५६० ।। त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना । ॥५६१ ॥ ततः पर्वतकोsवादीदिदं तातेन नोदितम् । उदिताः किन्त्वा मेषास्तथैवोक्ता निघण्टुषु ॥ ५६२ ॥ जगाद नारदोऽप्येवं शब्दानामर्थ कल्पना । मुख्या गौणी च तत्रेह गौणीं गुरुरचीकथत् ।। ५६३ ॥ गुरुर्धर्मोपदेष्ठैव श्रुतिर्धर्मात्मकैव च । द्वयमप्यन्यथा कुर्वन् मित्र ! मा पापमर्जय ।। ५६४ ॥ साक्षेपं पर्वतोऽजल्पदजान् मेषान् गुरुर्जगौ । गुरूपदिष्टशब्दार्थोल्लङ्घनाद् धर्ममर्जसि ? ।। ५५६ ॥ मिथ्याभिमानवाचो हि न स्युर्दण्डभया नृणाम् । स्वपक्षस्थापने तेन जिह्वाच्छेदः पणोऽस्तु नः ।। ६६६ ॥ १ व्याख्यानं कुर्वन्तम् । Page #127 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । ११५ प्रमाणमुभयोरत्र सहाध्यायी वसुनुपः । नारदः प्रतिपेदे तन्न क्षोभः सत्यभाषिणाम् ॥ ५६७ ॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यश्रौषं भवत्पितुः ॥ ५६८ ।। जिह्वाच्छेदं पणेऽकार्यद् दर्पात् तदसांप्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ।। ५६९ ॥ अवदत् पर्वतोऽप्येवं कृतं तावदिदं मया । यथा तथाकृतस्याऽस्य करणं नहि विद्यते ॥ ५७० ।। जीवः कण्टकमारूढः कृत्याऽकृत्यं न चेतयेत् । अत: प्रशस्तभावेऽसौ स्थापनीयः सदा बुधैः ।। ५७१ ॥ साऽथ पर्वतकापायपीडया हृदि शल्यिता। वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ? ॥ ५७२ ।। दृष्टः क्षीरकदम्बोऽद्य यदम्ब ! भवतीक्षिता । किं करोमि प्रयच्छामि किश्चेत्यभिदधे वसुः ? ॥ ५७३ ॥ साऽवादीद् दीयतां पुत्र ! भिक्षा मह्यं महीपते ! । धनधान्यैः किमन्यम विना पुत्रेण पुत्रक ! ॥ ५७४ ।। वसुराह स्म मे मातः ! पाल्यः पूज्यश्च पर्वतः । गुरुवद् गुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः ॥ ५७५ ॥ कस्याद्य पत्रमुत्क्षिप्तं कालेनाऽकालरोषिणा । को जिघांसुोतरं मे ब्रूहि मातः ! किमातुरा ? ॥५७६॥ अजव्याख्यानवृत्तान्तं वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्चासील्याख्यायाऽर्थयते स्म सा ॥ ५७७ ॥ कुर्वाणो रक्षणं भ्रातुरजान् मेषानुदीरयेः। प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ? ॥ ५७८ ।। अवोचत वसुर्मातमिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नाऽसत्यं सत्यभाषिणः ॥ ५७९ ॥ १ शल्यं संजातं यस्यां सा । २ स्वीक्षितेति रहस्यम् । Page #128 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते अन्यदप्यभिधातव्यं नाऽसत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ? ॥ ५८० ॥ बहु कुरु गुरोः पुत्रं यद्वा सत्यव्रताग्रहम् । तथा सरोषमित्युक्तस्तद्वचोऽमंस्त पार्थिवः ।। ५८१ ॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । आजग्मतुश्च विद्वांसौ तत्र नारद - पर्वतौ ।। ५८२ ॥ सभायाममिलन् सभ्या माध्यस्थ्यगुणशालिनः । वादिनोः सदसद्वादक्षीरनीरसितच्छदाः ।। ५८३ ॥ आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलंचक्रे नभस्तलमिवोडुपः || ५८४ ॥ ततो निजनिजव्याख्यापक्षं नारद-पर्वतौ । कथयामासतू राज्ञि सत्यं ब्रूहीति भाषिणौ ।। ५८५ ।। विप्रवृद्धैः स ऊचेऽथ विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवार्यमा ॥ ५८६ ॥ घटप्रभृतिदिव्यानि वर्तन्ते देव ! सत्यतः । सत्याद्वर्षति पर्जन्यः सत्यात्तुष्यन्ति देवताः || ५८६ ॥ देव ! त्वं सत्यवादीति विख्यातो भुवनत्रये । सत्यमेव स्थिरं लोके सर्वमन्यद् विनश्वरम् ।। ५८८ ।। त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते ! । स्वामिहार्थे कि ब्रूमो ब्रूहि सत्यत्रतोचितम् १ ||५८९ ॥ अदृष्टाः सिद्धगन्धर्वा राज्याधिष्ठातृदेवताः । लोकपालाश्च शृण्वन्ति वद सत्यं नरेश्वर ! | ५९० ॥ यद्युदेति रविः प्रत्यङ् मेरुश्चापि प्रकम्पते । तथाऽप्यसत्यं भाषन्ते नैव सत्यधना नराः ।। ५९१ ॥ वचोऽश्रुत्वैव तत् सत्यप्रसिद्धिं स्वां निरस्य च । अजान् मेषान् गुरुर्व्याख्यदिति साक्ष्यं वसुर्व्यधात् ॥ ५९२ ॥ असत्यवचसा तस्य क्रुद्धास्तत्रैव देवताः । ११६ Page #129 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। दलयामासुराकाशस्फटिकासनवेदिकाम् ॥ ५९३ ॥ वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्निव ॥ ५९४ ॥ कूटसाक्ष्यप्रदातुस्ते श्वपचस्येव को मुखम् । पश्येदिति वसुं निन्दन् नारदः स्वास्पदं ययौ ? ॥ ५९५॥ उच्चारूढैनरैरात्मा रक्षणीयोऽतियत्नतः । दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ॥ ५९६ ॥ देवताभिरसत्योक्तिकुपिताभिर्निपातितः । जगाम नरकं घोरं नरनाथो वसुस्ततः ॥ ५९७ ॥ यो यः सूनुरुपाविक्षद् राज्ये तस्याऽपराधिनः । प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥ ५९८ ॥ इति ज्ञात्वा महाघोरमसत्यवचसः फलम् । स्वमेऽप्युक्तस्य कूटस्य प्रायश्चित्तयति प्रधीः ॥ ५९९ ॥ जलं गलनवस्त्रेण विवेकन गुणवजः । सदानेन गृहारम्भो वचः सत्येन शुध्यति ।। ६०० ॥ अस्ति बाह्येषु हेमाद्यमङ्गोपाङ्गेषु भूषणम् । नराणामन्तरङ्गाया जिह्वायाः सत्यमेव च ॥ ६०१ ॥ सत्योपयाचितत्वेन पूज्यन्ते देवता अपि । देवतेव मनुष्योऽपि ध्रुवं सत्येन वीक्ष्यते ॥ ६०२ ॥ दूरेऽस्तु कूटसाक्ष्यादि सदप्यपरघातकम् । फल्गु वाक्यं परीवादं सत्यवादी विवर्जयेत् ॥ ६०३ ॥ तत्सत्यमपि नो सत्यं यत्परस्योपतापकम् ।। असत्यमपि तत्सत्यं यत्परस्योपकारकम् ॥ ६०४ ॥ परस्यालीकमारोप्यं हास्येनाऽपि न पण्डितैः । हर्षेण भक्षितं किं न मारणाय विषं भवेत् ? ॥६०५॥ दोषं खालमिवान्यस्य चालयंस्तेन लिप्यते । तज्ज्ञात्वा चतुरस्तेन मार्गे रुद्धमुखो व्रजेत् ॥ ६०६ ॥ Page #130 -------------------------------------------------------------------------- ________________ ११८ श्रीपार्श्वनाथचरिते धर्माऽसत्यं विशेषेण वर्जनीयं विचक्षणैः । सामकः कायजो दोषः सर्वगो वाचिकः पुनः ॥ ६० ॥ साधूनां सद्दान्यानां सतीनां सत्यवादिनाम् । महिमानमिव द्रष्टुं रविरायाति नित्यशः ॥ ६०८ ॥ तृतीयाऽणुव्रतं ज्ञेयं चौर्यवर्जनलक्षणम् । पालितं श्रेयसे यत्स्यादत्राऽमुत्राऽपि देहिनाम् ॥ ६०९ ॥ यस्याऽर्थे निजदेहोऽपि महाकष्टे नियोज्यते । क्षिप्यन्ते संशये प्राणा जनैः प्रियतमा अपि ॥ ६१० ।। तत्परस्य धनं येन निस्त्रिंशमतिना हृतम् । मृतेरप्यधिका तस्य तेन जीवन्मृतिः कृता ॥ ६११ ॥ आस्तां परभवेत्रापि चौर्योपप्लुतचेतसः । नित्यं छलेक्षिणः कापि शाकिन्या इव नो धृतिः ॥६१२॥ परस्यादत्तं नादत्ते सुधीस्तृणमपि कचित् । स्पृष्टोऽङ्गुल्याऽपि मातङ्गः किं न मालिन्यकारकः ॥६१३।। वैर-वैश्वानर-व्याधि-वाद-व्यसनलक्षणाः। महाऽनर्थाय जायन्ते चकाराः पञ्च वर्धिताः ॥ ६१४ ॥ तपस्यपि कृते प्रायः पापं चौर्यकृतं नृणाम् । अभुक्तं क्षीयते नैव दृष्टान्तोऽत्र महाबलः ।। ६१५ ॥ नगरे श्रीपुराभिख्ये पार्थिवो मानमर्दनः। यथार्थनामधेयोऽभूच्छत्रूणां मानमर्दनः ॥ ६१६ ।। बली महाबलो नाम तत्रैव कुलपुत्रकः । पितृभ्यां पाठितः किश्चिदुच्छन्नखजनः क्रमात् ।। ६१ ॥ निरङ्कुशतया स्वैरं भ्रमन् दुष्कर्मदोषतः । दूतव्यसनसञ्जातचौर्यवृत्तिरतोऽभवत् ॥ ६१८ ॥ सोऽन्यदा निशि चौर्याय दत्ताख्यधनिनो गृहे । गतो जालान्तरेणाऽसौ गृहमध्यमलोकत ॥ ६१९ ।। समानः। Page #131 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। सावद्विशोपकैकस्याऽमेलतो लेख्यके कलिम् ।.. कुर्वन्तं दत्तमद्राक्षीत् तनयेन समं भृशम् ॥ ६२० ॥ सुदक्षत्वादसौ चौरो व्यचारयदिदं हृदि । स्तोकव्यतिकरे स्वार्थभ्रंशकं धिगिमं हहा !॥ ६२१ ॥ प्रभूतार्जितवित्तेन विनीतेन सुतेन यः। एवं निशाभरे निद्राविमुखः कुरुते कलिम् ॥ ६२२ ॥ तस्य वित्तं हरिष्ये चेद् विदीर्णहृदयस्तदा । सद्यो विपत्स्यते तस्माद्यास्याम्यन्यत्र कुत्रचित् ॥६२३॥ गतश्च कामसेनाया वेश्याया भवनं ततः । दस्युर्ददर्श तां रूपनिर्जिताऽनङ्गवल्लभाम् ॥ ६२४ ॥ स्वयं स्नानाङ्गरागाचं कस्याऽप्यत्यन्तकुष्ठिनः । नानोपचारं परमं दैवतस्येव कुर्वतीम् ।। ६२५॥ (युग्मम् ) अचितन्यच्च नैतस्या अपि मे कल्प्यते धनम् । वीक्षते धनलोभेन स्मरवत् कुष्ठिनोऽपि या ॥ ६२६ ॥ परिभ्रमन् पुनर्विप्रगृहेऽथागाद् महाबलः । पर्यङ्के शयितं तं चाद्राक्षीत् स्वप्रिययाऽन्वितम् ॥ ६२७ ॥ इतश्वोपरिसंस्थेन मूत्रिते तत्करे खुना । स्वस्तीति कथयित्वाऽसौ स संभ्रान्तः समुत्थितः ॥६२८॥ चौरेण चिन्तितं लोभः स्वप्नेऽप्येतस्य विद्यते । एतावांस्तद् मया कार्य चौर्य नैवात्र निश्चितम् ॥ ६३९॥ किमन्यैरपि न क्षुदैर्मुषितैः पामरैर्जनैः । सर्वार्थसाधकं राजसौधमेव प्रयाम्यतः ॥ ६३० ॥ इत्येकमानसो गत्वा तत्र खात्रं प्रपात्य च । वासवेश्मप्रविष्टोऽसौ तत्र पार्थिवमैक्षत ॥ ६३१ ॥ • पल्यङ्कस्थं समं राझ्या शयानं सुखनिद्रया। तं दृष्टा मुदितोऽत्यन्तं चौरश्चिन्तितवानिदम् ॥ ६३२ ॥ अहो ! मे भाग्यसंपत्तिर्यदयं सर्वकामदः। Page #132 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथ चरिते चिन्तामणिरिवैकान्ते चटितो भूपतिः करे ।। ६३३ ॥ जिघृक्षुस्तत्करं यावदीक्षतेऽसावितस्ततः । तावत् कपाटच्छिद्रेण विशन्तं सर्पमैक्षत ॥ ६३४ ॥ अरेऽत्र किमयं कर्ता विस्मयादिति स क्षणम् । निलीय दीपच्छायायां तस्थौ साहसिकाग्रणी ः १ ॥ ६३५ || सर्पोऽपि वासवेश्मान्तर्गत्वा शय्यावहिः स्थितम् । करं राज्ञ्याः प्रसुप्तायाः दष्ट्वा व्याघुट्य निर्ययौ ॥ ६३६॥ तं दृष्ट्रा कौतुकाक्षेपविस्मृतात्मा स तस्करः । निःशङ्खं द्वारमुद्घाट्य सहसैव तमन्वगात् || ६३७ ॥ सौधादधः समुत्तीर्य समभूमिं गतः फणी । स रूपं बिभरांचक्रे महाकायवृषस्य तु ।। ६३८ ॥ नर्दश्व स वृषो वृद्धं प्रतोलीद्वारयामिकम् । दण्डमुत्पाट्य धावन्तमभिहत्य न्यपातयत् ।। ६३९ ॥ चौरोऽथ निविडं पुच्छे गृहीत्वा पृच्छति स्म तम् । कस्त्वं भोः ! किमिहायातः किमिदानीं करिष्यसि । ॥६४० ॥ मर्त्यवाचाऽथ सोऽवोचत् किंकरोऽहं यमस्य भोः ! । राज्ञी - प्राहरिको हन्तुं तस्यादेशादिहाऽऽगमम् ॥ ६४१ ॥ श्वस्तने तु दिने नव्यराजप्रासादशृङ्गतः । सूत्रधारवरस्तुङ्गात् पतित्वा मृत्युमेष्यति ।। ६४२ ॥ चौरोऽप्याह स्म यद्येतत् तदा कथय संप्रति । भविष्यति कथं मृत्युः कुतो वा मम सुन्दर ! १ ॥६४३॥ स ऊचे भद्र ! मा प्राक्षीः पश्चात्तापकरं वचः । निर्बन्धेन पुनः पृष्टो वृषोऽवोचदहो ! शृणु ॥ ६४४ ॥ पुरेsa राजमार्गस्थो वटवृक्षोऽस्ति यो महान् । उद्धद्धस्तस्य शाखायां मृत्युमासादयिष्यसि । ६४५ ॥ तच्छ्रुत्वाऽत्यन्तभीतेन तेन मुक्तो वृषः क्षणात् । तिरोऽभूत् स पुनः कोऽपि तचत्कर्मेरितो सुरः ||६४६ ॥ १२० Page #133 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। . १२१ स द्वितीयदिने सूत्रधारस्य मरणं तथा । दृष्टाऽभूद् भाविपश्चत्वभयव्याकुलितो भृशम् ॥ ६४७ ॥ यत उक्तम्मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रोचेत किमुताऽकृत्यकारिता ? ॥ ६४८॥ दूरं यास्याम्यतः शाखामिमां पश्यामि नो यथा । करिष्ये च तपस्तीनं सर्वानर्थनिवारकम् ॥ ६४९ ॥ इति निश्चित्य स कापि ग्रामे दूरतरे ययौ । तदासनवने दक्षिां जगृहे तापसान्तिके ।। ६५० ॥ विपन्ने च गुरौ देवायतने देवपूजनम् । कुर्वन् मठस्थितस्तोत्रमज्ञानं कुरुते तपः ॥ ६५१ ॥ इतश्च श्रीपुरे राजभवनाद् रत्नपेटिकाम् । गृहीत्वा तस्करः कोऽपि रात्रौ धृष्टः प्रनष्टवान् ॥ ६५२ ।। स राजपुरुषैः पृष्ठे प्रेर्यमाणो भयद्रुतः । विवेशोपवने तत्र यत्राऽऽस्ते दस्युतापसः ॥ ६५३ ।। मुक्त्वा तस्यान्तिके पेटां चौरो दूरं पलायितः । तां वीक्ष्य तापसः प्रातर्जजल्प मुदिताननः ॥ ६५४ ॥ अहो ! देवेन मे तोषाद् दत्ता रत्नकरण्डिका । तपःप्रभावादथवा किं न संपद्यते नृणाम् ? ॥ ६५५ ॥ इंति यावत् करेणैतां विषकन्यामिव स्पृशेत् । तावत् स वेष्टितोऽत्युप्रैरभितो राजपूरुषैः ।। ६५६ ॥ अरे ! तापसवेषेण मुषितं श्रीपुरं पुरा । मुमूर्षरधुना मूर्ख ! ढौकितो राजवस्तुनि ॥ ६५७ ।। इत्युक्त्वा यष्टि-मुष्ट्याद्यैर्हत्वा बद्ध्वा च ते दृढम् । पुरः कृत्वा च तं तुष्टाः श्रीपुरं प्रत्यचालयन् ॥६५८॥ तद्वीक्ष्य तापसो दध्यौ यत्तेन कथितं तदा । तदेतदुपतस्थे मां व्यक्तमेवं पपाठ च ।। ६५९ ॥ .१६ Page #134 -------------------------------------------------------------------------- ________________ १२२ श्रीपार्श्वनाथचरितेरक्ष्यते नैव भूपालैन देवैन च दानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ॥ ६६०॥ अरे ! लपसि किन्त्वेवं गलात्त इव बर्करः। इत्युक्तः स तलारक्षैः पापठीति तदेव हि ॥ ६६१ ॥ ततो नीत्वाऽथ तै राज्ञः सोऽर्पितो वस्तुना समम् । राजाऽपि संशयापनमानसस्तमभाषत ॥ ६६२ ॥ . अहो ! सौम्यं वपुर्वेषः प्रशस्यो दृगनुद्धता । क्रूरं च चौर्यकर्मेदं सर्वमीक्षे तवाऽघटम् ॥ ६६३ ।। ऊचे महाबलः स्वामिन्नघटं सर्वमावयोः । दैवस्य तु विचित्रस्य न किञ्चिदिह दुर्घटम् ॥ ६६४ ॥ रक्ष्यते तपसा नैव न देवैर्नच दानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ॥ ६६५ ।। अहो ! कोऽसौ वटस्तस्य का शाखा को महाबलः । राज्ञेत्युक्तः स भूयोऽपि पठति स्म तदेव हि ॥ ६६६ ॥ सगर्भ तद्वचो ज्ञात्वा महादक्षो नरेश्वरः । उन्मोच्य बन्धादभयं दत्त्वा पप्रच्छ तं पुनः ॥ ६६७ ॥ उन्मीलज्जीवितव्याऽऽशः स भूपाय यथातथम् ।। खात्रपाताऽहिदंशाचं वृत्तान्तं सर्वमाख्यत ॥ ६६८ ॥ तच्छ्रुत्वा सर्पदष्टात्मदयितास्मृतिजन्मना । रुषाऽरुणदृशाऽऽकाशे लक्ष्यं बद्ध्वा नृपोऽवदत् ॥६६९॥ अरे रे दैव ! निस्त्रिंश ! बालस्त्रीद्धघातक !। कृत्याऽकृत्यविशेषाऽज्ञ ! चौरवच्छिद्रवीक्षक! ॥६७० ॥ अजानतस्तदा मे चेदपजहे प्रिया त्वया । अनयैव तया शौर्यवृत्त्या मा गर्वमुदहेः॥ ६७१ ॥ अस्मिन् महावले वाक्यं निजं तदधुना यदि। .. सत्यापयिष्यसे तर्हि ज्ञास्ये त्वां सुभटं वरम् ॥ ६७२ ॥ १ अघटमानम्। Page #135 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १२३ इत्युदित्वा महीपालो ग्रासवासादिदानतः । खपुत्रमिव तं तुष्टः पुष्टं चक्रे महाबलम् ॥ ६७३ ॥ तर्जयामास दैवं हि रे हताश ! विधे ! तव । निधायं मस्तके पादं कीडत्येष महाबलः ॥ ६७४ ॥ दृष्टयाऽपि तया सोऽथ हृदि शल्यायमानया। शाखयोजितोऽत्यन्तमिति राज्ञो व्यजिज्ञपत् ।। ६७५ ॥ यदि तुष्टोऽसि मे देव ! दूरं देशं तदादिश । यत्र पश्यामि नो शाखामिमां दृष्टिविषोरगीम् ॥ ६७६ ॥ त्वमेवं वत्स ! मा भैषीर्देवोऽपि तव किङ्करः। मद्भुजापञ्जरस्थस्य शाखाऽप्तौ किं करिष्यति ? ॥६७७ ।। निःशङ्कमानसो भोगान् भुक्ष्व सर्वोत्तमानिति । धीरयामास तं राजा मन्वानो निर्जितं विधिम् ॥ ६७८ ॥ सोऽन्यदा कृतशृङ्गारः स्वर्णशृङ्खलकादिभिः । अश्वारुढः समं राज्ञा राजपाटिकया जन् ।। ६७९ ॥ प्रियया कार्यमुद्दिश्य व्याघुट्याऽऽकारितो गृहे । क्षणं स्थित्वाऽनु राजानं प्रचचाल पुनर्जवात् ॥ ६८० ॥ गतस्तस्य वटस्याधः शङ्कया वेगवत्तरम् । यियासुस्ताडयामास निदेयं कशया हयम् ॥ ६८१ ॥ सहसोल्ललिते तस्मिन् महाबलगले स्थितम् । स्वर्णशृङ्खलकं पश्चाद्भागे गत्वा समुच्छलत् ।। ६८२ ॥ तस्यैव वटवृक्षस्य शाखायास्तीक्ष्णकण्टके । स्थितं बिलग्य वेगाचाऽवस्तादश्वो गतोऽग्रतः ॥ ६८३ ॥ a (युग्मम् ) महाबलो गतबलः स्मृत्वा श्लोकं तमादिमम् । यावत्पठत्यसौ तावद् मृतः कण्ठग्रहार्दितः ॥ ६८४ ॥ द्रुतं लोकैरधस्तस्योत्तारितस्य कृतोऽखिलः । प्रतीकारो वृथा. जज्ञे उपदेशो यथा जडे ॥ ६८५ ॥ Page #136 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते श्रुत्वा ततादृशं तस्यावसानं कर्णशूलकृत् । व्यावृत्यागत्य तं दृष्ट्वा विललाप भृशं नृपः ॥ ६८६ ॥ हा वत्स ! किमिदं जातं यदाम्र इव पुष्पित: ? । - दैवदावानले नैवमकस्माज्ज्वालितो भवान् ॥ ६८७ ॥ किं मया वट एवायं मूलादुन्मूलितो न हि । तस्यैव च्छेदिता शाखा पूर्वमेवाऽथवा न किम् ? || ६८८ || कथयन्नपि किं वा न स्थापितोऽन्यपुरे भवान् ? । सर्वथा मम दैवेन मतिभ्रंशः कृतो ध्रुवम् ।। ६८९ ॥ दीपिकेव मतिस्तावद्योतते हृदयाङ्गणे । नृणां यावन्न दुष्कर्ममयी वात्या विजृम्भिता ।। ६९० ॥ मयि सत्यपि रक्षार्थ नाथे सबलवाहने । १२४ अनाथस्येव कष्टं च दशा तेऽजनि कीदृशी १ ॥ ६९१ ॥ किश्चेदं मम नाथत्वं का वा रक्षा मया भवेत् । मृत्योः परवशे लोके कथं मिथ्याभिमानिता ! ॥ ६९२ ॥ आपद् व्यापादिता नैव जरा नो जर्जरीकृता । न मृत्युर्निहतो जीव ! गर्न कुर्वन् न लज्जसे ? ||६९३॥ अहं कर्ता च हर्ताऽहं सगुणोऽहमहं धनी । कोऽहमित्येव तावत् त्वं जीव ! नो वेत्सि तत्वतः ॥ ६९४॥ न केवलं कलत्रं मे पुत्रो वाऽयं त्वया हृतः । मनं मे मर्दयमेवंविधे ! नामाऽप्यपाहतम् ॥। ६९५ ।। विधिः को वा किं दैवं कः कृतान्तोऽथवा जने ? | जीवैर्नामान्तरेणेदं निजं कर्मैव भुज्यते ।। ६९६ ॥ तस्मात्तदेव रे ! जीव ! शुभं कर्म समाचरेः । इत्थं येनापमानस्ते कदापि न पुनर्भवेत् ।। ६९७ ॥ संबोधाऽभिमुखं नाथमित्थं ज्ञात्वाऽथ मन्त्रिणः । महाबलस्य संस्कारं श्रीखण्डाद्यैरकारयन् ॥ ॥ ६९८ ॥ तद्दिनाच्च शुचा कृत्यचिन्तया चार्दितो नृपः । Page #137 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १२५ जातवीडः क्षतक्रीडस्तस्थौ सौधान्तरेव हि ॥ ६९९ ॥ यतःघातः शुन इवाऽज्ञस्य विस्मरेत क्रमान्तरे । सिंहस्येव न वीरस्य कदाप्यभिभवोद्भवः ॥ ७०० ॥ अन्यदा नन्दनोद्याने मुनिद्वन्द्वं समागतम् । ज्ञात्वा बोधाय मन्त्रीशा नृपं निन्युस्तदन्तिके ॥ ७०१ ॥ ज्ञानादतीन्द्रियात् सोऽपि ज्ञात्वा भावं महीपतेः। उवाच चित्तकालुष्यगर्वसर्वकषं वचः ॥ ७०२ ॥ इह जीवः स्वभावेन संबद्धः कर्मणा समम् । शुभाशुभेन तेनाऽसौ सुखदुःखं समश्नुते ॥ ७०३ ॥ अतः सौख्यार्थिना कार्यश्चयश्च शुभकर्मणः । सर्वथा विगमस्त्वस्य शाश्वतं सुखमिच्छता ॥ ७०४ ॥ योगे स्वभावसिद्धेऽपि पार्थक्यं जीव-कर्मणोः। उपायेन भवत्येव स्वर्ण-पाषाणयोरिव ॥ ७०५ ॥ स चात्मा चेतनारूपः स्वसंवेदनगोचरः।। वियोज्यः कर्मणो नित्यं योज्यः क्लेशेषु नो बुधैः ॥७०६॥ पङ्कादिव कृती दुःखाल्लुठित्वा निस्सरेद् बहिः । अन्तस्तु प्रविशन् मूढः सुतरां तत्र मज्जति ॥ ७०७॥ अज्ञानामिष्टनाशे स्याद् मोहनिद्रा विशेषतः। जागरा तु सतामन्तः कर्मनिर्मूलने भृशम् ।। ७०० ।। न बुद्धि-गुण-विद्याभिन श्री-बल-कुलक्रमैः । भक्त्या युक्त्या च न त्रातुं शक्यते मृत्युतो जनः ॥७०९॥ उक्तं च यदभावि न तद्भावि भावि चेन तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ? ॥७१०॥ अनित्यताकृतमतिर्लानमाल्यो न शोचति । नित्यताकृतबुद्धिश्च भग्नभाण्डोऽपि शोचति ॥ ७११ ॥ Page #138 -------------------------------------------------------------------------- ________________ १२६ श्रीपार्श्वनाथचरितेन स प्रकारः कोऽप्यस्ति येन सा भवितव्यता। छायेव निजकायस्य लध्यते हन्त ! जन्तुभिः ।।७१२॥ देहपुष्टिं मनस्तुष्टिं परां वृद्धिं यशः श्रियोः। कुर्वन्नपि करोषि त्वं न तद् येन सुखी भवेः ॥ ७१३ ॥ आस्तामितरदोषेव महालज्जा मनस्विनाम् । पुनर्जन्मपुनर्मृत्युमालया यनियन्त्रणम् ।। ७१४ ।। तस्मादार्तिबदर्येदं रम्भास्तम्भनिभं मनः । अज्ञानपवनं जित्वा धृष्यमाणं निवारय ॥ ७१५॥ अस्तु वस्त्वखिलं चित्तप्रतिवन्धस्तु दुःखदः। संबद्धेऽपि नखे मांसालग्ने नो वेदना त्रुटौ ।। ७१६ ॥ वृद्धिस्तु बीजाद् रागस्य परे तु सहकारिणः । मनसो नयनस्येव गते रागे सुखं भवेत् ।। ७१७ ॥ पश्चदिनप्राघुणकान् प्राणान् विज्ञाय तत्कृते । को रागः कश्च विद्वेषः को निजो वाऽथ कः परः ॥७१८॥ अरण्यरुदितप्रायैर्दैवोपालम्भनैः किमु । विकल्पकल्पनैः किं वाम्भोधिगाहनसंनिभैः । ॥७१९ ॥ आत्मतत्वं निरीक्षव किं तीता-ऽऽगामिशोचनैः । करभारूढवद् दूरं पश्यतां जायते भ्रमः ॥ ७२० ॥ इत्यसौ. गुरुणा भूपः संबोध्य पटुवाचया । 1. नीत्वा मध्यस्थमार्गेण प्रापितः पदमव्ययम् ॥ ७२१ ॥ इति श्रुत्वा विभाव्याऽथ महाबलकथानकम् । सदा भाव्यं परद्रव्यपरिहारपरायणैः ॥ ७२२ ॥ उक्तं चआत्मवत् परभूतानि परद्रव्याणि लोष्ठवत् । मातृवत् परदारांश्च यः पश्यति स पश्यति ।। ७२३ ॥ तुर्य ब्रह्मवतं नाम परमब्रह्मकारणम् । .. शौचानां परमं शौचं तपसां परं च तपः ॥ ७२४ ।। Page #139 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १२७ एकरात्रमपि प्रायेणाऽजिह्मब्रह्मचारिणः। पुराणमतिभिः पुण्यमुच्यते विगतोपमम् ।। ७२५ ॥ ब्रह्मव्रतरता ये च विरता वाऽन्ययोषितः। महातेजस्विनस्ते स्युर्वन्द्या दिविषदामपि ।। ७२६ ॥ परित्यक्तान्यकान्तानां नराणामथ योषिताम् ।। विधिरप्यनुकूलाय दृष्टान्तोऽत्र निशम्यताम् ॥ ७२७ ॥ अङ्गदेशधराख्यातमास्ते धारापुरं पुरम् । तत्रासीत् सुन्दराद्वानराजा प्रकृतिसुन्दरः ॥ ७२८ ॥ एकैव दयिता तस्य भाग्यसौभाग्यभूरभूत् । सतीजनशिरोरत्नं नाम्ना मदनवल्लभा ॥ ७२९ ॥ तत्कुक्षिसरसीहंसौ वतंसौ स्वकुलश्रियः । कीर्तिपाल-महीपालाभिधौ जातावुभौ सुतौ ॥ ७३० ॥ न्यायधर्मैकनिष्ठस्य राज्ञो हृदि विशेषतः । परनारीषु सोदर्यव्रतं दृढमवस्थितम् ॥ ७३१॥ तच लोकं च सत्त्वैकनिधेः पालतयो भृशम् । सुस्वामिलाभप्रीत्येव कीर्तिरुल्ललिता दिवि ॥ ७३२ ॥ अन्यदा वासवेश्मस्थं तमभ्येत्य निशाभरे । विषण्णवदना मन्दं जगाद कुलदेवता ॥ ७३३ ॥ अहो ! राजन्नवस्था ते विषमा भविताऽधुना । तवाऽशक्यप्रतीकारो मयाऽपि, किमु मानवैः ॥ ७२४ ॥ स्वप्रभावेण किन्त्वस्यास्त्वदीयवचनादहम् । तव नव्यं वयो यावत् कुर्वे कालविलम्बनम् ।। ७३५ ॥ तच्छ्रुत्वा तां नृपो नत्वा हृदि व्याकुलितः क्षणम् । खभावधीरतादत्तावष्टम्भ इदमब्रवीत् ॥ ७३६ ॥ अर्जितं देवि ! जीवेन यत्पुरा कर्म दुष्कृतम् । तदेव भुञ्जतस्तस्य क्रियतेऽन्यः किमन्तरा ? ७३७॥ पटबन्धकवज्जीवः कर्म बन्नात्यनेकधा । Page #140 -------------------------------------------------------------------------- ________________ १२८ श्री पार्श्वनाथचरिते केवलं वायको दैवः शालापतिरिवानुगः ।। ७३८ ॥ बलादेवात्मजत्वेन सकाशात् पितुरात्मनः । दुष्कर्माsपि सुकमेव गृह्णीते भोगमायुषः ।। ७३९ ।। वृद्धभावेऽपि मे देवि ! दुर्दशा भाविनी यदि । अधुनैव तदेषाऽस्तु सज्जोऽस्मि न विलम्ब्यताम् ||७४०|| इत्युक्त्वा देवता स्थानं जगाम निजमुन्मनाः । । नृपोऽपि सहसा सौख्यप्रतिबन्धमपाकृत ।। ७४१ ॥ आपत्ति - मृत्यु - शत्रूणामवश्यंभाविनां भटैः । संमुखैरेव गन्तव्यं नश्यतां हीनसत्त्वता ।। ७४२ ॥ सती मेमवती भार्या भक्तौ मुग्धमुखौ सुतौ । कुटुम्बमिदमात्मैव तत्तेन सह याम्यहम् || ७४३ ॥ निश्चित्येदममात्याय कथयामास यत् त्वया । प्रवृत्तिर्मम नो कार्या राज्यं वाह्यं यथाविधि ॥ ७४४ ॥ देशान्तरमितो यास्ये कियत्कालमहं पुनः । ज्ञापितोदन्तया राज्ञ्या समं पुत्रद्वयेन च ।। ७४५ ।। भाव्यवस्थोचितं वेषमथ कृत्वा नराधिपः । विहाय तृणवत् सर्वमेकचित्तो विनिर्ययौ ॥ ७४६ ॥ शम्बलार्थं च संगोप्याङ्गुलीयं यत् सहाऽऽहृतम् । हृतं तदपि चौरेण सुप्तस्याऽस्य श्रमात् पथि ॥ ७४७ ॥ स गच्छन् सततं मार्गे स्वयं गाढोऽपि पौरुषात् । कातरामबलात्वेन देवीं तु प्रतिपालयन् ॥ ७४८ ॥ क्षुधा तृष्णासमक्लान्तौ भक्त-नीरादिढौकनात् । रुदन्तौ वारयन् पुत्रौ बोधयंश्च पदे पदे ।। ७४९ ॥ एकयैव दिशा गुर्वीमुर्वीमुल्लङ्घय स क्रमात् । दिनैः कतिपयैः प्राप पुरं पृथ्वीपुराभिधम् ॥ ७५० ॥ (विशेषकम् ) Page #141 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १२९ तत्र वप्रवाहिभागे श्रीसागरश्रेष्ठिवाटके । श्रेष्ठिना कृपया दत्ते स्थितिमात्रेसद् नृपः ॥ ७५१ ॥ अनभिज्ञः खयं कर्मकरणे लघुको सुतौ । राज्ञी तु स्त्रीस्वभावेन कुशला गृहकर्मणि ।। ७५२ ॥ पातिवश्मिकगेहेषु गोमयोत्सारणादिकम् । कर्म निर्माय सर्वेषां निर्वाहयति भोजनम् ।। ७५३ ।। साधुत्वेन सुशीलेन तयोः सुवचनेन च । खल्पेऽपि विहिते कार्ये जनाः सुबहु कुर्वते ॥ ७५४ ।। स्थानभ्रंशाद् नीचसङ्गात् खण्डनाद् घर्षणादपि । अपरित्यक्तसौरभ्यं वन्द्यते चन्दनं जनैः ॥ ७५५।। चीवरं जीर्णमुत्तीर्ण भोजनं रुक्षशीतलम् । गौरवेण जनादाप्तं बभूव प्रीतये तयोः ॥ ७५६ ॥ यतः-- किं कृतं विधिना यावत् सतां शीलमखण्डितम् । गतं तत्तु यदा कालं संपद्यपि विपत्तयः ? ॥ ७५७ ॥ दूरदेशान्तरायातस्तत्स्थानाद् नातिदूरतः। वाणिज्यकरिणां सार्थो महानावासितोऽन्यदा ॥७५८॥ तस्मिन् घृत-कणिकादि सुलभं, दुर्लभाः पुनः। कर्मकाराः, ततः स्वीयपुत्रपुष्टिविधित्सया ।। ७५९ ॥ राज्ञी कर्मकरीभावं करोति विनयान्विता। प्राज्यभोज्यादिना चिन्तां तेऽपि तुष्टाः प्रकुर्वते ॥७६०॥ अन्येयुः सोमदेवाख्यसार्थेशस्य शोः पथि । पतिताऽन्तर्विकाराय निर्विकाराऽप्यजायत ।। ७६१ ॥ रूपे ग्रस्तेऽपि दौःस्थ्येन तस्या लावण्यमुज्ज्वलम् । स्पष्टं बकुलमालायाः शुष्काया अपि सौरभम् ॥ ७६२ ॥ ततः सा तेन शैथिल्यं गाढं च निजमानसैः । खगृहस्वामिनीभावे भणिता कुपिता भृशम् ॥ ७६३ ।। Page #142 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेगतरागा सरागेऽपि मलिनेऽप्यमलाऽभवत् । . तस्य चित्ते स्थिताऽप्येषा सत्याः शक्तिर्महाद्भुता ॥७६४॥ अथ तस्याः स्वभावं तं विदित्वा सार्थनायकः। ' दुष्टोऽप्यन्तर्बहिर्वृत्त्या क्षमयामास सादरम् ॥ ७६५ ॥ सार्थेशकथनात् तस्य स्त्रीभिर्विश्वासिताऽधिकम् ।। तत्रायाति सदा राज्ञी कर्म कर्तुं यथास्थिति ॥ ७६६ ॥ अथ प्रयाणदिवसे मध्याह्नसमये पुनः। विशेषकार्यमुद्दिश्य संकेतितवधूजनैः ॥ ७६७ ॥ आकार्याऽलीककृत्येन दिनशेषं विलम्बितम् । तां प्रगृह्य स्खसार्थेन प्रतस्थे स्वपुरोपरि ॥ ७६८ ॥ (युग्मम्) गच्छता विविधोपायैः क्षोभ्यमाणाऽपि तेन सा । ध्यायन्ती स्वपतिं चित्ते मौनमेव समाश्रयत् ॥ ७६९ ॥ दृशैव क्रूरया तस्याः स पापाहितदुर्मतिः। न शशाक व्यलीकाय तत्रैवं यान्ति वासराः ॥ ७७० ॥ इतश्च, मय्यागतायामद्यापि किमेषा मद्विरोधिनी ? । अत्र स्थितवती तीव्रमत्सराद् नृपवल्लभाम् ॥ ७७१ ॥ निष्कास्य दूरतः स्वैरं विजृम्भितमवस्थया । गृहे राज्ञो गृहं येनारण्याभं गृहिणीं विना ॥ ७७२ ॥ (युग्मम्) अवस्थासंगमादेकमन्यद् राज्ञीविनिगमात् । पुटपाकसमं दुःखं तदा जातं महीपतेः ॥ ७७३ ॥ सहिष्ये सर्वमप्येतत्कठोरहृदयोऽस्म्यहम् । राज्ञी च मद्वियोगार्ता भविष्यति कथं हहा ! १ ॥७७४॥ एतदप्यस्तु रे दैव ! पूर्यन्तां ते मनोरथाः। इति दैवमुपालम्भ्य संबोध्यात्मानमात्मना ॥ ७७५ ॥ Page #143 -------------------------------------------------------------------------- ________________ - द्वितीयः सर्गः। यावत् किंकृत्यतामूढो निविष्टोऽस्ति नृपः प्रगे। . तावत्तत्र समायातः श्रीसारः श्रेष्ठिपुङ्गवः ॥ ७७६ ॥ (विशेषकम् ) खवाटकमनुष्याणां तप्तिं कुर्वस्तमैक्षत ।। ऊचे चाय कथं भद्र ! सचिन्त इव लक्ष्यसे ? ॥ ७७७ ।। लज्जाशोकभराक्रान्तः स यावन्नोत्तरं ददौ । तावज् ज्ञात्वा यथावृत्तमाख्यायि प्रातिवेश्मिकैः ॥७७८ ॥ श्रेष्ठयुवाच महाभाग ! कर्तव्या नाऽधृतिस्त्वया । भोजनाच्छादनाद्यं ते करिष्येऽहमतः परम् ॥ ७७९ ॥ मयाऽत्र कारिते चैत्ये त्रिकालं देवमर्चय । पुत्रौ च वाटिकापुष्पाण्यवचित्योपनेष्यतः ।। ७८० ।। प्रतिपद्य तथा कर्तुमारेभे ससुतो नृपः। पटहं वादयेद् दैवो यथा नृत्येत् तथा कृती ॥ ७८१ ॥ अनभिज्ञोऽप्यसौ दक्षस्तथाऽभूत्तत्र कर्मणि । श्रीसारस्य यथा बाढं रञ्जयामास मानसम् ।। ७८२ ॥ यथा लक्ष्म्या विदग्धत्वं विभ्रमं यौवनश्रिया । प्रेष्यभावं तथा जीवः शिक्ष्यते दुरवस्थया ॥ ७८३ ॥ अपरेार्गतः श्रेष्ठी यावद्वाटी निरीक्षितुम् । तावत्तदेकदेशस्थौ बद्धलक्ष्यौ च पक्षिषु ।। ७८४ ।। धनुष्किकाशरव्यग्रकरावाखेटचापलम् । कुर्वन्तौ सहसाऽद्राक्षीदुभावपि कुमारको ।। ७८५ ॥ (युग्मम्) पापकर्मेक्षणाज्जातकोपाटोपारुणेक्षणः । तौ भृशं ताडयामास बभञ्ज च धनुःशरान् ॥ ७८६ ॥ बहिः कृत्वा च गत्वा च बभाषे तत्पितुः पुरः। क्षणमन्यत्र न स्थेयं त्वया यस्पेशशौ सुतौ ॥ ७८७ ॥ साक्षेपमिति कृत्वाऽस्मिन् निज धाम गते नृपः। । . Page #144 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते " आगच्छन्तौ सुतावसुखावैक्षत दुःखितः । ७८८ ॥ न्यवारयच्च मा वत्सौ ! रुदितं किं करोम्यहम् | दोषः कस्यापि नान्यस्य स्वकर्मैवाऽपराध्यति ॥७८९ ॥ संहृत्य बहिराकारं कृतं तनयबोधनम् । अन्तस्तु दुःखसंघट्टः कोऽप्यवाच्यस्तदाऽभवत् ।। ७९० ॥ कस्याग्रे कथ्यते हन्त ! श्रेष्ठी तत्तादृशोऽपि यतु । sereveda पुत्र मे निरकाशयत् ।। ७९१ ॥ प्रतिकूले त्रिध किंवा सुधाऽपि हि विषायते । रज्जुः सभवेदाखविलं पातालतां व्रजेत् ।। ७९२ ॥ तमीयते प्रकाशोऽपि गोष्पदं सागरायते । सत्यं कूटायते मित्रं शत्रुत्वेन निवर्तते ।। ७९३ ॥ यद्भावि तद्भवत्येव विचिन्त्यैषोऽचलत्ततः । पुरस्कृत्य सुतौ शून्यमुखोऽन्यनगरं प्रति ।। ७९४ ॥ (कलापकम् ) कापि कन्दफलाहारैः काऽपि भैक्ष्यान्नभोजनैः । भिक्षामप्यलभमानो निन्द्यमानश्च कुत्रचित् ॥ ७९५ ।। प्रायः स्वं शोचयन् सिञ्चन् यथालब्धेन नन्दनौ । अनवस्थं परिभ्राम्यन् शयानो देश्यवेश्मसु ॥ ७९६ ॥ इति कष्टेन महता बहुमुल्लङ्घय सोऽवनीम् । प्रापदेकामरण्यानीं यमस्याऽपि भयङ्कराम् ॥ ७९७ ॥ स्वैरिणीव बहुधव मत्तेव मदनाधिकां । for-sसनाढ्या सेनेव लङ्केत्र सपलोशका ॥ ७९८ ॥ अगण्यमत्तमातङ्गसङ्गमा म्लेच्छभूरिव । १३२ 9 तम इव आचरति । २ भवाः वृक्षविशेषाः, स्वामिनश्च । ३ मंदनाः धतूराः कामश्च । ४ बाणा-ऽसनौ चित्रक-जीवकवृक्षौ, धनूंषि च । ५ पलाशकाः राक्षसाः, पलाशाश्च । ६ मातङ्गा हस्तिनश्चाण्डालाश्च । Page #145 -------------------------------------------------------------------------- ________________ १३३ द्वितीयः सर्गः। वैरिधाटीव दुर्दश्याऽनेकरतांक्षभीषणा ।। ७९९ ॥ किंवाऽथ बहुना बालविधवस्त्रीव या सदा । विविधश्वापदावासस्तथा शबरसंभृता ॥ ८००॥ (त्रिभिर्विशेषकम् ) कथश्चित्तामपि क्रान्त्वा यावदग्रे बजत्यसौ । आजगाम नदी तावद् दुस्तराऽऽपदिवापरा ॥ ८०१ ॥ अस्यां नः स्यात्समुत्तारः कथमेवं वितर्कयन् । लब्धोपायः सुतं स्कन्धं कृत्वोत्तार्य परे तटे ॥ ८०२ ॥ मुमोचैकं द्वितीयं त्वानेतुं भूयोऽविशद् नदीम् । अन्तराले गतस्तावदतिपूरेण पातितः ॥ ८०३ ॥ कुर्वन्नितस्ततो बाहू प्राप्तकाष्ठकखण्डकः । पञ्चरात्रेण तत्तीरमाससाद विषादभाक् ॥ ८०४ ॥ दध्यौ चेति हताशस्य ही विपाकः कथं विधेः । क तन्मे मुदितं राज्यं कैषाऽनर्थपरम्परा ? ॥ ८०५ ॥ राज्यभ्रंशेऽपि चेदैव ! कृतं कान्तावियोजनम् । ततः किं जीवितः, किंवा ज्ञातं पुत्रार्तिमीक्षितुम् ॥८०६॥ ध्रुवं दुष्कृतिनां दैवो दत्ते दुःखाय जीवितम् । कृमिरागकृतां देशे मानामिव पोषणम् ॥ ८०७ ॥ अथवा, कस्य वक्तव्यता नास्ति सोपायं को न जीवति । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ।। ८०८ ॥ मृत्यावपि कृतेऽवश्यं निजपापं विशेषतः । भवान्तरेऽपि भोक्तव्यं तस्मादत्रैव भुज्यते ।। ८०९ ॥ किञ्च, अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥८१०॥ , रक्तामा महिषाः, लोहितनेत्रा म्लेच्छाश्च । Page #146 -------------------------------------------------------------------------- ________________ १३४ श्री पार्श्वनाथचरिते स निर्वापितसन्ताप इति सूक्तसुधारसैः । स्वसंवेद्येन योगीव खं चकार दृढं मनः ॥ ८११ ॥ लब्ध्वा परपदो दीनो हीनत्वं नैव मुञ्चति । शिरश्छेदेऽपि धरिस्तु वीरत्वं नैव मुञ्चति ।। ८१२ ॥ तथा, न तानि फलसंपत्तौ तुङ्गानि विगते फले । शिखराणि महादूणां मनांसि च मनखिनाम् ।। ८१३ ।। ततो गत्वा तदासन्नग्रामे कस्यापि वेश्मनि । कौटुम्बिकस्य भिक्षार्थी प्रविष्टस्तेन वीक्षितः ।। ८१४ ॥ संभाषित स्वं भोः ! क्षत्रियोऽहमिति ब्रुवन् । गृहकर्मकरत्वेऽसौ पृष्टो भूयः कुटुम्बिना ? ।। ८१५ ॥ आमेति कथयंस्तत्र कर्मकृत्ये नियोजितः । सुन्दरो भक्तवस्त्रादिसाराकरणपूर्वकम् ॥ ८१६ ॥ विनीतत्वेन तस्याऽथ घृतभक्तादिलाभतः । बहुलोपचयात् कान्तिः प्रत्यावृत्ता तनौ क्रमात् ॥ ८१७॥ कौटुम्बिकयन्तं वीक्ष्य मदनातुरा | असतीजनयोग्यानि वचांसि बहुधाऽभ्यधात् ॥ ८१८ ॥ तच्छ्रुत्वा चकितो राजाऽचिन्तयद् ध्रुवमत्र मे । विधिः सुस्थानमानाद्यं शीलभङ्गाय निर्ममे ॥ ८१९ ॥ अरे दैव ! त्वदायत्तं कामं वित्तादि गच्छतु । ममायत्तं पुनर्वृत्तं हर्तु कस्याऽस्ति योग्यता १ ।। ८२० ॥ यत्किञ्चिदुत्तरं दत्त्वा ज्ञात्वा तस्या महाग्रहम् । विरुद्धा भूः परित्यज्येति कृत्वा निर्ययौ ततः ।। ८२१ ।। यतः, ये न स्खलन्ति ते दक्षाः कृष्णकेशतमोभरे । वार्धकेतु सदोद्योतः शिरः स्थपलितेन्दुना ।। ८२२ ॥ स्वजन स्वर्णशाकानामापत्तापच्छिदावपि । Page #147 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १३५ दधतामन्तरौज्ज्वल्यं सकारो धुरि शोभते ॥ ८२३ ॥ गच्छन् स्वल्पदिनैरेवं सुन्दरः श्रीपुराऽभिधम् । पुरं प्राप्य तदासन्नोपवनाम्रतरोरधः ॥ ८२४ ॥ खजनस्येव तस्यैव कृताहारोऽमलैः फलैः। विशश्राम श्रमायातनिद्रालब्धसुखः क्षणम् ।। ८२५ ॥ तदा तत्र पुरे राज्ञि विपन्ने पुत्रवर्जिते । हस्त्यश्वचामरच्छत्रकुम्भाख्यमधिवासितम् ॥ ८२६ ॥ पञ्चशब्दनिनादेन राजलोकपुरस्कृतम् । भ्रमत् तत्राययौ दिव्यपञ्चकं यत्र सुन्दरः ॥ ८२७ ॥ (युग्मम् ) शीलेन सुन्दरं शीघ्रमुपविष्टं विलोक्य तम् । हयेन हेषितं हस्तिपतिना द्वंहितं कृतम् ॥ ८२८ ॥ दुरितक्षालनायेवाऽपतत् कुम्भाम्बु मस्तके । उपरिष्टात् स्थितं छत्रं लुलितं चामरद्वयम् ॥ ८२९ ॥ स करीन्द्रमथाऽऽरुह्य दिव्यवेषधरो निशि । मन्त्र्यादिभिर्नतो नीत्या प्रविष्टः पुरमुत्सवैः ॥८३० ॥ विधिना कुर्वतो राज्यं तस्य भाग्यप्रभावतः । ययुः सर्वेऽपि सामन्ता अनम्रा अपि नम्रताम् ॥ ८३१ ।। निपत्य पादयोः किन्तु प्रधानैर्भणितोऽप्यसौ । निजप्रियतमादुःखाद् न मेने दारसंग्रहम् ।। ८३२ ॥ वरं कारागृहे क्षिप्तो वरं देशान्तरभ्रमी । वरं नरकसंचारी न द्विभार्यः पुनः पुमान् ॥ ८३३ ॥ अभोजनो गृहाद् याति नामोत्यम्बुच्छटामपि । अक्षालितपदः शेते भार्याययुतो नरः ॥ ८३४ ॥ अथाऽन्योन्यं वियुक्तौ तौ कुमारावत्यवस्थया । बहु भ्रान्त्वा क्रमात्तत्राऽऽगत्याऽऽरक्षान्तिके स्थितौ ॥८३५॥ Page #148 -------------------------------------------------------------------------- ________________ १३६ श्रीपार्धनाथचरितेअन्यदा देवभोगेन सोमदेवोऽपि सार्थपः। वणिज्यार्थ पुरे तस्मिन्नागत्याऽऽवासितो बहिः ॥८३६॥ गृहीत्वोपायनं श्रेष्ठं गत्वा च नृपसनिधौ । ययाचे निजसार्थस्य रक्षार्थ निशि यामिकान् ।।८३७ ॥ राज्ञादिष्टस्तलारक्षः प्रेषयंस्तानथाऽन्यदा । तावुभौ भ्रातरौ भैषीदेकस्यां दिशि रक्षितुम् ।। ८३८ ॥ तयोस्तत्रस्थयो रात्रिविनोदाय कनीयसा । ज्येष्ठः पृष्टः कयां तेन स्वमेवाऽऽख्यायि वृत्तकम् ।।८३९॥ तत्र कर्मकरी मध्यस्थिता सार्थे सहागता । प्रायेण जाग्रती दुःखात् तत्तदासनभावतः ॥ ८४०॥ श्रुत्वा समूलपर्यन्तं राज्ञी मदनवल्लभा । उद्भिद्यत्स्नेहशोकाभ्यां विहलीभूतमानसा ॥ ८४१ ॥ चिरान्मे मन्दभाग्याया हा ! वत्सौ मिलितौ युवाम् । इत्यागत्य तयोः कण्ठग्रहं कृत्वाऽरुदत्तराम् ॥ ८४२ ॥ (त्रिभिर्विशेषकम् ) तज् ज्ञात्वा कुपितः सार्थपतिश्चेटैर्हठेन ताम् । दरमुत्सार्य तौ धृत्वा भूपतेः प्रातरार्पयत् ॥ ८४३ ॥ सोपालम्भमवादीच देवाऽऽरक्षेण सुन्दरौ। यामिको प्रहितावस्मन्मर्त्यधूर्तत्वकारिणौ ॥ ८४४ ॥ नृपोऽवोचत्तलारसं काविमौ सोऽप्यचीकयत् ।। देव ! जानामि नो सम्यक् कियत्कालादिहागतौ ॥८४५॥ निरीक्षमाणस्तौ सम्यगुपलक्ष्य सुतौ नृपः । दुःखात्त्रातुमिवात्मानं रोमाचकवचं दधौ ।। ८४५ ॥ तथापि गुरुगाम्भीर्याद् विधायाकारगोपनम् । अवोचदिति साक्षेपं युवाभ्यां किमु रे ! कृतम् ? ॥८४७॥ आप्रष्टुमिव तौ दुःखभयेनाऽऽलिङ्गितौ ततः । सत्यमामाणकं जातं यतो रक्षस्ततो भयम् ॥ ८४८ ॥ Page #149 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १३७ तयोर्येष्ठोऽवदद् देव ! रात्रावद्य मया लघोः । .. सोदरस्य पुरः ख्यातं स्वचरित्रकथानकम् ॥ ८४७॥ तच्छ्रुत्वा काऽपि सार्थस्त्री द्रुतमागत्य सनिधौ । युवां पुत्रौ ममेत्युक्त्वाऽस्मत्कण्ठलगिताऽरुदत् ।। ८४८ ॥ सार्थेश ! वद भोः ! सत्यं कैषा किं वा करोति ते ?। पृष्टे राज्ञेति सोऽवादीद् देव ! पृथ्वीपुरान्मया ॥ ८४९ ॥ आनीता सत्यमेवैतद् गृहे कर्म करोति मे । कुलं तु विमलं तस्याः सतीत्वेनाऽनुमीयते ॥ ८५० ।। (युग्मम् ) ततः प्रैषीनरानेषा संबोध्याऽऽनीयतामिह ।। बलात्कारस्तु नो कार्यः शिक्षयित्वेति भूपतिः ॥८५१॥ तेऽपि गत्वा वलित्वा च शशंसुर्देव ! नैति सा । केवलं काऽपि नैष्यामीत्युदित्वाऽभूदधोमुखी ॥ ८५२ ॥ अथ सद्यः स्वयं राजा राजपाटीमिषाद् बहिः । गत्वा व्याघुट्य सार्थान्तः सार्थेशावासमागतः ॥८५३॥ भद्रासनोपविष्टस्य तस्य दृग्गोचरं गता। राज्ञी तत्रैकदेशस्था कुचेलाऽतीवदुर्बला ॥ ८५४ ॥ असंस्कृतवपुर्दीना तद्दिने तु विशेषतः। अपास्ताऽशेषकर्तव्या पुत्रग्रहमहार्तितः ॥ ८५५ ॥ . (युग्मम् ) चिरात् तत्तादृशावस्थां दृष्ट्रा मदनवल्लभाम् । लज्जया यदि नाऽऽक्रन्दं चकार.धरणीधवः ॥ ८५६ ॥ उवाच मदने ! देवि ! किं मां त्वं नोपलक्षसे । इत्युक्ता प्रत्यभिज्ञाय वपतिं सहसैव सा ॥ ८५७ ॥ हाँ-त्सुक्य-त्रपा-जाड्य-वितर्कादिरसैभृशम् । संकीर्णमानसा तस्थौ पत्युः पादार्पितेक्षणा ॥ ८५८ ।। निपत्य पादयोः सोमदेवोऽप्यमलमानसः । Page #150 -------------------------------------------------------------------------- ________________ १३८ श्रीपार्श्वनाथचरिते क्षमयामास तां भीतो गर्हयन् निजदुष्कृतम् ॥ ८५९ ॥ 'ययाचे चाऽभयं देवीं साऽप्यनल्पस्वभावतः । तत्तस्मै दापयामास कुपितादपि भूपतेः ॥ ८६० ।। अथ राजा विधाप्यैनां चारुनेपथ्यभूषिताम् । पुरो न्यस्य करिस्कन्धारुढस्तूर्यमहारवैः ॥ ८६१ ॥ राजचिह्नाश्चितो नव्यपरिणीत इवोच्चकैः। वीक्ष्यमाणः पुरस्त्रीभिरगावलमन्दिरम् ॥ ८६२॥ (युग्मम् ) कीर्तिपाल-महीपालावप्याकार्य सुतावुभौ। सस्नेहं दृढमालिङ्गय चकार विषयांधिषौ ॥ ८६३ ॥ मिलितानां चिराचेषामेकत्र स्वस्थचेतसाम् । आत्मीयाऽऽत्मीयवृत्तान्तप्रश्नाख्यानविधायिनाम् ॥८६४॥ अनुभूतमहादुःखादसंख्यं यदभूत् सुखम् । तत्त एव स्म जानन्ति केवली वा न चाऽपरः ॥ ८६५ ॥ प्राचीनदुष्कृतेनैव वियुक्तमखिलं पुनः । शीलसत्त्वप्रभावेण मिलितं च कुटुम्बकम् ॥ ८६६ ॥ इतश्चन्यस्य सिंहासने स्वामिपादुके तत्तदाज्ञया । मन्त्री धारापुरे राज्यं तथैव निरवाहयत् ।। ८६७ ।। ज्ञात्वाऽथ नाथवृत्तान्तं सुबुद्धिः श्रीपुराभिधे । पुरे समये विज्ञप्तिं माहिणोद् निजपूरुषम् ॥ ८६८ ॥ निर्विलम्बमसौ गत्वा तत्र वेत्रिनिवेदितः। नृपमानम्य विज्ञप्तिं मुमोच पादयोः पुरः ।। ८६९ ।। तामुद्वेष्टय नृपादेशाद् निदेशकरणोद्यतः । प्रकाशं वाचयामास सुविद्वानङ्गलेखकः ॥ ८७० ॥ तद्यथाखस्तिश्रीश्रीपुराभिख्ये पुरे भाग्यैकवेश्मनः । Page #151 -------------------------------------------------------------------------- ________________ १३९ द्वितीयः सर्गः। प्रतापाऽऽक्रान्तविक्रान्तप्रत्यार्थपृथिवीभुजः ॥ ८७१ ॥ दिक्कन्याश्रवणोत्तंसीकृतकीर्तिसरोरुहः महाराजधिराजस्य श्रीसुन्दरमहाप्रभोः ॥ ८७२ ।। चरणाम्भोरुहौ धारापुरादादेशकारकः । सुबुद्धिः सादरोत्कण्ठं नत्वा विज्ञपयत्यदः ॥ ८७३ ॥ (विशेषकम् ) खामिपादद्वयीरेणुकणेन मयकाऽपि यत् । यथादेशेन नियूंढ प्रभावः प्राभवो हि सः॥ ८७४ ॥ चकोर इव चन्द्रस्य रथाङ्ग इव भाखतः। चातको जलदस्येव वसन्तस्येव कोकिलःः॥ ८७५ ॥ उत्कण्ठितः समस्तोऽपि जनो देवस्य दर्शनम् । वाञ्छत्यत्र प्रसघेतः शीघ्रं पादोऽवधार्यताम् ॥ ८७६ ॥ (युग्मम्) इत्याकर्ण्य स्खलोकस्य रक्तिं भक्तिं च मन्त्रिणः । चिरात् स्मृत्वा नृपःप्रीतोऽकथयत्साधु साधु भोः ॥८७७॥ बुद्धिः सिद्धिः परा भक्तिर्येषामेषा गुणत्रयी। त एव सेवका राज्ञः, कलत्रमितरे पुनः ।। ८७७ ॥ अथ ज्येष्ठसुतं तत्र स्थापयित्वा निजे पदे । राजवर्ग समादिश्य पौरानापृच्छय सादरम् ॥ ८७९ ॥ सकलत्रसुतो भूरिपरिवारसमन्वितः। प्रयाणैरनवच्छिन्नैर्ययौ धारापुरं नृपः ॥ ४८० ॥ प्रवेशाद्युत्सवं तत्र मन्त्रिसामन्तनागराः। कृत्वा निवेद्य सर्वस्खं मुदितास्य सिविरे ॥ ८८१ ॥ अन्येधुर्बहिरुद्याने ज्ञानिनं मुनिमागतम् । श्रुत्वा गत्वा च नत्वा च खं प्राच्यं कर्म पृष्टवान् ।।८८२॥ मुनिज्ञानाद् विदित्वोचे महाभाग ! पुरा भवे । इभ्यो बभूव चम्पायां शङ्खाख्यः श्रीश्च तत्प्रिया.॥८८३ ॥ Page #152 -------------------------------------------------------------------------- ________________ १४० श्रीपार्श्वनाथचरितेततः सततं चक्रे स चैत्येषु जिनार्चनम् । तारुण्ये त्वागते दैवाद्धर्मे ध्वस्ता-मतिभृशम् ।। ८८४ ॥ विपद्याऽथ तयोर्जीवावजायेतां युवां क्रमात् । तेनादौ राज्यमासाद्य पश्चाज्जातौ सुदुःखितौ ॥ ८८५ ॥ निजबुद्धयाऽपि यच्छीलं युवाभ्यां पालितं ततः। भूयोऽप्यासादितं राज्यं सौख्यमत्रैव जन्मनि ॥ ८८६ ॥ ततः संवेगरङ्गेन तरङ्गितमना नृपः। धर्मकृत्यं पुनः श्रुत्वा गृहीत्वाऽणुव्रतानि च ॥ ८८७ ॥ कारयामास सर्वज्ञभवनानि जिनेश्वरान् । स्थापयिस्वार्चयामास विधिना तत्र भक्तितः ॥ ८८८ ॥ (युग्मम् ) दयाद्रचित्तः सत्यात्मा परवित्तपराङ्मुखः । शुद्धशीलः सुसंतोषः परोपकृतिकर्मठः ।। ८८९ ॥ पालयित्वा समं राझ्या गृहिव्रतमखाण्डितम् । अवसाने शुभध्यानं कृत्वा भव्यो दिवं ययौ ॥ ८९० ॥ ब्रह्मव्रतस्य महात्म्यमित्थं ते वर्णितं मया । परिग्रहप्रमाणोत्थसंतोषस्य प्ररूप्यते ॥ ८९१ ॥ . अस्त्यत्र भरते विश्वविख्याता मथुरा पुरी । सरसीव सदा योच्चैः राजहंसनिवासभूः ॥ ८९२ ॥ तस्यां निवसति श्रेष्टी धनसार इति श्रुतः। षदक्षाष्टिद्रव्यकोटीनामाधिपत्यं प्रपालयन् ॥ ८९३ ॥ निखाते व्यवहारे च देशान्तर्वणिज्यया । सन्ति द्वाविंशतिस्तस्य प्रत्येकं धनकोटयः ।। ८९४ ॥ अतृप्तस्य तथाऽप्यस्य काऽपि नैवोपयुज्यते । वित्तलेशोऽपि दीनादौ बिन्दुः क्षाराम्बुधेरिव ॥ ८९५ ॥ दृष्टेऽर्थिनि दृशो रोगः शिरोऽर्तिगृहमागते । याचमाने पुनर्दाहो हृदये तस्य जायते ॥ ८९६ ॥ Page #153 -------------------------------------------------------------------------- ________________ १४१ द्वितीयः सर्गः। दृष्ट्वा तु स्तोकमप्यस्मै ददानं गृहमानुषम् ।। निमील्य सहसा नेत्रे मूच्छितः पतति क्षितौ ॥ ८९७ ॥ स प्रातिवेश्मिकादीनामपि दानं न वीक्षते । - वार्तयाऽपि हि दानस्य दूरादेव पलायते ॥ ८९८ ।। देवादिधर्मकार्येषु केनापि भणितो भृशम् । स दन्तशकटं बध्वा निश्चेष्टीभूय तिष्ठति ।। ८९९ ॥ किंवाऽथ बहुना गेहानिर्गते तत्र दीयते । अपि कर्मकृतां वृत्तिहमांश्च भुञ्जते ॥ ९०० ॥ महामूढो न वेत्तीदं ममार्येवोपकारकः । य एकगुणमादाय दत्तेऽमुत्र सहस्रशः ॥ ९०१ ॥ प्रतिकूलो विधिस्तावत्तेषां ये निर्धनीकृताः। प्रतिकूलमतस्त्वेषु सतोऽर्थान् ददते न ये ॥ ९०२ ।। विद्ययैव मदो येषां दारिद्यं विभवेऽप्यहो!। तेषां दैवहतानां हि सलिलादग्निरुत्थितः ॥९०३ ॥ धने ह्यसति दारिद्रयदोष एव हि केवलः। महान् कार्पण्यदोषस्तु सति यस्मिन्नयच्छतः ॥९०४ ॥ दानशब्दादुदारेण गृहीते प्रथमाक्षरे ।। कृपणैः स्पर्धयेवाऽस्य न इत्येवाऽक्षरं कृतम् ॥ ९०५ ॥ कृपणत्वेन तस्यैवमपशब्दस्तथा जने । प्रससार यथा कोऽपि नामाऽप्युच्चरतेऽस्य न ॥९०६ ॥ कियत्यपि गते काले खनित्वा भुवमेकदा । संभालयत्यसौ यावद् निधिमेकं रहः स्थितः ॥ ९०७॥ अपश्यत्तावदङ्गारानेव तत्र न चाऽपरम् । शङ्कितोऽथ निधीनन्यानपि सर्वानलोकयत् ॥ ९०८ ॥ (युग्मम् ) तत्रापि मत्कोटका-हि-वृश्चिकादीनि वीक्ष्य सः। हृदयं ताडयित्वोच्चैर्यावदस्ति सुदुःखितः ।। ९०९ ॥ Page #154 -------------------------------------------------------------------------- ________________ १४२ श्रीपार्श्वनाथचरितेतावत्तस्याम्बुनौयानभङ्गादि कथितं नरैः। गले शोकाम्बुमनस्य शिलाबन्ध इवाऽभवत् ॥ ९१० ॥ यत:अधः खं सारमाधाय तुच्छा इव बहिःस्थिताः। समूलमेवोन्मूल्यन्ते ते बाला बालका इव ॥ ९११ ॥ जलस्थलगतं नष्टं वणिपुत्रैश्च भक्षितम् । धनं श्रुत्वा मुहुः स्मृत्वा सर्वशून्यो भ्रमत्यसौ ॥ ९१२ ॥ अन्यदाचिन्तयद्यावदद्याप्युत्पाणिको जने । न भवामि गृहेऽद्यापि भाण्डमूल्यमवाप्यते ॥९१३ ॥ तावजलधिमार्गेण वणिज्यायै बजाम्यतः । लाभश्चेत्सुन्दरं भावि देशान्तरगमोऽन्यथा ॥ ९१४ ।। महाकृपण इत्याख्या पुराऽप्यासादिता मया। अधुना निर्धनस्त्वत्र भृशं यास्यामि हास्यताम् ॥९१५॥ ततोऽमेयपरिच्छेद्य-गण्य-धार्यक्रयाणकम् । संगृह्य दशलक्षाणां पोतमारुह्य सत्वरम् ।। ९१६ ॥ भृत्वा कण-कणिका-ऽऽज्य-भोज्य-नीरेन्धनैः क्षमः । समं सांयात्रिकर्लोकः प्रतस्थे मध्यमम्बुधेः ॥ ९१७ ॥ (युग्मम् ) कियद् दरं गतेऽकस्माद् घनेन रुरुधे नमः । यमास्येनेव भीमेन कटाक्षसमविद्युता ॥ ९१८॥ तत्र क्षेप्तुमिवोद्दण्डवातोद्धृतोर्मिबाहुभिः । ग्रासपिण्डमिवोऽम्भोधिस्तं पोतमुदलालयत् ।। ९१९ ।। स्पर्धयेव मिथोऽत्युग्रौ गर्जतः स्म घनाम्बुधी । दोलते स्म प्रवहणं तत्स्थलोकहृदा समम् ॥ ९२० ॥ ततो निर्यामके मुक्तधैर्ये भूरिभयाकुलः । शरण्यरहितो लोकः कथं कोऽपि तदाऽभवत् १ ॥९२१॥ Page #155 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १४३ देवताः कोऽपि सस्मार कोऽपि स्वगृहमानुषान् । कोऽपि तस्थौ निपत्याऽधः कोऽपि झम्पामदाज्जले ॥९२२॥ कोऽपि मां रक्ष रक्षेति पूत्कृत्य चिरमूर्ध्वगः । श्वासेनाऽऽपूर्णहृदयो मुखं व्यादाय तस्थिवान् ॥ ९२३ ॥ इत्याश्रितजनस्यार्तिकारणाज् जातपातकः । स नूनं सहसा पोतः शतखण्डमभज्यत ॥ ९२४ ॥ धनसारस्तु लब्धैकफलको वार्धिवीचिभिः । बहिः क्षिप्तो गतोऽटव्यामिति दीनमचिन्तयत् ॥ ९२५ ॥ अहो ! मम क तदेहं क धनं क परिच्छदः । विधिना काहमानीतः पवनेनार्कतूलवत् ? ॥ ९२६ ॥ धिङ् मां येन धनं मोहात् प्रभूतमपि संचितम् । न धर्मे व्ययितं नाङ्गे परस्योपकृतौ नवा ॥ ९२७ ॥ इत्यादि भावयंस्तत्राऽपश्यदाम्रतरोस्तले । मुनिमेकं तदोत्पन्नकेवलज्ञानभासुरम् ॥ ९२८ ॥ तन्महिम्नाऽऽगतैर्देवर्निर्मिते वर्णपङ्कजे । तमासीनं मुदा नत्वा धनसारोऽप्युपाविशत् ।। ९२९ ॥ श्रुत्वा धर्ममथो लब्धाऽवसरः पृच्छति स्म सः । कृपणोऽहं कथं नाथ ! नष्टश्च विभवः कथम् ? ॥९३०॥ केवली प्राह भो भद्र ! धातकीखण्डभारते । धनाढ्यगृहसंभूतावभूतां भ्रातरावुभौ ॥९३१ ॥ मृतेऽथ पितरि ज्येष्ठो गृहनेताऽभवत् स च । गम्भीरः सरलो दाता कनिष्ठः कृपणः पुनः ॥ ९३२ ॥ ततो ज्येष्ठो यदा दानं दीनादिभ्यः प्रयच्छति । तदाऽतीव लघुस्तत्र प्रद्वेषं वहते हृदि ॥ ९३३ ॥ वारयेच्च भृशं दानाज्ज्येष्ठस्तु विरमेद् नहि । प्रद्विष्टः सुतरां तस्माद् विभिन्नो लघुकः स्थितः ॥ ९३४ ॥ ज्येष्ठस्य ददतोऽपि श्रीवर्धते पुण्यसेवनात् । Page #156 -------------------------------------------------------------------------- ________________ १४४ श्रीपार्श्वनाथचरितेइतरस्त्वददानोऽपि मुच्यते सुतरां तया ॥ ९३५ ॥ अत उक्तम्दीयमानं हि नापति भूय एवाऽभिवर्धते ।। कूपा-ऽऽराम-गवादीनां ददतामेव संपदः ॥ ९३६ ॥ सुस्थानन्यासहष्टेव दातारं श्रीः पुनः श्रयेत् । निर्गता गुप्तिमीतेव कुपणं नैति सा पुनः ॥ ९३७ ॥ मत्सरेणाऽथ सोऽलीकपैशून्यं नृपतेः पुरः । प्रकाश्य ग्राहयामास सर्वस्खं ज्यष्ठवान्धवात् ॥ ९३८ ॥ क्षुद्रस्याहो ! गतिः कष्टा मरुकूपादपि ध्रुवम् । अददानः खयं यत् स्वमितरानपि रक्षति ॥ ९३९ ।। स वैराग्येण तेनाऽथ सुसाधुचरणान्तिके । परिव्रज्यां गृहीत्वाऽभूत् सौधर्मे प्रवरः सुरः ॥ ९४० ॥ लघुभ्रातापि लोकेन निन्द्यमानो निरन्तरम् । कृत्वा बालतपो मृत्वा चासुरेषूदपद्यत ॥ ९४१ ॥ उद्वाऽसुरयोनिभ्यः स जातस्त्वमिहाऽधुना । च्युत्वा सौधर्मतो ज्येष्ठस्तामलिप्त्यामजायत ।। ९४२ ।। महेभ्यस्य सुतः काले प्रतिपन्न जिनव्रतः। .. उत्पन्नकेवलज्ञानो विहरत्यहमेव सः॥ ९४३॥ दानप्रद्वेषतस्तस्मादन्तरायं यदर्जितम् । । कर्मणोऽस्य विपाकेन.कृपणत्वं तवाऽभवत् ॥ ९४४ ॥ ऋद्धिः पैशून्यतो यत्तु ज्येष्ठस्य ग्राहिता त्वया। . . तद्विपाकादिदानी ते नष्टमेकपदे धनम् ॥ ९४५ ॥ गर्हित्वा दुष्कृतं भद्र ! तदद्यापि यथार्जितम् । धनं पात्रेऽभियोक्तव्यं मूर्छामत्र विमुच्य भोः ॥ ९४६ ॥ मलपूर्णे यथा देहे मृतिः स्पष्टा न जायते । तथा द्रव्यमलस्याऽप्यावन्धतो न गतिर्भवेत् ॥ ९४७॥ Page #157 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १४५ यद् ददाति यदश्नाति तदेव धनिनो धनम् । शेषं को वेत्ति कुत्रापि कस्याऽप्युपकरिष्यति ॥९४८ ॥ उक्तं चमृत्युः शरीरगोप्तारं रक्षितारं धनं धरा । दुश्वारिणीव हसति स्वपति पुत्रवत्सलम् ॥ ९४९॥ इह लोको भवेद् भुक्ते दत्ते परभवः शुभः । अभुक्ताऽदत्ते वित्ते नु वद कोऽत्र गुणो नृणाम् ? ॥९५०॥ धर्मादवाप्य ये लक्ष्मी न धर्मस्योपकुर्वते । कृतघ्नानां परं तेषां गृह्णीते नाम को भुवि? ॥ ९५१ ।। पुष्पाणां निश्चिते नाशे यथा देवार्चनं फलम् । तथा ज्ञानधनादीनां परोपकृतिरेव हि ॥ ९५२ ।। लक्ष्मीश्चपलनारीव कस्यापि यदि वेश्मान । भूयोवितरणाऽपत्यवन्धनाद् भजति स्थितिम् ॥ ९५३ ।। नास्तीतिसतताभ्यासात् भवेत् सर्व सदप्यसत् । शून्येन गुणितो येन लक्षाकोऽप्येति शून्यताम् ॥ ९५४ ॥ बहारम्भोऽपि दानेन स्वाऽनुमानेन शुध्यति । न्यायपूर्व यथा तेन बहुधापि क्रयाणकम् ।। ९५५ ॥ प्राचीनसुकृतग्राससंभवायाः खलु श्रियः।। गुणोऽयमेव यदानं पात्रायाऽगण्यपुण्यकृत् ॥ ९५६ ।। आस्तां पात्रगतं दानमस्मात् साधारणादपि । तद्भवेऽप्यद्भुतं भाग्यं कुबेरस्येव जायते ॥ ९५७ ॥ कः कुबेरः कथं चासीत्तस्य भाग्यमिहाद्भुतम् । इति पृष्टो मुनिस्तेन कथयामासिवानिदम् ।। ९५८ ॥ श्रीविशालपुरे राजा गुणाढ्योऽथ विभूतिभिः । कुबेर इव तत्रासीत् कुबेराख्यो धनाधिपः ॥ ९५९ ॥ श्रीदेवताऽन्यदा दिव्यरूपवेषविभूषणा । वासौकसि तमभ्येत्य निशि सुप्तमभाषत ।। ९६० ॥ Page #158 -------------------------------------------------------------------------- ________________ १४६ श्रीपार्श्वनाथचरितेअहो ! जागर्षि शेषे वा तच्छृत्वोत्थाय संभ्रमात् । देवि ! जागर्मि काऽसि त्वमित्युक्ता तेन साऽवदत् ।।९६१॥ श्रीरहं सप्त पर्यायान् यावत्तव गृहे स्थिता। इदानीं गन्तुकामा तु त्वामाप्रष्टुमिहागता ॥ ९६२ ॥ तन्निशम्य महाशोकसङ्कुलः सोऽवदत् पुनः । कथं त्यजसि मां देवि ! त्वयैव सकलं जगत् ? ॥९६३॥ श्रीरुवाच भहाभाग ! ममावऽस्थानकारणम् । भाग्यमेकं क्षयं तच्च जगाम तत्र याम्यतः ॥ ९६४ ॥ सहसोत्पन्नबुद्धित्वादसौ हृष्टोऽभ्यधादथ । प्रसद्य तर्हि मे देवि ! तिष्ठ घस्रचतुष्टयम् ।। ९६५ ।। आमेति प्रतिपद्याऽस्यां प्रयातायां यथागतम् । कुबेरो द्रुतमुत्थाप्य समस्तगृहमानुषान् ।। ९६६ ॥ निखातं प्रकटं द्रव्यं स्वर्ण रूप्यं तथाऽखिलम् । कांस्यदृष्यादि चाकृष्याऽचीकरत् सुमहोत्करान् ॥९६७।। प्रातरुद्धोषणापूर्व सर्वेषामर्थिनां धनम् । अनाथ-दुःस्थ-दीनानां स्वजनानामपीच्छताम् ॥ ९६८ ॥ सर्वज्ञभवनादौ च धर्मकृत्ये तथाऽमुना । चतुर्भिर्दिवसैदत्तं भक्तशेषोऽभवद् यथा ॥ ९६९ ॥ चतुर्थाहे मुदा जाग्रच्छयानं जीर्णमश्चके । निशि श्रीदेवताऽऽगत्य विलक्षा तमभाषत ॥ ९७० ॥ अहो ! जागर्षि शेषे वा यावनैवोत्तरं ददौ ? । तया तावदुपालब्धः स संभ्रान्त इवोत्थितः ॥ ९७१ ॥ क्षम्यतां देवि ! न ज्ञाता दिनानामियतां यतः । निश्चिन्तस्य धनाभावात्सुखनिद्राऽद्य मेऽभवत् ॥ ९७२ ॥ किं करोमीति जल्पन्तं श्रीरूचे ननु संप्रति । किं कार्य येन बद्धाऽहं गत्वर्यपि त्वया दृढम् ? ॥९७३॥ कुबेरोऽप्यब्रवीद् देवि ! कुर्वे कस्याऽपि बन्धनम् । .. Page #159 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । १४७ नान्यस्याऽपि विशेषात् ते व्रज स्थानं यथेप्सितम् ।।९७४॥ देवता प्राह भो भद्र ! स्वेच्छया गमनं कुतः १ । पुण्यैः परवशाया मे तानि तु त्वयि संप्रति ।। ९७५ ॥ तेन त्वमेव मे स्थानं सोऽथ हृष्टोऽप्यवज्ञया । अब्रवीदिदमप्यस्तु किन्तु त्वं कथमेष्यासि ? ॥ ९७६ ॥ श्रीरवोचदुपायेन कोऽसौ भद्र ! निशम्यताम् ? । श्रीदेव्या भवनेत्रावधूतवेषेण यो भवेत् ।। ९७७ ॥ निमन्त्र्य भोजयित्वाऽसौ मध्यापवरके त्वया । स्पृष्टव्यो लकुटेनांहौ भविता स्वर्णपूरुषः ॥ ९७८ ॥ (युग्मम् ) तथैव विधिना तेन देव्यादेशे कृते सति । सुवर्णपुरुषो जातः खण्डितोऽप्यक्षयो हि यः ॥ ९७९ ॥ तदा तत्रागतः पादक्षालनायकनापितः । चलदृष्टितया सर्व वृत्तान्तं तमुदैक्षत ॥ ९८० ॥ अरेऽमीषां गृहे लक्ष्मीरित्थमेव प्रजायते । तत्करिष्येऽहमप्येतदिति धृत्वा हृदि स्थितः ॥९८१॥ सोऽन्यदा तादृशं वीक्ष्य नरं देवकुलस्थितम् ।। निमन्त्र्य भोजयित्वांहो जघान लकुटेन तम् ॥ ९८२ ॥ प्रहारेण पतन्नुच्चैः स चक्रन्द तथा नरः। यथा श्रुत्वा तलारक्षास्तत्राऽऽजग्मुरुदायुधाः ॥ ९८३ ।। तद् दृष्ट्वा नापितो बद्ध्वा तैः स राज्ञो निवेदितः । पृष्टो राज्ञा च वृत्तान्तं सर्वमाख्यातधानसौ ॥ ९८४ ॥ कुबेरस्य गृहे देव ! यथा स्वर्णनरोऽजनि । मयाऽपि तादृशं चक्रे फलमन्यादृशं त्वभूत् ।। ९८५ ।। अथाऽऽकार्य कुबेरस्तत् पृष्टो भूपेन कौतुकात् । सोऽपि सर्वमिदं मूलादाचचक्षे विचक्षणः ।। ९८६ ॥ ततो राजाऽवदत् तोषाद्धन्योऽहं यस्य मे पुरे। Page #160 -------------------------------------------------------------------------- ________________ १४८ श्रीपार्श्वनाथचरितेईदृशाः सन्ति दातारः पुण्याख्याः सत्यभाषिणः ॥९८७॥ राज्ञेति सत्कृतो बाढं मोचयित्वा च चण्डिलम् । कुबेरः स्वगृहे गत्वा धर्मकृत्यपरोऽभवत् ॥ ९८८ ॥ ज्ञात्वा साधारणस्याऽपि दानस्य महिमामिति । ' भाव्यं यथाल्पसंतुष्टैः पात्रदानपरैर्नरैः ॥ ९८९ ॥ धनसार इति श्रुत्वा संविग्नः स्माऽऽह सुप्रभो !। यद्येवं तन्ममाऽप्येतत्परिग्रहनियन्त्रणम् ।। ९९० ।। वित्तं यदर्जयिष्येऽशं चतुर्थ तस्य धारयन् । यावजीवमहं शेषं प्रदास्य धर्मकर्मणि ॥ ९९१ ॥ अनाभोगादिवर्ज च कथश्चिज्जानता मया । अद्यप्रभृति न ग्राह्यो दोषः कस्याऽपि सनसन् ॥ ९९२ ॥ प्रपनस्तेन चान्योऽपि गृहिधर्मो जिनोदितः । जन्मान्तरापराधं च केवली क्षामितो भृशम् ॥ ९९३ ॥ अन्यत्र विहते तस्मिन् सोऽपि श्रेष्ठी परिभ्रमन् । तामलिप्त्यां गतः पुर्या वाणिज्यं कुरुते कृती ॥ ९९४ ॥ भाषितादधिकं धर्मे ब्ययन् वित्तमुपार्जितम् । जिनपूजादिना तत्र कश्चित्कालं निनाय सः ।। ९९५ ।। अन्यदा गृहमस्त्येकं व्यन्तरेणाद्वसीकृतम् । तत्र प्रतिमया तस्थौ धनसारः कथश्चन ॥ ९९६ ॥ देवोऽथ कुपितो नानारूपैस्तस्यातिभीषणैः। उपसर्ग व्यधात् तावद् यावत् सूरः समुद्गतः ॥ ९९७ ॥ विकाशिकमलच्छायं शमश्रीशोभितं मुखम् । मेरुधीरं मनचाऽस्य दृष्ट्रा हृष्टः सुरोऽवदत् ॥ ९९८ ॥ धन्योऽसि त्वं महाभाग ! धन्या च जननी तव । यस्यैवं गृहिणोऽप्यासीद् विकारोऽन्तर्बहिर्न हि ॥९९९ ॥ तुष्टोऽस्मि किश्चिद्याचख पुनः पुनरितीरिते । . नापितम् । Page #161 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १४९ स यावनोत्तरं दत्ते तावद् भूयः सुरो जगौ ॥ १०.०॥ यद्यपि त्वं निरीहोऽसि तथाऽपि वचसा मम । मथुरां गच्छ तत्र त्वं प्राग्वद्भावी महर्धिकः ॥ १००१॥ इत्युत्वा क्षमयित्वा च जगामाऽदर्शनं सुरः। प्रतिमां पारयित्वा च श्रेष्ठी चिन्तितवानिदम् ॥ १००२॥ धनेन मम किं तेनाऽथवा भवतु येन तम् ? । दानतः स्वस्य कार्पण्यकलङ्क मार्जयाम्यहम् ।। १००३ ॥ इति कृत्वा गतः पुर्या मथुरायां निजं गृहम् । यावत्तत्र निधानेषु तत्सर्व द्रव्यमीक्षते ॥१००४ ॥ देशान्तरं गतं चापि प्रत्यायाति दिने दिने । जनेन भक्षितं यच्च तदप्यासादयेत् सुखात् ।। १००५ ॥ एवं च मिलितास्तस्य पदक्षष्टिरपि कोटयः । सद्यः फलन्ति पुण्यानि शुभभावकृतानि यत् ॥१००६ ॥ नरं व्यात्तमुखं दृष्ट्रा लक्ष्मी तेव नश्यति । तत्त्यागसुभगे तोषात् प्रौढस्त्रीवाऽतिरज्यते ॥ १००७ ॥ तत्र तुङ्गं ततस्तेन कारितं जिनमन्दिरम् । यत्पताकाऽस्य कालुष्यं हत्वा गङ्गेव राजते ॥१००८ ॥ जीर्णोद्धारे च दत्तानि वित्तानि बहुशो मुदा । साम्यं यजातपुण्यस्य नाम्भोधि-नभसोरिव ॥ १००९ ॥ संघे वात्सल्यं यच्चक्रे सर्वधर्मोपमं स्मृतम् । दयादानं च दीनादौ सर्वत्रौचित्यशालिना ॥१०१० ॥ अन्याय-न्यायभेदेन चतुर्भङ्गी धने ततः। सतां सर्वोत्तमो भङ्गो न्यायार्जितस्य सद्ययात् ॥१०११॥ इति संतोषतो दानात् कीर्ति-धर्मी समर्ण्य सः। स्थापयित्वा सुतं गेहे पर्यन्तेऽनशनं व्यधात् ।। १०१२ ।। शुद्ध्या विपद्य सौधर्मे विमाने चाऽरुणप्रभे। चतुष्पल्योपमायुष्को बभूव सुरसत्तमः ॥ १०१३॥ Page #162 -------------------------------------------------------------------------- ________________ १५० श्रीपार्श्वनाथचरिते ततश्च्युत्वा विदेहाख्यक्षेत्रे सुकुलसम्पदम् । प्राप्य काले तपः कृत्वा मोक्षसौख्यं समेष्यति ॥ १०१४ ॥ फलं परिग्रहस्यैवं ग्रहे मोक्षे च वर्णितम् । दोषरूपं गुणमयं तद् द्वयं हृदि धार्यताम् ।। १०९५ ॥ आस्तां बाह्यगतोऽयं यत् क्लेशहेतुः परिग्रहः । अस्यातिलौल्यताध्यानादप्यनर्थः प्रजायते ।। १०१६ ॥ यथा काटिकः कोऽपि भिक्षासक्तुभृतं घटम् । विमुच्य निजपादान्ते शून्यदेवकुलेऽस्वपीत् ।। १०१७ ॥ तत्र जाग्रदिदं दध्यानिमान् विक्रय सक्नुकान् | यन्मूल्येन ग्रहीष्येऽहमजां सापत्यया तया ।। १०९८ ॥ धेनुं धेन्वा च महिषीं तयाऽपि वरवाजिनीम् । तस्याः किशोर कैर्दिव्यैर्वहु द्रव्यं भविष्यति ।। १०१९ ॥ तेनाथ कारयिष्यामि सौधमुचं मनोहरम् । सचित्रशालिकालिन्दमत्तवारणजालकम् ।। १०२० il तत्र शय्यासनाद्यं च संस्थाप्य सदुपस्करम् । मेलयित्वा परीवारं निमन्त्र्य स्वजनं जनम् ।। १०२१ ।। सुतामुत्तमविप्रस्य परिणेष्यामि सुन्दरीम् । सर्वलक्षणसंपूर्णस्तस्याश्च भविता सुतः ।। १०२२ ॥ बहुद्रव्यागमे जाते कृते वर्धापनोत्सवे । मनोरथशतैः सार्धं वृद्धिं यास्यति स क्रमात् ।। १०२३ ॥ अन्यदा बहिरायातः सुतं दृष्ट्वा गृहाङ्गणे । रुदन्तं कुपितो भार्यामाहनिष्येऽहमंत्रिणा ।। १०२४ ॥ इत्यावेशगतो दृष्ट्वा साक्षात्पादप्रहारतः । घटं भग्नं गतान् सक्तून् शुशोच स भृशं वटुः ।। १०२५॥ विवेकिभिरिति ज्ञात्वा परिग्रहनियन्त्रणम् । कार्य येन लघुर्जीवस्तरत्येव भवोदधिम् ।। १०२६ ॥ एवमुक्तानि पञ्चाऽप्यणुव्रतानि निदर्शनैः । Page #163 -------------------------------------------------------------------------- ________________ द्वतीयः सर्गः १५१ राजमार्गसमान्योभिः शनैर्याति शिवं गृही ॥ १०२७ ॥ स्थूलसूक्ष्मविभेदेन सर्वथा पालितानि तु । स्युरेतान्येव हि महाव्रतानि यतिनामिह ।। १०२८ ।। अमीभिः शीघ्रमासन्नमार्गतुल्यैर्यतिव्रजेत् । सिद्धिं तत्र यथाशक्ति यतितव्यं ततो बुधैः ॥ १०२९ ॥ इति तस्य मुने चोऽबुध्यन्त बहवो जनाः। नियमाभिग्रहं देशविरतिं च प्रपेदिरे ॥ १०३० ॥ राजा किरणवेगस्तु विरक्तात्मा सुसात्विकः । देहाथै विमुखीभूय परमार्थमना अभूत् ॥ १०३१ ॥ अज्ञानपटले ध्वस्ते गुरुणा शास्त्रशस्त्रतः । निजं राज्यं प्रधानेन व्याप्तमात्मा प्रपश्यति ।। १०३२ ॥ तत्तद्धर्मकथाऽर्थांश्च हृदये स विभावयन् । क्षणमेकं महानन्दाज्जीवन्मुक्त इवाऽभवत् ॥ १०३३ ॥ (युग्मम् ) माया-शोक-भय-क्रोध-लोभ-मोह-मदाऽन्विताः। ये वाञ्छन्ति कथामर्थे तामसास्ते नराधमाः ॥ १०३४ ।। ये रागग्रस्तमनसो विवेकविकला नराः । कथामिच्छन्ति कामस्य राजसास्ते विमध्यमाः ॥१०३५ ।। ये लोकद्वयसापेक्षाः किश्चित्सत्त्वयुता नराः। कथामिच्छन्ति संकीर्णा ज्ञेयास्ते वरमध्यमाः॥ १०३६ ॥ मोक्षकाकतानेन चेतसाभिलपन्ति ये । शुद्धां धर्मकथामेकां सात्त्विकास्ते नरोत्तमाः ।। १०३७ ॥ तथातमोवशादनैश्वर्याऽज्ञानाऽधर्मकलिक्रुधः। रजोवशादवैराग्यं सत्त्वाद्धर्मे मतिः स्थिरा ॥ १०३८ ॥ उत्थाय प्राञ्जलिश्चैवमुवाच खचराधिपः । बाढं तत्त्वोपदेशेनाऽनुगृह्येऽहं त्वया मुने ! ॥ १०३९ ॥ Page #164 -------------------------------------------------------------------------- ________________ श्री पर्श्वनाथचरिते निमित्तमात्रतां योऽपि धर्मे सर्वज्ञभाषिते । प्रतिपद्येत जीवस्य सोऽपि धर्मगुरुर्मतः ।। १०४० ॥ भवानिव विशेषण हेतूदाहरणैर्युतम् । क इदं तत्वमाख्याति तत् स्वं मे शरणं मुने ! १ ॥१०४१ ॥ इत्युक्त्वा भवने गत्वा कृत्यमाख्याय मन्त्रिणाम् | संबोध्य नन्दने राज्यभारमारोपयद् नृपः ।। १०४२ ॥ स्वयं सुरगुरोः पार्श्वे परिव्रज्यामुपाददे । दुष्कर्मशस्त्रमुद्धर्तुमयस्कान्तमणिप्रभाम् ॥ १०४३ ॥ ज्ञानात्माविदितोत्सर्गाऽपवादविधिरागमात् । गीतार्थश्च क्रमाज्जज्ञे श्रुतस्कन्ध इवाङ्गवान् ।। १०४४ ॥ गुरोरनुज्ञयैकाकिविहारं प्रतिपद्य सः । आकाशगमनेनागात् पुष्करद्वीपमन्यदा ।। १०४५ ॥ शाश्वतानर्हतस्तत्र नत्वा वैताद्व्यसन्निधौ । १५२ प्रदेशे हिमशैलस्य स तस्थौ प्रतिमाधरः ।। १०४६ ।। तप्यमानस्तपस्तीव्रं सहमानः परीषहान् । साम्यमग्नमनाः कालं स तत्रागमयन्मुनिः ।। १०४७ ॥ सोऽपि जीवः कुर्कुटाहेरुत्य नरकात् ततः । हेमाद्रेर्गहरे तस्य महाहिरुदपद्यत ।। १०४८ । दोर्दण्ड इव कालस्य जन्तून् कवलयन् बहून् | आहारार्थ स बभ्राम वने तस्मिन्नहर्निशम् ।। १०४९ ।। अन्यदा पर्यटन् सोऽहिर्निकुञ्जस्थमुदैक्षत । ध्यानैकतानं किरणवेगर्षि स्वम्भवत् स्थितम् ||१०५० ॥ सद्यः प्राग्जन्मवैरेण सोऽतिकोपारुणेक्षणः । भोगेनावेष्टयत् साधुं चन्दनद्रुमिवाथ तम् ।। १०५१ ॥ दंष्ट्राभिर्विष भीष्माभिर्दन्दशूको ददंश सः । मुनिं स्थानेषु भूयस्सु दंशेषु प्रक्षरन् विषम् ॥ १०५२ ॥ दध्यौ च स मुनिर्वादमयं कर्मक्षयाय मे । Page #165 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। १५३ सुष्ठपकारी तेनाहि पकारी मनागपि ॥ १०५३ ॥ जीवित्वाऽपि चिरं कर्मक्षयः कार्यो मया खलु । सोऽद्यैव विहितोऽनेन कृतकृत्योऽस्मि सर्वथा ॥ १०५४ ॥ ध्यात्वेत्यालोचनां कृत्वा क्षमयित्वाऽखिलं जगत् । नमस्कारं स्मरन् धर्मध्यानी सोऽनशनं व्यधात् ॥१०५५।। मेरुवन्निष्पकम्पोऽस्थात् कायेन मनसाऽपि च । अच्युतस्थितियोग्यानां शीलमच्युतमेव तत् ॥ १०५६ ॥ मृत्वा स द्वादशे कल्पे द्वाविंशत्यर्णवस्थितिः । अभूजम्बूद्रुमावर्ते विमाने प्रवरः सुरः ॥ १०५७ ॥ सुखमनस्तदा तत्र विलसन् विविधर्द्धिभिः । सेव्यमानः सुरैरस्थात्स कालमतिवाहयन् ॥ १०५८ ॥ हेमाद्रिकटके भ्राम्यन् सोऽप्यहिर्दववह्निना । दग्धो धूमप्रभां प्राप सप्तदशार्णवस्थितिः ॥ १०५९ ॥ खण्ड्यन्ते तिलशो यत्र कुट्यन्ते वज्रमुद्गरैः। पच्यन्ते कुण्डकुम्भीषु छिद्यन्ते निशिताऽसिभिः ॥१०६०॥ करपत्रैर्विदार्यन्ते भक्ष्यन्ते कोल-कुर्कुरैः । महायन्त्रेषु पीड्यन्ते पाय्यन्ते गलितं त्रपु ॥ १०६१ ॥ अयोरथेषु योज्यन्ते आस्फाल्यन्ते शिलातले । क्षिप्यन्ते वह्निकुण्डेषु स्थाप्यन्ते तप्तधूलिषु ॥ १०६२ ॥ क्षेत्रस्थभावजं नित्यमन्योऽन्याभ्यां कृतं च यत् । वेदयन्ते महादुःखं नारका गाढमत्सराः॥ १०६३ ॥ साद्विशतधन्वाङ्गस्तीवा नारकवेदनाः । स तत्रानुभवंस्तस्थौ सुखांशेनाऽप्यचुम्बितः ॥ १०६४ ॥ वीजं मोक्षतरोस्तमःप्रशमने रत्नप्रदीपो जगनेत्राणाममृतप्रपाऽतिविततश्रेयोलतामण्डपः । प्रत्यक्षश्च शिवैकपूर्णकलशश्चित्रं व्ययेऽप्यक्षयः २० Page #166 -------------------------------------------------------------------------- ________________ १५४ श्रीपार्श्वनाथचरितेश्रेयः पार्थजिनस्तनोतु भवतां भावैकगम्यो विभुः ॥१०६५।। इति श्रीकालिकाचार्यसन्तानीयश्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरित्रे _महाकाव्ये भावाङ्केऽष्ट सर्गे श्रीपार्श्वनाथचतुर्थ-पञ्चमभववर्णनो नाम द्वितीयः सर्गः । अर्हन अथ तृतीयः सर्गः । इतश्च जम्बूद्वीपेऽस्मिन् प्रत्यविदेहभूषणे । सुगन्धे विजयेऽस्त्युच्चैः पुरी नाम्ना शुभंकरा ॥१॥ कल्पद्रुमसमै तनरैर्या देवमन्दिरैः । अप्सरस्तुल्यनारीभिः सुमनोभिर्मनोरमा ॥ २॥ अमृतैः स्वच्छमधुरैर्मणिभिः स्फुरदंशुभिः । न्यासीकृतमिव वस्याः पुरः सारं बिडोजसा ॥३॥ मणीमयगृहोल्लासिप्रभाजालजलाशये । यस्यां निशि विराजन्ते कुसुदानीव तारकाः ॥ ४ ॥ तत्राद्भुतगुणो वज्रवीर्यनामा नृपोऽभवत् । रञ्जयामास यो विश्वं की. धवलयमपि ॥ ५॥ प्रतापदहनज्वालाकलापग्लपिता भृशम् । सौम्यतां दधिरे यस्य वने वृक्षा इवारयः ॥ ६॥ तस्य लक्ष्मीवती नाम प्रिया सौभाग्ययोगतः । समस्तयुवतीमध्ये या श्रीरिव धुरि स्थिता ॥ ७॥ लज्जा-विनय-माधुर्यप्रमुखैर्विविधैर्गुणैः । शुशुभे या सदाम्भोजैः सरसीवाऽमलाशया॥८॥ १ इन्द्रेण । Page #167 -------------------------------------------------------------------------- ________________ १५५ तृतीयः सर्गः । जीवः किरणवेगस्य च्युत्वा पूर्णायुरच्युतात् । देव्या अवातरत् तस्याः कुक्षितीरे मरालवत् ॥ ९ ॥ साऽमृतसमये पुत्रमुत्तमस्वमसूचितम् । धरणीभूषणं विश्वदृक्च कोरसुधाकरम् ॥ १० ॥ निवृत्ते सूतके जाते वर्धापनमहोत्सवे । वज्रनाभ इति स्पष्टं तस्य नाम प्रतिष्ठितम् ॥ ११ ॥ आनन्देन समं पित्रोर्वर्धिष्णुः पुण्यपुद्गलैः । वर्त्तमानः स कौमार्ये ग्राहितः सकलाः कलाः ॥ १२ ॥ कलाकलापसम्पन्नः शशीव स न केवलम् । कुलव्योमोज्ज्वलं चक्रे हर्ष कुवलयेऽप्यधात् ॥ १३ ॥ स क्रमादुदयन्नेवं प्रापत्तारुण्यमुज्ज्वलम् । प्रबलतरुणीनेत्र विश्रान्तिबहुलम् || १४ || तद्वशेन च विस्तीर्णा तस्य दृष्ट्या समं मतिः । विक्रमेण समं वक्षःस्थलं चोपचयं ययौ ॥ १५ ॥ कृशत्वमुदरं प्राप क्रोधलोभादिभिः सह । सदाचारविचारेण प्रससार भुजाबलम् ।। १६ ।। शस्त्र - शास्त्रविनोदेन कलाकाव्यरसेन च । अतुच्छस्वच्छधीः क्रीडन् स न कस्य हृदि स्थितः ? ||१७|| अन्यदा बङ्गदेशेन्द्रचन्द्रकान्तो निजाङ्गजाम् । प्रदातुं वज्रनाभाय वज्रवीर्यमुपारुधत् ॥ १८ ॥ तामथोदवत् कन्यां कुमारो विजयाभिधाम् । रूपेण जितकामत्वाद् दिव्यास्त्रमिव मान्मथम् ॥ १९ ॥ सद्वितीयोऽप्यसावेवमद्वितीयोऽभवद् ध्रुवम् । बुद्ध धर्मविधौ दाने माने च विनये नये ॥ २० ॥ अन्यदा स्वपितुर्द्विष्टस्तस्य मातुलनन्दनः । तत्रागत्य कुबेराख्यः कुमारस्यान्तिके स्थितः ॥ २१ ॥ नास्तिवादी स च प्रायः कुमारं धर्मसादरम् । Page #168 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते वीक्ष्यावादीहो ! मुग्ध ! किमेषा कष्टकल्पना ? ॥ २२ ॥ केन त्वं विमलब्धोऽसि यद् धर्मात् सुगतिर्भवेत् ? । तदेव हि सुखं दुःखं यत् साक्षादिह दृश्यते ॥ २३ ॥ मनो-वचन-कायानां ततस्त्वं पूरयेप्सितम् । गुणधर्माऽबाधयेत्थं लब्धं मा हारयेः सुखम् || २४ ॥ इत्यादि राजसूः श्रुत्वा दध्यौ तूष्णीमहोत्तरम् । मतिभ्रंशाय संवादः कुग्रहग्रहिलैः सह || २५ || अस्याsकल्याणमित्रत्वं मन्धोरपि धिक् कथम् ? | तदनं वोधयिष्यामि कुतोऽपि ज्ञानिनो मुनेः || २६ ॥ अन्यदा लोकचन्द्राख्यः सूरिर्भूरिमुनिश्रितः । बहिस्तत्राययौ ज्ञानतपः श्रीवेणिसङ्गमः || २७ ॥ तमुद्यानस्थितं श्रुत्वा कुमारः सपरिच्छदः । कुवेरसहितोऽगच्छदतुच्छात्माऽभिवन्दितुम् || २८ ॥ विधिना शुद्धभावेन ववन्दे स मुनीश्वरम् । कुमारस्योपरोधेन कुबेरोऽपि ननाम तम् ॥ २९ ॥ उपविष्टे यथास्थानं कुमारप्रमुखे जने । धर्मोद्यानसुधाकुल्यां प्रारेभे देशनां मुनिः ॥ ३० ॥ इह प्रकृत्या स्वच्छोऽपि जीवः कर्ममलातृतः । लभते विविधं दुःखं भ्राम्यन् गतिचतुष्टये ॥ ३१ ॥ तच्च कर्माऽष्टधा ज्ञान दर्शनावरणे तथा । मोहनीयं वेद्यमायुर्नामगोत्रान्तरायकम् ॥ ३२ ॥ मति श्रुताऽवधि मनःपर्यायं केवलात्मकम् । ज्ञानं पञ्चविधं तस्यावरणं चापि पञ्चधा ॥ ३३ ॥ अचक्षु वक्षु-रवधि केवलं दर्शनावृति । निद्रा पश्चेति नवधा दर्शनावरणं भवेत् ।। ३४ ।। कषायाः षोडशभिदात्रिके मिथ्यात्व - वेदयोः । हास्यादिषट्कं मोहः स्यादऽष्टाविंशतिनिर्मितः || ३५ ॥ - १५६ Page #169 -------------------------------------------------------------------------- ________________ १५७ तृतीय : सर्गः। सुखे दुःखे द्विधा वेद्यमायुः कर्म चतुर्विधम् । तिर्यग्-नारक-गीर्वाण-मनुष्यगतिभेदतः ॥ ३६॥ अप्यनेकविधं नाम शुभाशुभविभेदतः । द्विविधं गोत्रमप्युच्चैर्नीचर्भेदाद् द्विधा भवेत् ॥ ३७॥ दान-लाभयोर्वीर्यस्य तथा भोगो-पभोगयोः । प्रत्यूहकरणात् पञ्चविधं कर्मान्तरायकम् ॥ ३८ ॥ प्रतिकूलतया द्वेषादन्तरायादपह्नवात् । ज्ञान-दर्शनयोर्जीवो बध्नात्यावरणद्वयम् ॥ ३९ ॥ अनुकम्पा-व्रतोद्योग-गुरुभक्ति-क्षमादिभिः । सुवेद्यं बध्यते कर्म दुःखवेद्यं तथेतरैः ॥ ४० ॥ सर्वज्ञ-गुरुसङ्घादौ प्रत्यनीकतया भृशम् ।। दर्शनमोहनीयं स्यादनन्तभवकारकम् ।। ४१ ॥ राग-द्वेष-महामोहयुतस्तीवकषायभृत् । देश-सर्वचरित्राख्यमोहनीयस्य बन्धकः ॥ ४२ ॥ मिथ्यादृष्टिः कुशीलश्च महारम्भपरिग्रहः । पापः क्रूरपरीणामो नारकायुर्निबन्धकः ॥ ४३ ॥ उन्मार्गदेशको मार्गनाशको बहुमायिकः। शठवृत्तिः सशल्यश्च तिर्यग्योन्यायुरर्जयेत् ॥ ४४ ॥ प्रकृत्याऽल्पकषायो यः शील-संयमवर्जितः । दानशीलो मनुष्यायुर्गुणैर्वनाति मध्यमैः ॥ ४५ ॥ अकामनिर्जरा-बालतपो-ऽणुव्रत-सुव्रतैः । जीवो बध्नाति देवायुः सम्यग्दृष्टिश्च यो भवेत् ॥ ४६॥ मनो-वचन-कायेषु वक्रो गौरवलम्पटः । अशुभं नाम बध्नाति शुभं तदितरैः पुनः॥४७॥ गुणैषी निर्मदो भक्तो ह्यहंदाद्यागमप्रियः । उच्चैर्गोत्रं निबध्नाति नीचैस्तु तद्विपर्ययात् ॥ ४८ ॥ हिंसाद्यभिरतो मोक्ष-जिनपूजादिविघ्नकृत् । Page #170 -------------------------------------------------------------------------- ________________ १५८ श्रीपार्श्वनाथचरितेअर्जयत्यन्तरायाख्यं कर्माभीष्टार्थवाधकम् ॥ ४९ ॥ कोटाकोट्यः सागराणां मोहनीयस्य सप्ततिः । चतुर्णा ताः पुनस्त्रिंशद् विंशतिनाम-गोत्रयोः ॥ ५० ॥ आयुषस्तु त्रयस्त्रिंशत् सागरा एव केवलाः। उत्कृष्टा स्थितिरित्येवमष्टानामपि कर्मणाम् ॥ ५१ ।। जघन्या सा तु वेद्यस्य मुहूर्ता द्वादश स्मृताः । नाम्नो गोत्रस्य चाष्टान्तर्मुहूर्त शेषकर्मणाम् ॥ ५२ ॥ यथाप्रवृत्तिकरणात् कर्माण्यात्माऽखिलान्यपि । अस्यैककोटाकोव्यन्तः स्थितीनि कुरुते सदा ॥ ५३ ॥ अपूर्वकरणात् तेषां तदा ग्रन्थिं भिनत्यसौ। प्राप्यानिवृत्तिकरणं सम्यक्त्वं लभते ततः ॥ ५४ ॥ तेन प्राप्यामृतेनेव सञ्चैतन्यं सुखीभवेत् । . लब्ध्वास्वाद इवाधत्ते जिनधर्मे मनः शनैः ॥ ५५ ॥ ग्रहस्थ-यतिधर्म च प्रवृद्ध्या प्राप्नुवन्नथ । धौतकर्ममलस्तेन लभते परमं पदम् ॥ ५६ ॥ . अतो धन्यः स सम्यक्त्वरत्नं स्फुरति यद्हृदि । स तु धन्यतमो यस्तदुत्तरोत्तरतां नयेत् ॥ ५७ ॥ : स एव पुरुषः सार्थनामा शेषास्तु विभ्रति । स्वाख्यां डित्थ-डवित्थादिशब्दा इव निरर्थिकाम् ॥ ५८ ॥ श्रुत्वा कुबेरस्तद्दपात् स्फुरदोष्ठपुटो जगौ । आचार्य ! सर्वमप्येतदसंबद्धं तवोदितम् ॥ ५९ ॥ यत्रासौ धर्मकर्मादिगुणौघः स्थाप्यते त्वया। तावत् स एव नास्त्यात्मा निराधारा हता गुणाः ६० ॥ यतस्तदेव सद्वस्तु यः स्यादिन्द्रियगोचरः। न चायमिन्द्रियग्राह्यो जीवस्तस्मान्न विद्यते ॥६१ ॥ तथा चोक्तम्-- समस्तवस्तुविस्तारग्राहिभिश्चक्षुरादिभिः। Page #171 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। यन्न संवेद्यते तन्न विद्यते वियदब्जवत् ॥ ६२ ॥ चेतनाव्यवहारस्तु तथा देहादिसंस्थितिः । पृथ्व्यादिभूतसङ्घातपरिणामो हि केवलम् ॥ ६३ ॥ तस्माद्धमक्रिया व्यर्थमाबाधाकारिणो गुणाः । न च तेषां फलं साक्षादीक्ष्यते ह्यत्र किंचन ॥ ६४ ॥ किश्च कष्टात् तपस्यादेः कथङ्कारं सुखं भवेत् ? । कारणैः सदृशं कार्य फलं बीजानुगं च यत् ।। ६५ ॥ शान्तात्मा मुनिरप्यूचे देवानांप्रिय ! यत्त्वया । उक्तं स्वोक्तिविरुद्धं तद् माता बन्ध्यादिवाक्यवत् ॥६६॥ यतो येन प्रमाणेन जीवाऽभावस्त्वयोच्यते । तदस्ति नास्ति वा तत्रास्तित्वं तावत्तवाऽघटम् ॥ ६७ ॥ ज्ञानरूपप्रमाणं हि न स्यादिन्द्रियगोचरः। नास्तिपक्षे तु तदकिञ्चित्करं शशशृङ्गवत् ॥ ६८ ॥ किश्च, सन्ति रूपादयो भावा यथान्ध-बधिरादिभिः । अनुपलब्धा अप्येते तदन्यैरुपलम्भतः ॥ ६९॥ तथात्मा चर्मदृष्टीनामदृष्टोऽप्येष विद्यते । प्रत्यक्षत्वात् त्रिकालेऽपि परमज्ञानचक्षुषाम् ॥ ७० ॥ यत उक्तम्अनिन्द्रियगुणं जीवमग्राह्य मांसचक्षुषाम् । सिद्धाः पश्यन्ति सर्वज्ञा ज्ञानसिद्धाश्च साधवः ॥ ७१ ॥ यच्च पृथ्व्यादिसङ्घाताच्चेतना गदिता त्वया । तेषां प्रत्येकचैतन्यात् समुदायेऽपि सा भवेत् ॥ ७२ ॥ वालुकायामसत् तैलं वालुकाघाणकेऽपि न । अत एकेन्द्रिया जीवाः सिद्धाः पृथ्व्यादयः स्फुटम् ॥७३॥ तस्माज्ज्ञानादिधर्मेभ्यो भिन्नाभिन्नविवृत्तिमान् । यथोक्तकर्मणः कर्ता भोक्ता कर्मफलस्य च ॥ ७४ ॥ Page #172 -------------------------------------------------------------------------- ________________ १६० श्रीपार्श्वनाथचरिते चैतन्यलक्षणो जीवो मन्तव्यः सर्वथा बुधैः। सति तस्मिन् गुणाधारे धर्मकर्माद्यसिध्यत ॥ ७५ ॥ गत्यादिचेष्टयाऽप्येष देही देहेऽनुमीयते । अन्वय-व्यतिरेकाभ्यां ध्वजाक्षोभेन वातवत् ।। ७६ ॥ यथा भूमिगतं बीजमङ्कुरादनुमीयते । सुख-दुःखात् तथा प्राच्यधर्माऽ-धर्मविनिश्चयः॥ ७७ ॥ तथाहिसच्चित्रशालिकारम्ये विचित्रमणिकुट्टिमे । दिव्योल्लोचे वसन्त्येके सौधे सद्गन्धवासिते ॥ ७८ ॥ अन्ये बिलरजाकीर्णे लताजालसमाकुले । दृश्यन्ते दुःस्थिताः स्रंसकलिञ्जगृहके सदा ।। ७९ ॥ एके मृष्टान्नपक्कान्नद्राक्षापानादिभोजिनः । कर्पूरमिश्रताम्बूलमुखा भुञ्जन्त्यहो ! सुखम् ॥ ८० ॥ अन्ये परमुखापेक्षा बुभुक्षाक्षामकुक्षयः । अकाले कष्टसंमाप्तं कदन्नं कापि भुञ्जते ॥ ८१ ॥ एकेऽत्युदारशृङ्गाराः सारमाल्यविलेपनाः । दिव्ययानपरीवाराः क्रीडन्ति स्मरमूर्तयः ।। ८२ ॥ अन्ये तु दीनवदना धनस्वजनवर्जिताः। दुर्दशा मलदुर्गन्धा भ्रमन्ति किल नारकाः ॥ ८३ ॥ सुगीतैस्तूलिकास्वके वीणानादमनोहरैः। लब्धनिद्रासुखाः प्रातः शङ्खनादेन जाग्रति ॥ ८४ ॥ शृण्वन्तो जम्बूकोलूकध्वनिमन्ये खरावनौ । खपित्वा गतनिद्राः स्युः क्षुधातशिशुकस्वरैः ॥ ८५ ॥ धर्माऽ-धर्मफलं वक्ष्यि साक्षादिति शुभाशुभम् । कष्टसाध्योऽपि कर्त्तव्यः सद्धर्मोऽनन्तशर्मणे ॥ ८६ ॥ १ तत्सत्वे तत्सत्त्वमन्वयः, तदभावे तदभावो व्यतिरेकः । २ कलिञ्जः कटः। Page #173 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। यच्च त्वयोदितं कष्टात् सौख्यं न स्यात्तदप्यसत् । कटुकादौषधादत्र किमारोग्यं न जायते ? ॥ ८७ ।। किश्च लोके स्फुरत्कीर्तिः सद्गतिन्यस्तचेतसः । धर्मोद्यतस्य जीवस्य स्वर्गादप्यधिकं सुखम् ॥ ८८ ॥ तथायेन चारु कुलं रूपं बलं ज्ञानं धनं यशः। आनिन्ये तस्य धर्मस्यानुपकुर्वन्नरोऽधमः ।। ८९ ॥ उक्तं चनीयते येन धर्मेण लक्षसम्पत्तियोग्यताम् । नरः शर इवैतस्माद् विमुखः पतति क्षितौ ॥९०॥ अतो धर्मकुटुम्बस्य धर्मस्थानस्य चानिशम् । पोषणं कुर्वता भाव्यं कृतज्ञेन मनीषिणा ॥ ९१ ॥ दया माताऽस्य सत्कर्मविनियोगः पुनः पिता । प्रिया श्रद्धा गुणाः पुत्रा धर्मस्येदं कुटुम्बकम् ॥ ९२ ॥ सङ्घश्चतुर्विधो बिम्बं चैत्यं चाप्यागमोऽर्हताम् । सप्ताप्येतानि धर्मस्य स्थानकानि विदुर्बुधाः ॥ ९३ ॥ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । अतो धर्मो न मोक्तव्यः श्रयणीया गुणाः सताम् ॥ ९४ ॥ किश्चसंदिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेनास्तिको हतः॥९५॥ इत्थं संदेहपक्षेऽपि लौकिकैरपि कथ्यते । प्रमाणनिश्चिते त्वस्मिन् कथं धर्मो निषिध्यते ? ॥ ९६ ॥ गुरूणां विनतैर्भाव्यं कर्तव्या साधुसङ्गतिः । सविवेकं मनो धार्य न त्याज्यं सत्त्वमुत्तमम् ॥ ९७ ॥ विनयश्च विवेकश्च सुसङ्गश्च सुसत्त्वता । ... लौकिका अप्यमी श्लाघ्या गुणा लोकोत्तरास्त्वलम् ॥९८॥ २१ Page #174 -------------------------------------------------------------------------- ________________ १६२ श्रीपार्श्वनाथचरिलेभूषणानीव भूषायै गुणा बाधाकरा अपि । कथ्यते तत्फलं साक्षाल्लोकेऽपि तव सङ्गते ॥ ९९ ।। तथाहिविनयादेव सौभाग्यं भाग्यं विद्यार्थसंपदः । लोकद्वयसुखस्याऽपि भाजनं विनयाद् नरः ॥ १० ॥ ध्रुवं नम्रतया लोके गुरुत्वं लभते नरः। छन्दोवर्ण इव स्तब्धः पुनर्लघुरिति प्रथाम् ॥१०१ ॥ यथा यथा प्रकृष्टानां पात्रं भवति संपदाम् । शाखीव फलभारेण नम्रः साधुस्तथा तथा ॥ १०२॥ सुवंशसंभवः कोटिलाभयुक्तोऽपि कोविदः । कोदण्ड इव नम्रत्वादात्मन्यारोपयेद् गुणः ॥ १०३ ॥ श्रूयते विनये याऽद्य विक्रमस्य कथा किल । लोकाग्रविनयस्याङ्गमिति सैव निगद्यते ॥ १०४ ॥ तथाहिभरतेऽवन्तिदेशेऽस्ति नानादेशान्तरागतैः । नरै रत्नैश्च रोचिष्णुरवन्ती नामतः पुरी ।। १०५ ॥ अद्वैतविक्रमोऽप्युच्चैत्रिविक्रमकलां दधत् । तत्रोदारचरित्रोऽभूद् विक्रमो नाम भूपतिः ॥ १०६ ॥ विसृष्टार्थोऽपि यः श्रीमान् शक्तियुक्तोऽपि यः क्षमी । दधानोऽपि सदौनत्यं पूज्येषु विनतो भृशम् ॥ १०७ ॥ ओजः-प्रसाद-माधुर्य-सौकुमार्यादिसद्गुणा । सुकवेः कवितेवास्य प्रियाऽऽसीत् कमलावती ॥ १०८ ॥ अन्यदाऽसौ निजस्थानमिन्द्रस्थानसमं नृपः। दृष्ट्वा प्रमुदितोऽत्यन्तं पप्रच्छेदं सभासदः ॥ १०९ ॥ अहो ! ब्रूत कला-विद्या-वस्तुविज्ञानमद्भुतम् । तत् किमप्यस्ति कुत्रापि यन्मे राज्ये न विद्यते ॥ ११०॥ १ संमते, इत्यपि। २ विष्णुस्त्रिविक्रमः । Page #175 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। .. १६३ ततः प्राह कलाविज्ञः कोऽपि देशान्तरी नरः। हर्षोत्फुल्लमुखाम्भोजः पाप्यावसरमुच्चकैः ॥ १११ ॥ भ्रान्तोऽस्मि बहुरत्नायां पृथिव्यां सुचिरं परम् । त्वत्समो न मया दृष्टः श्रीविद्यावेणिसङ्गमः ॥ ११२ ॥ पाताले वासुकिर्देव ! दिवि शक्र उभाविमौ । अदृष्टावपि मन्येते पृथिवीन्द्र ! तव श्रिया ॥ ११३ ॥ महतामवधिः स्वामिन् ! गगनं कथ्यते बुधैः। तत्राप्येकः कलावांस्ते त्वद्राज्ये तु सहस्रशः ॥ ११४ ॥ अवस्त्वेव हि तद्वस्तु निष्कला सा कला विभो ।। अज्ञानं तच्च विज्ञानं यनिलीनं नहि त्वयि ॥ ११५ ॥ यशःसंभारसुरभिर्विक्रमाक्रान्तभूतलः । ॐकार इव वर्णानां त्वं राज्ञां धुरि संपति ।। ११६ ।। वाचस्पतिमतिर्मन्त्री तवाज्ञाजीविता जनाः। सहर्षप्रणताः सर्वे प्रधाना मण्डलेश्वराः॥ ११७॥ सहन्ते द्विषतां वीरा न गन्धं गन्धहस्तिवत् । अनङ्गभरभुनाङ्गचङ्गोऽयं कामिनीजनः ॥ ११८ अस्ति कौतुकचित्रेन्द्रजालादन्यदपि प्रभो!। परकायप्रवेशाख्या किन्तु विद्या न विद्यते ॥ ११९ ॥ ससंभ्रमं नृपः प्राह कुत्रास्तेऽसौ वदाऽऽशु में? । सोऽप्याह श्रीगिरौ देव ! सिद्धेश्वरनरान्तिके ॥ १२.० ॥ . विसृज्याथ सभा राजा राज्यकार्ये स्वमन्त्रिणम् । न्यारोप्य नगराद् विद्याकौतुकी निशि निर्ययौ ॥१२१॥ ताग्राज्यसुखं हित्वा दुःखान्यगणयन् पथि । नवार्थरसिकः सत्त्वसहायो यात्यसौ मुदा ॥ १२२ ॥ यतःनीचाः शरीरसौख्यार्थमृद्धिव्यापीय मध्यमाः। , कलावान् सोमः। २ व्यापो विस्तारः । Page #176 -------------------------------------------------------------------------- ________________ १६४ श्रीपार्थनाथचरिते कस्मैचिदद्भुतार्थाय यतन्ते पुनरुत्तमाः ॥ १२३ ॥ एवं च व्रजतो नित्यं मानसोत्साहरश्मिभिः । आकृष्ट इत्र यस्याऽऽशु श्रीगिरिनिकटोऽभवत् ।। १२४ ॥ सिद्धेश्वराभिधं विद्यासिद्धं तत्रैकदेशगम् । प्रसन्नास्यं नृपो दृष्ट्वा तुष्टो नत्वा ततोऽवदत् ॥ १२५ ॥ त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं मुनीश्वर! । अयच्छनब्रुवाणोऽपि जगदाहादयेच्छशी ॥ १२६ ।। अतस्तव पदाम्भोजद्वयं दुर्लभसङ्गमम् । संसेविष्येऽनुजानीहीत्यनिषिद्धस्तथाऽकरोत् ॥ १२७ ॥ तत्रैको ब्राह्मणोऽग्रेऽपि विद्यायै तिष्ठते चिरात् । तत्कृतो विनयोऽप्यस्य दुःखाय मुहुरर्थनात् ॥ १२८ ॥ बीजमुप्तं शुभक्षेत्रे स्वयमेव यथोदयेत् । यथाऽन्यदपि सत्कर्म दैन्यं क्लेशाय केवलम् ॥ १२९ ॥ आसनन्यास-चरणक्षालनाद्यैर्मनोऽनुगैः।। नृपस्य विनयैर्याच्चारहितैर्मुमुदे गुरुः ॥ १३० ॥ एकाग्रमनसा ध्याता देवाः शैलमया अपि । अचिरेणैव तुष्यन्ति किं पुनश्चेतनो जनः ॥ १३१ ॥ अब्रवीच महाभाग ! सदाचारेण ते मया । ज्ञातं कोऽपि नरोत्तंसस्त्वं देशान्तरकौतुकी ॥ १३२॥ विनयात् तव तुष्टोऽस्मि तत् त्वं विद्यां गृहाण मे । परकायप्रवेशाख्यां यद् भक्तेः स्यां यथाऽनृणः ॥ १३३ ॥ तत् श्रुत्वा विक्रमः स्वार्थशिथिलोऽग्रेतनं नरम् । चिरकालागतं दीनं दृष्ट्वा दध्यौ लसहयः ॥ १३४ ॥ अस्मिन् पुरास्थिते हन्त ! निराशे गुरुवान्धवे । लब्धविद्यः कथं यामि तदेतामस्य दापये ॥ १३५ ॥ बभाषे च प्रभो ! पूज्य ! सेवाहवाकिनश्चिरात् । १ मनोगतैरित्यपि । Page #177 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १६५ अस्प विद्यापदानेन प्रसादो मेऽस्तु तावकैः ॥ १३६ ॥ सविषादं गुरुः माह मा दुग्धं पाययोरगम् । अयोग्योऽयमपात्रे हि विद्याऽनर्थकरी भृशम् ॥ १३७ ॥ यथा कोऽपि पुरा विद्यासिद्धः सिंहास्थिदर्शनात् । सिंहाङ्गं सकलं कृत्वा सजीवं कर्तुमुद्यतः ।। १३८ । वारितो बन्धुना किन्तु सजीवमकरोन्मदात् । हतोऽसौ तेन सिंहेन त्वमप्येवं विभावय ।। १३९ ॥ एवमुक्तोऽपि सिद्धस्य परार्थव्यसनी नृपः । लगित्वा पादयो ढं तस्मै विद्यामदापयत् ॥ १४०॥ गुर्वादेशोपरोधेन जगृहे च स्वयं नृपः। विधिश्च साधने तस्याः सिद्धेन कथितः स्फुटम् ।।१४१।। अविसृष्टोऽपि गुरुणा द्विजोऽभूद् गन्तुमुत्सुकः । न तु राजा विसृष्टोऽपि गुरुवात्सल्यभारितः ॥१४२॥ यतःकलाकलापसंपन्ना उपफर्तुः परामुखाः । न भवन्ति महात्मानः सरसः शिखिनो यथा ॥१४३।। त्वं स्वकृत्यपरो भावी धर्मध्यानपरा वयम् । अनिच्छन्तमपीत्युक्त्वा विससर्ज नृपं गुरुः ॥१४४॥ स्वयं विधाय विप्राच्च विधाप्य विधिसाधनम् । सिद्धविद्यो नृपस्तनानुगतः स्वपुरं ययौ ॥१४५॥ द्विजायात्मीयवृत्तान्तं सौहृदेन न्यवेदयत् । स्वच्छत्वेन गभीरोऽपि दर्शयत्युदधिर्मणीन् ॥१४६॥ गुप्तवृत्त्या दिनं स्थित्वा बहिर्मुक्त्वा द्विजं निशि । निजराज्यस्थितिं दृष्टुमेकाकी प्राविशत् पुरम् ॥१४७॥ पूर्ववद् देवहर्येषु सङ्गीतोत्सवनाटकैः । सुरम्यव्यवहाराचं सधर्माचारधार्मिकम् ॥१४८॥ १ त्वदीयः । Page #178 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते क्षुत- स्खलित शङ्कादौ चिरं जीवतु विक्रमः । इत्यूचानं जनं हृष्टो वीक्षते सर्वतः पुरीम् ॥ १४९ ॥ ( युग्मम् ); १६६ तदा च नृपसौधान्तः पट्टकुञ्जरमृत्युना । तल्लोमाकुलं दृष्ट्रा ययौ राजा द्विजान्तिके ॥ १५०॥ उवाच मित्रं भो विद्याविलासर सिको गजे । प्रविश्य चरितं किञ्चिद् वीक्षे प्रासादमध्यगम् ॥ १५१ ॥ एकान्ते मम कायस्य तत् त्वं प्राहरिको भव । ज्ञातस्वरूपप्रकटो भविष्यामि त्वया सह ।। १५२ ॥ इति स्वं तत्र मुक्त्वा राजा गजकलेवरम् । प्रविवेश करीन्द्रोऽपि पूर्ववद् विलसत्यलम् || १५३ || न केवलं गजो राज्ञा सजीवो विहितो निजः । राजवर्गोऽपि तन्मृत्युमृतः सर्वोऽपि जीवितः ॥ १५४ ॥ प्रावर्तन्त गजेन्द्रस्य विविधा मङ्गलोत्सवाः । कायान्तरगतस्यापि राज्ञो भोगप्रदो विधिः ॥ १५५ ॥ इतश्च दुर्जनात्माऽसौ तनुप्राहरिको नरः । विश्वासघातको मित्रद्रोही लोभादचिन्तयत् ॥ १५६ ॥ महादारिद्र्यदग्धेन किमनेनाङ्गकेन मे १ । प्रविश्य विक्रमस्या कुर्वे राज्यं निराकुलः ॥ १५७ ॥ तथा कृत्वा स सौधान्तः प्रविष्टः कृत्रिमो नृपः । योग्य भूमिमजानानश्चकितोऽरण्यजीववत् ॥ १५८ ॥ ससंभ्रमागतामात्यबाहुलग्नः सदः स्थितम् । सिंहासनमलंचक्रे प्रणतो राजपुरुषैः ।। १५९ ।। करीन्द्रो जीवितो दिष्ट्या नरेन्द्रोऽपि समागतः । grasat शर्करापात इत्यूचानोऽमिलज्जनः ॥ १६० ॥ तेषां यथोचितालापप्रसादमभिवाञ्छताम् । नामकर्माद्यजानानो न करोति किमप्यसौ ।। १६१ ॥ Page #179 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १६७ सहर्षमागता देव्याः प्रियसख्योऽपि तादृशम् । लीलाविलासलालित्यरसं नासादयन्त्यतः ॥ १६२ ॥ अमात्यः पालितप्राज्यराज्यः संभाषणं नहि । मानं प्रधानसामन्ता लभन्ते नापि नागराः॥ १६३ ॥ ते तादृशं नृपं दृष्ट्वा चिन्तयन्त्येष किं सुरः। दैत्यो वा राजरूपेण शून्यराज्यमधिष्ठितः ॥ १६४ ॥ नैतच्च घटते पादौ येनास्य लगतः क्षितौ । निमेषश्च दृशोस्तेन चित्तचालः कुतोऽप्यसौ ॥ १६५ ॥ चित्तं विरहसंतप्तं कमलावचनामृतैः । निर्वाप्यं चेदित्यमात्यस्तं चेट्याऽऽनाययत् ततः ॥ १६६ ॥ स कृत्रिमनृपो दध्यावहो ! मे सुमना विधिः । येनानीत इमां भूमिं मनसोऽपि सुदुर्लभाम् ॥ १६७ ॥ राज्ञी संभ्रान्तमुत्थाय मण्डयत्यासनादिकम् । दृष्ट्वा च तं पुनर्भूपं मूर्छितेव पतत्यधः ॥ १६८ ॥ उक्ता चेटीभिरुत्थाप्य किमिदं देवि ! कथ्यताम् । नृपोऽप्याह कथं देवि ! मूर्छाघातो मदागमे ? ॥ १६९ ॥ तद्वचःश्रवणाद् जातमहार्तिः साऽप्यचिन्तयत् । एष प्रिय इवेक्षेत दाहं दत्ते तु वैरिवत् ॥ १७० ॥ लब्धोपायाऽवदद् देवी देव ! यात्राक्षणे मया । शुभागमाय वश्चण्ड्या उपयाचितकं कृतम् ।। १७१ ॥ यथा देवि ! प्रपूज्य त्वां वीक्षे दृष्ट्याऽपि वल्लभम् । तदकृत्वेक्षमाणा त्वां चण्ड्याऽहं पातिता भुवि ॥ १७२ ॥ तत्पूजासमयं देव ! कथयिष्याम्यहं खयम् । इति दत्तोत्तरो राझ्या भवनाद् निर्ययौ नृपः ॥ १७३ ॥ इतश्च तं गजं मन्त्री राजपाट्य व्यभूषयत् ।। सुचिरादागतं येन स्वामिनं वीक्षते जनः ।। १७४ ॥ यथा राजाऽपि नगरं दृष्ट्वा मुदितनागरम् । Page #180 -------------------------------------------------------------------------- ________________ १६८ श्रीपार्श्वनाथचरिते स्वस्थीभूतमनाः सर्वमालापयति पूर्ववत् ॥ १७५ ॥ अन्योऽन्यमथ जल्पन्ति हस्तिशृङ्गारकारकाः। अहो ! शून्य इव स्वामी देशान्तरगमादभूत् ॥ १७६ ॥ इत्याकर्ण्य स दन्तीन्द्रोऽत्याकुलश्चिन्तयत्यहो । किमिदं हा ! द्विजो राज्ये मन्मूल् ललति ध्रुवम् ॥१७७।। गुरुणा वारितेनाऽपि यद्विद्या दापिता मया । विप्राधमस्य तस्येदं शीघ्रमासादितं फलम् ।। १७८ ॥ अविश्वासमयीं नीतिमभ्यस्ता बाल्यतोऽस्मि यत् । विस्मार्य तस्य विश्वस्तस्तत् किश्चिद् दैवतं ध्रुवम् ॥१७९॥ नीचोऽप्युच्चैभवेद् दैवादुच्चोऽपि हि लघुर्भवेत् । सैव विद्या श्रियं तस्य कुरुते हरते मम ॥ १८० ॥ कलभपरिवाराचं वस्तु कायानुगं भुवि । काये व्रजति तत्सर्व परकीयं ममाऽभवत् ॥ १८१ ॥ यथेहाध्यक्षतो दृष्टं तथाऽमुत्रापि देहिनः । कर्मैव सहगं तेन सुकृतं कुर्वते बुधाः ॥ १८२ ॥ भवतु प्राप्तकालीनं कुर्वे तावत् पलायनम् । मा ममाऽस्तु तदारोहे पापस्योपरि चूलिका ।। १८३ ॥ संप्रधाउँदमुत्कर्णो व्याकुश्चितकरः करी । वेगेन गन्तुमारब्धो जज्ञे कलकलो महान् ॥ १८४ ॥ पादचारा-ऽश्ववाराचैर्दधावेऽनु सहस्रशः। अधिकाधिकगत्याऽस्य निर्विण्णैस्तु न्यवर्तत ॥ १८५ ॥ दूरारण्ये करी गत्वा श्रान्तो दध्यौ विषण्णधीः । क्व भूसंज्ञाभवत्कार्य राज्यं क्वेदं पलायनम् ? ॥१८६॥ किंवा स्तोकमिदं पुंसो दुर्बुद्धेः खलसङ्गिनः। इति चिन्ताधिक्षुत्-तृष्णा-तापैराचक्रमे नृपः ॥ १८७ ।। संप्राप्य वटवृक्षस्य च्छायां विधुरबन्धुवत् । . वस्थीभूतः क्षणं तत्र नरमेकं ददर्श सः ॥ १८८॥ Page #181 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १६९ चटपादान्तरस्थं तं धनुर्गोलिकया शुकान् । नन्तं वीक्ष्य स दुष्पूरदुर्वहाऑन खेदितः ॥ १८९ ।। दध्यौ किममुनाङ्गेन श्रेयानृद्धौ हि विस्तरः । तद्विशामि शुकस्याङ्गमिति राजा तथाऽकरोत् ॥ १९ ॥ (युग्मम् ) व्याधमाह शुको भद्र ! बहुकारवधेन किम् ? । अवन्त्यां नय मां टङ्कसहस्रं लप्स्यसे ध्रुवम् ॥१९॥ किन्तु मे प्रत्ययो जन्यस्तत श्रुत्वा मुदितो नरः । अभयप्रत्ययं तस्योत्पाद्य जग्राह तं करे ॥ १९२ ॥ पाययित्वा जलं चूर्णि ढौकयित्वा, सुनितम् । शुकं कृत्वा गतोऽवन्ती व्याधो राजपथे स्थितः ॥१९३॥ लोको वदति किं मूल्यं, सहस्रं भाषते नरः। कीरं पृच्छति यल्लोकस्तत्तच्छास्त्रं पठत्यसौ ॥ १९४ ॥ याचितादधिक मूल्यं जनो दत्ते परं नरः । नादत्ते कीरवाक्येन महार्योऽभूत् ततोऽधिकम् ॥ १९५॥ चेट्योऽथ कमलावत्याः प्राप्तास्तन्मर्मकोविदः । कीरस्तदेकया पृष्टः पपाठ मधुराक्षरैः ॥ १९६ ॥ तवाक्षिविशिखैर्विद्धः सुभगोऽस्मीति जीवति । अविद्धो म्रियते तन्वि ! धनुर्विद्येयमद्भुता ।। १९७ ॥ किश्चित् त्वमपि भाषस्व यत् पठाम्यनु शिष्यवत् । तयोचे गुरुरेव त्वं कस्य शिष्यत्वमर्हसि ॥ १९८ ॥ इति हर्षोत्सुका चेटी गत्वा देव्यै न्यवेदयत् । न दृष्टो न श्रुतः कीरः सुकविः स्वामिनीदृशः ॥ १९९ ॥ तदीयवर्णनाऽत्यर्थतुष्टा राज्ञी व्यचिन्तयत् । काव्यशास्त्रविनोदाय ददौ मे प्राभृतं विधिः ॥ २० ॥ सोत्कण्ठं चावदच्चेटी रे ! याहि त्वरितैः पदैः। पुंसो यद्याचितं दत्त्वा शुकराजमिहानय ॥२०१॥ ___ २२ Page #182 -------------------------------------------------------------------------- ________________ भीपार्थनाथचरितेचेव्या तथाकृते व्याधः कृतार्थः स्वास्पदं ययौ। . कीरं कराम्बुजे कृत्वा नीतो देव्यन्तिके तया ।। २०२॥ दृष्ट्वा संमुखमायाती हर्षेण कमलावतीम् । दक्षिणं भुजमुत्क्षिप्य पपाठ मधुरं शुकः ॥२०३॥ देवि ! वामभुजस्थत्वद्भारोद्धाराय विक्रमः । प्रतिमानमिव क्षोणी धत्ते दक्षिणबाहुना ॥ २०४॥ सा हसित्वाऽऽह कीर! त्वमियतेदं ब्रवीषि यत् । धरैश्वर्य विना नारीभारः क्रष्टुं न शक्यते ॥२०५॥ साधु साधु त्वया मोक्ता भूरिभारकरा वयम् । सत्यवाक्येन को न स्यात् तुष्टो यः पण्डितो भवेत् २०६।। लज्जयेति शुकोपज्ञां गोपयित्वात्मवर्णनाम् । सा स्वर्णपञ्जरे चारुनिषधे तमधारयत् ।। २०७॥ स्वयं संस्कुरुते स्थानं परिमार्जन-धूपनैः । सज्जम्बु-दाडिमीबीजा-ऽऽमलकानि च यच्छति ॥२०८॥ अन्यान्यपि तदिष्टानि पेय-भक्ष्याण्यढौकयत् । तत्संलापामृतैर्नित्यमात्मानं प्रीणयत्यसौ ॥ २०९ ॥ पठ प्रश्नोत्तरं किश्चिदिति राझ्या नियोजितः । शुको विद्याविनोदाय पपाठ सहसैव सः ॥ २१०॥ योगी किं ध्यायति ध्याने गुरवे क्रियते किमु । प्रतिपन्नं सतां कीहगादौ छात्राः पठन्ति किम् ? ॥२११॥ इति पृष्टे यदा राज्ञी चिन्तयन्त्यपि सा चिरम् । न जानाति तदा सोऽदादों नमः सिद्धमुत्तरम् ॥ २१२ ॥ न लगेद् नाग-नारिले निम्ब-तुम्बे पुनर्लगेत् । लगेत्युक्ते लगेचैव मा मेत्युक्ते भृशं लगेत् ।। २१३ ॥ तत् किं मे कथ्यतामेवं भूयः पृष्टा शुकेन सा। क्षणं विमृश्य देव्याह हुं ज्ञातं ओष्ठसंपुटम् ॥ २१४ ॥ । चामनोहरा निषचा आसनं यस्मिंस्तस्मिन् । Page #183 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १७१विहिता निर्विषा नागा देवाः शक्तिविवर्जिताः । निश्चेष्टाश्च यथा सिंहाः सा बालैर्धियते करे ॥ २१५ ॥ केयमित्युदिते राज्या द्रुतं ज्ञात्वा शुकोऽब्रवीत् । शृणु ज्ञातं मया देवि ! सा चित्रकरलेखनी ।। २१६ ॥ गजा येन हताः सिंहाः क्रान्ता व्याकुलिता भटाः । स कोलिकगृहे वीरो देवि ! बद्धो मयेक्षितः ॥ २१७ ॥ शुकोदितमिति प्रश्नं श्रुत्वा स्मृत्वा च सा जगौ । हसन्ती यदहो ! वीर ! ईदृशो मशकः स्फुटम् ।। २१८ ॥ मृणालाभमहिव्यूहमञ्जनं क्षीरसन्निभम् । नभः कर्पूरसंकाशं राझ्या गूढचतुर्थ ॥ २१९ ॥ इति पृष्टे शुकः प्राह करोति यशसा महान् । दोषोऽपि गुणतां याति विषमप्यमृतायते ॥ २२० ॥ ["मित्राणि शत्रवोऽपि स्युः" इति शुकेन गूढचतुर्थके पृष्टे राशी ___चतुर्थपदं माह- अनुकूले विधौ नृणाम्"] कृपणोऽपि नृपार्घ्यः स्यादुदारस्यापि लौल्यता । भावाभावन यस्यायमाख्यातोऽपि न बुध्यते ॥ २२१ ॥ [इति राझ्या पृष्टे शुकः प्राह- आकारः] साकारः कष्टकारी स्यात् सविकारः सतां मतः । सनिकारो जनाभीष्टः केवलस्तु निरर्थकः ॥ २२२।। [इति शुकेन पृष्टे राशी पाह- धिकारः] नक्तमादौ दिनस्यान्ते प्रदोषादपरोऽस्ति यः।। मानसान्तर्गतोऽप्येष लक्ष्यते न कथंचन ।। २२३॥ __[इति राझ्या पृष्टे शुकः प्राह- नकारः] लक्ष्मी-खेद-निषेधार्थ-ब्रह्म-चक्राङ्ग-शर्मणाम् । .. , पादे, इति शेषः। Page #184 -------------------------------------------------------------------------- ________________ १७२ श्रीपार्श्वनाथचरिते के शब्दा वाचकाः, खान्तं ब्रूहि किं णान्तमिच्छसि १ ॥ २२४ अर्थिनां का सदा चिते का दग्धा कपिना पुरा १ । इक्षुयष्टेः किमिच्छन्ति किंच हंसस्य सुन्दरम् १ ।। २२५ ।। सुकंवीनां वचः कीदृग् ! शुकेन विषमे कृते । इति प्रश्ने यदा राज्ञी नाऽवदद् मूढमानसा || २२६ ॥ एक द्विसर्ववर्णानां परिपाटीक्रमेण सः । शुक एवोत्तरं चक्रे ईहालङ्कारसङ्गतम् ।। २२७ ॥ हितोपदेशपरमं किञ्चित् पठ सुभाषितम् । इति राज्ञ्याऽन्यदा पृष्टः कीरः प्राह निशम्यताम् ||२२८|| सुपरीक्ष्य कृतं कार्य सुविमृश्योदितं वचः । इन्द्रियाणि सुदान्तानि विकुर्वन्ति कदापि न ॥ २२९ ॥ चित्तमार्जव संपन्नं वचो मधुरिमाश्चितम् । वपुर्विनयनम्रं च न भवत्य महात्मनाम् || २३० ॥ मुsaः क्रोधो यथाकालावधि व्रतम् । प्रतिपन्नं पुनलोंके महतां जीवितावधि ।। २३१ ॥ स्वश्लाघा परनिन्दा च मत्सरो महतां गुणे । असंबन्धप्रलापित्वमात्मानं पातयन्त्यधः ।। ।। २३२ ॥ अपरद्रोहकं वाक्यं प्रसन्ना वदनद्युतिः । मानसं श्रुतगम्भीरं नरमूर्ध्व नयन्त्यमी || २३३ || यथा कोsपि पुरा भूपः कारयामास पण्डितैः । देशान्तरressनीतत्रिकपालीपरीक्षणम् ॥ २३४ ॥ तत्रैकस्याssहितं कर्णे सूत्रं वक्त्रेण निर्ययौ । तस्य मूल्ये कर्पदोऽभूद् येनासौ यत् श्रुतं लपेत् ॥ २३५ ॥ द्वितीयस्य पुनः कर्णे क्षिप्तं कर्णेन निर्गतम् । १ कमला नाऽवदत् तदा ॥ एषोऽपि पाठः । २ क्रमश उत्तराणिई, हा, अलम्, कः, आरः, सम्, कवर्गे खस्य अन्तभूतो गकारः टवर्गे णस्याऽम्ते ईहा, लङ्का, रसम्, गतम्, ईहा -ऽलङ्कारसं गतम् । तकारः, Page #185 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । १७३ तस्य मूल्ये कृतं लक्षं येनासौ श्रुतविस्मृतः ॥ २३६ ॥ रतीयस्य तु निक्षिप्तं कर्णेऽगाद् गलसंमुखम् । । अमूल्योऽसौ यतस्तस्य तिष्ठति स्म हृदि श्रुतम् ।। २३७॥ तदेवं परदोषेषु देवि ! श्रुत्वा निदर्शनम् । सकर्णाः के न जायन्ते गाम्भीर्यमयमानसाः ? ॥ २३८ ।। इति शुकोक्तिरक्तात्मा प्रतिज्ञा कमलाऽकरोत् । जीवितं मरणं कीर ! त्वया सह मम ध्रुवम् ।। २३९ ॥ सुधीरेतां शुकोऽप्याह मैवं वद नृपप्रिये !। काहं पशुलवः कासि प्रिया विक्रमभूपतेः १ ॥ २४ ॥ किश्च देवि ! प्रियः स्नेहात् कुरुते ते गतागतम् । त्वं तु तस्य कथं स्निग्धं नालापमपि यच्छसि ॥ २४१॥ तत् श्रुत्वा कमला दीर्घ निःश्वस्याह शुकोत्तम ! प्रियं देशान्तराऽऽयातं दृग् ब्रूते मे मनस्तु न ।। २४२ ॥ ततोऽहं क्षुभिता दत्त्वोत्तरं भूपं विसर्जये । त्वं तु प्रिय इव प्रीतिं कुरुषे तदिदं ब्रुवे ।। २४३ ॥ ततो राजशुको दध्यौ महाहर्षेण पूरितः । परकायप्रवेशाख्या विद्या मे सफलाऽभवत् ॥ २४४ ॥ देव्याश्चित्तपरीक्षा मेऽभविष्यत् कथमन्यथा ? । किश्चानेनानुभावेन भविताऽन्यदपि प्रियम् ॥ २४५ ॥ पुनः प्राह शुकं देवी तवामृतकिरा गिरा। तुष्टाऽतीवास्मि तत् किश्चिद् धर्मतत्त्वं वदाधुना ॥ २४६।। स ऊचे श्रूयतां देवि ! मया गुरुमुखात् श्रुतम् । परोपकारः पुण्याय पापाय परपीडनम् ॥ २४७ ॥ नास्त्यहिंसासमो धर्मो न संतोषसमं व्रतम् । न सत्यसदृशं शौचं शीलतुल्यं न मण्डनम् ।। २४८ ॥ उक्तं चसत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः। .. Page #186 -------------------------------------------------------------------------- ________________ १७४ श्रीपार्श्वनाथचरिते सर्वभूतदया शौचं जलशौचं तु पश्चमम् ॥ २४९ ॥ स्नानं मनोमलत्यागो दानं चाभयदक्षिणा | ज्ञानं तस्वार्थ संबोधं ध्यानं निर्विषयं मनः ॥ २५० ॥ गृहेsपि वसतां नित्यमश्नतामपि श्रद्धया । मनः शुद्ध्या भवेद् धर्मस्तपसाऽपि न तां विना ।। २५१ ॥ उक्तं च- मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धने विषयासङ्ग मुक्तौ निर्विषयं पुनः ॥ २५२ ॥ तथाहि पुरा सूरनृपः पुर्या बहिरुद्यानमागतम् । मुनिं सोदरमाकर्ण्य तत्रागात् सपरिच्छदः ॥ २५३ ॥ मुनिं प्रणम्य भावेन स्फुटरोमाञ्चभूषणः । निशम्य तन्मुखाद् धर्मं गतः स्वभवनं नृपः ॥ २५४ ॥ पट्टराश्यपि सोत्कण्ठा वन्दितुं देवरं मुनिम् । आपृच्छय नृपतिं सायं जग्राहेत्थमभिग्रहम् ।। २५५ ॥ सोमाभिधं मुनिं प्रातर्मया सपरिवारयां । वन्दित्वा पारयित्वा च भोक्तव्यमिति नान्यथा ॥ २५६ ॥ अथान्तराले नद्यस्ति पुरस्योपवनस्य च । निशीथे साथ पूरेणाऽऽगताऽगाधां वहत्यलम् ।। २५७ ।। तेनाकुलमना राज्ञी प्रभाते निजवल्लभम् । पप्रच्छ कथमद्याऽसौ पूर्यते मे मनोरथः ? ।। २५८ ॥ उवाच नृपतिर्देवि ! मा कार्षीः खेदमीदृशम् । येनेदं सुकरं सुस्था गच्छ त्वं सपरिच्छदा ।। २५९ ।। अर्वाक्तीरे नदीदेवीं समाद्दानपुरस्सरम् । योजयित्वा करौ शुद्धमानसेदं वदेर्वचः ।। २६० || हे देवि ! नदि ! भर्त्ता मे देवरवतवासरात् । १ अगाधा गभीरा । t Page #187 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । १७५ आरभ्य ब्रह्मचारी चेद् मार्ग देहि तदा द्रुतम् ॥ २६१ ॥ तत् श्रुत्वा विस्मिता राशी दध्यौ किमिदमीदृशम् । असम्बद्धं नृपो ब्रूते पञ्चमो लोकपालकः ॥ २६२ ॥ भ्रातृदिनादूर्ध्वमस्य यत् पुत्रसन्ततिः । बभूव मयि तत् सर्वं विदितं मे पतिव्रतम् ॥ २६३ ॥ 1. अथवा किं विकल्पेन निकटः प्रत्ययोऽधुना ? | अन्यच्च निर्विकल्पाः स्युः पतिवाक्ये पतिव्रताः ॥ २६४ ॥ यतः -- सती पत्युः प्रभोः पत्तिर्गुरोः शिष्यः पितुः सुतः । आदेशे संशयं कुर्वन् खण्डयत्यात्मनो व्रतम् ॥ २६५ ॥ इति तुष्टा गता राशी सोपस्करपरिच्छदा । नदीतीरे मिलल्लोके संकटी भूतभूतले || २६६ ॥ तत्राहूय नदीं देवीं कृतार्चा शुद्धमानसा । सा भर्तृकथितां सत्यश्रावणामकृत स्फुटम् ॥ २६७ ॥ नदी च सहसा वामदक्षिणक्षिप्तवारिभिः । स्ताघीभूय ददौ पारं गता राज्ञी परे तटे ।। २६८ ॥ प्रणम्य विधिना तत्र धन्यंमन्या मुनिं ततः । लब्धाशीर्मुनिना पृष्टा नगुत्तारविधिं सती ।। २६९ ॥ सर्वमाख्याय वृत्तान्तं सा प्रपच्छ मुनीश्वरम् । असंभाव्या कथं भर्तुर्घटते ब्रह्मचारिता १ ।। २७० ॥ सोऽप्याह श्रूयतां भद्रे ! यदाऽहं जगृहे व्रतम् । तदारभ्य विरक्तात्मा व्रताकाङ्क्षी भृशं नृपः ॥ २७१ ॥ परं तादृग् न कोऽप्यासीद् राज्यधूर्धरणक्षमः । तेनासौ कुरुते राज्यं व्यवहारेण नो धिया ।। २७२ ॥ उक्तं च परपुंसि रता नारी भर्तारमनुवर्तते । तथा तवरतो योगी संसारमनुगच्छति ॥ २७३ ॥ Page #188 -------------------------------------------------------------------------- ________________ १७६ श्रीपार्श्वनाथचरितेतदेवं गृहवासेऽपि पङ्केऽब्जस्येव तस्थुषः । निर्लेपमनसो राज्ञो घटते ब्रह्मचारिता ॥ २७४ ॥ मुनि नत्वा ततो राजी वहन्ती परमां मुदम् । वनस्यैकतमे देशे गत्वा वासितवत्यसौ ॥ २७५ ॥ कारयित्वा रसवतीं स्वपरिच्छदहेतवे । पारयित्वा मुनि पूर्णाऽभिग्रहा बुभुजे स्वयम् ॥ २७६ ॥ आप्रष्टुं गतया देव्या पुनः पृष्टो मुनिः कथम् । नद्युत्तार्या मयेदानी मुनिराह प्रशान्तवाक् ? ॥ २७७॥ नदी देवी त्वया भाण्या यद्यसौ मुनिरात्रतात् । उपोषितश्चरेन्नित्यं तदा मार्ग प्रयच्छ मे ॥ २७८ ॥ पुनाविस्मयमापना राज्ञी नद्यास्तटं गता। श्रावयित्वा मुनेर्वाक्यं नदी तीवो ययौ गृहान् ॥२७९ ॥ राज्ञो निवेद्य तत् सर्व पप्रच्छ च कथं मुनिः । उपोषितः स्याद् यः खेन पारणं कारितो मया ? ॥२८०॥ राजाख्यद् देवि ! मुग्धाऽसि धर्मतत्त्वं न विन्दसि । समचित्तो महात्माज्यमशनेऽनशनेऽपि वा ॥ २८१ ॥ तथा अकृताऽकारितं शुद्धमाहारं धर्महेतवे । अनतोऽपि मुनर्नित्योपवासफलमुच्यते ॥ २८२ ॥ मनो मूलं वचः स्कन्धः क्रियाः शाखादिविस्तरः। धर्मवृक्षस्य तन्मूले दृढे सर्व प्रजायते ॥ २८३ ॥ खभर्तुर्देवरस्याऽपि माहात्म्यं वीक्ष्य तादृशम् । अनुमोदनयैवात्मा तया राड्या पवित्रितः ॥ २८४ ॥ यदिदं गदितं धर्मतत्त्वमाख्यानसंयुतम् । मया कीरेण ते देवि ! ज्योत्स्नाधवलनं हि तत् ॥२८५।। सतीनां यत् स्वभावेन सज्ञानं मानसं भवेत् । तेन कूटे स्खलत्येव प्रौढपण्डितवद् ध्रुवम् ॥ २८६ ॥ Page #189 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १७७ सुवि वारं सगर्भ च वचः श्रुत्वा शुकादिदम् । , राज्ञी दध्यौ न सामान्यः कोऽप्यसौ ज्ञानवानलम् ॥२८७॥ मच्चित्तस्खलनात् कूटो नृपोऽयमिदमस्य गीः। समाख्यातीति हृष्यन्त्या देव्या निद्रा समागमत् ॥२८८॥ अथ तत्रेक्ष्य निर्जीवं शुकात्मा गृहगोधकम् । विवेश वीक्षितुं राज्याः शीलवत् पालनं गिरः ॥ २८९ ॥ तावद् देवी स्वयं बुद्धा शुकेन्द्रं वीक्ष्य निःस्वनम् । प्रबोधयितुमारब्धा मृदुभिश्चाटुभिः शतैः ।। २९० ॥ वद किं नाद्य मे कीर ! सुधया सिंचसि श्रुती । यो मां बोधितवांस्तं त्वां प्रत्युताहं विबोधये ॥ २९१ ॥ विहाय निद्रामुत्तिष्ठ पठ प्राभातमङ्गलम् । लसज्ज्ञानप्रदीपानां सतां निद्रातमः कुतः ? ॥२९२ ॥ किं नाद्याप्युत्तरं दत्से कथं रुष्टो ममोपरि । आत्मरूपे त्वयि स्वप्नेऽप्यलीकं नैव चिन्तये ॥ २९३ ॥ इत्यादिगदितैर्यावद् वोधितोऽपि न बुध्यते । संभ्रान्ता तावदुत्थाय सा करेणाऽस्पृशच्छुकम् ।। २९४ ॥ तथापि न श्वसित्येष देवी मूर्छा गता ततः । क्षणेन लब्धचैतन्या रुरोद प्रललाप च ॥ २९५ ॥ हा ! तवाकस्मिकं कीर ! दैवकं किमभूदिदम् । दुर्दैव ! वद किं दग्धस्त्वयाऽयं चन्दनोपमः ? ॥ २९६ ॥ दवोऽपि घननीरेण विध्यायति भवान् पुनः । न निवृत्तोऽसि कीरस्य वाक्यामृतशतैरपि ॥ २९७ ॥ हा ! हताऽहं विहङ्गेन्द्र ! त्वद्वाक्याधारजीविता । हा ! मृषावचनाऽभूवं क्षणं मृत्युविलम्बनात् ।। २९८ ॥ इति मृत्युकृतोत्साहा शुकाङ्गे स्नान-लेपनम् । कृत्वाऽन्यदपि तत्कालोचितं सा कर्तुमुद्यता ॥ २९९ ॥ तज् ज्ञात्वा कृत्रिमनृपश्चेटीभ्योऽभवदाकुलः । २३ Page #190 -------------------------------------------------------------------------- ________________ १७८ श्रीपार्श्वनाथचरितेहाहा! निष्कमलं राज्यं वृथा मे भविताऽखिलम् ॥३०॥ तद् गत्वा बोधयाम्येतां निश्चित्यैवं तथाऽकरोत् । परं सा बुध्यते नैव ततः स पुनरब्रवीत् ॥ ३०१ ॥ किं जीवति शुके देवि ! जीवसीति प्रतिश्रुते ? । एवमित्युदिते भूपो दध्यौ सिद्धं समीहितम् ॥ ३०२ ॥ शुकं जीवयुतं कृत्वा नीत्वाऽन्यत्र विमुच्य च । प्रतिज्ञां पूरयित्वाऽस्याः प्रविक्ष्यामि निजां तनुम् ॥३०३॥ इत्येकान्ते तनुं मुक्त्वा कीरमाविश्य सोऽललत् । नृपोऽपि गृहगोधाङ्गं त्यक्त्वा स्वतनुमाविशत् ।। ३०४ ॥ विक्रान्ताभ्रपटलीमिव तेजस्विनी तनुम् । दधानो विक्रमनृपो लघु देव्यन्तिके ययौ ॥ ३०५ ॥ दर्शनात् तस्य कमलमालेव कमलावती । सद्यो विकाशमापन्ना श्रिया च समलङ्कृता ॥ ३०६ ।। मूर्तिर्जाया च सत्येव राइयो याऽन्यनरागमे । निष्कला सकला चैव सद्यः स्वपतिसङ्गमे ॥ ३०७ ।। दृष्ट्वा पूर्ववदालापं गतिं वेषं निरीक्षणम् । रुदन्ती पादयोः पत्युः सहसोत्थाय साऽलगत् ॥ ३०८ ॥ जगौ च जीवितं स्वामिन्नेक देशान्तरेण ते । बभूव दुःखमपरं तव कूटप्रपञ्चतः ॥ ३०९ ॥ कयं कथान्तरेणाऽहं वराकी विप्रतारिता । देशान्तरकलालाभपरीक्षा मयि कीदृशी ? ॥ ३१० ॥ यदेवमपि नियूदं महिलामात्रया मया । प्रसादस्तदयं सर्वस्तव पादप्रसादजः ॥ ३११॥ अधुना मेऽखिलं तावत् स्वस्वरूपं निरूप्यताम् । नृपः माह तव प्रेयान् कीरोऽसौ कथयिष्यति ॥३१२ ॥ राश्याह देव ! को हेतुर्यदर्थे मृत्युराहतः । स दृष्टोऽप्यधुना बाढमनिष्टो मेऽभवच्छुक: ॥३१३ ॥ Page #191 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। नृपः कीरं करे कृत्वा जगाद किमिदं द्विज !। सोऽप्याह यद् गुरु-स्वामि-मित्रद्रोहकृतां भवेत् ॥ ३१४ ॥ त्वं मे स्वामी नरैश्वर्याद् गुरुर्विद्यापदापनात् । मित्रं विश्वासतः सर्व तल्लुप्तं लोपवद् मया ॥ ३१५ ॥ राजा वदति भो विप्र ! किं हीनमिदमुच्यते । मयेव तव साहाय्यात् कृतो विद्यापरिश्रमः ।। ३१६ ॥ स पुनः प्राह साहाय्यं यादृशं विहितं मया । . तत् सर्व वेत्सि देव ! त्वं न्यायसीमामहोदधे ! ॥३१७ ॥ निजगेहतनुभ्रष्टं मित्र-स्वामि-गुरुद्रुहम्। . . द्रष्टुं स्पष्टुं च मां पापं तव नाथ ! न युज्यते ॥ ३१८ ।। सती न कमलातुल्या न त्वया सदृशो महान् । मया समो न पापात्मा तत् त्वं राज्यं चिरं कुरु ॥३१९॥ मां च वामांहिणा स्पृष्ट्वा मुश्च कापि यथा निजम् । कर्म सेवे त्वयैतेन दुष्टशिक्षा कृता भवेत् ॥ ३२० ।। तन्निशम्याऽनुकम्पार्द्रमना विस्मार्य दुष्कृतम् । नृपः प्रोवाच या विद्या ममाऽस्त्येषा तथाप्यहो ! ॥३२१॥ तत् कथं पादसंस्पर्श त्वमर्हसि बजेप्सितम् । परोपकारी धर्मिष्ठः कापि द्रव्येश्वरो भव ॥३२२॥ इति तं विक्रमो मुक्त्वा देव्या कमलया युतः । राज्यं चक्रे भद्रकात्मा धर्मकर्मपरायणः ॥३२३।। इत्येवं विनयादाप्ता विद्या निर्वाहसुन्दरा । अभूत् सैवाविनीतस्य महाऽनर्थविधायिनी ॥३२४॥ इयता विनयः प्रोक्तो विवेकः कथ्यतेऽधुना । यं विना शोभते न श्री रूपं चक्षुर्विना यथा ॥३२५।। यथाद्रिषु गुरुर्मेरुग्रहेषु दिवसाधिपः । चिन्तामणिश्च रत्वेषु विवेकोऽपि गुणेष्विति ॥३२६॥ भोज्ये वचसि दानादौ सद्विवेकानरः पराम् । Page #192 -------------------------------------------------------------------------- ________________ १८० श्रीपार्श्वनाथचरितेप्रतिष्ठा लभते लोके दिव्यघाटादिवोपलः ॥३२७॥ विवेकेनाऽविवेकेन धर्मो-यैर्विहितः पुरा । तेऽत्र क्रमेण जायन्ते पतयः पत्तयः श्रियः ॥३२८॥ विवेकदीपकालोकसप्रकाशीकृतेऽध्वनि । चरन्तो न स्खलन्त्येव कलिध्वान्तेऽपि कोविदाः ॥३२९॥ विवेको गुरुवत् सर्व कृत्याकृत्यं प्रकाशयेत् । सन्मित्रवदकृत्याच वारयेत् सुमतियथा ॥३३०॥ तथाहि--- श्रीसेनः श्रीपुरेऽस्ति स्म राजा राज्यमहारथम् । यो निर्वाहितवान् पुष्टन्यायधर्मषः सुखम् ।। ३३१ ॥ पुरोधास्तस्य सोमाख्यः सद्गुणकृमिको हितः । कुलोद्योतनदीपाभः पुत्राभावात् स दुःखितः ॥३३२।। अन्यदा तं नृपः प्राह तवेयमनपत्यता। यथा मां बाधते बादं भवन्तं सोम ! नो तथा ॥३३३॥ नियूंढोऽयमियत्कालमावयोरन्वयक्रमः। अतः परं मत्पुत्रस्य कः पुरोधा भविष्यति ? ॥ ३३४ ॥ अवंशपतिते तस्मिन् विश्वासः कीदृशो भवेत् ? । तदेवमपि कस्मात् त्वं निश्चिन्त इव दृश्यसे ॥३३५।। स प्राह चिन्तया देव ! किं परायत्तवस्तुनि ?। . . जीवितं सन्ततिद्रव्यं दैवायत्तमिति त्रयम् ॥३३६॥ उक्तं चआत्मायत्ते गुणाधाने नैर्गुण्यं वचनीयता । दैवायत्ते पुनः कार्ये पुंसः का नाम वाच्यता ? ॥३३७॥ नृपोऽजल्पदुपायोऽस्ति दैवस्याऽप्यनुकूलने । आराधय निजां कृत्वा साहसं कुलदेवताम् ।।३३८।। धर्माय पूज्यते देवो विघ्नशान्त्यै तु देवता । १ निन्दनीयता। Page #193 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १८१ तत् तस्यास्तामकुर्वत्याः किं वृथा पूजनेन भोः ! ? ॥३३९॥ इति राज्ञार्पितोपायः स देव्या भवनं गतः । शुचिर्भूत्वा पुरस्तस्या दर्भस्रस्तरके स्थितः ॥ ३४० ॥ पुत्रदानप्रसादं मे यदा देवि ! करिष्यसि । तदाहं भोजनं कर्तास्मीत्यभिग्रहमग्रहीत् ।। ३४१ ॥ तृतीयदिवसे देवी क्षुभिता तस्य सन्ततिम् । अपश्यन्ती गता सिद्धयक्षस्यान्तिकमब्रवीत् ॥ ३४२ ।। किं कुर्वे भद्र ! कष्टं मे वर्ततेऽद्य यतो द्विजः । पुत्रं मां याचते नास्ति स त्वस्य ननु तादृशः ॥ ३४३ ॥ ततोऽसौ मरणं कर्ता स्यादपूना जने मम । इति श्रुत्वा जगौ यक्षो मुग्धे ! सुकरमुत्तरम् ॥ ३४४ ॥ तं ब्रूहि यदहो विप्र ! तव पुत्रोऽस्ति किन्त्वसौ । परदाररतश्चौरो द्यूतकारश्च निश्चितम् ।। ३४५ ॥ एषामेकतमो दोषो विश्वाऽविश्वासहेतवे । । दोषत्रयजुषा त्वेष किं सुतेन करिष्यति ? ॥ ३४६ ।। सा प्रहृष्टा गता यक्षोदितमाख्यत् पुरोधसः । सोऽपि प्रष्टुं गतो राज्ञो देव्यादेशं शशंसिवान् ।। ३४७ ।। तद्विमृश्य महादक्षो राजोचे सोम ! याच्यताम् । देवी यदीदृशोऽप्यस्तु पुत्रः किन्तु विवेकवान् ॥ ३४८ ॥ यतः-- एकस्यैव विवेकस्य तेजसा नाशमञ्जसा । यान्ति दोषा महान्तोऽपि सिंहस्येव मतङ्गजाः ॥ ३४९ ॥ शिक्षामादाय तां विप्रो गत्वा देवीमयाचत । तयाऽप्यनुमतं सोऽथ स्वगृहं गन्तुमुद्यतः ।। ३५० ॥ अथ तस्य द्वितीयाऽस्ति पण्यनारी परिग्रहे । साऽपि तावदिनान्यस्थाद् भूस्वापा मुक्तभोजना ।।३५१।। तत्स्वरूपं निवेद्याऽसौ चेम्यानीतो बलादपि । Page #194 -------------------------------------------------------------------------- ________________ १८२ श्रीपार्श्वनाथचरितेतद्गृहे सोऽपि तत्रैव स्नातभुक्तोऽवसद् निशि ॥ ३५२ ।। प्रभाते स्वगृहं गच्छन् सोमो दध्यौ विषण्णधीः । धिङ् मां सुकुलजां जायामुपेक्ष्याऽस्थितोऽत्र यः॥३५३।। देव्याः प्रसादमासाद्य यदत्रैवावसं निशि । तन्मे कुक्षेत्रजः पुत्रो भावी भाव्यं हि नाऽन्यथा ।।३५४॥ धिङ् भमाऽजातपुत्रस्य पुत्रजन्मन्यपि स्फुटम् । नोत्सवो भविता हष्टलोकः स्वज्ञातिवीक्षितः ।। ३५५ ॥ ज्ञात्वेदं मयि भूपोऽपि विरागं यास्यति ध्रुवम् । तथाप्यस्य सुनाथत्वात् कथनीयं यथातथम् ॥ ३५६ ॥ इत्यागच्छन् नृपेणासौ तादृशो वीक्ष्य जल्पितः । हर्षस्थाने कथं सोम ! विषण्ण इव दृश्यसे ? ॥ ३५७ ।। किं विप्रतारितो देव्या किं व्यलीकं तवाऽथवा ? । देव्यादेशं स्वदोषं च स स्वं निन्दन तमाख्यत ॥ ३५८ ॥ राजोचे कुरु मा खेदमीदृश्येव कुले यतः । तादृशा देवतादिष्टा भवन्ति तव का क्षतिः ? ।। ३५९ ।। परं जन्मादितः कृत्वा प्रकाश्यस्तावदेष न । दोषध्वान्तहरो यावन विवेकरविः स्फुटः ॥ ३६० ॥ इति राज्ञो हितादेशसुधाविध्यातमानसः। गत्वा स्वभवने जायां सुगुप्तां तामकारयत् ॥ ३६१ ॥ समयेऽजनि पुत्रोऽस्य नृपस्याऽऽशु निवेदितः । प्रच्छन्नकृतसंस्कारो व्यवर्धिष्ट क्रमेण च ।। ३६२ ।। अथाऽध्ययनयोग्यं तं ज्ञात्वा शास्त्रविचक्षणः। ' अध्यापयितुमारेभे स्वयमेव पिता सुतम् ॥ ३६३ ॥ तस्य भूमीगृहस्थस्योपरिद्रुफलकासनः । छात्राणां च पुरो बाह्ये शास्त्रमापयत्यसौ ॥ ३६४ ।। निजाङ्गुष्ठे दवरकं बद्ध्वाऽर्पयति मूनवे । संदेहे सति चाल्योऽयमिति सङ्केतपूर्वकम् ॥ ३६५ ॥ Page #195 -------------------------------------------------------------------------- ________________ १८३ तृतीयः सर्गः। महाप्राज्ञः पुनः पुत्रो भिनत्ति स्तोकतो बहु । अन्यदा नीतिशास्त्रस्य श्लोक एकोऽयमागतः ॥ ३६६ ॥ दानं भोगस्तथा नाशः स्याद् द्रव्यस्य गतित्रयम् । यो न दत्ते न भुते च तृतीयाऽस्य गतिर्भवेत् ॥३६७।। तस्य व्याख्यानमाकर्ण्य सूत्रं चालयते सुतः । पुनः स्पष्टमुपाध्यायो व्याख्यान यति पूर्ववत् ॥३६८॥ भूयोऽपि चालिते सूत्रे पुरोधा रोषतोऽखिलान् । छात्रान् विमृज्य पुत्रं स्वमाकृष्य बहिरुक्तवान् ॥३६९।। रे ! समुद्रसमं शास्त्रं तरित्वा गोष्पदोपमे । श्लोकेऽतिसुगमार्थेऽस्मिन्नित्थं मूढः कथं भवान् ? ॥३७०॥ सुतोऽप्याह नतस्तात ! भण्यते हि गतित्रयम् । वित्तस्य वर्णितं तत् तु विचारे मे न पूर्यते ॥ ३७१ ॥ यत:-- आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः। गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ ३७२ ॥ तच्च सर्वोत्तमं पात्रे दयाधर्माय दुःखिते । याचके कीर्तिघोषाय स्नेहपोषाय बन्धुषु ॥ ३७३ ॥ भूतादौ विघ्ननाशाय वैरघाताय वैरिषु । औचित्येन नृणां दत्तं दानं न कापि निष्फलम् ॥ ३७४ ॥ भोगेन केवलं सौख्यमैहिकं क्षणिकं भवेत् । लोकद्वयविनाशाय तस्य नाशस्तु निश्चितम् ॥ ३७५ ॥ पुरोधास्तद् निशम्याऽस्य विचारचतुरं वचः। मुदा हृदि न माति स्म गत्वा चाख्यद् महिभुजे ॥३७६॥ नृपोऽप्याह च भो भद्र ! विवेकः सोऽयमुद्गतः । पूरयिष्यति येनासौ मम ते च मनोरथम् ॥ ३७७ ॥ अहो ! विचार्यगाम्भीर्यमहो !, अस्याद्भुता मतिः । Page #196 -------------------------------------------------------------------------- ________________ १८४ श्रीपार्श्वनाथचरिते उपाध्यायं च शास्त्रं च याऽतिक्रम्य प्रवर्तते ॥ ३७८ ।। यत्किश्चित् खन्यमानस्य यथा कूपस्य कस्यचित् । नालमुद्घटते येन खनकः प्लाव्यते जनैः ॥३७९ ।। तथाच्छात्रस्य कस्यापि शिक्ष्यमाणस्य किंचन । उन्मीलति तथा ज्ञानं येन विस्माप्यते गुरुः ॥ ३८० ॥ तत् त्वं गजेन्द्रमारोप्य सत्वरं त्वमिहानय । तथा सुमतिरित्यस्य नामास्तु स्वगुणार्जितम् ॥ ३८१ ॥ इत्यादिश्य नृपः प्रैषीत् परिवारं सहस्तिनम् । सोमोऽपि स्वगृहे गत्वा निजबन्धूनमेल यत् ॥३८२॥ अथ कारितशृङ्गारं कृतकौतुकमङ्गलम् । हस्त्यारूढं महाऽसौ सुतं निन्ये नृपौकसि ॥ ३८३ ॥ राजा सम्मुखमभ्येत्य कृत्वा सत्कारमुज्ज्वलम् । पौरोहित्ये नियोज्यतं गृहं प्रति व्यसर्जयत् ॥ ३८४ ।। राजमान्यतयैवं स ययौ लोकेऽपि पूज्यताम् । पित्रादिबन्धुषु नतो याति राज्ञोऽन्तिके सदा ॥ ३८५ ॥ करोति साधुसंसर्ग शृणोति विविधं श्रुतम् । सार्थनामा क्रमाज जज्ञे सुमतिः सुकृतार्जनात् ॥ ३८६ ॥ विवेकमन्यदा ज्ञातुं बहुश्रुतमिमं नृपः । पप्रच्छ वद भोः! कस्माद् जीवानां विविधा स्थितिः ॥३८७॥ सुमतिः प्राह राजेन्द्र ! यत् त्वं तत्त्वं विदन्नपि । मां पृच्छसि प्रसादोऽत्र हेतुस्तत् किंचिदुच्यते ॥ ३८८ ॥ स्वस्वकर्मवशाद् देव ! जीवा वैचित्र्यभाजिनः । अभिनेयवशाद् नानावेषं कुर्युर्यथा नटाः॥ ३८९ ॥ पुण्य-पापमयं कर्म तद्वशेन नृणां भवेत् । विवेकश्चाऽविवेकश्च ताभ्यां सर्व शुभाऽशुभम् ॥ ३९० ॥ १ पुरोहितकर्मणि । Page #197 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १८५ हिंसा-ऽलीक-पर-द्रव्य-नारी-द्रोहमयं तमः। प्रणश्यति विवेकार्कात् तदस्ते तु विजृम्भते ॥ ३९१ ॥ श्रूयते भरतश्चक्री विवेकेन पुरा क्षणात् । राज्यपङ्कनिप्रग्नोऽपि प्राप पारं भवोदधेः ।। ३९२ ॥ अविवेकात् पुनर्मत्स्यस्तण्डुलोऽन्यतिमिवलम् । . ग्रासााऽन्तर्मुहूर्तायुर्नरकं याति सप्तमम् ॥ ३९३ ।। इत्यादिगदितैस्तस्य लावण्यादिगुणेन च । तुष्टेन सुमती राज्ञा सर्वत्राऽस्खलितः कृतः ॥ ३९४ ॥ अन्यदा देवतादिष्टदोषोदयवशादसौ। दृष्ट्वैकान्ते भूपहारं चलचित्तस्तमग्रहीत् ॥ ३९५ ॥ संगोप्यैतं हृतं यावत् सशङ्कस्तरलेक्षणः । प्रयातुमुद्यतस्तावद् विवेकेनाश्रितः क्षणात् ॥ ३९६ ॥ अचिन्तयच्च धिगहो ! यन्मया करवर्तिनि । राज्ये सराजके विश्वनिन्दितं कर्म निर्ममे ॥ ३९७ ॥ अहो ! चौर्यसमं नान्यत् पृथिव्यामस्ति भीषणम् । येनाहं राजपूज्योऽपि रङ्कादपि सभीः कृतः ॥ ३९८ ॥ इति व्याहारकेणेव विवेकेन निवर्तितः। हारं मुक्त्वा यथास्थाने स्तेयत्तिमपाकृत ॥ ३९९ ॥ अथ लावण्यपुण्याङ्गो राज्ञीभिः सस्पृहं सदा । . वीक्ष्यमाणोऽन्यदा राजपन्या स्नेहेन भाषितः ॥ ४०० ॥ सुमतिः कुमतीभूय तत्र गन्तुं प्रवृत्तवान् । यावत् तावद् विवेकेन बन्धुनेव निबोधितः ॥ ४०१।। अहहा ! मे महामोहो भोगसौस्थ्येऽपि यद्विभोः । प्रेयस्यां मातृकल्पायां सविकारं मनोऽजनि ॥ ४०२ ।। परस्त्रीसङ्गिनोऽमुत्र नरकोऽत्र शिरश्छिदा । अयशश्च यथाऽहल्यासङ्गिनः स्वःपतेरपि ॥ ४०३ ॥ १ विवेकार्काऽभावे । २ तिमिर्मत्स्यः । ३ इन्द्रस्याऽपि । Page #198 -------------------------------------------------------------------------- ________________ १८६ श्रीपार्श्वनाथचरिते स महात्मा महाविद्वान् यः सदा दूरतश्चरेत् ।। एताभ्यः कुटिलागीभ्यो भुजङ्गीभ्य इव त्रसन् ॥ ४०४ ॥ दाक्षिण्यमपि नैतासु श्रेयसे तदतः परम् । परनारीसहोदर्य पालनीयं मया व्रतम् ॥ ४०५ ॥ कदापि द्यूतकाराणां स्थानेऽगाद् द्यूतकौतुकी । तत्र केनापि नाऽलोपि प्रत्युतोत्रासितः स तैः ॥४०६॥ किंच दुर्वचनं क्षोभं कलिं क्रौर्य कुदृश्यताम् । अङ्गच्छेदादिकं तेषां वीक्ष्य बादं व्यरज्यत ॥४०७॥ दथ्यौ च यदहो द्यूतं व्यसनानां धुरीक्ष्यते । तत् त्याज्यमीदृशं यस्य प्रत्यक्षं दृश्यते फलम् ॥४०८॥ यद्वा किमुच्यतेऽमीषां द्यूतेनेह नलादयः। अवस्थां प्रापितास्तान्तामत्र स्थित्वाऽप्यलं ततः ॥४०९॥ इत्थं विवेकसाहाय्यात् तथाऽसौ सद्गुणोऽजनि । यथा धुरि सुशीलानां दृष्टान्ते कथ्यते जनैः ॥४१०॥ सोऽन्यदा नृपमपाक्षीद् विश्वासो देव ! नोच्यते । नृपधर्मे कथं तत् ते विश्वासोऽयं मयीदृशः ? ॥४११॥ नृपः प्रोवाच वत्स ! त्वमस्मवंशपुरोधसः । वरलब्धस्ततः कस्माद् विश्वासस्त्वयि नो भवेत् ॥४१२॥ नाथ ! तत् किं धृतो बाल्ये गुप्तोऽस्मीति तदीरिते । नृपः प्राह विवेकस्योद्भेदं त्वयि प्रतीक्षितुम् ॥४१३॥ सदोषा अपि निर्दोषाः कुलिना दुष्कुला अपि । विवेकेनात्र जायन्ते दृश्यते स त्वयि स्फुटः॥४१४॥ उक्तं च-- कुलादपि वरं शीलं वरं दारिद्यमामयात् । राज्यादपि वरं विद्या तपसोऽपि वरं क्षमा ॥४१५॥ यस्य तस्य प्रसूतोऽत्र गुणवान् पूज्यते नरः । १ महाव्रतमित्यपि। २ खेददायिनीम् । Page #199 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । १८७ सुवंशोऽपि धनुर्दण्डो निर्गुणः किं करिष्यति १ ||४१६॥ किञ्च, रूप- लक्ष्मीवतां शीलमेनुत्सेकः कलावताम् । प्रभविष्णोः सहिष्णुत्वमुष्णकाले हिमागतिः ।। ४१७ ।। इत्यादि स्वस्य वृत्तान्तं श्लाघ्यं च नृपतेर्मुखात् । स श्रुत्वाऽधोमुखस्तस्थौ लज्जया भारितो भृशम् ।।४१८ ।। इत्येवं सद्विवेकेन ध्वस्तदोषः सतां मतः । क्रमात् सद्धर्ममासाद्य सुमतिः सुगतिं ययौ । ४१९ ॥ सुसंसर्गस्य माहात्म्यमद्वैतं कथ्यतेऽधुना । प्रायो जगति येन स्यादपि दैवकमन्यथा ॥ ४२० ॥ आस्तामौपाधिको दोषः सहजोऽपि सुसङ्गतः । अपयाति यथा कर्म जीवस्य ज्ञानसङ्गमात् ।। ४२१ ।। पश्य सत्सङ्गमाहात्म्यं स्पर्शपाषाणयोगतः । लोहं स्वर्णभवेत् स्वर्णयोगात् काचो मणीयते ॥ ४२२ || विकाराय भवत्येव कुलजोऽपि कुसङ्गतः । जलजातोsपि दाहाय शङ्खो वह्निनिषेवणात् ||४२३ || आस्तां सचेतसां सङ्गात् सदसत् स्यात् तरोरपि । अशोकः शोकनाशाय कलये तु कलिद्रुमः ॥ ४२४ ॥ निःस्खोऽपि सङ्गतः साधुर्वरमृद्धोऽपि नाधमः । अश्वः कृशोऽपि शोभायै पुष्टोऽपि न पुनः खरः ।। ४२५ ।। एकमातृ-पितृत्वेऽपि श्रूयते शुकयोर्द्वयोः । भिल्लानां च मुनीनां च सङ्गाद् दोष-गुणोदयः ॥४२६ ॥ सुसङ्गस्योपदेशोऽपि लभ्यते न यथा तथा । इत्यर्थे लोकविख्याता प्रभाकरकथोच्यते ॥ ४२७ ॥ अस्त्यत्र भरते वीरपुरे षट्कर्मकर्मठः । विप्रो दिवाकरो नाम तस्य पुत्रः प्रभाकरः ॥ ४२८ ॥ १ गर्वराहित्यम् । २ बिवेकी न, एवमपि । Page #200 -------------------------------------------------------------------------- ________________ १८८ श्रीपार्श्वनाथचरिते स धातुं धमति, छूते रमते, कुरुते कलिम् । स्वैरं भ्रमति सर्वत्र निरङ्कुश इव द्विपः ॥ ४२९ ॥ पिता शिक्षयते वत्स ! किमात्मा व्यसनेऽस्यते । आत्माऽपि यदि नात्मीयस्ततः कोऽन्यो भविष्यति॥४३०॥ अवगाहस्व शास्त्राणि, पिब काव्यरसामृतम् । शिक्षयस्व कलाः, धर्म कुरूद्धर निज कुलम् ॥ ४३१ ॥ यतः-- वस्तूयोतयते दीपः प्रत्यक्षं निजतेजसा । निष्कलङ्कः पुनः पुत्रः परोक्षानपि पूर्वजान् ।। ४३२ ॥ किञ्च, धनाशा धातुवादेन जीविताशा रसायनैः । गृहाशा पण्यनारीभिर्मतिभ्रंशत्रयं नृणाम् ॥ ४३३ ॥ इत्यादिशिक्षया स्पृष्टो मालिन्यादिव मानसे । हसित्वाऽऽह सुतस्तात ! कः पठित्वा दिवं गतः ? ॥४३४॥ न शास्त्रेण क्षुधा याति न च काव्यरसेन तृट् । एकमेवार्जनीयं तु द्रविणं, निष्फलाः कलाः ॥ ४३५ ।। एवमुल्लण्ठनैस्तस्य विलक्षोऽसौ व्यचिन्तयत् । पुत्ररूपेण मे जज्ञे किमिदं कुलवैशसम् ।। ४३६ ॥ अकिञ्चनकरोऽपि स्याद् नाऽकुलीनः कुलोद्भवः । भस्माऽपि पावकोद्भूतं पावित्र्यं कुरुते जने ।। ४३७ ॥ अयं च मत्सुतो भूत्वा बभूव यदि निर्गुणः ।। ततः कथं कुशीलोऽभूत् कर्मणः कोऽथवा बली ? ॥४३८॥ परदोषच्छिदोऽप्येके स्वाङ्गजं दोषमक्षमाः । हर्तुमित्यत्र सूर्ये-न्दु-मेघा एव निदर्शनम् ॥ ४३९ ॥ इत्युदासीनवृत्त्यैव जन्म निर्वाह्य स द्विजः । पर्यन्ते वत्सलत्वेनाऽऽकार्य पुत्रमभाषत ।। ४४० ॥ १ क्षिप्यते । २ तृषा। ३ विघ्नरूपम् ।४ मत्पुत्रः, इत्यपि । . .. Page #201 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १८९ घत्स ! यद्यपि ते नास्था मम वाक्ये तथाप्यमुम् । गृहाण श्लोकमेकं त्वं समाधिमृतये मम ॥ ४४१ ॥ कृतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभं च नरो नैवावसीदति ॥ ४४२ ॥ ओमित्युक्त्वा गतो यावद् द्यूतस्थानं प्रभाकरः। मित्रेण तावदागत्य पितृमृत्युर्निवेदितः॥ ४४३ ॥ विपनो मे पिता तत्र क्षोभोऽत्र तु समागतः । किं कर्तव्यं मया सोऽपि ध्यात्वैवं मित्रमूचिवान् ॥४४४॥ सखे ! विधाय यत्कृत्यं त्वमेव पितरं मम । आनयाऽनेन मार्गेण यथा पश्यामि तं दृशा ॥ ४४५ ॥ सख्या तथाकृते पश्चात् पितृकृत्ये निवर्तिते । पित्रादिष्टं हृदि स्मृत्वा शिक्षाश्लोकं व्यभावयत् ॥४४६ ॥ पित्रा यदिदमादिष्टं कुर्वतो मे तदन्यथा । किमु स्यादिति निर्णेतुं परदेशं प्रतस्थिवान् ॥ ४४७॥ श्रुत्वा मार्गे व्रजन सिंहाभिधानं ग्रामठक्कुरम् । कृतघ्नं तुच्छप्रकृतिं स्तब्धं तुष्टस्तमाश्रयत् ॥ ४४८ ॥ तस्यैका दासिका तेन विहिता गृहिणी गृहे । अज्ञानभावतो रूक्षात्मिका सर्वाधमा च या ॥ ४४९ ॥ तथा तत्रैव वास्तव्यो निर्दाक्षिण्यशिरोमणिः । अर्थैकलुब्धो मित्रत्वे लोभनन्दिर्वणिक् कृतः ॥ ४५० ॥ आकारितोऽन्यदा राज्ञा सिंहस्तेन समं ययौ । प्रभाकरो नृपं विद्वत्प्रियं ज्ञात्वेदमूचिवान् ॥ ४५१ ॥ मूर्खा मूखैः समं सङ्गं गावो गोभिदंगा मृगैः । . सुधीभिः सुधियो यान्ति समशीले हि मित्रता ॥ ४५२ ॥ दत्तं तुष्टेन राज्ञाऽस्य बहुग्रामयुतं पुरम् । सोऽपि दापितवान् सिंहस्वामिने जीवनं नृपात् ॥ ४५३ ॥ ग्रामेशोऽपि कृतस्तेन सिंहो. देशाधिपो द्रुतम् । Page #202 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते अन्यान्यप्यस्य कार्याणि दुष्कराण्यपि सोऽकरोत् ||४५४॥ लोभनन्देरपि स्वामी तथा तेनानुकूलितः । यथा निःस्वोऽप्यसौ जज्ञे महर्द्धिभरभासुरः ॥ ४५५ ।। अथ सिंहस्य पुत्रादप्यधिकोऽस्ति मयूरकः । उत्सङ्गलालितो नित्यं पोषितो भूषितश्च यः ॥ ४५६ ॥ अभूत् तस्यामिषे तस्या दास्या गर्भानुभावतः । दोहदस्तेन सोऽपूरि तत्तुल्याऽन्यमयूरतः ।। ४५७ । ठक्कुरस्य मयूरस्तु कापि यत्नादगोप्यत । एवं महोपकाराणि तेन सर्वाणिं चक्रिरे ।। ४५८ ।। अथ भोजनवेलायां ठक्करस्तं मयूरकम् ! अदृष्ट्वा मानुषान् प्रेष्य वीक्षयामास सर्वतः ।। ४५९ ।। यावन कापि लब्धोऽसौ तावदाकुलितो भृशम् । स उच्चैः कारयामास पटहाssघोषणामिति ।। ४६० ॥ मयूरं स्वामिसिंहस्य यः कोऽपि कथयिष्यति । दिनाराष्ट्रशतं लब्धा सोऽभयं च न संशयः ॥ ४६१ ॥ तत् श्रुत्वा चिन्तितं दास्याऽनेन वैदेशिकेन किम् ? | गृह्णामि द्रविणं, भर्ता ममाऽन्योऽपि भविष्यति ॥४६२ || इति सा पटहं स्पृष्ट्वा गत्वा सिंहान्तिकेऽवदत् । शृणु देव ! पुरो भर्तुः कथनीयं यथातथम् ।। ४६३ ॥ निशि मे दोहदो जज्ञे मयूरामिषभक्षणे । १९० प्रभाकरेण कुत्रापि स तु नासादितोऽपरः ॥ ४६४ ॥ वारयन्त्यामपि मयि ततः स्नेहाऽतिरेकतः । वराकस्त्वत्यं एवायं शिखी हत्वा ममार्पितः ॥ ४६५ ।। अत्यासङ्गविनष्टोऽयमरे ! किं कृतवानिति ? | रुष्टः सिंहो भटान् प्रैषीनिग्रहीतुं प्रभाकरम् ||४६६॥ सोऽपि मित्र परीक्षार्थी लोभनन्दिगृहं गतः । १ कार्याणि, इति शेषः । २ त्वदीयः । Page #203 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । १९१ उवाच कम्पमानाङ्गो मित्र ! भो रक्ष रक्ष याम् ॥४६७॥ लोभनन्दिस्तमाक्षीत् किं त्वया भोः ! विनाशितम् ? । स उवाच कलत्रार्थे स्वामिबहीं हतो मया ॥४६८ ॥ ततो मित्राधमः प्राह स्वामिद्रोहविधायिनः। . स्थानं नास्त्यत्र कः पूलं ज्वलन्तं स्वगृहे क्षिपेत् ॥४६९॥ एवं वदन्तमप्येनं क्षिप्त्वा यावत् प्रभाकरः । प्रविवेश गृहं तावत् पूच्चक्रे लोभनन्दिना ॥ ४७० ॥ आगताश्च भटास्तैः स बद्ध्वा नीतो बहिस्ततः । निग्रहायोद्यतास्तेन सदैन्यमिति भाषिताः ॥४७१॥ बान्धवाः ! न मया कोऽप्युपकारो वः कृतः परम् । अप्रियं यदि नो चक्रे तदा मां रक्षतैकदा ॥ ४७२ ॥ किं वा नयत मां तत्र यथा विज्ञपये प्रभुम् । इत्युक्ते तैः स सिंहान्ते नीतः सकरुणं जगौ ॥ ४७३ ॥ देव ! त्वं मे पिता स्वामी शरण त्वं च सर्वथा । क्षमस्वैकं व्यलीकं यद् गुरवो न गुरुक्रुधः ॥ ४७४ ।। तत् श्रुत्वा भ्रकुटीभङ्गभीषणः सिंह उक्तवान् । अरेऽपय मयूरं वा स्मर वाऽभीष्टदेवताम् ॥ ४७५ ॥ तदा तस्यापदि प्रायो जनोऽभूदाकुलोऽखिलः । विना मित्र-कलत्राभ्यां, ते हि दर्शितविक्रिये ॥ ४७६ ॥ स ऊचे दैवतप्रायं पितुरेव वचः स्मृतम् ।। यदतिक्रमणे सद्यो ममाभूदीदृशं फलम् ॥ ४७७ ॥ इति श्लोकं पठित्वाऽसौ तं मयूरं यथास्थितम् । समर्प्य सिंहमापृच्छय प्रसन्नास्यस्ततोऽचलत् ॥ ४७८ ॥ सवैलक्ष्यं स सिंहेन बोधितोऽपि न स स्थितः । प्रत्यक्षदृष्टदोषाणां करोत्यनुनयः किमु ॥४७९ ॥ गच्छंश्च चिन्तयामास धिगेषां दुष्टचेष्टितम् । किम्पाकवृक्षच्छायैव दुरन्ता खलसङ्गतिः॥४८०॥ Page #204 -------------------------------------------------------------------------- ________________ १९२ श्रीपार्श्वनाथचरिते भस्माहुनमिवाऽमीषु तत् तथोपकृतं मया । सर्वमेकपदे नष्टं भव्यं वा जीवितोऽस्मि यत् ॥ ४८१ ॥ नृणां मृत्युरपि श्रेयान् पण्डितेन सह ध्रुवम् । न राज्यमपि मूर्खेण लोकद्वयविनाशिना ॥ ४८२ ॥ किञ्च, शिरसा सुमनःसङ्गाद् धार्यते तन्तवोऽपि हि । तेऽपि पादेन मृद्यन्ते पटेषु मलसङ्गताः ॥ ४८३ ॥ स्वामि मित्र-कलत्राणामधमानां परीक्षणम् । कृतं तावदिदानीं तु करिष्यामि पितुर्वचः ।। ४८४ ॥ इति गच्छंस्ततः प्राप सुन्दरं नगरं क्रमात् । तत्र हेमरथो राजा तत्पुत्रो गुणसुन्दरः ॥ ४८५ ॥ त्यक्तकुव्यसनासङ्गः कृतज्ञः कोविदपियः । जनानुरागसुभगो लघीयानपि विश्रुतः ॥ ४८६ ॥ बहिः खलूरिकायां तं शस्त्राभ्यासरतं सदा । दृष्ट्वा हृष्टोऽन्तिके गत्वा चोपतस्थे प्रभाकरः ॥ ४८७ ॥ कुमारोऽपि तमालप्य श्रमान्ते स्वच्छया गिरा । भोज्यागमे सह स्वेन भोजयामास गौरवात् ॥ ४८८ ॥ यतःप्रसन्ना दृग् मनः शुद्धं ललिता वाग् नतं शिरः । सहसाऽर्थिष्वियं पूजा विनापि विभवं सताम् ।। ४८९।। पप्रच्छ च कुमारस्तं मित्र ! कस्ते मनोरथः । सोऽप्युवाच महाभाग ! तवाऽवस्थातुमन्तिके ।। ४९० ॥ तर्हि स्वच्छमनास्तिष्ठेत्युक्ते नृपतिसूनुना। तस्थौ प्रभाकरस्तत्र हृष्टो दध्यौ स्वचेतसि ॥ ४९१ ॥ अस्याहो ! विशदा मूर्तिर्मितं च मधुरं वचः । नव्यमौचित्यचातुर्य कटरे ! स्वच्छतात्मनः ॥४९२॥ १ श्रमस्थानम् । २ अद्भुतार्थमव्ययमेतत् । Page #205 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १९३ बाल्येऽपि मधुराः केऽपि द्राक्षावत् केऽपि चूतवत् । विपाकेन कदापीन्द्रवारुणीफलवत् परे ।। ४९३ ।। आकृतौ हि गुणा नूनं सत्यीभूतमिदं वचः। अमुष्य दर्शनेनाऽपि सफलो मे श्रमोऽजनि ॥ ४९४ ॥ तदस्य सङ्गमात् प्राच्यमघं कुस्वामिसङ्गजम् । अधुना क्षालयिष्यामीति निश्चित्य तथाऽकरोत् ।।४९५॥ उत्तमप्रकृतिः स्थैर्य-गाम्भीर्य-विनयान्विता । श्रीरभूत् गृहिणी तस्य कुमाराऽर्पितवेश्मनः ॥ ४९६ ।। महेभ्यः स्वजनाधारः परोपकरणे रतः । पौरमुख्यो वसन्ताख्यस्तस्य मित्रमजायत ।। ४९७ ॥ विपन्ने राज्ञि कालेऽथ राजाऽभूद् गुणसुन्दरः । प्रभाकरः पुनमन्त्री सर्वकार्येषु यत् कृती ॥४९८॥ अन्यदा शासतस्तस्य प्रजा नीत्या प्रजापतेः । ढोकनीये कृतौ हेडावितैर्जात्यतुरङ्गमौ ॥४९९॥ सल्लक्षणधरौ किन्तु वैपरीत्येन शिक्षितौ । तत्स्वरूपमजानानस्तावत् पर्याणयद् नृपः ॥ ५०० ॥ एकस्मिन् स्वयमारूढो द्वितीयेऽमात्यमादिशत् । जग्मतुः सपरीवारौ शनैकैस्तौ पुराद् बहिः ।। ५०१ ॥ वाहयित्वा क्षणं वाही वाह्याल्यां वेगमीक्षितुम् । कशाघातं नृपा-ऽमात्यौ कर्कशं चक्रतुस्तयोः ।। ५०२ ॥ सहसोत्प्लुत्य तौ तस्मादलिदष्टौ कपी इव । प्रवृत्ती वेगतो गन्तुं प्रमातुमिव मेदिनीम् ॥ ५०३ ॥ यात यात द्रुतं भृत्याः ! शीघ्रं धावत साँदिनः!। दिव्येनेवैष केनाऽपि हयेन ह्रियते नृपः॥ ५०४ ॥ पूत्कुर्वतो जनस्यैवं धावतामपि सादिनाम् । पापाद् निधिरिवाऽदृष्टः सामात्योऽभूद् नृपः क्षणात्॥५०५।। । सेवया, इत्यपि। २ शनैरित्यर्थः। ३ धावत, एतदपि । २५ Page #206 -------------------------------------------------------------------------- ________________ १९४ श्रीपार्श्वनाथचरिते यथा यथा नृपा-मात्यौ वल्गामाकर्षतो हठात् । तथा तथा चटद्वेगं गच्छतस्तौ तुरङ्गमौ ।। ५०६॥ संप्राप्तयोर्महाटव्यामामलक्यास्तरोरधः।। गच्छतैव करेणात्तं मन्त्रिणाऽऽमलकत्रयम् ॥ ५०७ ।। अतिदूरं गतौ यावद् विलक्षीभूय तौ श्रमात् । वल्गां मुमुचतुस्तावदश्वौ तत्रैव संस्थितौ ॥ ५०८ ॥ उत्तीर्णौ च नृपा-मात्यौ प्राणैर्मुक्तौ च वाजिनौ । किमताभ्यां निजस्वामिद्रोहकाभ्यामिवाथ तौ ? ।। ५०९ ॥ तयोः खेदं क्षणं धृत्वा परदुःखाऽसुखी नृपः। क्षुत्-तृष्णापीडितो बाढं मनस्येवं व्यभावयत् ॥ ५१० ॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढः पाषाणखण्डेषु रत्नसंज्ञाऽभिधीयते ॥ ५११ ॥ ध्रुवं सत्यमिदं वाक्यं यत् पर्याणे तनौ च मे । सत्स्वप्येतेषु रत्नेषु तृष्णा शाम्यति नाधुना ।। ५१२ ॥ उवाच च महामात्य ! तृषां यान्ति ममाऽसंवः । मन्त्र्युवाचाऽऽकुलो देव ! मा भू रक्षामि ते तृषाम् ॥५१३॥ एकमामलकं मन्त्री ददौ त्रिभ्यो महाभुजे । निर्वृत्तात्मा तदाहारात् तस्थौ स्वस्थः क्षणं नृपः ॥५१४॥ भूयस्तापार्दितः प्राह मित्र ! पृष्टोऽसि सम्पति । तथा मां बाधते तृष्णा यथा नूनं न जीव्यते ॥ ५१५॥ इति मूर्छागतो भूमौ पतन् धृत्वाऽशु मन्त्रिणा । द्वितीयामलकं दत्त्वा पुनः सज्जीकृतो नृपः॥ ५१६ ॥ एवं तृतीयवेलायामप्यामलकमर्पितम् । पदानुलग्नं दैवाच्च पृष्टे सैन्यमथाऽगमत् ॥ ५१७ ॥ अग्रेसराश्ववारैस्तौ दृष्ट्वा चक्रे जयध्वनिः। मन्त्रिणोचे भटास्तावद् नीरमानीयतां द्रुतम् ॥ ५१८॥ १ तृतीयान्तम् । २ प्राणाः। Page #207 -------------------------------------------------------------------------- ________________ १९५ तृतीयः सर्गः। ततो व्याघुट्य तैः सैन्यं विवानीय तत्र च । जला-ऽन्नाहारसंतुष्टः सद्यश्चक्रे महीपतिः ॥ ५१९ ॥ राजाऽथ सपरीवारो जगाम नगरं निजम् । पुनर्जन्मोत्सवं राज्ञश्चक्रुः सामन्त-नागराः ॥ ५२० ॥ अथ राज्ञः सुतः पञ्चवर्षीयो मन्त्रिमन्दिरम् । क्रीडार्थ नित्यमायाति बालहारेण संयुतः ।। ५२१ ॥ सुस्वाम्यादिपरीक्षार्थमथ मन्त्री तमन्यदा । एकान्ते गोपयामास सानपानं सयामिकम् ॥ ५२२ ।। कुमारो नेक्ष्यते कापि निशम्येदं वचो नृपः । सर्वत्रालोकयामासाऽत्याकुलः प्रेष्य पूरुषान् ॥ ५२३ ।। यावन्न कापि लब्धोऽसौ तावद् घुर्णितमानसः। शोकपङ्काविलो राजाधोमुखीभूय तस्थिवान् ।। ५२४ ॥ दध्यौ च किमिदं हन्त ! कुमारो मन्त्रिमन्दिरम् । गतो न दृश्यते कुत्राऽप्यसंभाव्यमदोऽखिलम् ।। ५२५ ॥ राजलोकः समग्रोऽपि दुःख कृष्णमुखो नृपम् । आसनस्थं समभ्येति मुक्त्वा मन्त्रिप्रभाकरम् ।।५२६।। अत्रान्तरे मन्त्रिपनी पतिं पप्रच्छ नाथ ! किम् । नाऽद्य राजकुले यातः सदुःखमिव सोऽब्रवीत् ? ॥५२७॥ प्रिये ! दर्शयितुं नात्ममुखं शक्नोमि भूपतेः । यद् मया तादृशो जघ्ने कुमारो हतबुद्धिना ।। ५२८ ।। संभ्रान्ता सा जगौ शान्तं पापमेतत् किमुच्यते । पापं शान्तमशान्तं वा परमेतद् मया कृतम् ॥ ५२९ ।। इत्युक्ते तेन साऽवोचत् कथंकारमिदं कृतम् । सोऽप्यूचे यत् त्वयाऽतीतदिने मे कथितं पुरः ॥५३०।। गर्भवैरानुभावेन केनाप्येष नृपाङ्गजः । दृशोर्दाहाय मे चक्रे त्वन्मोहात् तन्मयेदृशम् ॥ ५३१ ।। तच्छ्रुत्वा किं वृथा कार्ये विनष्टे परिदेवनैः । Page #208 -------------------------------------------------------------------------- ________________ १९६ श्रीपार्श्वनाथचरितकरोमि प्राप्तकालीनं ध्यात्वैवं धीरमानसा ॥५३२।। गत्वाऽसौ भर्तृमित्रस्य वसन्तस्य तदाख्यत । सोऽपि भाव्यमिदं नूनं ध्यात्वैवं धीरमब्रवीत् ॥५३३।। अये सुन्दरि ! मा भैषी वितेन धनेन च । विपदं निजमित्रस्य रक्षाम्येव न संशयः ।।५३४॥ जातीपुष्पसमस्याऽस्य जीवितस्य धनस्य च । मित्रार्थे यदि नाशः स्यात् किं न प्राप्तं फलं तदा?॥५३५॥ इत्युक्त्वा स ययौ राजकुलं नत्वा नरेश्वरम् । कृताञ्जलिर्वसन्ताख्यः सावष्टम्भं व्यजिज्ञपत् ॥५३६॥ विकल्पं देव ! मा कास्त्वित्पुत्रनिधने खलु । अहं हेतुरतो वित्तं जीवितं च गृहाण मे ।।५३७।। निशम्येदं नृपो यावदास्ते संशयितो हृदि । मन्त्रिपत्री समागत्य तावदेवं व्यजिज्ञपत् ॥५३८॥ वसन्तो मित्रदारार्थे देव ! विज्ञपयत्यदः । परं मदोहदस्यार्थे त्वत्पुत्रस्य वधोऽजनि ॥५३९ ॥ इति किंकृत्यतामूढो नृपः शून्य इवाभवत् । ततो मन्त्री समागत्य कम्पमान इवावदत् ॥ ५४० ॥ मदीयपीडया देव ! मित्र-पत्न्याविमे मम । . खं निवेदयतो नूनमपराधोऽत्र नैतयोः ॥ ५४१ ॥ आसन्नविपदा किन्तु जातदुर्मतिना मया । कुमारो निहतो नाथ ! योग्यं दण्डं कुरुष्व मे ॥ ५४२ ॥ अग्रेऽपि मन्त्रिशङ्काऽऽसीत् तत्रार्थे भूभुजो हृदि । तनिशम्य पुनर्बाढं प्रत्ययोऽजनि निश्चलः ॥ ५४३ ॥ ततः स्पष्टमुखो वीक्ष्य मन्त्रिणं नृपतिर्जगौ । येन मे जीवितं दत्तं को दण्डस्तस्य युज्यते ? ॥५४४।। मित्र ! त्वं यदि नादास्यस्तदा धात्रीफलानि मे । १ आमलकानि। Page #209 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १९७ तदा काहं क राज्यं च क सुतः क परिच्छदः ? ॥५४५।। मन्त्र्याह सुप्रभो ! जज्ञे कृतज्ञत्वं तवेयता । कार्य एव पुनर्दण्डः पुत्ररत्नापहस्य मे ।।५४६।। एकमामलकं तर्हि वलितं त्रयमध्यतः । इत्युक्ते भूभुजा मन्त्री जगौ प्रीतिसगद्गदम् ।।५४७॥ देव ! सर्वगुणाधार ! जगतीमौलिमण्डन !। यद्येवं ते कृतज्ञत्वं तदास्त्वामलकत्रयी ॥५४८॥ चिरं कुरु कुमारेण सहितो राज्यमक्षतम् । इत्युक्त्वाऽनाययत् तत्र पुत्रं प्रेष्य निजान् नरान् ५४९॥ भूषिताङ्गं स्मितमुखं ललमानं तथैव तम् । सुतं दृष्ट्वा नृपो हर्ष विस्मयं च परं ययौ ।।५५०|| किमेतदिति राज्ञोक्ते मन्त्री लोकसमक्षतः । वृत्तान्तं पितुरादेशादारभ्याऽखिलमाख्यत ॥५५१।। तन्निशम्य भृशं राजा लज्जितः सत्स्वभावतः । मन्त्रिणं च करे कृत्वा सप्रणयमिवाब्रवीत् ।।५५२॥ अमूल्यामलकं यत् ते पुत्रतुल्यं कृतं मया ।। मर्षणीयोऽपराधो यत् त्वया मित्र ! महानिति ॥५५३॥ इत्यसौ लब्धसुस्वामि-सुकलत्र-सुमित्रजम् । अन्वभूत् सुखमैकात्म्यमापन्नो भूभुजा सह ।।५५४।। तो भूप-सचिवौ राज्यं भुक्त्वा सत्सङ्गतत्परौ । सद्गुरोधर्ममासाद्य हितोयुक्तौ बभूवतुः ॥५५५।। सुसंसर्गस्य माहात्म्यं व्यवहारेण कीर्तितम् । सर्वार्थसिद्धिकृत् सत्त्वविषयं वर्ण्यतेऽधुना ॥५५६।। सत्वमेव नृणां तत्त्वं सत्त्वं सिद्ध्यै भवद्वये । . विना सत्त्वं सजीवोऽपि निर्जीव इति कथ्यते ॥५५७॥ विशीर्णोऽपि यथा वृक्षः सति मूले प्ररोहति । १ पुत्ररत्नमपहन्तीति पुत्ररत्नापहस्तस्य । Page #210 -------------------------------------------------------------------------- ________________ १९८ श्रीपार्श्वनाथचरितेप्रक्षीणोऽपि तथा भूयो नरः सत्त्वाद् विवर्धते ॥५५८॥ यद् दूरं यद् दूसराध्यं दुर्घटं दुर्लभं च यत् । सर्व सिध्यति तत् सत्त्वात् तद्विना तु सदप्यसत् ॥५५९।। श्रूयते हि पुरा लोके श्रीमदिक्ष्वाकुवंशभूः । उदारचरितः सत्त्वे हरिश्चन्द्रो महान् नृपः ॥५६०।। तथाहिअस्त्यत्र भरतेऽयोध्या पुरी वप्रांशुकोज्ज्वला । प्रासादमण्डना नान्यैरभिभूता सतीव या ॥५६१।। सूर्यवंशभवक्ष्मापवृत्तोज्ज्वलयशःश्रिया । जातच्छत्रा महैश्वर्यं दधाति नगरीषु या ॥५६२॥ नतिरेवोन्नतिर्येषां दानमेव धनार्जनम् । परार्थ एव तु स्वार्थः क्षमैव हि समर्थता ॥५६३।। एवंविधनरोत्तंसै वृक्षरुद्यानभूरिव ।। या सदालंकृता हर्ष न केषां कुरुतेतराम् ? ॥५६४।। (युग्मम् ) एकनक्षत्रमालेन्दुस्त्रीणां हारमुखेन्दुभिः । प्रतिबिम्बच्छलाद् व्योम यया सौधेष्वधःकृतम् ।।५६५।। बभूव नृपतिस्तस्यां हरिश्चन्द्रो महाभुजः । धर्मेणोद्वाहिता कीर्तिर्येनते' करपीडनम् ।।५६६॥ तथा नीतिगवी तेन पोषिता सुकृतात्मना । विश्वप्रीत्यै यथाऽद्यापि यशो दुग्धं तदुद्भवम् ।।५६७।। अन्यदा रात्रिपर्यन्ते पल्यङ्कस्थः स वन्दिना । पठ्यमानमिमं श्लोकं सत्त्वोत्तेजनमाशृणोत् ।।५६८॥ विपद्यपि गतः सत्त्वाद् ध्रुवं स्यात् संपदां पदम् । गतोऽप्यस्तं रविर्मार्गादच्युतोऽभ्युदयी पुनः ॥५६९।। इमं श्रुत्वा पठन्नेव समुत्तस्थौ महीपतिः । १ ऋते विना। Page #211 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । १९९ पुनः पुनस्तदीयार्थ मुदा हृदि विभावयन् ।। ५७० ॥ कृत्वा प्राभातिकं राजा यावदास्थानमाययौ । तावत् कोsपि नरोऽभ्येत्य संभ्रान्त इदमूचिवान् । ५७१ ।। महाराज ! हरिश्चन्द्र ! त्वयि शासति मेदनीम् । न श्रुतावपि लोकानां भयमित्यक्षरद्वयम् ||५७२ ।। किन्त्वेकः : शूकरः शकावतारवनमध्यगान् । कुतोऽप्यागत्य भीष्माङ्गो भञ्जन्नास्ते लताद्रुमान् ॥५७३ ॥ तापसाश्चाभवंस्तत्र सर्वे भयविसंस्थुलाः । ततो दध्यौ नृपोऽमीषां किमभूद् हा ! तपस्विनाम् १ ॥ ५७४ ॥ यथा लोकः करं दत्ते स्वधनस्यावनिपतेः । मुनयोऽपि तथा धर्मषष्ठभागमिति श्रुतिः ।। ५७५ ।। ततो रक्ष्या मयैवेते ध्यात्वेत्युत्थाय संभ्रमात् । अब्रवीदहहा ! कोऽयं मयि सत्यप्युपप्लवः ।। ५७६ ।। श्रीमन्नाभे यदेवस्यारामशत्रुं मुनिद्रुहम् । तमद्य शूकरं हन्मि प्रतिज्ञां चाकरोदिति ॥ ५७७ ॥ अथो यथागतं कापि बराहावेदके गते । प्रतिचैवमित्र प्रोच्चै राजाऽऽरोहत् तुरङ्गमम् ॥ ५७८ ॥ सैन्यं संनह्यदेवाऽसौ विमुच्य स्वयमेव तम् । निग्रहीतुमनाः क्रीडं त्वरितं निर्ययौ पुरात् ॥ ५७९ ॥ मनोवेगेन यात्यश्वे भूपतिः प्राप तत्क्षणात् । वनं शक्रावताराख्यं मुदेवाऽभिमुखागतम् ॥ ५८० ॥। अपश्यत् स्मेराब्जमुखीं कलहंसकमण्डिताम् । मृदुवीचीभुजां तत्र शरयूमुदधिप्रियाम् ।। ५८१ ॥ राजा पप्रच्छ पार्श्वस्थौ स कपिञ्जल- कुन्तलौ । अहो ! काsसौ वराहस्तावूचतुर्नन्वयं पुरः १ ॥ ५८२ ।। वराहस्तद्वचः श्रुत्वा घुघुराऽऽरवमुच्चकैः । १ कर्णेsपि । २ प्रतिज्ञामिव । ३ वराहम् । 3 Page #212 -------------------------------------------------------------------------- ________________ २०० श्रीपार्श्वनाथचरितेकुर्वाणोऽपि नृपं क्रोधाद् दधावे वनगहरात् ।। ५८३ ॥ लघुहस्तस्ततो राजा जानुलम्बभुजोऽपि हि । रोमाञ्चकवचं बिभ्रद् निर्भयोऽपि भृशं तनौ ॥ ५८४ ॥ करे चापमलंकृत्य पूरयंस्तद्वपुः शरैः । वराहं पातयामास पूरयामास संश्रयम् ॥ ५८५ ॥ (युग्मम् ) ततः कपिञ्जलं प्राह राजा पश्याग्रतः कियत् । लक्षमेतञ्चलं भिन्नं सोऽप्युपेत्य तथाऽकरोत् ॥५८६॥ खेनैत्य पश्य मित्रेति प्रोक्तस्तेन नृपो द्रुतम् । ददर्श रुधिराई तं मलद्दवमिवाचलम् ।।५८७॥ उवाच च यथास्यैवमतैरिश्चीयमाकृतिः । तथा मन्ये वराहेण भाव्यं दिव्येन केनचित् ॥५८८॥ कपिञ्जलोऽवदद् देव ! द्वीपी चाऽयं हतः पुरा । राजाऽह पुनरयं किं विलोक्याह कपिञ्जलः ॥५८९।। इदमज्ञातमेवाऽस्तु राजा प्राह तथापि किम् । कुन्तलोऽप्याह किं ज्ञातेनाऽमुना देव ! चल्यताम् ।।५९०॥ उपसृत्य स्वयं राजा लुठद्गर्भी मृगी हताम् । वीक्ष्य प्राह विषण्णः सनकृत्याचरणं हहा ! ॥५९१॥ न्यायः कोऽयमशस्त्रो यद् दधानो वदने तृणम् । इत्थं निःशरणो दीनो हन्यते सुभटैः पशुः ? ॥५९२॥ धिर धिग् मां हरिणीभ्रूणघातकं गुरुपातकम् । घिगिमा मेऽखिलक्षोणीकरातिजनिताः श्रियः ॥५९३॥ विकलाक्षत्वकृत् पश्चेन्द्रियाणामपि या नृणाम् । कृत्याकृत्यमतिं या च मदिरेव विलुम्पति ॥५९४॥ कुलटेव न यैकत्राऽवस्थाना तामपि श्रियम् । इच्छवो मार्गमुज्झन्ति मुनिभिः श्लाघितं जडाः ॥ ५९५॥ १ प्रतिज्ञाम् । २ क्षतेन्द्रियकारिणी। Page #213 -------------------------------------------------------------------------- ________________ २०१ तृतीयः सर्गः।। धन्यास्ते मुनयो हित्वा महासंसारकश्मलम् । निष्पङ्के संवृतात्मानो मोक्षमार्गे चरन्ति ये ॥ ५९६ ॥ तद् गच्छाम्याश्रमं पुण्यं यत्र सन्ति तपोधनाः । इयतः कल्मषात् शुद्धिः कथं मे भविताऽन्यथा ? ॥५९७।। इति राज्याद् विरक्तात्मा पादचारेण भूपतिः। अजित्वा सह मित्राभ्यां विवेश द्रुतमाश्रमम् ॥ ५९८ ॥ दृष्ट्वा कुलपति तत्र ननाम मुदितो नृपः । पृष्ठे पाणिं निधायाऽस्य मुनिरप्याशिषं ददौ ।। ५९९ ॥ क्षतात् त्राणेन लोकानां स्वस्य क्षत्र इति प्रथाम् । कुर्वाणः सार्थिकां पुण्यैः प्रवर्धस्व सदा नृप ! ॥ ६०० ॥ राजा पप्रच्छ भगवन् ! ज्ञान-ध्यान-तपांसि वः। निर्वहन्त्यहतं कचित् कुशलं मृग-भूरुहाम् ॥६०१ ॥ मुनिरूचे महाराज ! भरतान्वयभूषण !।। त्वयि प्रशासति क्षोणी कुतोऽस्माकमुपद्रवः ? ॥६०२ ॥ मही राजन्वती तेजः प्रबलं विमलं यशः। वर्णाश्रम ! महीरक्षा दक्षा वृत्तिस्तवाऽखिला ॥ ६०३ ॥ अस्मिन्नवसरे काऽपि जातः कोलाहलो महान् । किमेतदिति संभ्रान्तौ मुनि-भूपौ बभूवतुः १ ॥ ६०४ ॥ अब्रह्मण्यमब्रह्मण्यमिति च व्याकुलं वचः । श्रुत्वा कुलपतिः शिष्यं तं ज्ञातुं प्राहिणोद् द्रुतम् ॥६०५॥ पुनरार्तस्वरो जज्ञे स्त्रीणां शोकस्पृशामिति । मातश्चेद् में मृगी मर्ता करिष्येऽनशनं तदा ॥ ६०६ ॥ माताऽपि प्राह चेद् वत्सेऽनशनं त्वं करिष्यास । तदाहमपि कर्तास्मि विना त्वां जीवितेन किम् ? ॥ ६०७ ॥ श्रुत्वा कुलपतिश्चैतद् हृदयं स्फोटयद् वचः । किं नः प्राणप्रिया पुत्री वञ्चनाऽनशनीयति ? ॥ ६०८ ॥ १ कृत्वा, इदमपि । २ अनशनमिच्छति । २६ Page #214 -------------------------------------------------------------------------- ________________ २०२ श्रीपार्श्वनाथचरितेइयं च निकृतिनूनमस्मत्सधर्मचारिणी। वत्सामनुसरन्त्येतद् ब्रूते किमसमञ्जसम् १ ॥ ६०९ ॥ ततोऽङ्गारमुखादाशु स तापस्यावजूहवत् ।। आजग्मतुरथो तारं ते रुदत्यावुभे अपि ॥ ६१० ॥ उवाच वञ्चनां मायी मुनिः किं पुत्रि ! रोदिषि ? । साऽह जानाति तातो यदस्ति क्रीडामृगी मम ॥६११।। सोऽप्याह या त्वया बाल्यात पोषिता स्वकरार्पितैः । नीवारकवलैस्तस्यास्ततः किमभवत् सुते ! ॥ ६१२ ॥ इत्युक्ते वञ्चना तारस्वरं रोदिति केवलम् । ततः प्रविश्य संभ्रान्तः शिष्यः कुलपतिं जगौ ॥६१३॥ भूररोजन्वती सेयमब्रह्मण्यमहो ! महत् । मृगयाव्यसनात् पापः कोऽप्यहन् गर्भिणी मृगीम् ॥६१४॥ सास्रं कुलपतिः प्रोचे हहा ! किं भाव्यतः परम् । यतस्तां निघ्नता तेनाऽऽनीतोऽस्माकं कुलक्षयः॥ ६१५ ॥ विना मृगी कथं जीवेद् वत्सा तज्जीविता ततः। न प्राणिति विना पुत्रीमस्मत्पाणपिया खलु ॥६१६॥ विना सधर्मचारिण्या कुतो मे तपसां विधिः । तपोविधि विना मे स्याद् ऋषित्वमनघं नहि ॥ ६१७ ॥ राजनिक्ष्वाकुराजेन्द्र ! कौतस्त्योऽयं तपस्विनाम् । इत्थमाकस्मिकः शोकशङ्कुस्त्वय्यपि भूपतौ ? ॥ ६१८ ॥ ततः कुतोऽपि तं ज्ञात्वा साधुबाधाकरं परम् । श्वपाकं शांधि येन त्वं लोकपालोऽसि पश्चमः ॥ ६१९ ॥ वञ्चना त्वाह मां तात ! चितामारोदुमादिश । किं न वेत्सि ममैथ्या हि मरणं क्रकचायते ॥ ६२० ॥ सविषादं नृपः प्रोचे मुने ! कुर्वेऽहमत्र किम् । १ न्यायिनृपरहिता । २ शिक्षय। Page #215 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । २०३ परेषां दण्डमाधातुपलमेषोऽस्मि नात्मनः १॥ ६२१ ॥ ससंरम्भं च सौत्सुक्यं मुनिः प्रोवाच नन्वहो ! । इयता स्यात् किमुक्तं यद् मया व्यापादिता मृगी ? ॥६२२॥ पश्चात्तापात् स्वमात्मानं प्रणिन्दति महीपतौ । पिधाय वल्कलेनास्यं पूचक्रेऽथ स मायिकः ॥ ६२३ ।। ऊचे च कुपितो भूपमाः ! पाप ! वहसि ध्रुवम् । कोदण्ड-शरधी हन्तुं ध्यानलीनांस्तपस्विनः ? ।। ६२४ ॥ निपत्य पादयो राजा विनयाद् मुनिमब्रवीत् । तमेकमपराधं मे क्षमस्व त्वं क्षमानिधे ! ॥ ६२५ ॥ मुनिः पराङ्मुखो भूत्वा चुक्रोश नृपमुच्चकैः । भरतान्वयचन्द्राङ्क ! व्रज ब्रज ममाश्रमात् ।। ६२६॥ युष्मादृशां निघृणानां श्रुता वागपि पाप्मने । किं पुनः कर्मचण्डाल ! वाचाल ! सङ्गमस्त्वया ॥६२७।। राजा सविनयं प्राह मुने ! ब्रूहि करोमि किम् ? । विशाम्यग्निं त्यजामि क्ष्मां चरामि व्रतमेव वा ॥ ६२८॥ सकोपं मुनिरप्यूचेऽद्यापि श्रावयसे गिरम् । मायाविन् ! हरिणीभ्रूणघातपातकपङ्किलाम् ?।। ६२९ ।। ततोऽङ्गारमुखोऽवादीत् प्रसादं ! कुरु मा रुषः । तपस्तेजोनिधे ! नायमपमानं नृपोऽर्हति ॥ ६३० ॥ किन्तु दुष्कर्मणोऽमुष्य पवित्रीकारकारणम् । शास्त्रानुपाति यत् किञ्चित् तदेवाऽऽशु समादिश ॥६३१॥ मुनिरूचेऽङ्गारमुख ! शुद्धिरस्य तदा भवेत् । सर्वस्वं यद्यसौ दत्ते दानं ह्यघनिवृत्तये ॥ ६३२ ॥ सोच्छ्रासं नृपतिः प्रोचे प्रसीद भगवन् ! मयि । . सर्वस्वं मे गृहाण त्वं विलयं यात्वघं मम ।। ६३३ ॥ किं न प्राप्तं मया त्रातः ! शुध्यामि यद् यतस्ततः । १ पापाय । Page #216 -------------------------------------------------------------------------- ________________ २०४ श्रीपार्श्वनाथचरिते सग्रामाऽश्वेभकोशा भूर्दत्ता तेऽम्बुधिमेखला ॥ ६३४ ।। प्रणम्य मुनिमगारमुखः प्राह कृताञ्जलिः । राजा यदभिधत्ते तद् भगवन् ! प्रतिपद्यताम् ॥६३५।। अथाऽपसार्य राजानमूचतुः सुहृदौ मृदु । अकाण्डे कोऽयमुत्पातो राजन् ! विमृश मा मुहः ? ॥६३६॥ राजाऽवज्ञाय तद्वाचमूचे संप्रश्रयं मुनिम् । यदुक्तं भगवन्नस्तु गृहाण वसुधामिमाम् ॥६३७॥ क्षामाक्षरं मुनिः प्राह दत्ताऽस्मभ्यं मही त्वया । नाईस्यतः परं पृथ्व्या भोगमामिति सोऽब्रवीत् ।।६३८॥ तदा तत्रागतं वाराणसीतः शिष्यमात्मनः । मुनि कौटिल्यनामानमाहवत् स तापसः ।। ६३९ ।। हरिश्चन्द्रेण मे पृथ्वी दत्ता जलधिमेखला । इत्यर्थे खलु साक्षी त्वमिति तं मुनिरादिशत् ॥६४०॥ कौटिल्योऽप्यवदद् राजन्नत्रार्थे साक्षिणो वयम् । ओमित्युक्ते नृपेणाऽगात् स स्वं स्थानं मुदा नृपः॥६४१॥ अथ व्यजिज्ञपत् कोऽपि शिष्यो यावदियं मृगी। तिष्ठेत् तावद् विपन्ना न पाठस्तत् क्रियतां किमु ?॥६४२॥ सखेदं मुनिरूचेऽस्याः कारयाऽनलसंस्कृतिम् । वश्चनाऽऽह मया साधमस्याः स्यादग्निसंस्कृतिः ॥६४३॥ राजा तां विनयादूचे ममैकं दुर्नयं सह । अहं तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् ।। ६४४ ॥ कष्टादिव तयाऽप्योमित्युक्ते प्राह मुनिस्ततः। दीयतां तर्हि हेमाऽस्यै राजा पाहैत मत्पुरे ।। ६४५ ॥ प्रातः सन्ध्याविधि कृत्वा पश्यैते वयमागताः । इत्याकर्ण्य मुनि राजाऽवोचत् तयधुना वयम् ।। ६४६ ।। इक्ष्वाकुवंशभूपालगुरुं श्रीनाभिसंभवम् । १ सानन्दम् । २ एत आगच्छत । Page #217 -------------------------------------------------------------------------- ________________ २०५ तृतीयः सर्गः। देवं शक्रावतारस्थमर्चित्वा याम धामनि ॥ ६४७ ॥ (युग्मम् ) एवं कृत्वा च पाश्चात्यागतसैन्येन संयुतः । हरिश्चन्द्रनपोऽयोध्यां प्रविवेश दिनात्यये ॥ ६४८ ॥ अथ राज्यमहास्तम्भः सर्वनीतिविशारदः । मन्त्री मित्रं च तस्यासीद् वसुभूतिर्महीपतेः ॥६४९।। कुन्तलाद् ज्ञातवृत्तान्तः स दध्यौ हृदि हा! कथम् । अपर्यालोचयन्तोऽर्थ राजानः स्वोपघातकाः ? ॥६५०॥ ददता वसुधां तस्मै तापसाय दुरात्मने । देशाद् देशप्रवासो हि स्वीकृतो भूभुजा स्वयम् ॥६५१॥ यदन्येनाऽदृष्टचरो वराहं कोऽप्यवेदयत् । भूभुजे तद् ध्रुवं किञ्चिद् दिव्यमेतद् विजृम्भितम् ॥६५२॥ अविमृष्टायतिर्भूपः क्षीयते न्यायवानपि । अत एव विमृष्टारः सन्निधेयाः सुमन्त्रिणः ॥६५३॥ किं कुर्मो दुर्धियः कुर्युर्यत् किश्चन महीभुजः । तत्तत्प्रतिक्रियाव्यग्रैः क्लिश्यते सचिवैः पुनः ॥६५४।। विमृश्यैवं तदामात्यः सशस्य इव निःश्वसन् । विलासमण्डपेऽहाय सचिन्तो नृपतिं ययौ ॥ ६५५ ॥ नत्वोपविष्टे तस्मिंश्च मन्त्रिणि प्राह भूपतिः । वराहाऽऽवेदकस्याग्रे प्रतिज्ञातमकृष्महि ॥ ६५६ ॥ मन्त्र्याह देव ! तत् सर्व वृत्तान्तं ज्ञातवानहम् । राज्ञोचे सस्मितं तर्हि कुन्तलस्तद् न्यवेदयत् ।।६५७।। मन्त्री प्राह विभो ! कस्य प्रभुत्वं न मुदे भुवि । अनौचित्यमपि स्तौति यत्रौचित्यमिवाऽनुगः ॥६५८१॥ किन्तु विज्ञपयिष्यामि कर्णयोः कटु किश्चन । नाथाऽयं वसुधात्यागो नहि मे प्रतिभासते ।। ६५९ ॥ राज्ञोचे सत्यं किन्त्वेतत् युक्तं नो युक्तमेव वा । Page #218 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते प्रारम्भाद् युज्यते पूर्व निर्वाहोऽङ्गीकृते पुनः || ६६० ॥ किञ्च यान्तु श्रियो नाशं प्रयातु निधनं कुलम् | प्रवासी वास्तु निर्वाहः प्रतिज्ञाते भवेद् यदि ॥ ६६१ ।। अलं तदेतया पूर्वकृतमीमांसयाऽधुना । स्वर्णलक्षं हि दौकस्व स्वेनाऽयाति मुनिर्यतः ॥ ६६२ ॥ ततः सशिष्यः स मुनिः कुर्वन्नागाद् नृपस्तुतिम् । अहो ! अगोचरे वाचां राज्ञोऽस्य चरितं महत् ।। ६६३ ।। पूरोभूय नृपस्यासौ सकोप इव मायया । अयाचंत स्वशिष्येण स्वर्णलक्षं महीपतिम् ||६६४ ॥ नृपाssदेशादथादिशत् स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ण समादाय मुमोच नृपतेः पुरः ।। ६६५ ।। राजोक्तः सचिवस्तस्मै तापसाय छुपानयत् । सोऽपि वीक्ष्य किमेतद् भोः ! पप्रच्छेति नृपं मुनिः ||६६६ ॥ राज्ञोचे वञ्चनास्वर्ण, कुत एतन्मुनिर्जगौ । अथाख्यद् नृपतिः कोशात्, बहिरन्तः स वा क्षितेः १ ॥ ६६७ ॥ इत्युक्ते मुनिना राजा प्राह मध्ये क्षितेर्मुनिः । ब्रूते स्वामी क्षितेः कोऽत्र राजाख्यत् त्वं न चाऽपरः । ॥ ६६८ ॥ मुनिरूचे ततः कोऽयं प्रकर्षः कौशलस्य ते । . यन्मदीयेन हेना मेनृणी भवितुमिच्छसि ? || ६६९ ॥ तदास्तां काञ्चनं यामो दृष्टं सत्यं तवेयता । इत्युदित्वा मुनौ याति राजा तस्य पुरोऽवदत् || ६७० ॥ विलम्बध्वं क्षणं यावदानयाम्यन्यदन्यतः । सकष्टमिव तस्थौ च स मुनिर्भूभुजाऽर्थितः ।। ६७१ ।। ततो राजा मन्त्रिकर्णे किमप्याचष्ट मन्त्र्यथ । केनचित् पुरुषेणाऽऽश्वऽजूहवद् वणिजोऽखिलान् ||६७२|| मुनिना दिव्यशक्त्या ते हरिश्चन्द्रे द्विषः कृताः । संभूय मन्त्रयामासुः स्वामी नोडतः परं मुनिः ॥ ६७३ ॥ २०६ Page #219 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। हरिश्चन्द्रस्य दत्तेन किं द्रव्येण वृथाऽधुना ?। यो हि स्वामी पुरस्याऽस्य देयोऽस्माभिः करोऽस्य तत् ६७४ इति मन्त्रयतो मन्त्री तानूचे रहसि स्थितः । राजा वोऽर्थयते स्वर्णमधमर्णो मुनेः स यत् ॥ ६७५ ॥ पश्यतस्तान् मिथो वक्तुं स्वर्णदाने कृतोत्तरान् । हरिश्चन्द्रस्ततोऽभ्यत्य स्वयमथर्यते स्म तान् ।। ६७६ ॥ हे पौराः ! वोऽञ्जलिबद्धो दत्त स्वर्ण कियन्मम । कुतश्चिदपि याचित्वा दास्ये वः काञ्चनं पुनः ॥ ६७७ ।। अल्पद्रव्या वयं दातुं स्वर्णलक्षं न शक्नुमः । इत्यूचिवांसो वणिजो राज्ञादिष्टा ययुहान् ।। ६७८ ॥ विलक्षोऽथ नृपो दध्यौ किं करोमि कुतः पुनः । समानयामि तत् स्वर्ण हा ! धिक् कीदृगुपस्थितम् ? ६७९ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् । विलम्बः कोऽयमद्याऽपि राजन् ! विसृज-मां ततः॥६८०॥ वसुभूतिर्मुनि प्राह विश्वदृश्वा त्वमस्यथ । हरिश्चन्द्रसमः क्वापि दृष्टः किं कोऽपि साविकः? ॥६८१॥ सोपहासमुवाचाऽथाङ्गारवक्त्रो न मन्त्र्यपि । दृष्टोऽभूत् त्वादृशो नाऽपि हरिश्चन्द्रसमो नृपः ॥ ६८२ ॥ नृपं प्रति मुनिः प्रोचे मायाविन् ! किं वृथोदितैः । हंसि मध्याह्नसंध्यां नः सत्त्वं सत्यं च ते ह्यदः ॥ ६८३ ॥ ऊचेऽङ्गारमुखो राजन् ! वाञ्छसि त्वं किमात्मनः । कुलस्य यशसो लोकस्याकस्मिकमिह क्षयम् ॥६८४ ॥ प्रणम्योचे नृपो भीतेस्त्वत्तः किं स्यात् क्षयोऽपि नः । उपपूर्वाचलं नैव ग्रहाणामस्तसम्भवः ॥ ६८५ ॥ निहन्ति पाणिना भूपं मुनिस्तं नतवान् नृपः । कोपे क्षान्तौ च तावेव तदाऽभूतां निदर्शने ॥ ६८६ ॥ सरोषमङ्गारमुखो भूपं प्राह नृपाधम ।। Page #220 -------------------------------------------------------------------------- ________________ २०८ श्रीपार्श्वनाथचरितेविप्लावयसि किं नस्त्वं मृषाभाषामहोदधे ! ॥ ६८७ ॥ आहाङ्गारमुखं मन्त्री विरोधस्ते मिथः कथम् । केदृक् तपो रुषः कैमास्तन्मा ब्रह्म कलङ्कय ? ॥६८८॥ पाहाऽङ्गारमुखः कोपादस्थापितमहत्तर !। कस्त्वमपि मम ब्रह्मचिन्तायां सचिवाधम ! ? ॥ ६८९ ॥ अरे ! राजंस्त्वमेनं किमन्तरालापिन बटुम् । न निवारयसे किं मे न प्रयच्छसि काञ्चनम् ? ॥६९० ॥ राज्ञाचे त्वं मुनिः स्वैरं ब्रूहि सर्वसहोऽस्मि यत् । सूर्यवंश्या हि नैवेया भजन्ते यतिषु कचित् ।। ६९१ ॥ ऊचेऽङ्गारो यति हं किन्त्वेव ब्रह्मराक्षसः । ततो यद्यस्ति ते शक्तिस्तदा प्रहर सत्त्वरम् ॥६९२ ॥ नृपो दध्यौ स्वप्रतिज्ञाघातिना कलहन किम् ? । तापसेन सहाऽनेन क्रियते कृत्यमेव हि ॥६९३ ॥ कर्णे च कथिते भूपेनाऽऽनीयाभरणान्यपि । कुन्तलेनार्पितान्येष राज्ञोऽमूनीत्यपाकरोत् ॥६९४ ॥ कुन्तलो वसुभूतिश्चाहतुः कुलपते ! नृपः। यावद् ददाति ते स्वर्ण तावदावां गृहाण भोः ! ॥६९५।। मुनिराह त्वया जूर्णमार्जारेण करोमि किम् । अल्पेन कुन्तलेनापि कः स्वर्ण स्वमुपेक्षते ? ॥ ६९६ ॥ आदिक्षत् कुन्तलं राजा देवीभूषणमानय । स ययाचे ततो देवी देव्याहैष्याम्यहं स्वयम् ।। ६९७ ॥ तेन दर्शितमार्गाऽसौ रोहिताश्वेन संयुता । आययौ सदसि क्षिप्तं सुतारा सावगुण्ठना ॥ ६९८ ॥ प्रणम्यैषा मुनि प्रोचे गृहाणाभरणं मम । मुनिराह पितुर्भतुर्वैतान्येषाऽब्रवीदिति ॥ ६९९।। १ स्वर्णमिहानय, इत्यपि । २ समुखाच्छादना । Page #221 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । आर्यपुत्रेण मे योग्यं नेपथ्यमिदमर्पितम् । मुनिराह ततः केयं दक्षता ते पतिव्रते !! ।। ७०० ॥ ऊचेऽङ्गारमुखः किं न जानासि त्वमियं किल । महाकूटनिवासस्य हरिश्चन्द्रस्य गेहिनी ।। ७०१ ॥ स्वयमेव वस्तु येत्युदितेऽमुना । आवद्ध भ्रकुटीभङ्गः कुन्तलोऽथ रुषाऽवदत् । ७०२ ॥ अरे ! तापस ! नो वेत्सि देवीमेतां महासतीम् । तदेष त्वं न भवसीत्युक्त्वा सोऽप्यवदद् नृपम् || ७०३ ॥ विमृशाऽद्यापि मा मुह्यः किं यतेः स्यात् परिग्रहः । वाचमाः स्युरेते हि मुनिव्याजेन राक्षसाः १ ।। ७०४ ।। ततः कुलपतिः क्रोधादचे कर्मकराधम ! | आसादितपरज्ञानानधिक्षिपसि तापसान् ? ।। ७०५ ।। यदि मेऽस्ति तपःसत्यं तदा त्वमधुना द्रुतम् । श्मशानवासी गोमायुर्भवेत्युक्त्वा शशाप तम् ।। ७०६ ।। कुन्तलो जम्बूको भूत्वा शब्दं कुर्वन् ययौ कचित् । प्रसीद मा कुपः स्वामिन् ! मुनिमित्यानमद् नृपः ॥ ७०७ ॥ पादेनाहत्य परतः क्षिपति क्ष्मापतिं मुनौ । रोहिताश्वो रुदन्नाह मा स्म हन् पितरं मम ॥ ७०८ ॥ किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वचः । मुनिः सादृशीभूय प्रोचेऽङ्गारमुखं मृदु || ७०९ ॥ बाष्परूद्धगलो नाऽस्मि शक्तोऽहं दातुमुत्तरम् । ऊचेऽङ्गारमुखो मैत्रं मुश्च स्वमधुनैव हि ।। ७१० ।। क्रूरीभूय मुनिः प्राह सुतारां शिक्षितस्त्वया । बालोऽयं, साऽऽह कृत्येषु नाऽयं शिक्षामपेक्षते ॥ ७११ ॥ यतः - वृद्धोपास्ति विनाऽपि स्याद् दक्षः स्फूर्तिमयः पुमान् । मणिः किं गारुडेऽधीती यदसौ हरते विषम् ? ।। ७१२ ।। राजाऽथ सास्रं दध्यौ च यत् सजीवमजीवकम् । २७ २०९ Page #222 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेचेद् दत्तं प्राग् भुवा सार्ध ततः स्वर्ण ददे कुतः ? ॥७१३॥ विलम्ब्य काञ्चनं कृत्वा कथञ्चिद् दातुमुत्सहे । इत्याह दैन्यात् स मुनि मासमेकं सहस्व मे ॥ ७१४ ॥ मुनिरूचे कथं पश्चाद् भिक्षयित्वा प्रदास्यसि ?। राजाहैक्ष्वाकवो भिक्षां दातुं दक्षा न याचितुम् ॥७१५|| कुतस्तीति तेनोक्ते राजोचे मुनिपुङ्गव । विक्रीय स्वमपीत्येतद् मुनिः श्रुत्वा विसिष्मिये ॥७१६॥ चाचा तु कठिनः प्राह पृथ्वीं मुश्च ममाऽधुना। राज्ञोचे कुत्र याम्याह सः, न यत्रोपलक्ष्यसे ? ॥ ७१७ ॥ राज्ञोक्तं मे भुवं मुश्च त्वमितीदं कियद् वचः । हन्त ! पूरयितुं सन्धां त्यजन्तीक्ष्वाकवो ह्यमन् ॥७१८॥ ततोऽपवार्य ते पोचुस्तापसा मुदिता मिथः । अहो ! सत्त्वमहो ! सत्यमहो ! सात्विकसूश्च भूः ॥७१९॥ देव्याह किमिदं मन्त्रिबरिष्टं नः समापतत् । सोऽप्याह किमिदं वेभि दैवं पृच्छ नृपप्रिये ! ॥७२०॥ विमृश्याह नृपो देवीं गच्छान्तःपुरमात्मनः। सुताराऽऽह समेष्यामि युष्माभिः सार्धमप्यहो ! ॥ ७२१ ॥ सास्रं प्राह नृपो देवि ! सुकुमारः शिशुः सुतः। पन्थानो विषमास्तत् त्वं तिष्ठाऽत्रैव व्रजाम्यहम् ॥७२२॥ सावष्टम्भं सुताराऽऽह यद् भाव्यं तद् भवत्विह । आगमिष्याम्यहं साधं त्वया च्छायेव निश्चितम् ॥ ७२३ ॥ पतिव्रते ! क चलिताऽसीत्युक्ते मुनिनाऽऽह सा। प्रवासे सह नाथेन येन पत्यनुगाः स्त्रियः ॥ ७२४॥ ममायचां हरिश्चन्द्रो नेष्यते, विदमद्भुतम् । इत्युक्ते मुनिना प्राह वसुभूतिः क्रुधा ज्वलन् ॥७२५।। अरे ! तापस ! नासि त्वं विज्ञो लोकस्थितेः खलु । १ प्रक्षिस्व । २ प्रतिज्ञाम् । Page #223 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । २११ विद्धीदानीं स्त्रियो भर्तृदेवता न परात्मिकाः ॥७२६ ॥ यत् प्राह व्यवहारज्ञस्त्वन्मन्त्री तत्र ते मतम् । इत्युक्ते तापसेनाह राजाऽपि मुनिपुङ्गवम् ।। ७२७ ॥ मम स्त्रैणस्य पौंस्नस्य देश - कोशा-श्व- हस्तिनाम् । किमन्यद् देव्याः पुत्रस्य त्वमेव स्वाम्यतः परम् ॥७२८|| तत्त्वं चेन्मन्यसे देवी तदायातु मया सह । देव्या विसृज त्वं मां मुने ! स प्राह याहि तत् ।। ७२९ || किन्तु मुक्त्वाssभरणानि यातेति मुनिनोदिते । मुमोच नृपतिः सर्वे नेपथ्यं मुकुटादिकम् ।। ७३० । सुताराऽऽह पुनः किञ्चिदस्त्ववैधव्यलक्षणम् । भूषणं भगवन्नेवं निशम्य मुनिरब्रवीत् ॥७३१|| तव भद्रे ! हरिश्चन्द्र एवाऽवैधव्यलक्षणम् । इति वाचि मुनौ सास्रा सुताराऽप्यभवत् ततः ॥ ७३२॥ मन्त्री प्राह मुनिं कोपादरेरे ! ब्रह्मराक्षस ! | नृपो विज्ञो ददत् ते क्ष्मां किं वा गृह्णन्नितो भवान् ? ॥७३३। क्रुधा प्रोचे मुनिर्नाऽयं कृत्येषु विदुरो नृपः । नचाऽहमपि विज्ञोऽस्मि, विज्ञस्त्वं योऽन्तरायकृत् ॥७३४|| मुनिः कुधाऽक्षिपद् भूमौ गृहीत्वाम्भः कमण्डलोः । आह चास्ति तपचेन्मे तदा त्वं द्राक् शुको भव ।। ७३५ ।। ततश्च सचिवः कीरो भूत्वाऽगाद् नभसा कचित् । राजा तु सभयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥ ७३६ ॥ निवार्य रुदतो भूपः पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान् प्रतस्थे सप्रिया-सुतः ॥ ७३७ ॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । कष्टान्निवर्तयामास राजा स्नेह गिरा मृदुः ॥ ७३८ ॥ प्रचलन् साविकः पुत्र- कलत्राभ्यां समन्वितः । १ स्त्रीसमूहस्य । २ नरनिकरस्य । Page #224 -------------------------------------------------------------------------- ________________ २१२ श्रीपार्श्वनाथचरिते कथं कथमपि प्रान्तमध्वनः प्राप भूपतिः ॥ ७३९ ॥ दूरमार्गपरिश्रान्ता सुतास नृपमब्रवीत् । कियदद्यापि गन्तव्यं खिन्नान्यङ्गानि नाथ ! मे? ॥७४०॥ उवाच नृपतिर्देवि ! मा ताम्यः किं न पश्यसि । अभ्रंलिहगृहाकीर्णामाराद् वाराणसी पुरीम् ? ॥७४१ ।। अतीव यदि खिन्नासि वहन्ती पुत्रमात्मना । अनुगङ्गातट रूढं तदा चम्पकमाश्रय ॥ ७४२ ।। देव्या तथाकृते राजा स्वेनैव समवाहयत् । यथासुखं तदङ्गानि ततो देवी व्यचिन्तयत् ॥ ७४३ ॥ यदा हि संपदः पुंसां तदा सर्वोऽनुगच्छति । इदानीमार्यपुत्रं यन्न कोऽप्यागादनुव्रजन् ॥ ७४४ ।। स्तुत्यः स्तौतीहते काम्योऽनुगम्योऽप्यनुगच्छति । नरं यस्यां प्रसन्नायां को हि नेच्छति तां श्रियम् ? ॥७४५॥ स्वप्नदृश्या ततोऽभूद् नः सा संपद् यां विनाऽधुना । पद्भ्यां यानं क्षितौ शय्या कदोहारो मनःक्लमः ॥ ७४६ ॥ इत्यूचाना पिधायाऽऽस्यं रुरोदोच्चैर्नृपप्रिया । रोहिताश्वस्ततोऽरोदीद् भूत्वा साश्रुनूपोऽवदत् ॥७४७॥ मा रोदीर्भव धीरा त्वं सात्विकत्वमुरीकुरु । मा मा शोक पिशाचोऽस्मान् गृह्णातु परितो भ्रमन् ॥७४८॥ रोहिताश्वस्ततोऽवोचदहं तात ! बुभुक्षितः । राजाऽऽदिक्षदरे ! शिमं देहि वत्साय मोदकम् ॥ ७४९ ॥ न कोऽपि यावदायाति विलक्षो नृपतिस्ततः । किमेतदिति देव्योक्तः पूर्वाभ्यासोऽब्रवीदिति ? ॥७५०।। रोहिताश्वः पुनः प्राह हे ! मातः! क्षुधितोऽस्म्यहम् । रुदती तारतारं सा सुतारा सुतमब्रवीत्। ७५१ ॥ चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्मणः । १ खिद्यः एवमपि । २ कुत्सितभोजनम् । ३ वर्म शरीरम् । Page #225 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। २१३ भरतान्वयजातस्याऽवस्था केयं तवागता ? ॥ ७५२ ।। अथ दध्यौ नृपः कीदृग् राज्यस्यैतादृशः फलम् । रुदतो यत् तनूजस्य प्रातराशेऽप्यशक्तता ।। ७५३ ॥ आस्तां विनोदयाम्येनं कौतुक-प्रेक्षणादिभिः । पश्येतः पुत्र ! गङ्गायां मिथः क्रीडन्ति पक्षिणः ।। ७५४ ॥ हंसोऽयं सारसोऽयं च कोकद्वन्द्वमिदं पुरः। कलापं पूरयित्वा च नृत्यत्येष शिखी कथम् ? ॥७५५|| तन्नामोच्चारपूर्व तु वीक्षमाणः सविस्मयम् । रोहिताश्वः पुनः प्राह ताताऽहं क्षुधितो भृशम् ।।७५६।। सवैलक्ष्यं पुनर्भूपे बोधयत्येवमेव तम् । आगादकस्मात् काप्येका वृद्धा पाथेयमस्तका ॥७५७।। पृच्छन्ती नगरीमार्ग भूपं साऽऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीशी? ।। ७५८ ॥ कथा नः श्रूयमाणाऽपि कातराणां भयावहा । तन्मा पृच्छ पुरो गच्छ राज्ञेत्युक्ते चचाल सा ॥७५९।। मोदकं देहि मे तात ! सुतरामितिभाषिणि । रोहिताश्वे ततो वृद्धा निवृत्य तमढौकयत् ॥ ७६० ।। स्वयं निर्लपटत्वेन सात्त्विकस्य सुतत्वतः । बुभुक्षितोऽपि बालोऽपि रोहिताश्वोऽग्रहीन्न तम् ॥७६१॥ नानुकम्पाप्रदानं ते गृह्णीमो वयमध्वगे। प्रत्याख्यातेति राज्ञा सा ययौ कापि क्षणादपि ॥७६२॥ देवि ! चेद् गतखेदाऽसि तदोत्तिष्ठ पुरीं प्रति याम इत्थं नृपेणोक्ते सुताराऽऽह सगद्गदम् ॥७६३ ।। निजराज्यपरिभ्रंशलज्जासजमनाः कथम् ।। प्रवेक्ष्यत्यार्यपुत्रोऽत्र वैरिपुर्या स्थितद्विषि ? ॥ ७६४ ॥ सावष्टम्भं नृपः प्राह का लज्जा सत्त्वशालिनाम् । १ प्रातर्भोजने। Page #226 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते पूर्णांक निजां सन्धामापदो यदि तन्महः ॥ ७६५ ॥ सुताराऽऽह भवेद् दैवात् सा काऽप्यापदतर्किता । यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥ ७६६ ॥ राजा प्रोवाच देवि ! त्वं न विचार्य प्रभाषसे । लक्ष्म्या बलेन वा हीनो यदि स्यां तत् पराभवः ॥७६७|| इदं पुराकृतं कर्म प्रभवत् केन वार्यते ? | २१४ 9 तत्प्रभावाद् दशाऽस्माकं यद्येषा तद् द्विषां किमु ? ॥७६८ || ततः प्रति पुरीं राजा प्रतस्थे प्रियया सह । तामाह स्यात् कुतः स्वर्ण यदासन्नोऽवधिर्मुनेः १ || ७६९ ॥ मां विक्रीयाssर्यपुत्राऽस्मै तद् यच्छेति तयोदिते । राज्ञेोक्तं विक्रयश्चेत तत् सर्वेषां नहि कस्यचित् ।। ७७० ।। रोहिताश्वोऽब्रवीत् साखं मा विक्रेष्टाऽस्तु मां पितः ! | मातवरिय तातं मां विक्रीणानं पुरे धनैः ॥ ७७१ ॥ सुतारा रोदिति क्ष्मापो वाष्पं रुद्ध्वाऽऽह वत्स ! कः । विक्रेष्यते त्वां सोऽप्याह तात ! विक्रेष्यते भवान् ? ॥७७२॥ त्वदन्तिकेऽम्ब ! स्थास्यामि यास्याम्यन्यगृहे न तु । वरं मे मोदकं मादा इत्यूचानो रुरोद सः ।। ७७३ ॥ राज्ञोचे देवि ! नैवाहं पुत्रस्य करुणं वचः । श्रोतुं शक्नोमि तदिमं कथञ्चिदपि वारय ।। ७७४ ॥ रुदत्याह सुतारा त्वं चक्रवर्ती भविष्यसि । मा रोदीस्तिष्ठ वत्स ! त्वां विक्रेष्यति न कश्चन ॥ ७७५ ॥ रोहिताश्वस्य वाचाऽथ मनोमर्माविधा रुदन् । पुरीभृतकत्रयां स तस्थौ श्रेण्यां नृपस्ततः ।। ७७६ ॥ किञ्चिद् विमृश्य च क्षिप्रं तृणान्यानीय भूपतिः । न्यसन् मूर्ध्नि सुतारोक्तः प्राहैषा भृतकस्थितिः ॥ ७७७ ॥ रोहिताश्वं धुनानं स्वं शिरः प्राह ततो नृपः । विधेहि मद्वचो वत्स ! तुभ्यं दास्यामि हस्तिनम् ॥ ७७८ ॥ Page #227 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । दध्यौ सुतारा धिग् दैवं भवे भवशतानि यः । दत्तं यन्नः क सा लक्ष्मीः क्वैषा विक्रयवाच्यता ? ||७७९ ॥ राजाऽप्यचिन्तयद दत्ता न तथाऽकीर्तये मही । यथा ह्यकीर्तये पत्नी-पुत्रयोरिह विक्रयः ॥ ७८० ॥ विसृजामि सुतारां तत् सपुत्रां पितृवेश्मनि । यदभाव्यं तदहं सोढा ध्यात्वेत्यूचे च तां नृपः ।। ७८१ ॥ देवि ! याहि पितृकुलं पुत्रमादाय सम्प्रति । यथा तथाऽप्यहं स्वर्ण दास्यामि मुनये खलु ।। ७८२ ॥ साक्षेपं प्राह देवी तु किन्नु स्यात् प्रलयेऽप्यदः १ | विमुच्यत्वामहं यान्ती सत्यं जाताऽस्मि दुर्जना ||७८३ ॥ सरसीव पयःपूर्णे सर्वमृद्धौ समं भवेत् । नैःस्व्ये स्व-परयोर्भेदः शुष्केऽस्मिन्नुच्च - नीचवत् ||७८४॥ किश्च— २१५ वरं मृत्युर्वरं भिक्षा वरं सेवाऽपि वैरिणाम् । देवाद विपदि जातायां स्वजनाऽभिगमो न तु ॥ ७८५ ।। अपिच सा सती या हिया भर्तुः संमुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण प्रतीपेऽस्मिन् पुरो भवेत् ।। ७८६ ॥ • इतश्च ब्राह्मणः कोऽपि वीक्षमाण इतस्ततः । भृतिकां काञ्चिदायासीदुपभूपं स उन्मुखः ॥ ७८७ ॥ दृष्ट्वा च भूपमापादमस्तकं चक्रिलक्षणम् । ऊचे कस्त्वं कथं देहं श्रीगेहं भृतकीयसि ? ॥ ७८८ ॥ शुचाssत्तमौनं भूपालमालप्याऽगच्छदग्रतः । दृष्टा सुतारां सास्रोऽभूदुच्चैर्देवं निनिन्द च ॥ ७८९ ॥ रतेरपि शिरोरत्नमेतां निर्माय सुन्दरीम् । कथं नयसि रे ! दैव ! हन्त ! दास्यविडम्बनम् ॥७९० ॥ यतः - स्निग्धमङ्गं सतीरूपं सुवर्ण साधुभाषितम् । Page #228 -------------------------------------------------------------------------- ________________ २१६ श्रीपार्श्वनाथचरिते धत्ते किमपि लावण्यमसंस्कृतमपीतरत् ।। ७९१ ॥ सुतारायाः पुरः पुण्यं रोहिताश्वं सुलक्षणम् । दर्भाङ्कशिरसं प्रेक्ष्य धिक् शास्त्रमिति सोऽब्रवीत् ॥ ७९२ ॥ शास्त्रेषु लक्षणानीह कथ्यन्ते यानि कानिचित् । सन्ति सर्वाणि तान्येषामवस्था पुनरीदृशी ।। ७९३ ॥ नृपः स्वानुभवं प्राह मा मैवं त्वं द्विज ! ब्रवीः । शास्त्रं नहि मृषाभाषि किन्तु मे कर्मवैभवम् ।। ७९४ ।। पूर्वे जन्मनि यश्च ददतामदतां स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते ।। ७९५ ।। तद्वशादीदृशी चेत् तेऽवस्थैषा तच्छुचाऽत्र किम् | सर्व विषमाणो हि कर्मभिर्मुच्यते जनः ।। ७९६ ॥ किमस्या मूल्यमित्युक्ते ब्राह्मणेन मुहुर्मुहुः । कथञ्चिद् रुद्धवाष्पोऽथ राजाऽऽख्यदुचितं हि यत् ।। ७९७|| ततः स्वर्णसहस्राणि पञ्चास्या मूल्यमस्तु भोः ! | वदतीति द्विजे राजा लज्जया धोमुखोऽभवत् ॥ ७९८ ॥ अनिषिद्धमनुज्ञातमिति विप्रे नृपाञ्चले । स्वर्ण बध्नति राजाख्यद् मोक्षोऽस्या द्विगुणेन भोः ! || ७९९ ॥ तत् प्रपद्य द्विजः प्राह सुतारामग्रतो भव । चलितायां सुतारायां रोहिताश्वोऽञ्चलेऽलगत् ॥ ८०० ॥ रुदतीदं सुताisse तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकं तुभ्यं वत्स ! यान्त्यस्मि सम्प्रति ॥ ८०१ ॥ अमुञ्चत्यश्चले तस्मिन् मुहुर्मात्राऽपि बोधिते । भृतिके ! किं विलम्बोऽयमिति क्रुद्धो द्विजोऽवदत् ॥ ८०२ || सुतारां सभयं यान्तीं यावद् मुञ्चति नार्थकः । तावत् करतलेनैतमाहत्याऽपातयद् द्विजः ।। ८०३ ।। सवाष्पं पुनरुत्थाय मातुर्वस्त्राञ्चलेऽलगत् । पुनर्द्विजेन भूमौ स पादेनाऽऽहत्य पातितः ॥८०४ ॥ Page #229 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । राजा सास्रं ततो दध्यौ धिगापदमिमां मम । इन्द्रस्याऽप्यङ्कलाल्योऽयं पद विप्रेण हन्यते ॥८०५ || ततः प्रोचे नृपो विप्र ! न तिष्ठेद् मातरं विना । शिशुः किमपि ते कर्म कर्ता क्रीणीह्यमुं ततः ।। ८०६ ॥ नैतं मुधाऽपि गृह्णामीत्यूचानं द्विजमब्रवीत् । सुताराss ! गृहाणैनं विधाय मय्यनुग्रहम् ॥ ८०७ ॥ विप्रोsपि कृपया स्वर्णसहस्रं तस्य वेतने । २१७ कृत्वा दत्त्वा च राज्ञे, तावादाय स्वगृहं ययौ ॥ ८०८ ॥ राजा दध्यौ न लप्स्येऽहं पुरे वासं ततो मुनिः । यथेति स्वर्णमेतस्मै दत्त्वा स्यामकुतोभयः ।। ८०९ ॥ ततः कुलपतिः कुर्वन्नाज्ञामित्र समाययौ । कोपात् पराङ्मुखीभूय प्रोचे द्राग् देहि हेम मे ।। ८१० ॥ गृहाण कियदप्येतदित्युक्ते भूभुजा मुनिः । उवाच कुपितस्त्वैतद् ग्रहीष्येऽल्पं न काञ्चनम् ।। ८११ ॥ मासोपरि गताः पञ्च दिना यदि तदाऽपि हि । कियदेव ब्रुवाणस्त्वमदृश्यास्य ! न लज्जसे || ८१२ ।। दध्यौ राजाऽधमर्ण धिगुत्तमर्णस्य दुर्गिरः । यः सहन्नपि भूयोऽपि तं प्रीणयति चादुभिः ॥ ८१३ ॥ ऊचे च भगवन्नैव काऽपि मे चित्तदुष्टता । विक्रीय दयिता-पुत्रौ यत् प्राप्तं तत् समर्पये ।। ८१४ ॥ ऊचेऽङ्गारमुखो मूर्ख ! राजानं प्रार्थय द्रुतम् । चन्द्रशेखरमत्रत्यं किं विक्रीतौ प्रिया-सुतौ ? ।। ८१५ ।। arissara किमिदं ब्रूषेऽनुचितं सखशालिनाम् । शतशो हि पराभूतान्नाहं प्रत्यर्थिनोऽर्थये ॥ ८१६ ॥ प्रतिज्ञया भ्रष्ट ! वाचाट ! पुरो नः स्वं विकत्थसे । इत्युक्ते मुनिना प्राह राजा मा स्म मुने ! कुपः ।। ८१७ ॥ १ पादेन । २८ Page #230 -------------------------------------------------------------------------- ________________ २१८ श्रीपार्श्वनाथचरितेचण्डालस्याऽपि कर्माऽहं कृत्वा दुष्करमप्यथ । दास्ये स्वर्णमिति क्षमापोक्तेऽभूद् रोमाश्चितो मुनिः ।।८१८॥ ततः कौपीनवासोभृल्लघुपिङ्गकचोच्चयः । दृढयष्टिकरो वृद्धो निषादः कोऽपि चाऽगमत् ॥ ८१९ ॥ राजानं वक्ष्यि स प्रोचे रे ! त्वं कर्मकरोऽसि किम् ? करिष्यसि च मे कर्म तत् श्रुत्वाऽचिन्तयद् नृपः ॥८२०॥ रविरस्तङ्गतो लोकः क्रायको नास्ति नो मुनिः । क्षमते तनिषादस्यापि कुर्वे कर्म सम्पति ॥८२१॥ करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् । किं किं कर्ताऽसि मे कर्म राजाऽऽहाऽऽदिशसीह यत्॥८२२॥ रक्षितव्यं श्मशानं च लातव्यं मृतकाम्बरम् । अर्धदग्धानि काष्ठानि ग्राह्याणि च चितिचयात् ॥ ८२३ ॥ यत् तत्रोत्पद्यते तस्याध हि गृह्णाति भूपतिः । अन्यस्यास्य भागौ द्वौ ममैकस्त तु दास्यते ॥ ८२४॥ राजाऽऽदिशति यत् किञ्चित् तच्च कार्य त्वया सदा। गङ्गासन्नश्मशानेशः कालदण्डाभिधोऽस्म्यहम् ॥ ८२५ ॥ इति श्रुत्वा नृपः स्माह तं त्वदाज्ञाकृदस्म्यहम् । यदत्र मां प्रति स्यात् तद् दातव्यं मुनये खलु ॥ ८२६ ॥ अपवार्य मुनिः प्रोचे नमस्ते सत्त्वशालिने । नमस्ते सत्यसन्धाय नमस्ते धैर्यसद्मने ॥ ८२७ ॥ कालदण्डोऽपि तद्वाचं प्रपन्नः साक्षिणं मुनिम् । कृत्वा सह नृपेणासौ श्मशानमगमद् निजम् ।। ८२८ ॥ इतश्च पुर्यामेतस्यामकस्मादपि देहिनाम् । जीवितव्यं हरन् मृत्युरुपतस्थे खलो यथा ॥ ८२९ ।। ततश्च परितः प्रोबदाक्रन्दध्वनिभिर्जितः । १ भागिन्यर्थे द्वितीया । Page #231 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । २१९ निलीयाsस्थादिव कापि नगरे मङ्गलध्वनिः ॥ ८३० ॥ मृत्योर्भीता जना रक्षां विदधत्यात्मनो यथा । तथा प्रेरितवन्मृत्युस्तान् गृह्णाति सहस्रशः ।। ८३१ ॥ श्रुत्वाऽथ दुःसहलोकाssक्रन्दं मरणजं पुरे । आहृत् सत्यवसुं भूपो मन्त्रिणं चन्द्रशेखरः ||८३२ ॥ राजादेशात् समायान्तं मन्त्रिणं कोऽपि पूरुषः । अन्तरा मिलितोऽनंसीत् कीरपञ्जरपाणिकः || ८३३॥ कलहंस ! त्वया कीरो लब्धोऽयं केति मन्त्रिणा । पृष्टे स प्राह चम्पाया बने देवैनमाप्नुवम् १ ||८३४|| चन्द्रशेखर भूपाय सदाप्रियविपश्चिते । सर्वशास्त्र नदीष्णत्वादिहाऽऽनैषं शुकोत्तमम् ||८३५॥ इति तद्वचनं शृण्वंस्तेनैव सह मन्त्रिराट् । ययापनृपं नत्वा यथास्थानमुपाविशत् ।। ८३६ ॥ सखेदं प्राह भूपालो मन्त्रिन् ! पश्य पुरीजनः । संकोचितायुर्दैवेन याति वातेन दीपवत् ।। ८३७ ।। न वयं दुर्नया नाऽपि श्लथधर्मः पुरीजनः । नृणामकालमृत्युश्च तदन्वेषय कारणम् || ८३८ || ततश्च कुट्टिनी काचित् पुत्रमरणविह्वला । उरस्ताडं समागत्य साक्षेपं नृपमब्रवीत् ।। ८३९ ॥ सदैवाऽन्यायकारी त्वं सदा पीडयसि प्रजाः । सदाऽपि पापनिष्ठोऽसि तेनाऽयं म्रियते जनः ॥ ८४० ॥ मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी । प्रक्रीड्य सुखशय्यायां सुप्ताऽकस्माद् मृताऽस्ति हा ! ॥ ८४१ ॥ अहो ! कर्कशता ह्यस्या अहो ! निर्लज्जता गिराम् । इति ध्यायन्नृपेणोक्ते मन्त्री किं क्रियतामिति १ ॥ ८४२ || मन्त्र्याह स्वामिन्नत्रार्थे प्रगल्भन्ते हि मान्त्रिकाः । राजा महाऽऽगतोऽस्ती होज्जयिन्या मान्त्रिको महान् ॥ ८४३ ॥ Page #232 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते तत आकार्यतामेष इत्युक्तो मन्त्रिणा नृपः । आजूहवत् तदैवैनं सोऽप्यागत्य समाविशत् ।। ८४४ ॥ राजोचे मान्त्रिकं किं नः पुर्या मारिविजृम्भितम् ? | सोऽप्याह नाटयन् ध्यानं राक्षसीललितं हृदः ॥ ८४५ ॥ वृद्धवेश्याऽऽह साऽऽश्वासं पुत्रिका मम मान्त्रिक ! | मृताधुनैव, स प्राह जीवयिष्यामि तां खलु ॥ ८४६ ॥ सा वस्त्राञ्चलमादाय भ्रमयित्वा शिरस्यधात् । मदाशिषः प्रभावेन चिरं त्वं जीव मान्त्रिक ! ॥ ८४७ ॥ ततो दासी समागत्य कुट्टिन्यै समचीकथत् । मातस्त्वं वर्धसे दिष्ट्या यतो जीवति मे खसा ॥। ८४८ ॥ ततः प्रत्ययतो राजा सादरं प्राह मान्त्रिकम् । आनेतुं प्रभवस्येनां राक्षसीमथ सोऽब्रवीत् ||८४९ ॥ किमेवं कथ्यते देव ! मन्त्रेणाऽऽकृष्य वासुकिम् । पातालाद्, वासवं स्वर्गाद्, अन्धेर्लङ्कामिहानये ।। ८५० ।। यद्यस्ति कौतुकं तत्त्वं सामग्रीमुपाकय । माष- सर्षप २२० -लवणान्युत्खङ्गानष्ट पूरुषान् ।। ८५१ ॥ क्षणात् तथाकृते राज्ञा मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ किञ्चिद् ध्यानमनाटयत् ॥ ८५२ ॥ दिक्पालाद्दानमर्चानां मन्त्रानुच्चैरथोच्चरन् । मन्त्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ॥ ८५३ ॥ आयान्ती साऽनुगान् प्राह रे ! ग्रासः कचिदीक्ष्यताम् । येनाऽस्मि सुचिराद् वाढं क्षामकुक्षिर्बुभुक्षया || ८५४ ॥ मण्डले मन्त्रशक्त्याथ सनिर्घातं पपात सा । सर्वेऽविभयुस्तस्या बिडाल्या इव मूषिकाः ।। ८५५ ।। सविस्मयं नृपः प्राह मन्त्रोत्कर्षावधिस्त्वयम् | य एनां राक्षसी मन्त्रैरानैषीत् पश्यतां हि नः ॥ ८५६ ॥ मान्त्रिकः माह कर्तव्यमस्माभिः कृतमेव हि । . Page #233 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। २२१ उचितं यत् कुरु त्वं तन्निग्रहे त्वमसि प्रभुः ॥८५७॥ साक्षेपमादिशद् राजा मन्त्रिन् ! श्वपचमाह्वय । कलहंसं तमाहातुमादिक्षत् सचिवस्ततः ॥ ८५८ ॥ कलहंसोऽपि तत्रैव विमुच्य शुकपञ्जरम् । जगामाऽथ नृपोऽवादीद् मन्त्रिन् ! किं न्वस्ति पञ्जरे ? ८५९॥ मन्त्रिणांचे महाराज ! शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानमित्युक्तश्च शुकोऽपठत् ॥ ८६०॥ सद्धर्म ! जय काशीन्द्र ! यस्याऽऽकृष्टा गुणैभृशम् । नयन्ति मार्गणा लक्ष्मीमेकेऽन्ये त्वानयन्ति ताम् ।।८६१॥ राज्ञा किं पठितोऽसीति पृष्टोऽसावाख्यदात्मनः । तर्क-लक्षण-साहित्य-गणित-स्मृतिकौशलम् ॥ ८६२ ॥ मान्त्रिकः प्राह भो राजन् ! राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत् कोऽयं विलम्बोऽस्या विनिग्रहे ? ॥८६३॥ ततश्चागात् सचण्डालो हरिश्चन्द्रसमन्वितः । हरिश्चन्द्रं शुको दृष्ट्वाऽभूदुत्फुल्लाक्षमानसः ॥ ८६४ ॥ प्राह च स्वस्ति ते नाथ ! भरतान्वयभूपते ! । हरिश्चन्द्र ! नमद्भूपपौलिरत्नाङ्कितक्रम ! ॥ ८६५ ।। सरोषं प्राह राजाऽपि किमबद्धं प्रभाषसे । क साकेतपतियंत्र कीर ! त्वं विह्वलोऽसि किम् ? ॥८६६।। अथाह श्वपचं मन्त्री कुर्वऽनाच्छादनामिमाम् ।। तेनाऽपि हरिरादिष्टस्तां कृत्वाऽनवगुण्ठनाम् ।। ८६७ ।। प्रत्यभ्यज्ञासीत् किं नाम सुतारा देव्यसौ हहा ! ?। किमेतेन हि दैवेन हन्तव्या वयमेव हा !? ॥ ८६८ ॥ नास्मिन् कर्मणि देव्येषा करणं स्यात् कथञ्चन । किन्तु मे कोऽपि दुष्कर्मप्रेरितः कुरुते ह्यदः ॥८६९।। प्रविश्याऽग्नि ततो देव्या दोषमुत्सारयाम्यहम् । अथवाऽरिसभायां मे नात्मा योग्यः प्रकाशितुम् ।।८७०॥ Page #234 -------------------------------------------------------------------------- ________________ २२२ श्रीपार्श्वनाथचरितेमुनिभ्यः पृथिवी दत्ता विक्रीता ससुता प्रिया । यत् करिष्यति दैवं तद् हरिश्चन्द्रः सहिष्यते ॥८७१॥ दृष्ट्वा तां बाहानेपथ्यैरदूषितवपुलताम् । मन्त्रिणे पृथिवीनाथः स्ववितर्क न्यवेदयत् ।।८७२॥ चन्द्रकान्तं मुखं यस्याः सुवर्ण वपुरेव हि । पद्मरागौ करावेव किमस्या मण्डनान्तरैः ? ॥८७३॥ उपलक्ष्य शुकोऽथैनां ननाम नतमस्तकः । उशीनरसुते ! देवि ! सुतारे ! स्वस्ति ते सति ! ॥८७४॥ राज्ञोचे किं मुहुः कीर ! प्रलपस्येवमुच्चकैः । क सातोशीनरसुता किं त्वं कीरोऽसि मद्यपः १ ॥८७५॥ सावष्टम्भं शुकः प्राह हरिश्चन्द्रनृपो ह्ययम् ।। अस्य पत्नीयमित्यर्थोऽन्यथा स्यात् प्रलयेऽपि न ॥८७६।। राज्ञा पृष्टो हरिब्रूते हरिश्चन्द्रो नृपोऽस्मि न । किन्त्वहं श्वपचस्याऽस्य द्रव्यत्रीतोऽस्मि कर्मकृत् ॥८७७॥ राज्ञा पृष्टाऽङ्गना प्राह न सुताराऽस्मि राज्यहम् । किन्तु द्विजन्मनो वज्रहृदयाख्यस्य दासिका ।। ८७८ ॥ अरे ! विप्लावयस्यस्मानित्युक्ते भूभुजा शुकः। प्राह किं खं हरिश्चन्द्रः प्रकाशयति ते पुरः? ॥ ८७९ ॥ यतःसतो वाऽप्यसतो वाऽपि वान् स्वयं कीर्तयन् गुणान् । ब्रह्मापि हास्यतां याति किं पुनः प्राकृतो जनः १ ॥८८०॥ हरिं प्रत्याह राजा भो मा भैषीः सत्यमुच्यताम् । ननु यद्यप्यहं वैरी त्राताऽऽपदि तथाऽपि ते ॥ ८८१ ॥ हरिश्चन्द्रोऽब्रवीद् देव ! वचसा पक्षिणोऽस्य किम् । पुनरायस्यते स्वं, यद् दासोऽस्याऽस्मीत्यवोचत ? ॥८८२॥ रूप-लावण्य-धैर्यादिगुणविस्मितचेतसा । राज्ञा पृष्टा पुनर्नारी तदेवोत्तरमाख्यत ॥ ८८३ ॥ Page #235 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । २२३ मन्त्री प्राहाऽऽकृतावस्यां राक्षसी कर्म किं भवेत् । ततो विचार्य कर्तव्यं स्वामिना यद्यथोचितम् ॥ ८८४ ।। पृष्टश्च श्वपचो राज्ञा प्राहाऽयं मम कर्मकृत् । इति निश्चित्य राजाऽमुं रासभानयनेऽब्रवीत् ।। ८८५ ॥ तेनाऽप्युक्तो हरिश्चन्द्रस्तत्र रासभमानयत् । शक्तोऽपीष्टोऽपि किं कुर्यानरः परवशः खलु ?॥ ८८६ ॥ विचार्य कार्यमाचर्यमिनि मन्त्रि-शुकादिभिः। वार्यमाणोऽपि तां राजा खरमारोपयद् द्रुतम् ।। ८८७ ॥ अहो ! अक्षत्रमक्षत्रमित्याक्रन्दन् शुकोऽब्रवीत् । राजन् ! विज्ञापनामेकां शृणु नीत्यनुयायिनीम् ।। ८८८ ॥ राज्ञोचे ब्रूहि रे ! स्वैरं कीरः प्रोवाच यद्यसौ । सुतारा राक्षप्ती स्यात् तद् विशाम्यग्नि पुरस्तव ॥८८९॥ सदैन्यं प्राह सर्वोऽपि समालोकः शुकस्य गीः। अस्तु प्रमाणमामेति राज्ञाऽप्यूचेऽनुरोधतः ॥ ८९० ॥ सोत्साहं प्राह कीरोऽपि मन्त्रिन् ! कारय तच्चिताम् । तथा तेन कृते कीरः स्नात्वाऽगच्छचितां प्रतिम् ।। ८९१ ॥ ततो दिग्नायकानाह यद्येषा राक्षसान्वया । भवेद् नृपसुता तन्मां प्रदहत्वाशु हव्यवाद् ॥ ८९२ ॥ इत्युक्त्वा पश्यवामेव तेषां गतभयः शुकः। झम्पामदाच्च विध्यातोऽग्निश्चास्थादक्षतः शुकः ॥ ८९३ ॥ आश्चर्यमिदमाश्चर्यमित्यूचाना जनाः स्फुटम् । सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् ॥ ८९४ ॥ मन्त्र्यूचे नाथ ! मन्येऽहं मान्त्रिकस्य विजृम्भितम् तत् केनाऽप्यपदेशेन मान्त्रिकोऽयं विसृज्यताम् ।। ८९५ ।। तथेमां रासभादाशु समुत्तारय सम्पति । इत्युक्तो मन्त्रिणा भूपः सविस्मयमदोऽवदत् ॥ ८९६ ॥ किं कुर्मः किमु जानीमः कस्येदं कैतवं महत् । Page #236 -------------------------------------------------------------------------- ________________ २२४ श्रीपार्श्वनाथचरितेसंदिग्धेऽर्थे किलैतस्मिन् विचारं कुर्महे च किम् ?॥८९७।। इति विकल्प-कोपाभ्यां संश्लिष्टो नृपतिः स्वयम् । व्यसृजद् मान्त्रिकं, कीरं पञ्जरेऽथ न्यधापयत् ।। ८९८ ॥ उदतारयदेनां च रासभाद् वनितां ततः । इति सर्व विसृज्याऽथ नृपः पल्यङ्कमासदत् ॥ ८९९ ॥ हरिश्चन्द्रोऽपि सूर्यास्ते चण्डालस्य नियोगतः । व्रजन् श्मशानं दध्यौ भोः ! कीटग् दुर्दैवनाटकम् ॥९००॥ देव्याः कर्मकरीत्वेन स्थिताया विप्रसद्मनि । राक्षसीवचनं कीरो दैवदत्तं न्यवर्तयत् ॥ ९०१ ॥ दैवमेव ततो मन्ये बलवन्नापरः पुनः यत् तेन विहिता ह्यापत् तेनैव हि निवर्त्यते ॥ ९०२ ॥ तमस्यसूचीभेद्येऽपि प्रविशनिर्भयो हरिः। ददर्श भीषणाकारं श्मशानं निशि सर्वतः ॥ ९०३।। कचित् फेरण्डफेत्कारं कचिद् राक्षसडम्बरम् । कचिद् विभीषिकोद्योतं कचित् कौशिकवासितम् ।।९०४॥ कचित् प्रेतपरित्रस्तशबसंस्कारकृज्जनम् । कचिच्च डाकिनीमुच्यमानोत्किलकिलारवम् ॥ ९०५ ।। कचित् कापालिकैह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपूरितनासिकम् ॥ ९०६ ॥ उपर्युपरि पर्यस्तमुण्डतुण्डस्खलद्गमम् । इतस्ततः श्मशानं स पश्यन् शुश्राव दुर्ध्वनिम् ।। ९०७ ॥ अहो ! आतध्वनिः सैषा मृतपत्याः स्त्रियाः खलु । रुदती वारयाम्येनामित्यगात् तत्पुरो नृपः ॥ ९०८ ॥ उवाच च शुभे ! किं ते कारणं परिदेवने ? । साऽऽह पश्याग्रतो गत्वा न्यग्रोधे कारणं मम ॥ ९०९॥ १ फेरण्डाः शृगालाः । Page #237 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। २२५ हरिर्गत्वा ततोऽपश्यत् पुमांस पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं वटशाखानियन्त्रितम् ॥ ९१० ॥ सोढाऽहं पुरुषः कान्ते ! त्वं पुनर्भाविनी कथम् ? । तत्पलापमिति श्रुत्वा दध्यौ राजाऽस्य सा प्रिया ॥९११॥ अस्योपकारं कुर्वे यद् दत्ता भूर्मुनये मया । मुनिकन्याधनोपाये विक्रीतौ दयिता-सुतौ ॥ ९१२ ॥ जीवितस्याऽस्य निर्विण्णः स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थ चेद् यामि तत् किं नातं फलं मया ? ॥९१३।। इति ध्यात्वा हरिः प्रोचे तमुद्धं नरं मृदु । अहो ! कस्त्वं कथं चेयमवस्था ते सुदुःसहा? ॥९१४॥ जानन्नस्मीति यद् वक्तुमुद्बद्धन न शक्यते । परं त्वदाकृतिः पुण्या प्रयुङ्क्ते प्रष्टुमत्र माम् ॥ ९१५ ॥ तदाख्याहि न शक्तोऽस्मि द्रष्टुं ते दुस्सहां दशाम् । इति तत् प्रणयं दृष्ट्वा प्रोवाचोद्धपूरुषः ॥ ९१६ ॥ नाहमेतां दशां दीनां कस्यापि हि निवेदये । तच्छ्रोता वेत्ति किं मत्तो यत् परित्राणमीहते ? ॥९१७॥ परन्त्वन्यभवस्नेहानुबन्धादथवोत्तमात् । उपकारपरत्वात् ते पृच्छते कथयामि भोः ! ॥ ९१८ ।। महासेनोऽस्मि काशीन्द्रचन्द्रशेखरनन्दनः । विद्याधर्यास्त्र पल्यङ्कादानीतः प्रियया युतः ॥९१९॥ किमर्थमिति तेनोक्ते नरः प्राहाऽत्र सम्प्रति । मन्मांसेन महाहोमं सा करिष्यति खेचरी ॥९२०॥ क गता साधुना विद्याधरीति हरिणोदिते । स्नातुं गङ्गां नदीं व्योम्ना जगामेत्यवदद् नरः ॥९२१॥ ततो दध्यौ नृपो हर्षाद् गत्वरैश्चन्ममाङ्गकैः। विद्याधर्या भवेत् सिद्धिर्जीवितं चाऽस्य चारु तत् ॥९२२॥ १ चतुर्थ्यन्तम् । २९ Page #238 -------------------------------------------------------------------------- ________________ २२६ श्रीपार्श्वनाथचरितेतमुवाच हरिश्चन्द्रः प्रार्थये त्वां किमप्यहो !। स पाहैवंविधावस्थं किं त्वं प्रार्थयसेऽत्र माम् ? ॥९२३॥ राज्ञोचे यदलं दातुं प्रार्थ्यसे त्वं तदेव हि । स प्राह तर्हि याचस्व यदभीष्टं नरोत्तम ! ॥ ९२४॥ हरिः प्राह प्रयाहि त्वं खं राज्यं स्वीकुरु क्षणात् । यत् कार्य तत् करिष्यामि विद्याधर्याः स्ववर्मणा ॥९२५॥ पुरुषः प्राह किं ब्रूषे नात्मनीनमिदं खलु । अधमः कः स्वयं स्वार्थे परप्राणान् व्ययिष्यते ? ॥९२६॥ किञ्च खं मे यथाभीष्टं यथा मे मृत्युभीरुता । यथैषा दयिता मेऽस्ति तवाऽप्येवं तथाऽस्ति भोः!॥९२७॥ तद् याहि त्वमतः स्थानादधुनष्यति खेचरी । तेनेत्युक्ते हरिश्चन्द्रः सदैन्यमिव तं जगौ ॥ ९२८॥ मा मा मे प्रार्थनां व्यर्थी कुरुष्व पुरुषोत्तम ! । खेनाऽप्यहं महाकष्टान्मर्तुकामोऽस्मि तद् यदि ॥ ९२९ ॥ त्वादृशस्योपकृत्याऽथ म्रिये स्यां सफलस्तदा । उपकारः परो धर्म इत्याख्यान्ति बहुश्रुताः ॥ ९३० ॥ न जातौ न जनिष्येते द्वाविमौ पुरुषौ भुवि । अर्थितो यः करोत्येव यश्च नार्थयते परम् ॥९३१॥ इत्येवं बहुशोऽभ्यर्थ्य स्वयमुन्मोच्य बन्धनात् । याहीति प्रेषितस्तेन स जगाम प्रियायुतः ॥ ९३२ ॥ नूपुरकाण-कल्पद्रुपुष्पस्रक्सौरभादिभिः । ज्ञात्वा विद्याधरी आरादायान्तीं नृपतिः क्षणात् ॥९३२॥ बद्ध्वा न्यग्रोधशाखायां स आत्मानमधोमुखम् । गतमृत्युभयं तस्थौ रोमाञ्चकवचाञ्चितः ॥ ९३४ ॥ ततो विद्याधरी व्योम्नोऽवतताराऽऽर्द्रचीवरा । अग्निकुण्डत्रये वह्निमुज्ज्वलं समाचस्करत् ॥ ९३५ ॥ १ आत्मने हितमात्मनीनम् , तन्न । Page #239 -------------------------------------------------------------------------- ________________ २२७ तृतीयः सर्गः। सज्जीकृत्य च पूजादि विद्यार्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व किंलक्षणधरो नरः ॥९३६ ॥ चित्राङ्गदोऽप्युपागत्य हरिश्चन्द्राङ्गलक्षणम् । वीक्ष्योचे देवि ! मोदख येनाऽयं चक्रिलक्षणः ॥९३७॥ हुत्वा कुण्डत्रये मांसमस्य प्रान्ताहुतीकृते । शीर्षे विश्ववशीकारविद्याऽऽविभविता स्वयम् ॥ ९३८ ॥ इत्यूचाना मुदोत्थायाऽऽनर्च सर्वाङ्गमप्यमुम् । ऊचे च स्मर किञ्चित् त्वं देवं यत्रासि भक्तिमान् ।।९३९॥ भवेश्च सात्त्विको येन, विद्या सिध्यति मेऽधुना । यत् त्वन्मांसहुतैः सा स्यात् प्रीता च वरदा च मे ॥९४०॥ हरिश्चन्द्रस्ततोऽवादीद् ध्वस्तसंसारवैशसम् । स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ॥ ९४१ ॥ इदानीं मा विलम्बस्व होमः स्याद् बहुविघ्नभूः । स्वेनैवोत्कृत्य मांसं स्वं यच्छाम्येष गृहाण तत् ॥९४२॥ सा प्राह सिद्धिमन्त्रस्य जातैवं त्वं यदुत्तमः । मत्तोऽप्युत्साहवानीदृक् समवायो हि पुण्यतः ॥९४३॥ ततः प्रवृत्ता कुण्डेषु ज्वलज्ज्वालाऽऽकुलेषु सा। हरिश्चन्द्रार्पितं मांसं प्रक्षेप्तुं मन्त्रपूर्वकम् ।। ९४४ ॥ ऊचे च परितः खड्गहस्तान् विद्याधरोत्तमान् । मा दत्तात्र प्रवेशं भोः ! श्वापदस्य नरस्य वा ॥९४५।। कियत्यपि कृते होमेऽभूदाविर्देवतामुखम् । मध्यकुण्डात् ततो जातो सोत्साहौ तावुभौ मुदा ॥९४६।। अथ गोमायुरटितं कुण्डानि परितोऽभवत् । विषादात ततो विद्याध£चेऽयं निवर्त्यताम् ।।९४७॥ यद्यस्य घोरफेत्कारैर्निद्रां त्यक्ष्यति तापसः । होमध्वंसं तदागत्य स करिष्यति निश्चितम् ॥९४८॥ १ आकृष्य, इत्यपि। Page #240 -------------------------------------------------------------------------- ________________ २२८ श्रीपार्श्वनाथचरितेसर्वैः स नाश्यमानोऽपि प्रत्युताऽऽगात् समीपगः । जजागार ततश्चाऽऽरादाश्रमे तापसः क्षणात् ।।९४९।। किञ्चित् किश्चित् ततो विद्यामुखं नीचैर्ममज्ज च । खेचर्युवाचाऽपर्याप्तहोमा हा ! हा ! हतास्म्यहम् ॥९५०॥ सावष्टम्भं हरिः प्राह मा विषाद गृहाण मे । छित्त्वा शिरोऽपि पर्यन्ताहुतिहोमं समापय ॥९५१॥ ऊचे विद्याधरी होमः क्रमात् स्यान्ननु नाऽक्रमात् । क्रमं च क्षमते नैष तापसः क्रोधमावहन् ।।९५२।। अरे ! किमिदमारब्धमस्मदाश्रमभूमिषु । इत्याक्रोशन् विवेशोचैरुद्धतस्तत्र तापसः ॥ ९५३ ॥ ममज्ज तन्मुखं देव्या मध्येकुण्डानि सत्वरम् । भीता विद्याधरी साऽथ काऽप्यगात् सपरिच्छदा।।९५४॥ ततः क्रोधात् परिभ्राम्यन् तापसस्तत्र जग्मिवान् । यत्राऽऽस्ते कृत्तसाङ्गः शाखाबद्धो हरिः श्वसन् ॥ ९५५॥ क्षणेन तापसः किञ्चिदुपलक्ष्याऽऽह विस्मयात् । अरे ! भवान् हरिश्चन्द्रः सोऽप्याख्यदोमिति स्फुटम् ।।९५६॥ तमाह तापसः क्रुद्धः स्वर्ण कुलपतरदाः ? । नृपः प्राह दिनैः कैश्चित् प्रभो ! पूर्णीभविष्यति ॥९५७।। उपलक्षयास त्वं मे प्रोक्तस्तेन नृपोऽवदत् । कौटिल्यस्त्वं महीदाने साक्षी कुलपतेरसि ।। ९५८ ॥ अरे ! कुलपतेः स्वर्णमनापूर्येति किं त्वया । आरब्धमित्यूचानेऽस्मिन् राड् हियाऽधोमुखोऽभवत् ९५९॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति । औषध्या व्रणरोहिण्या स्वेनालिम्पत् स तद्वपुः ॥९६०॥ अभूच तत्क्षणादेवाऽऽरूढवणवपुर्नृपः । ययौ च तापसः स्थाने खे दथ्यौ हरिरप्यथ ॥९६१॥ १ आकोशान् ददावु-। Page #241 -------------------------------------------------------------------------- ________________ २२९ तृतीयः सर्गः। नाऽपूर्ण मे भवत् किञ्चित् सर्वस्वं ददतो मुनेः । विद्याधर्या न यत् सिद्धिः संजाता तद् दुनोति माम् ।।९६२॥ अरे ! क त्वं गतोऽसीति प्राऽऽहूतः श्वपचेन सः ? । उपमृत्याह कर्तव्यं मम स्वामिन् ! समादिश ॥ ९६३ ॥ स पाहैष मृतः कोऽपि समायाति, ततो भवान् । वस्त्रं गृह्णातु गत्वेति प्रेरितोऽगाद् नृपस्ततः ॥ ९६४ ॥ अशृणोच्छब्दमेकस्याः करुणात सुतव्ययात् । हा! पुत्र ! क गतोऽसोति मूर्च्छन्त्याश्चमुहुः स्त्रियाः॥९६५॥ अहो ! दैवेन निर्मुक्तकरुणेन किलाऽङ्गलम् । व्यापादयता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता ॥९६६॥ अहो ! असारः संसारो मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत् तु ग्राहयत्येव यो यमात् ॥९६७।। कथं चाऽहं ग्रहीष्यामि बालस्योर्ध्वात् किलाम्बरम् ?। इति मन्दपदः प्रोक्तः श्वपचेनाशु गच्छ रे ! ॥ ९६८ ॥ सभयं परिचक्राम हरिश्चन्द्रः सुतं स्मरन् । न शुध्येद् यदि देवी मे तदा वत्सो म्रियेत सः।।९६९ ॥ ततः शुश्राव करुणं रुदती वनितामिति । निर्भाग्यशेखराया मे मृतो वत्सो हतास्मि हा ! ॥९७०॥ वत्सो मृत इमां वाचं प्रतिघ्नन् मङ्गलोक्तिभिः ।। वामाक्षिस्पन्दनेनाऽथ बभूवाऽऽशङ्किमानसः ॥९७१॥ सर्वस्वं मुनये दत्तं विक्रीतौ दयिता-सुतौ । चण्डालकर्मकर्ताऽहं किं मे वा भाव्यतः परम् ? ॥९७२॥ इति चिन्तातुरो यावद् मार्गे याति नृपस्ततः । चाण्डालपतिना प्रोक्तो व्याघुट्येति व्यजिज्ञपत् ।।९७३॥ आगतोऽस्ति मृतो बाल इति वस्त्राऽऽहृतौ त्रपा। स प्राह का पाऽस्माकमाचारोऽयं गृहाण तत् ॥९७४॥ निवृत्याऽथ हरिर्दध्यौ धिग लोभं यदशाज्जनः । Page #242 -------------------------------------------------------------------------- ________________ २३० श्रीपार्श्वनाथचरितेवेत्ति कृत्यमकृत्यं वा नैव दैवहतो हहा ! ॥ ९७५ ॥ यदादिशति मे स्वामी तत् कर्तव्यं मया खलु । विचारो युज्यते नैव स्वाम्यादिष्टेऽनुजीविनाम् ॥ ९७६ ॥ स गच्छन्निति शुश्राव स्त्रीविलापं तमुच्चकैः । हा ! हा ! पुत्र ! त्वमेको मे तन्मे मृत्युस्त्वया सह ।।९७७॥ त्वं ममैवासि कुपितो रे ! दैव ! यत् पतिर्मम । बभूव कर्मकृन्नीचगेहेऽहमपि तादृशी ।। ९७८ ।। परमस्य स्वपुत्रस्य भरतान्वयशालिनः।। आलम्बने न जीवन्त्या भविता काऽद्य मे गतिः ? ॥९७९॥ हरिश्चन्द्रोऽपि विज्ञाय सुतारां त्वरितो वजन् । मुश्चन्नपूण्यथोऽवादीद् निन्दन्नात्मानमात्मना ।। ९८० ॥ निर्भाग्यशेखरे ! देवि ! वज्रघातः क एष नौ ? । वनिता वीक्ष्य भर्तारं तारं तारं रुरोद सा ।।९८१ ।। हरिश्चन्द्रोऽप्यरोदीच्च धैर्य कस्य सुतव्यये ? । रोहिताश्वं हरिर्मोहादाश्लिष्यत् किल पूर्ववत् ॥ ९८२ ॥ सुतारां प्राह देवि ! त्वं कि रोदिषि तथा कथम् ? । वत्सो मां भाषते नैव भवत्या रोषितः किमु ? ॥ ९८३ ॥ किं त्वया मोदको नास्मै दत्तः, किं परिधापितः । नाऽद्य रत्नाङ्कितं हारं किं हस्ती नाऽर्पितो मया ? ॥९८४॥ क्षमस्व वत्सलो हि त्वं स्वेच्छया यत् तु रोचते। इति स्वं सान्त्वयन् पुत्रं देव्याऽसौ परिदेवितः ॥९८५।। किं न पश्यसि मूढ ! त्वं गतासुं तनयं निजम् । गतासुश्च कथं पश्येदाश्लिष्येन्निगदेदथ ? ॥ ९८६ ॥ किमारब्धं त्वया सार्धं नार्या किं नैषि सत्वरम् ? । इत्युक्तः श्वपचेनाऽसौ भयाच्चैतन्यमासदत् ।। ९८७ ॥ अज्ञासीच्च मृतं पुत्र चेष्टयाऽथाश्रुलोचनः । १ आवयोः । Page #243 -------------------------------------------------------------------------- ________________ ... तृतीयः सर्गः। २३१ सुतारां पुत्रवृत्तान्तमप्राक्षीत् साऽप्यचीकथत् ।। ९८८ । अद्याऽयं प्रातरेवाऽगाः समित्-पुष्पकृते वने । . विप्रेण प्रेषितो मन्दभाग्यो दष्टोऽहिना प्रिय ! ॥९८९॥ विनाऽऽत्मीयान्न कोऽप्यस्य विषस्योत्तारणं व्यधात् । विना वन्धुं जगच्छून्यं जीवो धर्म विना यथा ॥ ९९० ॥ हरिश्चन्द्रस्ततो दध्यौ धिग् मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ।। ९९१ ॥ प्रवासोरिपुरीवासो नीचदास्यं सुतव्ययम् । हरिश्चन्द्रोऽखिलं सोढा देवी त्वेकसुता हता ॥ ९९२ ॥ किश्च मे वेक्ष्यतो हस्तौ पुत्रवस्त्राहृतौ कथम् ? । स्वाम्यादेशमकर्तुं च नैवौजस्वि मनो मम ॥ ९९३ ॥ अथवा पुत्रमृत्यौ को मे विचारो यदस्म्यहम् । श्वपचाधीनदेहस्तत् स यद् ब्रूते करोमि तत् ॥ ९९४ ॥ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलङ्कितः । सत्त्वैकतानवृत्तीनां नाऽपत्याद्यानुरागिता ॥ ९९५ ॥ व्यापन्नस्य सुतस्याऽस्य न गृह्णाम्यम्बरं यदि । निर्वाहयामि नो सन्धां लज्जते तरणिस्तदा ॥ ९९६ ॥ इति सत्त्वानिलोडूताऽपत्यबन्धः स सात्त्विकः । भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा ।। ९९७ ॥ अर्पयाऽऽच्छादनमिति संज्ञया प्रतिपादयन् । . हस्तं प्रसारयामास हरिश्चन्द्रः प्रियां प्रति ॥ ९९८ ॥ सुताराऽपि च तदभिप्रायं स्फुटमजानती। उच्चिक्षेप करे दातुं रोहिताश्वं मुहुर्मुहुः ॥ ९९९ ॥ अगृह्णति हरिश्चन्द्रे पुत्रं साऽऽह ब्रवीषि किम् ? । न जानामि तवैतां हि संज्ञां ब्रूहि ततः स्फुटम् ॥१०००॥ धैर्यसंदंशकाकृष्टवचनः सात्त्विकोऽवदत् । १ आकर्षणसाधनम् । Page #244 -------------------------------------------------------------------------- ________________ २३२ श्रीपार्श्वनाथचरितेदेवि ! तिष्ठतु वत्सोऽयं वत्साऽऽच्छादनमर्पय ॥ १००१॥ यावदेवं हरिश्चन्द्रो वदत्यात्मप्रियां प्रति । तावत् तस्य शिरस्याशु पुष्पवृष्टिरभूद् दिवः ॥ १००२ ॥ अहो ! सत्त्वमहो ! धैर्य हरिश्चन्द्रमहीपतेः । एवमुद्घोषणापूर्व दुन्दुभिध्वनिरत्यभूत् ॥ १००३ ॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कृतमहासिंहासनं स्वसदसि स्थितम् ॥ १००४ ॥ रोहिताश्वमपश्यच क्रोडे क्रीडन्तमात्मनः । अश्रान्तकान्तिरत्नाङ्कहारस्फारश्रियं मुदा ॥ १००५ ॥ वसुभूति महामात्यं कुन्तलाख्यं च सेवकम् । द्वावप्येतौ स्वस्वरूपौ पुरोऽद्राक्षीत् कृताञ्जली ।। १००६ ॥ यवनिकान्तरे चैव द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च सख्या शुश्राव भूपतिः॥ १००७॥ . पुरतश्च सुसङ्गीतरसनिर्मनचेतसाम् । नृपा-ऽमात्यप्रभृतीनामपश्यत् संसदं निजाम् ॥ १००८ ॥ प्रतिमन्दिरमैक्षिष्ट क्रियमाणं च नागरैः । नृत्यत्पुरन्ध्रिविश्राण्यमानदानमहोत्सवम् ॥१००९ ॥ प्रतीहारमुखप्राप्तान विजिज्ञपयिषून् जनान् । दरतो नमतः प्रेक्ष्य किमित्येतदचिन्तयत् ।। १०१० ॥ किं नु स्वप्नो मया दृष्टः किं वा मे मनसो भ्रमः । किं वा कस्यापि देवस्य चित्रमेतद् विजृम्भितम् ।।१०११॥ ततश्च प्रकटीभूय चन्द्रचूड-मणिप्रभौ । पुरः स्थित्वा सुरौ राज्ञः सहर्षमिदमूचतुः ॥१०१२ ॥ त्रिशङ्खनन्दन ! श्रीमदिक्ष्वाकुकुलमण्डन !। भरतान्वयभूपाल ! हरिश्चन्द्र ! चिरं जय ॥ १०१३ ॥ धन्यः सुग्राह्यनामा त्वं यस्य वास्तोष्पतिः स्वयम् ।। १ सम्पदम् , एवमपि । २ विज्ञपयितुमिच्छून् । ३ इन्द्रः । . Page #245 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। २३३ सत्त्वं स्तवीति मूर्धानं धुनानो द्युसदां पुरः ॥१०१४ ॥ यादृशः कथितो राजन्नचाल्यो गुसदामपि । शक्रेण, तागवाऽसि सात्त्विकेषु शिरोमणिः ॥ १०१५॥ माहात्म्येन तवैवेदं पुना राज्यं तथैव हि । अढौकत निजस्फीत्या निर्जिताऽमर-दानवम् ।। १०१६ ॥ वसुभूतिः स एवाऽयं मन्त्री मित्रं च ते नृप । शुकरूपः प्रविश्याजनौ यो देव्याः शुद्धिमातनोत् ॥१०१७॥ कुन्तलश्चैष ते सेवां करोति रचिताञ्जलिः। जम्बूकीभूय ते होमसङ्कटे यस्तदारटत् ।। १०१८॥ शूकरोदन्तमारभ्य यावदद्य नरेन्द्र ! यत् । अनुभूतं त्वया विद्धि तदस्मत्कूटनाटकम् ॥ १०१९ ॥ एतत् सर्वे भवत्सत्त्वपरीक्षारसिकैः खलु । अस्माभिर्विहितं तत् ते क्षन्तव्यं महतां गुरो ! ॥१०२०॥ चित्रं परोपकाराय मर्त्यत्वेऽपि भवादृशाम् । अवतारः परोत्तप्त्यै स्वर्गेऽप्यस्मादृशां पुनः ।। १०२१ ॥ किं वा कोऽपि गुणोऽस्माकमपि ते सत्त्वदीपनात् । सुवर्णस्य कथं रेखा कषपी विना भवेत् ? ॥ १०२२ ॥ तव सत्त्वेन सत्येन हरिश्चन्द्र ! महानृप । जलदो वर्षति स्फीतशस्या भूमुदितो जनः ॥ १०२३ ॥ स्वस्यैव सुकृतेनेदं राज्यमापि पुनस्त्वया । अस्मत्तः परितुष्टेभ्यः किञ्चिद् याचस्त्र साम्प्रतम् ॥१०२४॥ लज्जितस्त्रिदशोपज्ञवर्णनाकर्णनाद् नृपः । उवाच न कदाऽप्यस्मि शिक्षितो याचितुं परम् ॥ १०२५॥ किश्च सत्त्वं न मुक्तं खं सूर्यवंशो न लज्जितः । सत्यवाचः कृतश्चेन्द्रः किमतः परमर्थये ॥१०२६ ॥ पुनरप्यूचतुर्देवो नृप ! तन्वन् यशः सितम् । १ देवानाम् । २ उदन्तो वृत्तान्तः । ३ प्राप्तम् । Page #246 -------------------------------------------------------------------------- ________________ २३४ श्रीपार्श्वनाथचरिते दिव्यशक्तिः श्रियां पात्रं सदाऽऽनन्दमयो भव ॥ १०२७॥ . प्रभावमिति तो तत्र न्यस्य स्वास्पदमीयतुः । इन्द्रोऽपि परमां प्रीतिमवाप ससुरासुरः ॥ १०२८ ॥ राजाऽथ श्रीहरिश्चन्द्रस्तत्प्रभृति विशेषतः । दयालुर्जगदानन्दस्त्यक्तव्यसनकौतुकः ॥ १०२९ ॥ शक्रावतारतीर्थस्य सर्वज्ञस्य कृपानिधेः । श्रीकृषध्वजदेवस्य पर्युपास्तिपरायणः ॥१०३०॥ दिव्यशक्तिप्रभावेण गगनक्रीडनादिकम् । महर्द्धि दर्शयन् लोके पालयामास काश्यपीम् ॥ १०३१ ॥ (त्रिभिर्विशेषकम् ) विनयादिगुणा लोकेऽप्येवमद्भुतसिद्धये । लोकोत्तरे नु ते धर्मे न कथं मोक्षसिद्धये ? ॥ १०३२ ॥ जिनधर्मरथारूढैरतो मुक्ति यियासुभिः । विनयादिगुणा योज्याश्चत्वारोऽपि हया इव ॥१०३३ ॥ गुरुणा लौकिकैरेवं कृतो धर्मगुणास्तिकः । कुबेरः श्रद्धया नत्वाऽपृच्छल्लोकोत्तरान् गुणान् ॥१०३४ ॥ गुरुरप्याह भो भद्र ! त एव विनयादयः । स्युः सर्वज्ञोक्तमार्गेण नीता लोकोत्तरा गुणाः॥१०३५ ॥ तथाहि-. विनयः सुव्रताचारे गुरौ सद्धर्मदेशके । शुश्रुषा प्रणतिश्चाज्ञामाननं मृदुभाषणम् ॥ १०३६ ॥ विवेको देवपूजादौ मनो-वाक्-कायशोधनम् । सुसङ्गस्त्वेष यो धमित्रेण सह सङ्गमः ॥ १०३७ ॥ सुसत्त्वं च जिनाख्याततत्त्वश्रद्धाननिश्चयः । लोकोत्तरगुणैरेवं भवेल्लोकोत्तरं सुखम् ॥ १०३८ ॥ १ यातुमिच्छुभिः । Page #247 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। २३५ कुबेरः पुनरमाक्षील्लोकशास्त्रोन्मुखः कियत् । मत वो नियमाद् धर्मः स च शास्त्रेण योगिनाम् ॥१०३९॥ तथा चअत्याहारस्तथायासः प्रजल्पो नियमग्रहः । लोकसङ्गश्च दैन्यं च षड्भिर्योगी विवर्जितः ॥१०४०॥ मुनिरप्याख्यदस्तीदं किं तु बाल इवाऽङ्गुलिम् । धृत्वाऽऽदौ नियमं जीवोऽनालम्बोऽपि क्रमाञ्चरेत् ॥१०४१॥ किश्च ग्रन्थान्तरेऽप्युच्यते-- भूषितोऽपि चरेद् धर्म यत्र तत्राश्रमे रतः। समः सर्वेषु भूतेषु न लिङ्गं तत्र कारणम् ॥ १०४२ ॥ क्रिययैव भवेद् योगी न योगोच्चारमात्रतः । कतकस्याहयेनैव न हि वारि प्रसीदति ॥१०४३॥ हृष्टः प्राह कुरोऽपि प्रभो ! सुव्रतधारणात् । इत्थं धर्मोपदेशाच गुरुस्तावत् त्वमेव मे ॥ १०४४ ।। धर्ममित्रं कुमारोऽयं कथ्यतां किन्तु मेऽधुना । को देवः काऽस्य पूजा च किं तत्त्वं किं च तत्फलम् ? १०४५ गुरुः प्राह जिनो देवो रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञान-दर्शनः ॥ १०४६ ॥ सुरासुरेन्द्रसंपूज्यः सद्भूतार्थप्रकाशकः । कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ १०४७ ॥ स सम्यग् हृदये धार्यो वश्यमन्त्रः शिवश्रियः। पूजा च विविधा तस्य द्रव्य-भावविभेदतः ॥१०४८॥ द्रव्यपूजा जिनेन्द्रस्य गन्ध-पुष्पा-ऽक्षतादिभिः । तथा तबिम्बचैत्यादौ शुद्धद्रव्यनियोजनम् ॥१०४९।। भावपूजा तु सर्वज्ञैर्ऋतरूपा प्रकीर्तिता। देश-सर्वविरत्याख्या भेदतस्तत् पुनर्दिधा ॥ १०५० ॥ १ जलशुद्धिकृच्चूर्णम् । Page #248 -------------------------------------------------------------------------- ________________ २३६ श्रीपार्श्वनाथचरितेसत्र देशव्रतं जीवहिंसादीनां प्रदेशतः। निषेधेन सर्वथा तु स्यात् सर्वविरतिव्रतम् ॥ १०५१ ॥ जिनपूजा द्विधाऽपीत्थं तदाज्ञाराधनात् सताम् । फलदा स्याद् निजोत्कर्ष-परदोषपरित्यजाम् ॥ १०५२ ।। जीवाऽजीवौ तथा पुण्यं पापमाश्रर-संवरौ । बन्धो विनिर्जरा-मोक्षौ नव तत्त्वानि तन्मते ॥ १०५३ ॥ तत्र जीवः कर्मकर्ता भोक्ता कर्मफलस्य च । चैतन्यलक्षणस्तस्मादजीवो वैपरीत्यभाक् ॥ १०५४ ॥ सत्कर्मपुद्गलाः पुण्यं, पापं त्वेतद्विपर्ययः । आश्रवश्चित्त वाक्-कायव्यापारा बन्धहेतवः ॥ १०५५ ॥ संवरस्तनिरोधस्तु तथा जीवस्य कर्मणा । यः संबन्धस्तयोरैक्यकृत् स बन्धः प्रकीर्तितः ॥ १०५६ ॥ बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥ १०५७ ॥ एतानि नव तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥१०५८ ॥ तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञान-क्रियायोगाजायते मोक्षभाजनम् ।।१०५९॥ फलं च मोक्षस्त्रैलोक्योपर्यवस्थानलक्षणः । यत्र जीवस्य न जरा न मृत्युनं पुनश्च्यवः ॥ १०६० ॥ मनो-वचन-कायानामभावान्नाऽऽधिसंभवः । न विवादो न च व्याधिर्न चाऽऽवाधा परस्परम् ॥१०६१॥ गतपत यथा तुम्बं जले यात्युपरि स्वयम् । क्षीणकर्ममलो जीवस्तथा याति शिवालयम् ॥ १०६२ ॥ तत्राऽसौ परमानन्दरूपं नष्टाऽखिलक्रियः । स्वस्वरूपगतं शुद्धं शाश्वतं सुखमश्नुते ।। १०६३ ॥ १ विशरणम् । २ नाशः । Page #249 -------------------------------------------------------------------------- ________________ २३७ तृतीयः सर्गः। जीवस्य राजापुरुषैरिव रुद्धस्य कर्मभिः । तस्थुषो भवसौख्येऽपि विना मुक्तिं कुतः सुखम् ॥१०६४॥ इत्याराध्य वीतरागं भव्या आराधका मताः। आराधना तु तस्याऽऽज्ञा तत्फलं त्वपुनर्भवः ॥ १०६५ ॥ चिन्त्यं न चैवं यन्नैव वीतरागः प्रसीदति । प्रसादाभावतश्चाऽस्मात् कथं प्राप्यं फलं बुधैः ? ॥१०६६॥ ईदृग् माहात्म्यमेवाऽस्य येनाऽऽराधकसिद्धये । अचेतनोऽपि किं नात्र दत्ते चिन्तामणिः फलम् ? १०६७ इति तत्त्वोपदेशाख्याद् भिन्नजाड्यः सदौषधात् । लब्धाऽन्तरङ्गचैतन्यः प्रोन्मीलितहृदीक्षणः ॥१०६८ ॥ गृहिधर्म गुरुश्रद्धः कुबेरो गुरुसन्निधौ । गतरोग इवोत्पन्नक्षुधयाऽऽहारमग्रहीत् ॥ १०६९ ॥ (युग्मम् ) अथ नत्वा मुनि धाम सकुबेरः कुमारराट् । ययौ गुरुगुणग्रामहंसकलिसरोमनाः ॥ १०७० ॥ योग्यं ज्ञात्वाऽन्यदा तस्मै वज्रवीर्यनराधिपः । राज्यं दत्त्वा स्वयं पल्या सह व्रतमुपाददे ॥ १०७१ ॥ नृपः श्री वज्रनाभोऽपि महीं न्यायेन पालयन् । दिग्भ्यः श्रियः समानीय ताः कीर्त्या पर्यपूरयत् ।।१०७२॥ अभूच्च तनयस्तस्य विजयाकुक्षिसंभवः । गुणैरञ्चितभूपालचक्रश्चक्रायुधाभिधः ॥ १०७३ ।। अन्यदा सुस्थिते राज्ञः पयसीवाऽमले हृदि । उन्मिमील विचारः प्राग् यः श्रुतो भवगोचरः॥ १०७४ ॥ दध्यौ च स तटे स्थित्वा धिया भवमहोदधेः। अहो ! भवसमुद्रस्य वीचिभिः क्षिप्यते न कः ? ॥१०७५।। उत्पद्यन्ते विपद्यन्ते सर्ववस्तूनि वीचिवत् । तत्र किं गृह्यते किं च मुच्यते किं च गण्यते ? ॥१०७६॥ Page #250 -------------------------------------------------------------------------- ________________ २३८ श्री पार्श्वनाथचरिते अतः स्वभावेनैवाऽस्मिन्नुच्चैः कलकलायितम् | कुर्वाणे यदि कोऽपि स्वं बहिः कर्षत्यसौ कृती ॥ १०७७॥ तच्च चारित्रयानस्य विनाऽऽधारं न जायते । श्रयणीयं तदेवाऽतः किं समुद्रावगाहने ? || १०७८ ।। इति प्रबोधवैराग्याज्जिघृक्षुर्नृपतिर्व्रतम् । पुत्रं मित्रमित्राssकार्य स्वाभिप्रायमचीकथत् ॥ १०७९ ।। चक्रायुधोऽब्रवीत् तात ! किं भाग्यमियदेव मे । त्वत्पदैकाश्रयं यद् मां मैवं परिजिहीर्षसि ? ।। १०८० ॥ कः प्रस्तावोऽधुना, युक्तं व्रतं वयसि पश्चिमे । • युज्यते त्वधुना लोकपालनं लालनं मम ।। १०८१ ॥ ततः प्राह नृपो वत्स ! मैवं वद सदाशय ! | प्रथमं पश्चिमं वाऽपि वयः को वेत्ति बालक ! ।। १०८२ ॥ किञ्च, नागवल्लीले पक्के रसो रङ्गश्च चर्विते । यादृशस्तादृशो धर्मः पुंसोऽतिजरसो व्रते || १०८३ ॥ साधिता भूः कृतं राज्यं दत्तं दानं यशोऽर्जितम् । किं कृतैहिककृत्यस्य पुनश्चर्वितचर्वणैः १ || १०८४ ॥ सुवर्णनिगडप्रायादतो मे राज्यबन्धनात् । निर्याती मोक्षसौख्याय त्वं मा भूरन्तरायकृत् ।। १०८५ ।। त्यक्त्वा कथंचनोपाधिं स्वभावभुवमीयुषः । मा मनो मर्कटस्यास्य पुनः पद्यां प्रदर्शय ।। १०८६॥ पूर्वक्रमागतं राज्यभारं घेहि धुराक्षम ! | यथाऽहं तव साहाय्याद् भवेयं स्वार्थसाधकः || १०८७ ॥ इति श्रुत्वा मौनपरं राज्ये न्यस्य सुतं नृपः । उपादत्त परिव्रज्यां क्षेमङ्करजिनान्तिके ।। १०८८ ।। बहिरङ्गाद् विधेरन्तरङ्गः सबल इत्यसौ । १ वार्धक्ये | २ जरामतिक्रान्तस्य । ३ षष्ठ्यन्तम् । Page #251 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । २३९ चाह्य राज्यं परित्यज्याऽन्तरङ्गं धर्ममाददे ॥ १०८९ ॥ यत्राऽस्ति विरतिर्भार्या विवेको मन्त्रिपुङ्गवः । प्रियः कुमारः संवेगः प्रतीहारश्च संवरः ॥१०९०॥ । आर्जवं पट्टहस्ती च विनयस्तु तुरङ्गमः । रथः शीलाङ्गनामाऽत्र भृत्याः शम-दमादयः ॥ १०९१ ॥ सम्यक्त्वं सौधं सद्धर्म-शुक्लध्याने सुचामरे । सिंहासनं च संतोषो यशश्छत्रं तु विस्तृतम् ॥ १०९२ ।। (कलापकम् ) द्वादशाङ्गयामथाऽधीती तपःक्षपितविग्रहः। स गुर्वनुज्ञयैकाकिविहारप्रतिमां दधौ ॥ १०९३ ।। तपस्तेजोभवव्योमयानलब्धर्वशादसौ। विहरनन्यतोऽन्येाः सुकच्छविजयं ययौ ॥ १०९४ ॥ अहिजीवोऽपि नरकादुद्वृत्याऽभूद् भवं भ्रमन् । ज्वलनाद्रौ सुकच्छस्थे भिल्लो नाम्ना कुरङ्गकः ॥१०९५॥ पापपिण्ड इवाऽध्यक्षः करालाक्षो मषीनिभः । आस्तां हस्तेन दृष्ट्याऽपि संहरन् वर्ततेऽङ्गिनः ॥१०९६॥ वज्रनाभमुनीन्द्रोऽपि तस्मिन्नेव विधेः वशात् । ज्वलनाद्रौ गतो रात्रौ कायोत्सर्गेण तस्थिवान् ॥१०९७॥ ध्वान्तेन मलिनेनैकाकारे जगति निर्मिते । सर्वतः प्रसृतं तस्य स्पर्धयेव निशाचरैः ॥ १०९८ ॥ फेत्कारैर्दीपिनां घूकघूत्कारैश्च शिवारवैः। यक्ष-रक्षोऽट्टहासैश्च तदाऽऽसीदति भीषणम् ॥ १०९९ ॥ सुतरां हृदि देदीप्यमानध्यानप्रदीपकः। धर्मजागरणात् तस्थौ स मुनिनिर्भयः स्थिरम् ॥११००॥ पुनः प्रातस्ततोऽचालीत् स यावत् तावदग्रतः । कुरङ्गकेण पापर्द्धिव्यग्रेण ददृशे मुनिः ॥११०१॥ प्राच्यषवशस्फूर्जत्कोपः पापः शरेण तम् । Page #252 -------------------------------------------------------------------------- ________________ २४० श्रीपार्श्वनाथचरिते अनिष्टोऽयमिति ध्यात्वा हत्वा भिल्लो न्यपातयत् ॥११०२॥ गाढपहारेणाऽऽर्तोऽपि नार्तध्यानी मनागपि । दध्यौ सहव रे ! जीव ! तवैवेदं पुराकृतम् ॥११०३।। यतःउपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । सिंहस्तु शरमप्रेक्ष्य शरक्षेप्तारमीक्षते ।।११०४॥ किञ्च, स्मृत्वा पञ्चनमस्कारं सिद्धानां पुरतः स्फुटम् । सम्यगालोचनां कृत्वा विहिताऽनशनः खयम् ।।११०५|| मध्यप्रैवेयके मृत्वा ललिताङ्गाऽभिधः सुरः। बभूव निर्मलानन्दसागरे मनमानसः ॥११०६ ॥ (युग्मम् ) हृष्टो धनुर्धरंमन्यः कालेन कियताऽप्यसौ । कुरङ्गकः कुरङ्गात्मा मृत्वाऽगात् सप्तमावनौ ॥११०७।। विश्वश्रीशिरसो विभूषणविधौ दिव्येन्द्रनीलप्रभः । शश्वत् शस्यपरम्पराप्रसरणे निर्मोघमेघोपमः ॥११०८॥ संसाराध्वनि खिन्नभव्यमनसां विश्रामसान्द्रद्रुमः । पार्थो भाव सुखं तनोतु भगवांस्तापापहारी जिनः॥११०९॥ इति श्रीकालिकाचार्यसन्तानीय-श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथ- . चरित्रे महाकाव्येऽष्टसर्गे भावाङ्के श्रीपार्श्वनाथषष्ठ-सप्तमभवव्या वर्णनो नाम तृतीयः सर्गः ॥ ३ ॥ १ श्वा। Page #253 -------------------------------------------------------------------------- ________________ अथ चतुर्थः सर्गः। अथाऽस्ति जम्बूद्वीपेऽस्मिन् प्राग्विदेहस्य भूषणम् । पुरं सुरपुरं नाम येन वर्गायते मही ॥१॥ यस्मिन् कुमणिषु त्रासस्तापः स्वर्णे, ग्रहो गुणे । छत्रेषु दण्डः प्रायेण, वास्तव्ये न पुनर्जने ॥२॥ यत्र स्फटिकहर्येषु प्रतिबिम्बच्छलानिशि । रम्यत्वादिव लीयन्ते यान्तो विद्याधरा दिवि ॥३॥ निर्दयाः पापसंहारे, निर्दाक्षिण्याः खजीविते ।। लुब्धा यशसि, दोषेभ्यो भीरवो यत्र पूरुषाः ॥४॥ मणिगेहाङ्गणोद्भूतप्रभाजालजले स्थिताः। यत्राब्जिन्य इवाऽऽभान्ति स्त्रियः स्मेरमुखाम्बुजाः ॥५॥ तत्रोज्ज्वलयशश्चन्द्रधवलीकृतदिग्मुखः। भूभृद्ददलनवजाभो वज्रबाहुमहीपतिः ॥६॥ अकलको दृढः शुद्धपरिवारो गुणान्वितः । यः सदृक्षः खखड्गेन बद्धमुष्टिः पुनर्नहि ॥७॥ औदार्य-धैर्य-गाम्भीर्य-स्थैर्यप्रभृतयो गुणाः। यस्याऽन्योऽन्यमभूष्यन्तोपवनस्येव पादपाः ॥८॥ रूप-लावण्य-माधुर्य-लज्जा-विनयशालिनी । नामतो रूपतोऽप्यासीत् तस्य पत्नी सुदर्शना ॥९॥ चित्रं यदस्य महिषी साऽभवन्नृपतेः प्रिया। तदारभ्य मुमोचैष विशेषात् खलसंग्रहम् ॥ १० ॥ अन्योऽन्याबाधया तस्य पुरुषार्थत्रयीजुषः। . Page #254 -------------------------------------------------------------------------- ________________ .' २४२ श्रीपार्श्वनाथचरितचतुर्थोऽपि पुमर्थोऽभून्नृपतेः सङ्गमोत्सुकः ॥ ११॥ अथ वेयकात् काले वज्रनाभाऽमरश्च्युतः । सुदर्शना कुक्षिशुक्तौ स मुक्तेवाऽवतीर्णवान् ॥ १२ ॥ ततो ददर्श सा राज्ञी निशान्ते शयनस्थिता । चतुर्दश महास्वमांश्चक्रभृजन्मसूचकान् ॥ १३ ॥ राज्ञा विचारितैः स्वनैः सा हृष्टाऽगमयद् दिनान् । दिवाकरमिव प्राची समयेऽसूत चात्मजम् ॥ १४ ॥ कृत्वा जन्मोत्सवं भूयोऽप्युत्सवेन महीयसा । सुवर्णबाहुरित्याख्यां तस्य चक्रे नराधिपः ॥१५॥ अकादकसमारोपादङ्गसङ्गमलालसाः। सर्वे राजान एवाऽस्य बभूवुर्बालधारकाः ॥ १६ ॥ समीन-मकरायके स्फुरन्नखमणिप्रभे। अङ्गुलीवेत्रवल्लीके पाटलाधरविद्रुमे ॥ १७॥ लावण्यजलसंपूर्णे गम्भीरे स्वयमेव हि । समुद्रसदृशे तस्मिन् कला नद्य इवाऽविशन् ॥१८॥ ... (युग्मम् ) बाल्यमुल्लङ्घय स प्रोचैरारूढो यौवनं नमः।चेतःसरसि नो कस्य भानुवत् प्रतिबिम्बितः १ ॥१९॥ भवोद्विग्नः 'क्षमाधीशः क्षमं ज्ञात्वा च तं सुतम् ।। उपरुध्य न्यधाद् राज्ये प्रवज्यां जगृहे स्वयम् ॥२०॥ शेषोपस्करनिर्मुक्ता क्षमाखण्ड-शमाज्ययुक् । धन्यैरेवाऽऽहती दीक्षा :रेयी प्रोज्ज्वलाऽऽप्यते ॥२१॥ स्वीकृताशावधूकर्णपूरीकृतयशोऽम्बुजः । सुवणेबाहुरुदाहुः शशास क्ष्मां सुखैकभूः ॥२२॥ अन्यदा प्रामृताऽऽयातमश्वमेकं ददर्श सः। . तुच्छंश्रवसमप्युच्चैःश्रवोलक्षणलक्षितम् ॥२३॥ कर्णपूरं कुण्डलम् । २ आजानुबाहुः । ३ तुच्छकर्णम् । Page #255 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। २४३ तमारुह्य वृतो भूपैः क्रीडया निर्ययौ पुरात् । जधान कशया चाचं वेगज्ञानाय भूपतिः ॥२४॥ ततस्तथा प्लुतो वेगाद् यथाऽऽकृष्टोऽपि वल्गया । सोऽश्वः प्रतीपशिक्षत्वादधाविष्टाऽधिकाधिकम् ॥२५॥ चक्रारूढमिवाऽमस्त तदा भूवलयं नृपः। . महीरुहानपि जबादायाँत इव संमुखान् ॥२६॥ समग्रपरिवारस्याऽदृश्यीकृत्य क्षणाद् नृपः। ... निन्ये तेनाऽटवीं जीवः कर्मणेव भवान्तरम् ॥२७॥ तत्र दृष्ट्वा सरः स्वच्छ जलं तृष्णार्तिशान्तये । लस्थावश्वः स योगीव मुश्चन्नापूरितानिलम् ॥२८॥ उत्तीर्य राज्ञाऽम्युत्तार्य पयार्ण स्नानपूर्वकम् । अश्वोऽम्भः पायितः सन्तो दुःखेऽप्याश्रितवत्सलाः ॥२९॥ स्नात्वा पीत्वा स्वयं चाऽऽपः क्षणं विश्रम्य पार्थिवः । वलितः पुरतोऽपश्यद् रम्यमेकं तपोवनम् ॥ ३० ॥ शृङ्गकण्डूयनं पृष्ठे कुर्वद्भिर्जरभृगैः। -- बालैश्चाङ्कगतैदृष्ट्वा मुनीस्तत्राऽतुषद् नृपः ॥ ३१ ॥ स्फुरितं दक्षिणं. चक्षुस्तदिष्टाऽऽशसि चिन्तयन् ।। अतीवमुदितो राजा प्रविवेश तपोवनम् ।। ३२ ॥ गच्छंश्च पुरतोऽपश्यद् दक्षिणेन सखीयुताम् । ...' लतासेकं पयस्कुम्भैः कुर्वती मुनिकन्यकाम् ॥ ३३ ।। तस्या विश्वातिगं रूपं दृष्ट्वा दध्यौ नृपो ननु । केयं जित्वा द्विधा रम्भां सौकुमार्य विजृम्भते ? ॥ ३४ ॥ नाग-विद्याधरा-ऽमर्यस्त्रीभ्रमं यत् करोत्यसौ । । तन्मन्ये विधिना तासां कृतोऽयं सारसंग्रहः ॥ ३५ ।। ततश्च वृक्षान्तरितो यावदेवं व्यचिन्तयत् । : माधवीमण्डपं तावत् सह. सख्या विवेश सा ॥ ३६ ॥ १ द्वितीयाबहुवचनम्। २ कदली देवाङ्गनां च । Page #256 -------------------------------------------------------------------------- ________________ २४४ श्रीपार्श्वनाथचरितेदृढबद्धं श्लथीकृत्य वल्कलं तत्र बालिका। . बकुलं सेक्तुमारेभे बकुलामोदभृन्मुखी ॥ ३७॥ भूयोऽप्यचिन्तयद् राजाऽमुष्याः कमलचक्षुषः । केदं रूपं क कर्मेदं प्राकृतस्त्रीजनोचितम् ? ॥ ३८ ॥ न च तापसकन्येयं यदस्यां रागि मे मनः । काऽपि भूपालपुत्रीयं कुतोऽप्यत्रागता ध्रुवम् ॥ ३९ ॥ अत्रान्तरे मुखे तस्याः पद्मभ्रान्त्या मधुव्रतः । पपात जनयंत्रासं धुन्वत्याः पाणिपल्लवौ ।। ४० ॥ कथञ्चिन्नाऽपयात्यस्मिन् सखीमुद्दिश्य साऽवदत् । वैरिणो भ्रमरादस्माद् रक्ष रक्ष सहायिनि ! ॥४१॥ सख्यूचे रक्षितुं कोऽन्यः क्षमस्त्वां स्वर्णवाहुतः । लीलयाऽवति यः पृथ्वीं तमेवाऽनुसर प्रभुम् ॥ ४२ ॥ को नाम त्वामुपद्रोता पौत्युवीं वज्रबाहुजे । इति ब्रुवस्तदा दक्षः प्रकटोऽभूत् तयोर्नृपः ॥ ४३ ॥ पुरस्तं वीक्ष्य सहसा संभ्रान्ते ते बभूवतुः । नोचितं चक्रतुः किश्चिन्न च किश्चिद् जजल्पतुः ॥४४॥ भीते इव नृपो जानंस्ते भूयोऽपि ह्यभाषत । निष्प्रत्यूहं तपो भद्रे ! कचिनिर्वहतीह वॉम् ॥ ४५ ॥ धैर्यमालम्ब्य सख्यूचे स्वर्णवाही महीपतौ । तापसानां तपोविघ्नमत्र कः कर्तुमीश्वरः १ ॥ ४६ ।। अधुना किन्त्वियं वाला पद्मभ्रान्त्या मुखेलिना । दश्यमाना कातराक्षी रक्ष रक्षेत्यभाषत ॥ ४७ ॥ तरुमूले तया दत्तासने राजा निवेश्य च । आपृच्छयत स्वच्छधिया गिरा पीयूषकल्पया ॥ ४८ ॥ लक्ष्यसे त्वमसामान्यो मूोऽपि निरवद्यया । तथाऽप्याख्याहि कोसि त्वं देवो विद्याधरोऽथवा?॥४९॥ १ भ्रमरः। २ सप्तम्यन्तम् । ३ युवयोः । Page #257 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । आत्मानमात्मना ख्यातुमक्षमः क्ष्मापतिर्जगौ । अहमस्मि महीभर्तुः स्वर्णवाहोः परिग्रहे ।। ५० । तदादेशादिहागच्छमाश्रमे विघ्नकारिणाम् । निवारणकृते येन राजरक्षं तपोवनम् ।। ५१ । अयं स एव राजेति ध्यायन्तीं तां सखीं नृपः । उवाच किमियं बाला क्लिश्यते कर्मणाऽधुना १ ॥ ५२ ॥ अथ निःश्वस्य सावोचत् इयं रत्नपुरेशितुः । खेचरेन्द्रस्य पद्माssख्या कन्या रत्नावलीसुता ॥ ५३ ॥ पिताऽस्यां जातमात्रायां विपेदे तत्पदार्थिनः । सुता युयुधिरेऽन्योऽन्यं तत्राऽभृद् राजविरः || ५४ ॥ रत्नावली गृहीत्वेमां बालां स्वभ्रातुराश्रमे । गालवस्य कुलपतेर्निकेतनमुपागमत् ।। ५५ ।। अन्यदा साधुरेकोsa दिव्यज्ञानी समागतः । पद्मायाः कः पतिर्भावत्यिपृच्छद् गालवश्च तम् ? ॥५६॥ मुनिरप्याख्यदश्वापहृतोऽत्रागतवानिमाम् । चक्रवर्ती स्वर्णबाहुबलिकां परिणेष्यति ।। ५७ ।। दध्यौ राजाऽप्यकस्मान्मेऽश्वापहारो बभूव यत् । तदेतया संघटनोपायं खलु विधिर्व्यधात् ।। ५८ ।। पप्रच्छ चाऽधुना कुत्र भद्रे ! कुलपतिर्वद । तदर्शनेन कुर्वेऽद्य चित्तमानन्दमेदुरम् ॥५९॥ साऽप्याचख्यौ विहर्तुं तमन्यतः प्रस्थितं मुनिम् । अनुगन्तुं गतोऽस्त्यद्य तं नमस्कृत्य वैष्यति ॥ ६० ॥ पद्मामानय हे ! नन्दे ! कुलपत्यागमक्षणः । वर्ततेऽसाविति तदा काप्याख्यद् वृद्धतापसी ॥ ६१ ॥ राजाऽप्यश्वखुररवज्ञातसैन्यागमोऽवदत् । यातं युवामहं सैन्यमाश्रमादन्यतो नये ।। ६२ । १ राज्यक्लेशः । २४५ Page #258 -------------------------------------------------------------------------- ________________ २४६ श्रीपार्श्वनाथचरितेपद्माऽथ नन्दया निन्ये ततः स्थानात् कथञ्चन ।। पश्यन्ती वलितग्रीवं स्वर्णबाहुं महीपतिम् ॥६३॥ नन्दया कथिते स्वर्णवाहुराजाऽऽगमे मुदा । ऊचे कुलपति नमुनेर्ज्ञानं महाद्भुतम् ॥ ६४ ॥ ममाऽतिथिरयं तावद् वर्णाश्रमगुरुस्तथा । . पद्मायाश्च वरो भावी तत् पूज्यः सर्वथा नृपः ॥६५॥ ततो रत्नावली-पद्मा नन्दाभिः सहितो ययौ । गालवो भूभुजः पाः राज्ञा चोत्थाय सत्कृतः ॥६६॥ बभाषे चाऽहमेवैष्यं किं यूयं स्वयमागता ? | स प्राह किं न नः पूज्यो. वर्णाश्रमगुरुर्भवान् ? ॥६७।। मज्जामेयी च पद्माऽसौ पत्नी ते ज्ञानिनोदिता। अस्याः पुण्यैस्त्वमायासीस्तदिमामुद्वहाऽधुना ॥६८॥ इत्युक्तो मुनिना तेन पनां पद्मामिवाऽपराम् । गान्धर्वेण विवाहेन परिणिन्ये स भूपतिः ॥६९।। तदा पद्मोत्तरो भ्राता पद्मायाः परमातृजः। . समाभृतः खेचरेशो विमानश्छादयनभः ॥७॥ तं प्रदेशमुपेयाय रत्नावल्या निवेदितः । स्वर्णबाहुं नमस्कृत्य जगादैवं कृताञ्जलिः ॥७१॥ (युग्मम् ) त्ववृत्तान्तमिमं ज्ञात्वा देव ! त्वामेव सेवितुम् । इहाऽगच्छं नराधीश ! तदादेशं प्रयच्छ मे ।। ७२ ॥ वैताढ्यादौ प्रतापाढ्य ! समागच्छ च मे पुरे । तत्र विद्याधरैश्वर्यलक्ष्मीरुत्कण्ठिताऽस्ति ते ।। ७३ ।। । राजाऽपि तद्वचस्तस्योपराधादन्वमन्यत । । स मेऽस्तु विषमेऽप्यर्थे सन्तः प्रणयिवत्सलाः ॥ ७४ । अपृच्छद् गालवं रत्नावली च विनतो नृपः। ... पद्मोत्तरोपनीतं च विमानमधिरूढवान् ॥ ७५ ।। १ इंण्क् गतौ । Page #259 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । २४७ पद्माऽपि जननी नत्वा बाष्परुद्धगलेक्षणा। भविष्यत्तद्वियोगातिर्दुःखितेदमभाषत ।। ७६ ॥ पत्या सह गमिष्यामि मात तः परं मम । स्थानमन्यत्र तद् ब्रूहि द्रक्ष्यामि त्वां पुनः कदा ? ॥७७॥ भ्रातृतुल्यानिमान् वृक्षान् मृगीः प्रियसखीसमाः । मुनिकन्याश्च स्वसृवदहं त्यक्ष्यामि ही ! कथम् ? ॥ ७८ ॥ असौ गर्जति पर्जन्ये षड्जस्वरमनोज्ञवाक् । कलापी ताण्डवकलां कस्याग्रे दर्शयिष्यति ? ॥ ७९ ॥ बकुला-ऽशोक-माकन्दान् कः पाता मां विना पयः ? । शिशूनिवाहानपरांश्चलपल्लवपाणिभिः ।। ८० ॥ रत्नावल्यप्युवाचैव वत्से ! त्वं चक्रवर्तिनः । पल्यऽभूविस्मर ततो धिग् वृत्तिं वनवासजाम् ॥ ८१ ॥ खेचरेन्द्रसुते ! भर्ताऽनुगम्योऽसौ त्वयाऽधुना । त्वं भविष्यसि देव्यस्य किं विषादो मुदः क्षणे ? ॥ ८२ ॥ इत्युक्त्वा मूर्ध्नि चुम्बित्वा समालिङ्गयाऽथ निर्भरम् । अङ्कमारोप्य मुक्तास्राऽन्वाद् रत्नावलीति ताम् ॥ ८३ ।। गता पतिगृहं वत्से ! गुरूणां विनता भवेः। कुर्यास्त्वं भोजनं भुक्ते, स्वापं सुप्ते च भर्तरि ॥ ८४ ॥ सरोषे कथमप्यस्मिन् प्राञ्जलाऽऽस्या विशेषतः । पतिभक्त सहर्षा च. रुष्टेव पतिविद्विषि ॥ ८५॥ पिकीव मधुरं ब्रूयाः स्त्रीणां वत्से ! पतिष्विदम् । मूलमन्त्रादि पापेन मुक्तं कार्मणमुत्तमम् ॥ ८६ ॥ नीरङ्गीछन्नवदना नित्यं नीचैर्विलोचना। वत्से ! कुमुदिनीव त्वमसूर्यपश्यतां श्रये ॥ ८७ ॥ चक्रिपत्नि ! सपत्नीषु सापत्न्यं दधतीष्वपि । त्वया पाञ्जलया भाव्यं महत्त्वस्योचितं यदः॥८८॥ शासक् अनुशिष्टौ। Page #260 -------------------------------------------------------------------------- ________________ २४८ श्रीपार्श्वनाथचरितेसापनान्यप्यपत्यानि स्वाङ्गजानिव लालयेः । कदापि मा कृथा गर्व चक्रिपत्नीत्वसम्भवम् ।। ८९ ॥ सन्धये सगुणा शूची वक्रा च्छेदाय कर्तरी । अतो विमुच्य वक्रत्वं गुणानेव समाश्रयः ॥ ९० ॥ इयं त्वदेकचित्ता च दत्ता नन्दोत्तरा सखी । सर्वकार्येषु ते सज्जा धार्य दुःखं न तन्वपि ॥ ९१ ॥ इति शिक्षा प्रगृह्याऽम्बां कुलपतिप्रमुखानपि । नत्वाऽऽपृच्छय च पद्माऽप्यारूढा यानं पतिश्रितम् ॥९२॥ स्वर्णबाहुरपि प्राप्य भृत्यं पद्मोत्तरं क्षणात् । वेताढ्याद्रौ गतः श्रेणीद्वयं चक्रे वशंवदम् ॥ ९३ ॥ खेचरैः खेचरैश्वर्येऽभिषिक्तोऽनेककन्यकाः । खेचराणामुपायंस्त कियत् तस्थौ च तत्र सः ॥ ९४ ॥ गुणैः स्थानच्युतस्यापि जायते महिमा महान् । अपि भ्रष्टं तरोः पुष्पं न कैः शिरसि धार्यते ? ॥ ९५ ॥ अथ पद्मादिपत्नीभिः समस्ताभिः समन्वितः। ययौ बहुपरीवारः स्वर्णबाहुर्निजं पुरम् ॥ ९६ ॥ तत्र तस्याऽतिक्रिस्य विधिना शासतो महीम् । चतुर्दश महारत्नान्यभूवन् क्रमशो यथा ॥९७॥ चक्र-चर्म-च्छत्र-दण्डाः कृपाणः काकिणिर्मणिः। गजा-ऽश्व-गृह-सेनानी-पुरोधः-स्थपति-स्त्रियः ॥९८॥ महा विहिते राज्ञा तदष्टाहमहोत्सवे । चक्रमायुधशालातः पूर्वस्यां प्रस्थितं दिशि ॥१९॥ तद् नृपोऽनुव्रजन्नब्धौ तीर्थमासाद्य मागधम् । कृताष्टमो रथस्थोऽनुतीर्थेशं बाणमक्षिपत् ॥१०॥ मागधेशः सभासीनस्तं दृष्ट्वा पतितं पुरः। अरे ! कस्य यमः क्रुद्धो ब्रुवन्निति रुषाग्रहीत् ॥१०॥ १शक्रमतिक्रान्तस्य । Page #261 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः।' २४९ चक्रिनाम ततो वीक्ष्य शान्तकोपः स चक्रिणम् । एत्य नत्वोपदापाणि त्यस्तेऽस्मीत्यसान्त्वयत् ॥ १०२ ॥ नृपः सत्कारपूर्व तं विमृज्य कृतपारणः । तस्याऽष्टाहमहं चक्रे नौचित्याद् भ्रश्यति प्रभुः ॥१०३ ॥ सर्वत्राऽप्यधिदेवानामावर्जन-विसर्जने । एषोऽष्टमतपोमुख्यो विधिः स्याचक्रवर्तिनः ॥ १०४ ॥ वरदाम-प्रभासौ च दक्षिणा-ऽपरदिक्सुरौ । इत्थमेव वशीचक्रे तथा सिन्धुं नृपः क्रमात् ॥ १०५॥ वैताव्यमेत्य तत्रस्थो जित्वा वैताव्य दैवतम् । सेनान्यं प्रेष्य सिन्धोः स परखण्डमसाधयत् ॥ १०६ ॥ कृतपालमथो जित्वा स तमिस्रागुहाधिपम् । दण्डरत्नेन सेनान्या तद्द्वारमुदघाटयत् ॥ १०७ ॥ कुम्भे न्यस्य मणिं कुम्भ्यारूढश्चक्री विवेश तत् । लिखन्नुभयतो भित्त्योः काकिण्या मण्डलावलीम् ॥१०८॥ तदुद्द्योतात् ससैन्योऽसौ चलन् वर्धकिक्लुप्तया । पद्यया निमग्नोन्मग्ने नद्यावुदतरत् सुखम् ॥ १०९ ॥ पञ्चाशयोजनमितां गुहामुल्लङ्घ्य तां गिरेः। स्वयमुद्घाटितोदीच्यद्वारेण निरगान्नृपः ॥ ११०॥ तत्रापाताहयान् म्लेच्छभूपानिर्जित्य लीलया । साध्यामास सेनान्या सिन्धोः सोऽपरनिष्कुटम् ।। १११॥ क्षुद्रहिमवत्कुमारं जित्वाऽलिख्य निजाभिधाम् । काकिण्यर्षभकूटेऽसौ पुनर्वैताब्यमागमत् ॥ ११२ ॥ तत्र जित्वा युधा श्रेणीद्वयविद्याधरान् नृपः । साधयामास सेनान्या गङ्गायाः खण्डमुत्तरम् ॥ ११३ ॥ गङ्गादेवीं वशीचक्रे नाट्यमालं च दैवतम् । जित्वा खण्डगुहायास्तां स प्राग्वदुदघाटयत् ॥ ११४ ॥ १ तृतीयान्तम् । ३२ Page #262 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते निर्गत्य च सेनान्या द्वितीयं गाङ्गनिष्कुटम् । जिगाय जगृहे गङ्गामुखस्थांश्च निधीन्नव ।। ११५ ॥ . जित्वैवं स्वर्णबाहुस्तदखण्डं क्षोणिमण्डलम् । नीत्या चक्रानुगची व्यावृत्यागानिजं पुरम् ॥ ११६ ॥ चक्रेऽस्य मुदितैर्भूप- सुरैरुत्सवनिर्भरम् । तीर्थाम्भोभिर्महाराज्याभिषेको द्वादशाब्दिकः ॥ ११७ ॥ चतुःषष्टिसहस्राणि राज्ञ्योऽतिरतयोऽभवन् । द्वात्रिंशच्च सहस्राणि राजानस्तस्य सेवकाः ॥ ११८ ॥ लक्षाचतुरशीतिश्च हस्तिनो वाजिनो रथाः ग्रामाः षण्णवतिः कोव्यः पूः सहस्रद्विसप्ततिः ।। ११९ ।। इत्थं श्रितः समग्राभिचक्रवर्तिविभूतिभिः । स चिरं पालयामास विजयी विजयावनिम् ।। १२० ॥ निजभाग्य इवोत्तु प्रासादे स स्थितोऽन्यदा । यातायातकृतो देवान् विस्मितोऽपश्यदम्बरे ॥ १२१ ॥ अश्रौषीच्च जगन्नाथं तीर्थङ्करमुपागतम् । श्वेतपक्षाऽऽगमेऽम्भोधिरिवोल्लासं भृशं दधौ ॥ १२२ ॥ स देशः सजनः श्लाघ्यो वासरः स च स क्षणः । सतृषां यत्र नः स्वामी सुधाकुम्भ इवाययौ ॥ १२३ ॥ अदृश्यदर्शनोद्भूतं मलं मेऽद्य दृशोर्जिनम् । दृष्ट्वा यास्यति तस्याङ्गलावण्यजलनिर्भरैः ।। १२४ ॥ तथाऽष्टाङ्गप्रणामेन सर्वाङ्गाऽऽरम्भसंभवम् । जिनेन्द्रचरणस्पृष्टभुवः स्पर्शेन नेक्ष्यति ॥ १२५ ॥ अश्रव्यश्रवणाज्जातं दोषं श्रवणयोर्मम । तदन्तः प्रविशज्जैनवाक्पूरः लावविष्यति ।। १२६ ॥ इति ध्यायन्नराधीशो जिनेन्द्रं वन्दितुं ययौ । शिरः पुण्यमिवाssधातुं नीचैश्चक्रे जिनेक्षणात् ॥ १२७ ॥ १ रतिमतिक्रान्तवत्यः । २ मलमिति शेषः । २५० Page #263 -------------------------------------------------------------------------- ________________ २५ चतुर्थः सर्गः । उपानत्-खड्ग-मुकुट-च्छत्र चामरलक्षणम् । पश्चकं राजचिह्नानां दूरे मुक्त्वा ननाम तम् ।। १२८ ॥ निषद्य च यथास्थानं स चातक इवोच्चकैः। . पपौ जिनघनोद्भूतदेशनाजलमुज्ज्वलम् ॥ १२९ ॥ संबोध्य भूयशो भव्यान् भगवानन्यतो ययौ । . वर्णबाहुनृपोऽपि स्वं धाम धृत्वा जिनं हृदि ॥ १३० ॥ तीर्थकद्देशनाऽऽयातान् स्मारं स्मारं सुरान्नृपः । कैते दृष्टा मयेत्यूहापोहाज्जातिस्मृति ययौ ? ॥ १३१ ॥ दध्यौ च प्राग्भवान् पश्यन् प्रतिमर्त्य भवं मम ।। अपि प्रयतमानस्य भवान्तो नाधुनाऽपि हि ॥ १३२ ॥ देवत्वमाप यस्तादृक् स मर्त्यत्वेऽपि तुष्यति । ध्वस्तचेतनचैतन्यं महामोहविजृम्भितम् ॥ १३३ ।। भवचक्राधिरूढस्य भ्रमतोऽपि निरन्तरम् । . स्थितिस्तत्रैव, मोक्षाय तद् यतिष्ये विशेषतः ॥ १३४ ॥ निश्चित्यैवं निजे न्यस्य स्वर्णबाहुः पदे सुतम् । तदायातजगन्नाथतीर्थनाथाऽन्तिके ययौ ॥१३५ ॥ तत्याजोपाधिकी भूषां मुक्तये गुणभूषणः । प्रौढा मुक्तिर्वधर्यन रज्यते बाह्यभूषणैः ॥ ॥ १३६ ।। जगन्नाथमथाऽभ्यर्च्य प्रव्रज्यां जगृहे नृपः । तप्यमानस्तपश्चोग्रं गीतार्थः स क्रमादभूत् ॥ १३७ ।। हृदिस्थजिनपूर्णेन्दुल्लसच्छमसुधारसः । . स चन्द्रमणिवत् केषां न तापं निरवापयत् ? ॥ १३८ । किश्च, असव्य-सव्यचक्राभे सदसत्कर्मचक्रके। भ्रंमति स्थिरक्लुप्तात्मसंस्थानोऽतिजनेऽपि सन् ॥१३९ ॥ धर्मध्यानेषुणा यन्त्रपुत्रीब्रह्मकलां पराम् । १ सप्तम्यन्तम् । . . . Page #264 -------------------------------------------------------------------------- ________________ २५२ श्रीपार्श्वनाथचरितेभित्त्वा निर्दृतिकन्यां यः प्रोद्ववेत् स नरो वरः ॥ १४ ॥ - (युग्मम्) कियद्भिः सेवितैः स्थानः स्थानविंशतिमध्यतः । शनैरुपार्जयामास तीर्थकृन्नाम कर्म सः ॥ १४१ ॥ अर्हत्-सिद्ध-प्रवचन-गुरु-स्थविर-सुश्रुते । तपस्विषु च वात्सल्यं ज्ञानाभ्यसन मष्टमम् ॥ १४२ ॥ दर्शने विनये चाऽऽवश्यके शीलवते तथा । शुद्धिः क्षणलवध्यानं तपस्-त्यागौ च सर्वदा ॥ १४३ ॥ वैयावृत्त्यं समाधिश्वाऽपूर्वज्ञानस्य संग्रहः। तीर्थोन्नतिः श्रुते भक्तिरित्युक्ता स्थानविंशतिः ॥ १४४ ॥ विहरनेकदा प्राप्य स क्षीरगिरिसन्निधौ । महाटवीं क्षीरवणां तस्थौ प्रतिमया मुनिः ॥ १४५ ॥ कुरङ्गकोऽपि नरकादुद्वृत्त्य तत्र पर्वते । सिंहो बभूव भ्राम्यंश्च दैवात् तत्र समाययौ ॥ १४६॥ अतीतवासरेऽप्येष भक्ष्याऽलाभेऽतिसक्षुधः । दूरादपि महर्षि तमद्राक्षीद् यमभीषणः ॥ १४७ ।। क्षुद्रो जात्या हरिः प्राच्यवैरादास्यं प्रसार्य सः । अभ्यधावत् सटांधुन्वन् पुच्छेनाऽऽच्छोटयन् महीम् ॥१४८॥ तदा तत्कृतपूत्कारप्रतिशब्दमिषाद् गिरिः। कठोरात्माऽपि पूत्कारमिवाऽऽा विदधे मुनेः ॥ १४९॥ रौद्रध्यानो मृगेन्द्रस्तं धर्मध्यानस्थितं मुनिम् । प्रतीपमिव मन्वान उत्फालोऽहन् चपेटया ॥ १५० ॥ ततो मुनिर्विशेषेण ध्यानमापूरयन् शुभम् । कष्टे हि महतां सत्त्वं सहायं यत् सुभृत्यवत् ॥ १५१ ॥ दध्यौ च हृदि धन्योऽद्य दिवसो यत्र मेऽजनि । आसन्नमृत्योराजन्मनिव्यूढवतनिश्चयः ॥ १५२ ।। स चाऽयं कृत एखेन ततो मेऽस्मिन् मनागपि । Page #265 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । २५३ न विरुद्धं हरौ कर्तुं मानसं युज्यतेऽधुना ॥ १५३ ॥ दुष्कर्मक्षपिताऽयं मेऽस्याsहं पापप्रदः पुनः । इति सिंहे कृपां चक्रे स महात्मा विशेषतः ।। १५४ ॥ स कृत्वाssलोचनां सम्यक् क्षामणां चाऽखिलाऽङ्गिषु । चक्रे चतुर्विधाहारमत्याख्यानं समाहितः ।। १५५ ।। इक्षो रसं यथाssदाय कूर्चकस्त्यज्यते जनैः । धर्मसारं तथाssदाय देहं त्यजति पण्डितः ॥ १५६ ॥ विदीर्णो हरिणा मृत्वा स मुनिः प्राणते दिवि । महाप्रभविमानेऽभूद् विंशत्यधिस्थितिः सुरः ॥ १५७ ॥ पक्षैकरम्यं मन्दानां भाग्यं मायूरपिच्छवत् । पक्षद्वये तु विदुषां सुन्दरं चाषपक्षवत् ।। १५८ ।। मृत्वा सिंहोऽपि पापात्मा चतुर्थे नरकं गतः । दशार्णवस्थितिस्तीव्र वेदनाः सहति स्म सः ।। १५९ ॥ तस्मादुद्धृत्य विविधतिर्यग्योनिषु चाऽभ्रमत् । सर्वत्रासादयन् दुःखं दुःश्रवं श्रवसोरपि ।। १६० ।। यः सर्वैरपि सेव्यते सुकृतिभिर्थ्यायन्ति यं योगिनो । येनाsतारि भवोदधिर्बुधजना यस्मै नमस्कुर्वते ।। १६१ ॥ यस्माद् ज्ञानधनागमस्त्रिभुवने यस्याऽस्त्यनन्तं सुखं । लीनं यत्र सतां मनः स दिशताद् वः पुण्यभावं जिनः १६२ इति श्रीकालिकाचार्य सन्तानीय श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरित्रे महाकाव्येऽष्टसर्गे भावाङ्के श्रीपार्श्वनाथाऽष्टमनवमभववर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥ Page #266 -------------------------------------------------------------------------- ________________ अर्हम् अथ पञ्चमः सर्गः । सिंहजीवोऽथ दुःखानि तिर्यग्योनिभवानि सः। सहन् कापि सन्निवेशे रोरद्विजसुतोऽभवत् ॥ १ ॥ जातस्यैव मृतास्तस्य पितृ मात्रा-ऽऽदिबान्धवाः। ततोऽसौ जीवितो लोकै रङ्कोऽयमिति सद्दयैः ॥ २ ॥ कठ इत्याहिताऽऽह्वानः क्रमेण प्राप्तयौवनः। भोजनं कथमप्याप स भ्रमन् प्रतिमन्दिरम् ॥ ३॥ अतिदुःस्थतया चैष दुनिरीक्ष्यो नृणामभूत् । ग्रस्तो दारिद्यभूतेन कस्य न स्याद् भयास्पदम् ? ॥ ४ ॥ सोऽन्येचुरीश्वरान् रत्नस्वर्णालङ्कारभूषितान् । दृष्ट्वा सद्यः समुत्पन्नाद् वैराग्यादित्यचिन्तयत् ॥ ५ ॥ दृश्यन्तेऽमी सहस्राणामुदरंभरयोऽत्र यत् । देववद् दिव्यनेपथ्यास्तत् प्राच्यतपसः फलम् ॥६॥ अहं स्त्रोदरपूरेऽपि भैक्षणाप्यक्षमस्तु यत् । तन्नूनं न तपोऽकार्ष तपस्याम्यधुनाऽपि तत् ॥ ७॥ इति ध्यात्वा कठः खेदाज्जगृहे तापसव्रतम् । . तपस्तेपे च पञ्चाग्न्यादिकं कन्दफलाशनः ।। ८॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रेऽस्मिन् भरताऽभिधे । उपकण्ठस्थगङ्गौघहारा वाराणसी पुरी ।। ९ ।। परिखाजलमध्यस्थप्राकारकपिशीर्षकैः । दलैरिव विराजन्ती चैत्यकिञ्जल्कशालिनी ॥ १० ॥ इक्ष्वाकुकुलभूपालप्रतापरवितेजसा । या विकाशवती धत्ते पमिनीव श्रियं सदा ॥ ११ ॥ (युग्मम् ) Page #267 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। २५५ यत्र स्फटिकहाणि प्रसृताऽगुरुधृभ्यया।। कैलासा इव राजन्ते तटसञ्चारिवारिदाः ॥१२॥ यत्रोज्ज्वलषा बाढमभीष्टधनदाः सदा । ईश्वराः सार्थनामानः कामविग्रहधारिणः ॥१३॥' यत्राऽन्यसम्पदा हृष्टाः सन्तोऽप्युपचिकीर्षवः । स्युगुणे च परेणात्ते गुणान्या अप्यधोमुखाः ॥ १४ ॥ लावण्यसजलाः स्मेरमुखाब्जाः कलहंसकैः । रम्यक्रमतटा यत्र भान्ति नद्य इव स्त्रियः ॥ १५ ॥ स्वर्गखण्डश्रियं वीक्ष्य यस्यां पद्मसरश्छलात् । सतारकनभाखण्डानीव सख्यादवातरन् ॥ १६ ॥ निलीनाऽनेकसंमत्तपक्षिकूजितगर्जितः । स्फुरत्पल्लवविद्युत्वान् मयूराऽऽरावबन्धुरः ॥ १७ ॥ तुषारकणिकां वर्षन् घनछायान्धकारतः । करोति कस्य न तुष्टिं यत्रारामघनागमः ॥ १८ ॥ (युग्मम् ) तस्यामिक्ष्वाकुवंश्योऽभूद् भुवनत्रयविश्रुतः । अश्वसेनातरङ्गाब्धिरश्वसेनो नरेश्वरः ॥ १९ ॥ .. प्रेयस्याऽप्यनुयाता नामुत्र कीा तदादिजाः । तथापि सा सती कीर्तिस्ते परं सुभगाः श्रुताः ॥ २० ॥ त्याग-शौर्यगुणोऽनेकोऽनेकधारुह्य सङ्गरम् । स मार्गणगणं वीरो लक्षलाभे न्ययोजयत् ॥ २१ ॥ भूचापोत्थैः परस्त्रीणां तीक्ष्णैः कर्णान्तगामिभिः । कटाक्षविशिखैभिन्नं न तस्य हृदयं कलौ ॥ २२ ॥ गृहे श्री रती वक्त्रे भूर्भुजे हृदि धर्मधीः । स्थितेतीव रुषा तस्य कीर्तिरतरं गता ॥२३॥ प्रतापः पीत उष्णश्च यशः शुभ्रं च शीतलम् । १ न एकोऽद्वितीयो यस्मात् । Page #268 -------------------------------------------------------------------------- ________________ २५६ श्रीपार्श्वनाथचरिते तथाऽपि शुद्धमेवात्र यशोऽभूत् तत्प्रतापजम् ॥२४॥ सूरो युधि नते सोमो दुष्टे वक्रो बुधः श्रुते । गुरुर्वाचि कवि तौ मन्द मन्दश्च सोऽभवत् ॥२५॥ तस्याऽभून्महिषी वामा वामाजनशिरोमणिः । पापकर्मरिपौवामा वामादेव्यभिधानतः ॥२६॥ पवित्रेण चरित्रेण बभौ गङ्गेच साऽपरा । किन्तु सा विदुषी बाढमपरा तु जडात्मिका ॥२७॥ यद्यपि स्वगुणैर्जज्ञे राज्ञः साऽत्यन्तवल्लभा । तथापि न मदं चक्रे रेवा कापि किमुच्छलेत् १ ॥२८॥ इतश्च प्राणते कल्पे भुक्त्वा देवर्द्धिमुत्तमाम् । सुवर्णबाहुजीवः स्खं दिव्यमायुरपूरयत् ॥ २९ ॥ चैत्रकृष्णचतुर्थ्यां स विशाखायां ततश्च्युतः । निशीथेऽवातरद् वामाकुक्षौ भाग्यैर्भुवोऽद्भुतैः ॥३०॥ वामादेव्या तदा दृष्टा प्रविशन्त इमे मुखे । चतुदर्श महास्वप्नास्तीर्थकृज्जन्मसूचकाः ॥ ३१ ॥ गजेन्द्रो वृषभः सिंहो लक्ष्मीर्माल्यं शशी रविः । ध्वजः कुम्भः सरो वार्धिर्विमानं वसवोऽनलः ॥३२॥ अथेन्द्रास्तुष्टुवुर्देवीं तत्रैत्य चलितासनाः । हृष्टाश्च कथयामासुरित्थं स्वमविचारणाम् ॥३३॥ गजेन विश्वशौण्डीरो धर्मधुर्यो वृषेण तु ।। सिंहेन निर्भयः शूरः श्रिया विश्वश्रियाऽश्चितः ॥३४॥ स्रजा मूर्बोपरि सतां शशिना नयनामृतम् । मूर्येण तमसां हर्ता कुलोत्तंसो ध्वजेन तु ॥३५॥ कुम्भेन गुणसंपूर्णः सरसा विश्वतापहृत् । वार्धिना गुरुगम्भीरो विमानेनाऽमराश्रयः ॥३६॥ - १ स्त्री। २ रत्नानि । Page #269 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। २५७ महायो रत्नपुञ्जेन दीप्तो निधूमवह्निना। . इमः स्वर्जिनः पुत्रो भावी ते स्वामिनीदृशः ॥ ३७॥ तथैव कथिते प्रातः पत्या तज्ज्ञैश्च साऽधिकम् । हृष्टा गर्भ दधौ कल्पद्रुमं नन्दनभूरिव ।। ३८ ।। प्रवर्धमानगर्भाऽनुभावाद् दाक्ष्यादयो गुणाः। देव्या ववृधिरे छनो घनान्तरपि किं रविः ? ॥ ३९ ॥ क्षेमयोगवती जज्ञे राज्ञः श्रीर्व्ययतोऽपि यत् । न क्षीणा धनदादिष्टसुरैश्च परिवर्धिता ॥ ४० ॥ आशया भाविभद्राणां किंकर्य इव देवताः । पूरयन्ति स्म सर्व श्रीवामादेव्याः समीहितम् ॥ ४१ ॥ इत्थं गर्भसुखेनैव देवी स्थितवती क्रमात् । पौषकृष्णदशम्यां सा विशाखायां शुभे क्षणे ।। ४२ ॥ विश्वत्रयोद्योतकरं निशार्धे सर्पलाञ्छनम् । नीलाभं सुषुवे पुत्रं रत्नं वैडूर्यभूरिव ॥ ४३ ॥ (युग्मम् ) दुन्दुभिर्दिवि दध्वान प्रसन्नास्या दिशोऽभवन् । तदा सुखासिका जज्ञे नारकाणामपि क्षणम् ॥ ४४ ॥ सोच्छ्वासा भूः पयः स्वच्छं दक्षिणार्चिरभूच्छिखी । वाति स्म त्रिगुणो वातः पुष्पाढ्यास्तरवोऽभवन् ॥४५॥ तदेवं मुदिताः सर्वे माद्या एकेन्द्रिया अपि । जिनपूजोपयोगित्वाद् भाविभद्राशया किल ।। ४६ ॥ प्रभोहि चरणस्पर्शेः स्नात्रा-रात्रिक-चामरैः । पुष्पौधैश्च प्रयुक्तैस्ते भविष्यन्त्युपयोगिनः ॥ ४७ ॥ अपि त्रिभुवनं जज्ञे प्रशान्तडमरं तदा । स्वामी शिवनिधिदर्शयतीव शिववर्णिकाम् ॥ ४८ ॥ सहसा दिक्कुमारीणां चलितान्यासनान्यथ । ता जैनजनाकत्यायोत्थापयन्तीव सत्वरम् ॥ ४९ ॥ Page #270 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते ज्ञात्वा चाऽवधिना जैनं जन्म ता ननृतुर्मुदा । स्वस्वस्थानादथाऽऽजग्मुस्ताः सूतिभवनं क्रमात् ॥ ५० ॥ भोगंकरा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमालात्वनिन्दिता ॥ ५१ ॥ एता मेरुचकाsधोलोकस्था दिक्कुमारिकाः । आगत्याऽष्टौ जिनं नत्वा जिनाम्बां चैवमूचिरे ॥ ५२ ॥ नमस्तुभ्यं जगन्मातर्जगदीपप्रदायिके ! 1 २५८ अष्टौ वयमधोलोकवासिन्यो दिक्कुमारिकाः ।। ५३ ॥ जिनजन्मोत्सवं कर्तुमागताः स्मो वयं हि तत् । मा भैषीरित्युदित्वा व्यकुर्वन् संवर्तमारुतम् ॥ ५४ ॥ तेन शुद्धिं भुवः कृत्वा योजनं परितो गृहम् । जिनासन्ननिषण्णास्तास्तं गायन्त्योऽवतस्थिरे ।। ५५ ।। मेरा मेघवती सुमेघा मेघमालिनी । तोयधारा विचित्रा च वारिषेणा बलाहिका ॥ ५६ ॥ इत्यूर्ध्व लोक वासिन्योऽप्येत्याऽष्टौ दिक्कुमारिकाः । मेघं विकृत्य सिक्त्वोव पुष्पवृष्टिं वितेनिरे ॥ ५७ ॥ जिनस्य जिनमातुश्च नतिः कृत्यनिवेदनम् । गुणगानं स्वदिस्थानं दिक्कन्यानामयं विधिः ॥ ५८ ॥ तथाऽष्टौ कन्यकाः पूर्वरुचकाद्रिस्थिता अपि । एत्य कृत्वा विधिं तस्थुः प्राक्पक्षे दर्पणान्विताः ॥ ५९ ॥ -ताव नन्दो - तरानन्दे आनन्दा नन्दिवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता ॥ ६० ॥ समाहारादयोऽष्टैत्य दक्षिणाद् रुचकादथ भृङ्गारपाणयः कन्या दक्षिणेन जिनं स्थिताः ॥ ६१ ॥ समाहारा सुप्रदत्ता सुमबुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ।। ६२ ॥ प्रत्यगुरुचकतोऽभ्येयुः कुमार्योऽष्टाविलादयः । Page #271 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। २५९ तालवृन्तकरास्तस्थुः स्वदिपक्षे यथाविधि ॥ ६३ ॥ इलादेवी सुरादेवी पृथिवी पद्मवत्यपि । एकनासा नवमिाक सीता भद्रेति नामतः ॥ ६४ ॥ अथोत्तराद् रुचकतोऽप्येत्याऽष्टौ कन्यका जिनम् । जिनाम्बां च प्रणम्याऽस्थुरुत्तरेण सचामराः ।। ६५ ।। अलंबुसा मिश्रकेशी पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव श्री रित्याह्वयाश्च ताः ॥ ६६ ॥ एयुर्विदिगुरुचकाद्रेश्चतस्रोऽमूः सदीपिकाः । चित्रा चित्रकनका शतेरा सौदामिनी तथा ।। ६७ ।। रुचकद्वीपत्तोऽप्येयुश्चतस्रो दिक्कुमारिकाः । रूपा रूपासिका चाऽपि सुरूपा रूपकावती ॥ ६८ ॥ चतुरङ्गुलबर्ज ता नाभिनालं जिनेशितुः । छित्त्वा खनित्वा विवरं तत्र तच्च निचिक्षिपुः ॥६९।। विवरं पूरयित्वाऽऽशु रत्ननाणिक्यमौक्तिकैः । दूर्वायाः पीठिकावन्धं तस्योपरि च चक्रिरे ॥ ७० ॥ अथ सूतिगृहात् पूर्वदक्षिणोत्तरदिक्षु ताः । त्रीन् मध्यस्थचतुःशालान् विचक्रुः कदलीगृहान् ।। ७१ ।। अथो जिनं जिनाम्बां च ता नीत्वा दक्षिणौकसि । चतुःशालस्थिते रत्नमये सिंहासने न्यधुः ।। ७२ ।। तैलैरभ्यज्य तौ दिव्यैरुद्वोद्वर्तनैश्च ताः । नीत्वा पूर्वचतुःशाले मणिपीठे न्यवेशयन् ।। ७३ ।। जलैश्च स्नपयित्वाऽच्छैर्दिव्यनेपथ्यमण्डनौ । कृत्वा नीत्वोत्तरे चतुःशाले रत्नासने न्यधुः ।। ७४ ।। तयोः क्षुद्रहिमाद्रेस्ता द्रागानाय्याऽभियोगिकैः । गोशीर्षचन्दनं दग्ध्वा रक्षापोट्टलिकां व्यधुः ॥ ७५ ।। पर्वतायुभवेत्युच्चैरुक्त्वा कर्णान्तिके विभोः । ताः समास्फालयामासुर्मिथः पाषाणगोलको ।। ७६ ॥ Page #272 -------------------------------------------------------------------------- ________________ २६० श्रीपार्श्वनाथचरिते सूतिकाभवने भूयो वामादेवीं विभुं च ताः। शय्यागतौ विधायाऽस्थुर्गायन्त्यो मङ्गलान्यथ ।।७७॥ तदाऽभूनित्यघण्टानां स्वर्गेषु युगपद् ध्वनिः । सुरेन्द्राणां च नृत्यन्तीवासनानि चकम्पिरे ।।७८|| ज्ञात्वाऽथाऽवधिना शक्रो जिनजन्मोज्झितासनः । कियच्च जिनमभ्येत्य प्रणम्य विधिनाऽस्तवीत् ।।७९॥ नैगमेषिणमादिश्य सुघोषाघण्टया ततः। ज्ञापयामास शक्रोऽर्हज्जन्मकृत्यं च नाकिनः ।।८।। स सद्यो मिलिताऽशेषसौधर्मसुरशोभितः । क्षणात् तत्राऽऽरदाऽऽरुह्य विमानं पालकाभिधम् ।।८१॥ मुदा प्रदक्षिणीकृत्य विभोर्जन्मगृहं ततः। मुक्त्वा विमानमैशान्यां वामां नत्वेति चाऽस्तवीत् ।।८२॥ कुक्षी रत्नधर ! देवि ! जगन्मातः ! सुलक्षणे !। नमस्तुभ्यं त्वमेवासि स्त्रीणां गुरुमहत्त्वभृत् ।।८३।। यया त्रिभुवनस्याऽपि धर्ममार्गप्रकाशकः । दिव्यरत्नप्रदीपोऽयं सुषुवे भगवान् जिनः ।।८४॥ जिनजन्मोत्सवं कर्तुमागां शक्रोऽस्मि तन्न भीः । कार्येत्युक्त्वा हरिदेव्या अवस्वापनिकां ददौ ॥८॥ प्रतिरूपं प्रभोर्यस्य तत्राऽसौ पश्चरूपभृत् । भूत्वैकेनाऽञ्जलौ रूपेणाऽनुज्ञाप्याऽऽदद जिनम् ॥८६॥ उभाभ्यां चामरे छत्रं दधेऽन्येन प्रभूपरि । एकेनोल्लालयन् वज्रं वल्गन् शक्रः पुरोऽभवत् ॥८७।। जयध्वनिमुखैर्देवैः सर्वतोऽपि वृतो हरिः । उत्पत्य गगनेनाऽगात् क्षणान्मेरुमहीधरम् ।।८८॥ तत्राऽन्तःपाण्डुकवनं चूलिकादक्षिणेन तु । अतिपाण्डुकम्बलायां शिलायां शीतगुत्विषि ॥ ८९ ।। सिंहासने जिनस्नात्र योग्येऽङ्कस्थापिनप्रभुः । Page #273 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। २६१ न्यषीदद् वासवः पूर्वाभिमुखो हर्षनिर्भरः ॥९॥ प्रयुक्ताऽवधयोऽन्येऽपि त्रिषष्टिस्तत्र वासवाः । महा द्रुतमाजग्मुश्चतुःषष्टिरभूदिति ॥ ९१ ॥ दश वैमानिका इन्द्रा विंशतिर्भवनाधिपाः । ज्योतिष्को द्वौ च सोमाकौं द्वात्रिंशद् व्यन्तरेश्वराः ॥ ९२ ॥ अथाऽभियोगिका इन्द्रादेशात् सिन्धुहूदादितः । आनीय जलपुष्पाद्यं सर्व वेगादढोकयन् ।। ९३ ॥ हैमै रौप्यैरथो रत्नमयः काञ्चन-राजतैः। . स्वर्ण-रत्नमय। स्वर्ण-रौप्य-रत्नमयैरपि ॥ ९४ ।। रौप्य-रत्नमयैौमैरष्टभेदैरिति क्रमात् । कुम्भैः प्रत्येकमष्टाग्रसहस्रेणाऽम्बुपूरितैः ॥ ९५ ॥ अच्युतादिसुराधीशा विधिनाऽस्नपयन् जिनम् । पारिजातकपुष्पाबैरानचुस्तुष्टुवुश्च ते ॥ ९६ ।। ... (विशेषकम्) तदा केऽपि सुरा हृष्टा ननृतुस्तालसुन्दरम् । नानारूपैरभिनयं केऽप्याक्षेपकरं व्यधुः ।। ९७ ॥ समश्रुतिगतं रागस्वरग्राममनोरमम् । शुद्धसरोद्भवं गीतं गायन्ति स्माऽपरे सुराः ॥९८ ॥ ततेन विततेनाऽपि घनेन शुषिरेण च । चतुर्विधेन वाधेन कौतुकं केऽप्यपूरयन् ॥ ९९ ॥ ववल्गुरुल्ललन्ति स्म केपि केऽपि चुकूदिरे । केचिद् घनवृषाऽश्वेभासिंहनादान वितेनिरे ॥ १० ॥ अथ न्यस्य प्रभुं शक्र ईशानाऽङ्के चतुर्दृषीम् । विकुर्व्य तद्विषाणोत्थैः स्नपयामास वारिभिः ॥ १०१ ॥ उन्मृज्य गन्धकाषाय्या दिव्ययाऽङ्ग हरिविभोः । विलिप्य चन्दनैर्दिव्यैः पुष्पायैस्तमपूजयत् ॥ १०२ ॥ दर्पणो वर्धमानश्च कलशो मीनयोर्युगम् । Page #274 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते श्रीवत्सः स्वस्तिको नन्द्यावर्त्त भद्रासने इति ॥ १०३ ॥ शक्रः स्वामिपुरो र पट्टे रजततण्डुलैः । आलिख्य मङ्गलान्यष्टाविति स्तोतुं प्रचक्रमे ॥ १०४ ॥ जय श्रेयोनिधे ! स्वामिन्नश्वसेननृपाङ्गज ! | नम्रामरशिरोभृङ्गसङ्गचङ्गपदाम्बुज ! ॥ १०५ ॥ तत्त्वप्रकाशिनी चित्तलोचने भुवनश्रियः | सारः कनीनिकाकान्त ! श्रीवामेय ! त्वमेव हि ।। १०६ ।। बहुभ्रान्तिभवग्लानिध्यामलाया मनोदृशः । तमालदलनीलाङ्ग ! त्वयि दृष्टे पटिष्ठता ।। १०७ ॥ पाताल-विधु-वानां सुधासारं प्रगृह्यते । 1 वपुश्चक्रे विधिर्नूनं त्रिलोक्या तेन सेव्यते ।। १०८ ॥ घनच्छवितनूकान्तिनीरवर्षेण तन्वता । २६२ शस्यानि त्रिजगद् देव ! त्वयाऽभूद् देवमातृकम् ।। १०९ ।। करकल्पद्रुमं पादनख चिन्तामणीवरम् । देव ! दिव्यगवीधाम ! वपुर्देवपुरं तव ।। ११० ॥ पातालं मज्जनाम्भोभिर्योः पूजाऽगुरुधूम्यया । शरीरकान्तिभिः पृथ्वीं पुनासीति जगत्त्रयम् ॥ १११ ॥ तत्र स्तवन-निध्यान-ध्यानैरजनि निर्मलम् । चक्षुर्मनो मेऽद्य भावान्नाथ ! नमोऽस्तु ते ।। ११२ ॥ स्तुत्वेत्यर्हन्तमादाय नीत्वा वामाऽन्तिकेऽमुचत् । जवस्वापिनीं तस्यास्तच्चात्प्रतिरूपकम् ।। ११३ । प्रभोष्टविनोदायोपरि श्रीदामगण्डकम् । इन्द्रोऽमुञ्चत्तयोच्छीर्षे दिव्यरूपे स कुण्डले ।। ११४ ॥ इन्द्रादेशाद्विभोर्भोगयोग्यवस्तून्यनेकशः । सौधे श्रीदो न्यधाच्छान्तिरुद्घुष्टा चाऽऽभियोगिकैः ॥ ११५ ॥ संक्रमय्याऽमृतं स्तन्याऽर्थायाऽङ्गुष्ठ हरिः प्रभोः । १ देवदूष्ये इत्यपि । Page #275 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। २६३ धात्रीरप्सरसः पश्चाऽऽदिश्य नन्दीश्वरं ययौ ।। ११६ ॥ मेरास्तत्रैयुरन्ये तु वासवाः शाश्वताऽर्हताम् । ते सर्वेऽष्टाहिकां कृत्वा हृष्टाः स्वस्वाऽऽस्पदं ययुः ॥ ११७ ॥ वामाऽपि स्वामिनी बुद्धा विबुद्धवदनाऽम्बुजा । दिव्याङ्गरागनेपथ्यं वीक्ष्य पुत्रममोदत ॥ ११८ ॥ देव्याः परिच्छदः पुत्रजन्मोदन्तान्नृपं तदा। वर्धयित्वाऽथ दिक्कन्यागमाऽऽयं सर्वमाख्यत ॥ ११९ ।। नृपस्तुष्टो भृशं दत्त्वा स तस्मै पारितोषिकम् । मोक्षहतुसुतप्रीत्या कारामोक्षमकारयत् ॥ १२० ॥ उछ्तिा युगमन्थाद्याः सौधद्वारे सहस्रशः । उच्चै?षोऽभवत् सूतमातृकायाः समन्ततः ॥ १२१ ॥ नृत्यदिव्याङ्गनागीतैस्तूर्यनादैर्जयाऽऽरवैः । उलूलुशङ्खध्वनिभिः सुशब्दक्यं तदाऽभवत् ।।१२२ गच्छन्त्या दानसन्मानैरायान्त्या वर्धनैः श्रियाः । तद्व्यूढमपि संकीर्ण तदाऽभूद् राजमन्दिरम् ॥ १२३ ॥ कुलाचारे कृते कृत्स्ने निवृत्ते सूतके नृपः ।। आरंभे विश्वसत्कारपूर्व नामक्षणं प्रभोः ॥ १२४ ॥ तस्मिन् गर्भस्थिते वामा निशि ध्वान्तेऽपि पार्थतः । सर्प सर्पन्तमद्राक्षीत् पत्युः सद्यः शशंस च ॥ १२५ ।। स्मृत्वा तदेष गर्भस्य प्रभाव इति निर्णयन् । पाच इत्यभिधां सूनोरश्वसेननृपोऽकरोत् ॥ १२६ ॥ रत्नाद्रिवत् सुरत्नेन बालार्केणोदयाद्रिवत् ।। मेरुवत् कल्पवृक्षेण रेजेऽङ्कस्थेन तेन राट् ॥ १२७ ॥ लाल्यमानः स धात्रीभिरिन्द्रादिष्टाभिरादरात् । क्षुधोदये निजाऽङ्गुष्ठाद् रसं शक्राऽऽहितं पपौ ॥ १२८ ॥ स्वामिनं रमयामासुः प्रीत्या सुरकुमारकाः। हंस केकि-शुका भूत्वा कलभा वृषभास्तथा ॥ १२९ ॥ Page #276 -------------------------------------------------------------------------- ________________ २६४ श्रीपार्थनाथचरिते समं विश्वत्रयप्रीत्या वर्धमानः शनैः प्रभुः। सुसंहननसंस्थानोऽपि बाल्यमुदलङ्घयत् ॥ १३० ॥ गम्भीर उन्नतः सूक्ष्मः सरलः पृथुलोसितः । अदीर्घस्त्रिषु त्रिष्येवं द्विशुभ्रो नवपाटलः ॥ १३१ ॥ नाभौ सत्वे स्वरेऽगाधस्तुङ्गोंऽश-पद-मूर्द्धसु । सूक्ष्मः केशे नखे दन्ते सरलोऽहौ भुजेऽङ्गुलौ ॥ १३२ ।। पृथुर्नाभिमुखोरस्सु तारा-वृन्त-कचेऽसितः । कण्ठे पृष्ठे च पुंश्चिद्धे तुच्छः शुभ्रो रदाऽक्षिषु ॥ १३३ ।। पाणी पादे गुदे तालु-जिह्वयोरधरोष्ठयोः । नखषु दन्त-मांस व ताम्रो नवसु शस्यते ॥ १३४ ॥ द्वात्रिंशल्लक्षणान्येवं दृश्यन्तेऽस्म तनाविति । मत्वैवं सुभगं वत्रुस्तं खयं सकलाः कलाः ॥ १३५ ॥ स्वाम्यथोऽनुपमाष्टाग्रसहस्रनरलक्षणः । नवहस्ततनुर्भूत्वाऽऽरुरोह नवयौवनम् ॥ १३६ ॥ सद्गन्धममलखेदमदमांसाऽमृगुज्ज्वलम् । अदृश्याहारनीहारविकृतत्वं वपुः प्रभोः ॥ १३७ ॥ सहजातिशयैरेवं जन्मैवाऽऽरभ्य सुन्दरम् । विशेषतरुणिम्ना तु शरदेवाऽम्बु मानसम् ॥ १३८ ।। (युग्मम् ) पादयोः कमलैः कण्ठे शङ्खफैरिन्द्रगोपकैः। नखेषु, भ्रमरैः केशेष्वथ भेकैः पिकैर्गजैः ॥ १३९ ।। तुन्दे स्वरे गते श्रीः स्वा क्रमादेकेन्द्रियादिभिः । विभोर्दत्तेव सर्वैर्यत् वाम्यसौ सर्वजन्तुषु ॥ १४० ॥ (युग्मम् ) विभुः कूोपमौ पादौ मध्यं सिंहसहोदरम् । मुखं चन्द्रनिभं बिभ्रत् तदा त्रिभुवनायितः ॥ १४१ ॥ Page #277 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। .. २६५ तस्याऽतिशायिरूपस्य मौलावुष्णीषकैतवात् । स्वकीयसुकृतस्येवाऽऽरोपयत् कलसं विधिः ॥ १४२ ॥ लावण्यजलसंपूर्णे तस्याङ्गसरसि स्थिते । सन्नत्रपत्रे वक्त्राब्जे स्त्रीहरभृङ्गा न केऽपतन् ? ॥ १४३ ।। नव्यो रविरिव श्रीमानारोहन् यौवनं नमः । कतमानां पद्मिनीनां विततान मुदं न सः ? ॥१४४॥ अन्यदा नृपमास्थानस्थितं वेत्रिनिवेदितः।। कश्चिदेत्य नरो नत्त्वा निविश्यैवं व्यजिज्ञपत् ॥१४५।। देव ! जित्वा श्रियाऽनेकपुराणीवार्जितध्वजम् । सत्प्रासादपताकाढ्यं पुरमस्ति कुशस्थलम् ॥१४६ ॥ तत्राऽऽसीनरवाख्यो नृपतिः सुकृतैकधीः । आश्रमाणां गुरुः सत्यः सोऽभूद् धर्मप्रर्वतनात् ॥१४७॥ तेजसा भूभृतः क्रान्त्वा जनानां मस्तके स्थितः । स मध्याह्नाऽवजज्ञे विश्वसाधारणः कृती ॥१४८॥' जिनधर्मरतो नित्यं साधुशुश्रूषणोद्यतः । नीत्या चक्रे चिरं राज्यं परिव्रज्योन्मुखः परम् ॥१४९॥ संवेगाऽतिशयादन्यदिनेऽसौ रेणुवच्छ्रियम् । त्यक्त्वा व्रतमुपादत्त सुसाधुगुरुसन्निधौ ॥१५०॥ इत्यर्धकथिते तेन राजा धार्मिकवत्सलः। शिरो धुन्वन्नुवाचैवं सदस्यानपि मोदयन् ॥१५१।। अहो ! सत्त्वाधिकः कीदृङ् नरवर्मा यदय॑ते । स्वीकृत्य नरकं राज्यं तत्याज तदसौ क्षणात् ॥१५२॥ भवोदामप्रवाहेण वाह्यन्ते सर्वजन्तवः। प्रति स्रोतो गमी कोऽपि कृष्णचित्रकमूलवत् ॥१५३॥ किं वा विवेकसाहाय्याद् दुष्करं किं मनस्विनाम् ? । साधु कृत्यं कृतं राज्ञा तदूर्व भद्र ! कथ्यताम् ? ॥१५४॥ १ कामशास्त्रोक्तस्त्रीविशेषाणाम् । २ राज्ञः पक्षे पर्वतान् । ३ सर्वजनसमदृष्टिः । Page #278 -------------------------------------------------------------------------- ________________ २६६ श्रीपार्श्वनाथचरितेसोऽपि भूयः पुमानूचे राज्येऽभून्नरवर्मणः। मूनुः प्रसेनजिन्नाम कामधेनुसमोऽर्थिनाम् ॥१५५॥ तस्य प्रभावती नाम संपति प्राप्तयौवना । कन्याऽस्ति सुरकन्येव दिवः शापादिहागता ॥१५६॥ तद्वाक्य-मुख-रूपाऽ-क्षिजिता इव ययुध्रुवम् । सुधा पाताल इन्दुः खे दिवि रम्भा जलेऽम्बुजम् ॥१५७।। पाद-पाणि-मुखाऽ-क्षीणि यस्याः स्मेरारऽविन्दवत् । वीक्ष्य लक्ष्मीस्तदीयाङ्गं पद्माकरमिवाऽऽश्रयत् ॥१५८॥ तामेवं वीक्ष्य चिन्तावाननुरूपं वरं भुवि । स नृपोऽन्वेषयामास किन्तु तादृङ् न कोऽप्यभूत् ॥१५९॥ सखीभिः सहिताऽन्येार्गतोद्यानं प्रभावती । किनरीभिर्गीयमानं पद्यगीतमदोऽशृणोत् ॥१६०॥ जयी वाराणसीभर्तुरश्वसेनस्य नन्दनः । श्रीपार्श्वनाथोऽनौपम्या यद्रूपगुणसम्पदः॥१६॥ रामाऽपि जयिनी साऽत्र यामसौ परिणेष्यति । किन्त्वेतावन्ति भाग्यानि कस्याः सन्ति जगत्त्रये ॥१६२॥ इत्थं श्रीपार्श्वनाथस्य शृण्वती गुणकीर्तनम् । तद्रागविवशा जज्ञे तन्मयीव प्रभावती ॥१६३॥ त्यक्त्वाऽथ क्रीडां ब्रीडां च तद्गीतं हरिणीव सा । तल्लीना शृण्वती पार्चरक्ताऽलक्षि सखीजनैः ॥१६४॥ यथा यथाऽसौ तद्गीतामृतं कर्णपुटैः पपौ । तस्यास्तथा तथा तृष्णा तल्लावण्यादवर्धत ॥१६५।। व्यक्तसात्त्विकभावाऽपि हता पुष्पमयैः शरैः । कामेन गतचित्तेव निश्चेष्टा साऽभवचदा ॥१६६।। किन्नोऽथ समुत्पेतुः सा तूत्पश्या चिरं स्थिता । प्रभावती स्मरावेशाच्छून्यीभूतमना भृशम् ।।१६७॥ त्वं सुता राजहंसस्य कुमारः कमलाकरः। Page #279 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः । अथ स्थानेऽनुरागस्ते संमतोऽयं विधेरपि ॥ १६८ ॥ किन्तु धैर्य प्रपद्यखेति संबोध्य सखीजनः । निन्ये वेश्मनि तां पार्श्व ध्यायन्तीं सर्वदिग्गतम् ॥ १६९ ॥ ( युग्मम् ) earsal for स्वामी के सामान्याऽस्मि मानवी ? । दुर्लभोऽयं पतिर्नूनमित्यार्त्या साऽऽनशेऽभितः ।। १७० ॥ वामकामवशात्तस्या जगन्निर्वापकादपि । पार्श्वात्तापज्वरः सोऽभूद्यत्पुरश्चन्दनं शिखी ।। १७१ ॥ तत्स्वरूपमथो सख्यस्तस्याः पित्रोर्व्यजिज्ञपन् । जातहर्षौ च तौ पुत्र्याश्वासनायेत्यवोचताम् ।। १७२ ॥ साधु पार्श्वकुमारोऽयं जगत्त्रयशिरोमणिः । आत्मानुरूपः पुत्र्या मे वरो वत्रे सचेतसा ।। १७३ ॥ मनोरथोsपि नो मन्दभाग्यानां जायते महान् । । पिक्या एव न वायस्या वाञ्छाप्याम्रद्रुमे भवेत् ॥ १७४॥ पार्श्वेनैव तदुद्वाहः कार्यः पुत्र्या ध्रुवं मया । विद्या कन्या च सत्पात्रे नियोज्या दीर्घदर्शिभिः ॥ १७५॥ इत्थं पितृवचः श्रुत्वा सखीभ्यः साऽतुषत्तराम् । आशायष्ट्याsनया चित्तमवाष्टभ्नाच्च किञ्चन ॥ १७६ ॥ तथापि तस्थौ सा मुक्ताहारभूषा सखीष्वपि । निर्ममा मौनिनी किश्चिद् ध्यायन्ती योगिनीव हि ॥ १७७॥ एवं तां विधुरां वीक्ष्य निश्चिक्येऽदः प्रसेनजित् । प्रेषयिष्याम्यमुं पुत्रीमधिपार्श्व स्वयंवराम् ॥ १७८ ॥ तच्चाज्ञासीत् कलिङ्गादिदेशेन्द्रो यवनाभिधः । उद्धतः परिषद्येवं जगौ च भ्रकुटीमुखः ॥ १७९ ॥ मयि सत्यत्र कः पार्श्वः स यो वोढा प्रभावतीम् । तावत्प्रेसनजित् कोऽयं योऽन्यस्मै तां प्रदास्यति १ ॥ १८० ॥ किं वाऽस्त्वेष ग्रहीष्ये तां स्वेन वाऽहं यतः परम् । २६७. Page #280 -------------------------------------------------------------------------- ________________ २६८ श्रीपार्श्वनाथचरिते याचका एव याचन्ते वीराणां खं जगत्त्रयम् ॥१८१॥ स्वयमाच्छिद्य गृह्णानो मृगेन्द्रो विश्रुतो हरिः। . अन्यदत्तं तु गौरिच्छन् वराकः पशुरुच्यते ॥ १८२।। इत्युक्त्वा भूरिभिः सैन्यैरनन्यसमविक्रमः। कुशस्थलपुरं वेगादेत्याऽरौत्सीदनेकधा ॥ १८३ ।। जनस्य पवनस्येव निरुद्धाऽऽगमनिर्गमम् । तत्पुरं कुम्भकापूर्ण योगीन्द्रपुरबद्धभौ ॥ १८४ ॥ अहं न प्रेषितो राज्ञा निशीथे निरगां पुरात् । पुरुषोत्तमनामाऽस्मि मन्त्रिसागरदत्तमः ॥ १८५॥ इमं वृत्तान्तमाख्यातुमिहागममतः परम् । .. देवः करोतु यत् कृत्यं स्वजनेऽरिजनेऽपि वा ॥ १८६ ॥ इत्याकर्ण्य रुषा स्फूर्जन्नश्वसेननृपोऽब्रवीत् । कोऽयं वराको यवनः का भीर्वो मयि सत्यपि ? ॥१८७।। एषोऽहमागतस्त्रातुं सज्जसैन्यः कुशस्थलम् । कार्योऽसतां सतां वाऽपि पक्षपातो मयाऽधुना ॥१८८ ।। इत्युक्त्वाऽवादयद्भम्भां मिलितं चाऽखिलं बलम् । तज्ज्ञात्वाऽगाद् द्रुतं क्रीडागृहात् पार्थो नृपान्तिके ॥१८९।। जगौ च तात ! संरम्भ एष कस्योपरि क्षणात् । समं वाऽप्यधिकं वापि न ते पश्यामि कञ्चन ॥ १९० ॥ अश्वसेननृपोऽङ्गुल्या दर्शयन् पुरुषोत्तमम् । तदुक्तं सर्वमाचख्यौ पुनः पार्थोऽभ्यधादिदम् ॥ १९१ ॥ तिष्टेत् सुरोऽसुरो वाऽपि न तातस्य पुरो युधि । .. नृमात्रं जवनस्त्वेष सिंहस्येव मृगः कियान् ।।१९२॥ यात्राय कोऽयमायासः पितुर्वमामे सुते । पूज्यास्तिष्ठन्त्रिहैवाऽहं करिष्ये तस्य शिक्षणम् ॥ १९३ ॥ ... कुम्भकेन प्राणायामविशेषेण आपूर्ण तत्तथोक्तम् । २ शरीरवत् । ३ कवचक्षमे कार्यसमर्थे सतीति यावत् । Page #281 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः । भक्तिशक्तिक्षमं वाक्यमिति श्रुत्वाऽश्वसेनराट् । हृष्टः स्तुत्वा कुलं प्रैषीत् पार्श्व तंदोलं विदन् ॥ १९४ ॥ . श्रीपार्श्वोऽथ द्विपारूढः पुरुषोत्तमसंयुतः । प्रतस्थे ऽनेक भूपालैरुत्सवेन शुभे क्षणे ।। १९५ ॥ पुरतः स्वामिनश्चेलुर्गजाश्च लनगा इव । नदीरया इव हया रथाः क्रीडागृहा इव ।। १९६ ॥ पत्तयः कपिवल्गु वल्गन्ति स्म समन्ततः । aisa प्रास्थितैवं प्रभुर्यवनखेलने ॥ १९७ ॥ तदा चलवलोद्धृत रजश्छन्ने नभस्यभूत् । बलाकाभपताकाढ्यं दुर्दिनं किन्तु तत्परे ।। १९८ ॥ वन्दिघोषैश्च शङ्खादिशब्दैर्निवाननिखनैः । उत्सर्पद्भिरभूत् सार्था शब्देऽम्बरगुणप्रथा । १९९ ॥ आद्य एव प्रयाणेऽथ मातलिः सरथः प्रभुम् । उपेत्य नत्वा प्रोवाच नाथाऽहं शक्रसारथिः ॥ २०० ॥ शक्रो जानाति ते शक्तिमतुलां किन्तु सेवकैः । भक्तिः कार्येति सरथं स प्रैषीन्मां त्वदन्तिके ॥ २०१ ॥ मान्या भक्तिमतो भक्तिरिति कृत्वा रथं प्रभुः । आरुरोह हरिर्मेघमिव दिव्यास्त्रभासुरम् || २०२ ॥ खैचरैः स्तूयमानोऽगाद्रथस्थः खेऽर्कवद्विभुः । अन्वियाय च भूमिष्ठमुत्पश्यं तद्बलं पुनः ।। २०३॥ कियद्भिः स दिनैः प्राप कुशस्थलमथाऽवसत् । उद्यानान्तः सुरकृते प्रासादे सप्तभूमिके ॥ २०४ ॥ क्षत्रियाणां स्थितिं पातुं दयया च प्रभुः पुरः । प्रेषहूतं महादक्षं सुशिक्ष्य यवनाऽन्तिके । २०५ ॥ स गत्वा यवनं स्माऽऽह स्वामिभक्त्या ससौष्ठवम् । १ पार्श्वभुजबलम् । २ पार्श्वशत्रौ । ३ आकाशस्य गुणः शब्द इति प्रसिद्धिः ४ प्रथमम् । २६९ Page #282 -------------------------------------------------------------------------- ________________ २७० श्रीपार्श्वनाथचरिते श्रीमत्पार्श्वकुमारस्त्वां मन्मुखेनादिशत्यदः || २०६ ॥ अयं प्रसेनजिद्राजा तातं शरणमाश्रितः । ततो रोधाद्विरोधाच मोच्योऽयं सर्वथा त्वया ॥ २०७ ॥ स्वयं प्रचलितं तातं निवार्याहमिहाऽऽगमम् । द्रुतं गच्छ निजं स्थानं नाऽपराधस्तवेयता ।। २०८ ॥ ललाटे च भ्रुवं कृत्वा यवनोऽवददुद्भटम् । अरे ! दूत ! कथं नो मां वेत्सि यत् प्रलपस्यदः १ ॥ २०९ ॥ ? कोऽयं पार्श्वोऽश्वसेनो वा योऽभिषेणयतीति माम् अहो ! नात्मज्ञता किं वा क ज्ञानं बालवृद्धयोः १ ॥ २१० ॥ निष्ठुरं भाषमाणोऽपि दूतत्वान्नाऽसि धर्षितः । गत्वा स्वस्वामिनः सर्वे वदेति स यथा द्रुतम् || २११ ॥ दूतोऽप्याह स्म भोः ! मुह्यन्ननात्मज्ञस्त्वमेव हि । मनुष्यमात्रस्त्वं योऽवजानीषे जगतां पतिम् ।। २१२ ॥ प्रभुस्त्वां बोधयत्येवं कृपया नाशक्तितः । बुध्यस्वाद्यापि मा पार्श्वतेजोऽग्नौ शलभो भव ।। २१३ ॥ ब्रुवन्तमिति तं दूतं यवनस्य भटा रुषा । उत्थायोदायुधा एवं जजल्पुः प्रजिहीर्षवः || २१४ ।। अरे ! स्वस्वामिना सार्द्धं वैरं किमपि तेऽस्ति यत् १ | तद्द्रोहाय वदस्येवमित्युक्त्वा हन्तुमुद्यताः ।। २१५ ।। वृद्धामात्योऽथ तानेवं साक्षेपमिदमृचिवान् । भो मूर्खाः ! कोऽयमारेभे राज्यस्याकस्मिकः क्षयः १ ॥ २१६ ॥ नाऽयं स्वस्वामिनो वैरी यूयमेव हि वैरिणः । क्षिपथाऽनर्थकान्तारे ये नाथं दुष्टवाहवत् ॥ २१७ ॥ सेन्द्रा देवा नता सेवां यस्य कुर्वन्ति तस्य भोः ! । तं श्रीपार्श्वनाथस्य तां वो इन्त ! का गतिः १ ॥ २९८ ॥ इति श्रुत्वा भयभ्रान्ताः सर्वे शान्ति ययुर्भटाः । तं च दूतं करे कृत्वा मन्त्री सामनेत्यवोचत ।। २१९ ॥ Page #283 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। २७१ अज्ञानादेवमुक्तं यच्छस्त्रमात्रोपजीविभिः । सोढव्यं तत् त्वया विद्वन् ! सेवकोऽसि क्षमानिधेः ॥२२०॥ श्रीपार्थ नन्तुमेष्यामस्तवाऽनुपदमेव हि । इति संबोध्य सत्कृत्य तं दूतं विससर्ज सः ॥ २२१ ॥ स्वमीशं चाऽवदन्नाथ ! त्वयाऽऽसीत् किमिदं कृतम् ? । अधुनाऽप्याश्रय क्षिप्रं श्रीपार्श्व विश्ववत्सलम् ॥ २२२ ॥ यस्य जन्ममहं चक्रुः सेन्द्राः किल सुराऽसुराः । दधन्ते पतिभावश्च कस्तेन सह ते कलिः ? ॥ २२३ ॥ गर्जन्तं मेघमुद्वीक्ष्य प्रोच्छलन् शरभो यथा । विनश्यति तथा मा भूस्त्वं पार्थे दर्पमुद्वहन् ॥ २२४ ।। सूर्य-खद्योतयोः सिंह-शशयोस्तायंकाकयोः। हस्तिकुन्थ्योरिवाऽत्यन्तं भेदः पार्श्वभवादृशोः ॥ २२५ ॥ किश्चेदं मे चरैः शिष्टं पार्श्वस्यारोहणाय यत् । इन्द्रः प्रैषीद्रयं सास्त्रं समातलिमभूस्पृशम् ॥ २२६ ॥ कण्ठे तदधुना न्यस्य कुठारं पार्थमाश्रय । आज्ञां मन्यस्व येन स्या अभीरिह परत्र च ॥ २२७ ॥ विमृश्य यवनः प्रोचे साध्वहं बोधितस्त्वया । अनाजडधीरस्माद्रक्षितोऽन्ध इवाऽवटात् ।। २२८ ॥ इत्युक्त्वा सर्वसामन्तमण्डलेश्वरसंयुतः। कण्ठे परश्वधं बध्वा यवनः पार्श्वमभ्यगात् ॥ २२९ ॥ निवासोद्यानमासाद्य प्रभोः सैन्यं समुद्रवत् । निरीक्ष्य मृगवत् त्रस्यन् प्रासादद्वारि सोऽगमत् ॥ २३०॥ वेत्रिणा विज्ञपय्याथ सभायां स प्रवेशितः। प्रभुणा मोचितस्कन्धपरशुस्तं दूरतोऽनमत् ॥ २३१॥ ऊर्ध्वस्थः प्राञ्जलिश्चैवमुवाच जगतां पतिम् । १ कथितम् । २ क्रियापदमेतत् । ३ कूपाद्गाद्वा । Page #284 -------------------------------------------------------------------------- ________________ २७२ श्रीपार्श्वनाथचरिते यस्याऽऽज्ञाकारिणो देवा नृकीटः कोऽस्मि तस्य ते ?॥२३२ प्रहित्य कृपया दूतः शिक्षितोऽहं त्वया प्रभो ! । किमुत्फालः कदापि स्यान् मृगेन्द्रो मृगशावके ? ॥२३३॥ गुणायाऽविनयोऽप्यासीन्मम त्वदर्शनाद्विभो ! । मया तु प्रसभं तस्य मूलोच्छेदः कृताऽधुना ॥ २३४ ॥ कृतघ्नत्वादिति व्यक्तमालिन्योऽप्यभवं शुचिः। प्रभोऽद्य त्वत्पदोद्योतसत्तीर्थजलमज्जनात् ॥ २३५ ॥ सर्वदैव प्रसन्नोऽसि स्वयं श्रीग्रहणक्षमः ।। इन्द्रैः संसेन्यमानोऽसि स्वयमेवाऽभयप्रदः ॥ २३६ ।। तदेवं सति किं वच्मि तथाऽप्योऽनुगैः प्रभुः । प्रसीदाऽऽदत्स्व मे लक्ष्मी सेवकस्तेऽस्मि रक्ष माम् ॥२३७॥ श्रीपार्थोऽपि जगौ भद्र ! भद्रं तेऽस्तु मतो भवान् । स्वां श्रियं भुङक्ष्व मा भैषीर्नेदृक् कार्य पुनस्त्वया ॥२३८॥ तथेति प्रतिपेदानः सत्कृतः प्रभुणाऽपि सः । पुरमुद्वेष्टयामास यवनो द्राक् कुशस्थलम् ॥ २४९ ॥ ज्ञात्वा प्रसेनजित् सर्वं तन्मान्त्रिपुरुषोत्तमात् । मुदा परिग्रहोन्मुक्तचन्द्राभं पुरमप्यभूत् ॥ २४० ॥ अथ प्रसेनजित् तूर्णमुपादाय प्रभावतीम् । गत्वा नत्वा च वामेयं हृष्टः प्रोचे कृताञ्जलिः ॥ २४१ ॥ दृष्टहष्टाऽद्य मे दृष्टिरभून्नाथ ! त्वदीक्षणात् । त्वदागमनहेतुत्वात् सज्जनो यननोऽप्यभूत् ।। २४२ ॥ भानुनेव त्वया यद्वत् सप्रकाशः कृतो जनः । तथोद्वाहादिमां कन्यां सश्रीकां कुरु पद्मिनीम् ॥ २४३ ।। प्रभावती तदा दध्यौ किन्नरीभ्यः श्रुतः पुरा । यादृशस्ताहगेवाऽयं संवदन्त्यक्षराण्यहो ! ॥ २४४ ॥ खभाग्याऽप्रत्ययाचित्तं शङ्कते तु ममैष यत्. . त्रिलोकीदुर्लभस्तातोपरोधं मन्यते न वा ॥ २४५ ॥ Page #285 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। २७३ अथ पार्थोऽवदद् राजस्ताताज्ञा मे तवाऽवने । न कन्योद्वहने तस्मान्मा कार्षीराग्रहं वृथा ॥ २४६ ॥ तच्च प्रभावती श्रुत्वा दध्यौ दीना विषादतः । अधुनाऽहं भविष्यामि मन्दभाग्या हहा ! कथम् ? ॥२४७॥ सर्वत्र सदयोऽप्येष कुतोऽभून्मयि निघृणः । मत्कृते प्रार्थना व्यर्थी मत्तातस्यापि हाऽभवत् ॥२४८॥ दध्यौ प्रसेनजिच्चैवं स्वयं सर्वत्र निस्पृहः । अश्वसेनोपरोधात् तु कर्ताऽसौ मन्मनोरथम् ॥ २४९ ।। सुतामप्येवमाश्वास्य स जगाद विभुं विभो । सहैष्यामि त्वया काशिं द्रष्टव्यो ह्यश्वसेनराट् ॥ २५० ॥ एवमस्त्विति भाषित्वा स प्रसेनजिता सह । सौहार्द कारयित्वा च व्यसृजद् यवनं विभुः ।। २५१ ॥ स्वयं च कृतकार्यत्वात् स कुशस्थलभूभुना । सकन्येनाऽन्वीयमानो ययौ वाराणसी पुरीम् ।। २५२ ।। काशीन्द्रस्तस्य पार्श्वस्य महा नृसुराऽसुरैः। स्तूयमानस्य संतुष्टः प्रवेशोत्सवमातनोत् ।। २५३ ॥ मोहध्वान्तहृतिप्रदीपकलिकाऽऽविर्भावतुल्याः सुधाकुल्या धर्मतरोः शिवोच्चभवने निःश्रेणिदण्डोपमाः । श्रेयःकल्पलताङ्कुरा भवमहाम्भोराशिसेतुश्रियः श्रीपार्श्वस्य पदद्वयीनखमणिश्रेणिप्रभाः पान्तु वः ॥२५॥ इति श्रीकालिकाचार्यसन्तानीय-श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथ चरिते महाकाव्येऽष्टसर्गे भावाके श्रीपार्श्वनाथच्यवन-जन्म___जन्माभिषेक-कौमारविजययात्रादिवर्णनो नाम पञ्चमः सर्गः ॥ ५ ॥ १ रक्षणे। ३५ Page #286 -------------------------------------------------------------------------- ________________ अहम् । अथ षष्ठः सर्गः। अथाऽश्वसेनभूपालस्तेजोविजयशालिनम् । पार्थ पार्श्वगतं दृष्ट्वा हर्षाङ्कच्छत्रतामगात् ॥ १॥ खसौधं च गते पार्चे प्रभावत्या सहागतम् । पुरो नमन्तमुत्थाप्य प्रसेनजितमब्रवीत् ॥ २ ॥ कचित् कुशस्थलाधीश ! सर्वत्र कुशलं तव । हेतोश्चात्रागमः कस्मात् सोऽप्येवमवदत् तदा १ ॥३॥ कुशलं मे सदा यस्य त्रातासि गुरुविक्रमः । हेतुश्चागमने तावद्दर्शनेच्छा तवाऽनघ ! ॥४॥ अन्यच्च मम पुत्रीयं भृशं पार्थानुरागिणी । प्रसद्य तद् गृहाणेमा कुमारार्थे प्रभावतीम् ॥ ५॥ अश्वसेनोऽवदद् भद्र ! साधूचेऽस्माकमप्यसौ । मनोरथः सदैवाऽस्ति कुमारोद्वाहगोचरः ॥ ६ ॥ विरक्तः किन्तु संसारादपि राज्यश्रियं चिरात् । मुमुक्षुरेषोत्रार्थे तन्न जाने किं करिष्यति ? ॥ ७ ॥ परं त्वदुपरोधेनाऽधुना पार्थ बलादपि । उद्वाहं कारयिष्यामि तन्मा त्वमधृतिं कृथाः ॥ ८॥ इत्युक्त्वा सह तेनैव ययौ पाान्तिक नृपः । इमां प्रसेनजित्पुत्रीमुद्बहेति जगाद च ॥९॥ श्रीपार्थोऽप्यवदत् तातो मयीदं वक्ति वत्सलात् । वस्तुनः किन्तु नित्यस्य ममेच्छा क्षणिकस्य न ॥१०॥ परिग्रहेणान्येनापि भवाब्धिः खलु दुस्तरः । परिग्रहेण तु स्त्रीणामियं वार्ताऽपि दूरतः ॥ ११ ॥ उन्मूलयितुमिच्छामि भवक्षस्य तस्य तत् । Page #287 -------------------------------------------------------------------------- ________________ २७५ षष्ठः सर्गः रोपयामि कथं मूलं स्त्रीपरिग्रहलक्षणम् ॥ १२ ॥ १ घनवद्भारितो जीवो नीचैर्याति मलीमसः । यात्यूर्ध्वं प्रोज्ज्वलः सोऽपि मुक्ततोयपरिग्रहः ॥ १३ ॥ अश्वसेननृपोऽप्यूचे वत्सेदृग्मनसा त्वया ।. शीर्ण एव भवः किन्तु पूरयाऽस्मन्मनोरथम् ॥ १४ ॥ भूत्वा कलत्रिणः प्राक् किं जिनाः सिद्धा न तद्भवे १ । उदृढस्तत् त्वमप्येवं समये स्वार्थमाचरेः ।। १५ ।। मत्वा तातमनुल्लङ्घ्यं भोगकर्मात्मनश्च तत् । वचो मेने विभुर्येन प्रभवो न जडग्रहाः ॥ १६ ॥ द्वाभ्यामप्यथ भूषाभ्यां चक्रे वर्धापनं महत् । पूर्वापरपयोदाभ्यामिवागार्ज जगन्मुदे ॥ १७ ॥ दानं च घोषणापूर्व दापितं सर्वतोमुखम् । निर्णीतं गणैकैर्लग्नं सर्वग्रहमनोहरम् ॥ १८ ॥ लसच्चन्द्रोदयं मुक्तातारं स्तम्भोर्ध्वदिग्गजम् । स्वर्ण रौप्यप्रभाविद्युद् धूपधूम्याऽभ्रडम्बरम् ॥ १९ ॥ व्योमेव विपुलं हर्षान्निजावासभुवोऽङ्गणे । विवाहमण्डपं सद्यः प्रसेनजिदकारयत् ॥ २० ॥ ( युग्मम् ) विवाहदिवसे प्राप्ते सुमुहूर्ते प्रभावती । रङ्गावली चतुष्कान्तसिन्धां दिव्यवाससि ।। २१ ॥ न्यवेशि पूर्वाभिमुखी मणिपट्टा हितक्रमा | कारितं नखकर्माऽस्याः प्रत्रक्षणपुरस्सरम् || २२ || ( युग्मम् ) रक्तांशुकपरीधाना विकखरमुखाम्बुजा । प्राची दिगिव साsराजदासन्नार्कसमागमा ॥ २३ ॥ चन्दनाक्षतदूर्वाद्यहस्ताभिर्मङ्गलारवैः । १ भारवान् । २ विवाहितः । ३. ज्योतिर्विद्भिः । ४ आसन्दी आसनम् । Page #288 -------------------------------------------------------------------------- ________________ २७६ श्रीपार्श्वनाथचरितेविदधे तत्कुलस्त्रीभिर्वर्णकोद्वर्णकक्रमः ॥ २४ ॥ स्नपयित्वा स्वर्णकुम्भैः फलपुष्पपयोभृतैः । गुरुदत्ताऽक्षतां मूर्धन्यथ तास्ताममण्डयन् ॥ २५ ॥ तस्या देहा-क्षि-पादेषु कुङ्कुमा-ऽञ्जन-यावकाः। कस्तूरिका कपोले च प्रत्युतापुः परां श्रियम् ॥ २६ ॥ नूपुरे पादयोर्मध्ये मेखलाङ्गुलिघूमिकाः । सरिका बाहुयुग्मे च तारहारस्तु वक्षसि ॥ २७ ॥ मुक्तानां कण्ठिकाः कण्ठे कर्णयो रत्नचक्रिके । भाले रत्नमयी चन्द्रलेखा मुनि शिरोमणिः ॥ २८ ॥ सुस्थानलाभसंतोषादिवाऽस्या दिव्यवाससः । लग्नानीत्युल्लसन्ति स्म भूषणानि तनौ भृशम् ॥ २९ ॥ (विशेषकम् ) इत्थं श्रीपार्श्वनाथोऽपि दक्षस्त्रीभिः प्रसाधितः । राज्ञो मौहूर्तिकैलेंग्नप्रत्यासत्तिनिवेदिता ॥ ३० ॥ ततो राजसमादिष्टः परिवारभृतोऽभितः । धवलदिरदारूढः कुमारः कृतमङ्गलः ॥ ३१ ॥ सचामरगजारूढवाररामोपशोभितः। .... वसन्तश्रीशरल्लक्ष्मीयुतः काम इवाङ्गवान् ॥ ३२ ॥ विचित्रवाहनारूढैवेष्टितोऽनेकपार्थिवैः। तूर्यनादे खमुत्सर्पत्याख्यातुं त्रिदशानिव ॥ ३३ ॥ वीक्ष्यमाणः पुरस्त्रीभिः साभिलाषं सकौतुकम् । , सच्छायो लीलया गच्छन् प्रापदुद्राहमण्डपम् ।। ३४ ॥ (चतुर्भिः कलापकम् ) तत्र चाऽऽचमनं दत्त्वाऽवतीर्णस्य करीश्वरात् । दत्तः श्वश्रूजनेना? दधि-दूर्वा-क्षतादिभिः ॥ ३५ ॥ मुशलेनाऽलिके स्पृष्टः कृतमन्थयुगक्रमः। १ •ऽस्या वरस्त्रीभिः, एवमपि । २ कटौ । ३ मुद्रिका : ४. भूषितः । Page #289 -------------------------------------------------------------------------- ________________ २७७ षष्ठः सर्गः पदाक्रान्तपुटश्चैष निन्ये मातृगृहे वरः ॥ ३६॥ - यत्रास्ते सितदुकूलपच्छादितमुखी वधूः। छन्नेन्दुः शरदभ्रेण पौर्णमासीव शर्वरी ॥ ३७॥ नीरङ्गीस्फेटनायाऽस्याः सखीभिः प्रार्थितो वरः। ददावाऽऽचारिकं स्मित्वा ताभिरुद्घाटितं मुखम् ॥ ३८ ॥ दृष्टा चाऽनेन सा किश्चिद्विकस्वरमुखाम्बुजा । सहर्षसाध्वसा चेतोभुवोऽपि स्वान्तहारिणी ॥ ३९ ॥ मङ्गलाचारपूर्व च जज्ञे पाणिग्रहस्तयोः । बद्धाश्चलौ च तौ तस्माद् गतौ चतुरिकाऽन्तरे ॥ ४० ॥ तत्र मुक्तावचूलाढ्ये प्रवरस्तम्भतोरणे । सूर्यवत् सदिनश्रीकः कुमारः शुशुभेतराम् ॥ ४१ ॥ अथोपचारः प्रारंभे स्वजनानां समन्ततः । श्रीखण्डपुष्पताम्बूलैर्नेपथ्याश्वगजादिभिः ॥ ४२ ॥ ततस्तत्राज्यलाजाद्यैविप्रेणोद्दीपितेऽनले । भ्रमितुं विधिनाऽऽरेभे मङ्गलानि वधूवरम् ॥ ४३ ।। प्रथमे मङ्गले राज्ञा स्वर्णभाराः सहस्रशः । दत्ताः, कुण्डलहाराचं द्वितीये सारभूषणम् ।। ४४ ॥ तृतीये स्थाल-सिपायं चतुर्थे दिव्यचीवरम् । अन्यान्यपि हि कृत्यानि कृतानि निखिलान्यपि ॥४५॥ बहिरङ्गविवाहेनाऽप्येवं प्रीणितविष्टपः । आजगाम कुमारेन्द्रः स्वगृहं मङ्गलोत्सवैः ॥ ४६ ॥ अश्वसेननृपेणाऽपि बहु सत्कारितो जनः । अनर्ण्यमणिमुक्ताभिर्वध्वाश्चाभरणं ददौ ॥ ४७ ॥ जातोद्वाह इति स्वामी नीलरत्ननिभस्तया । गौराङ्गया शुशुभेऽत्यन्तं विद्युतेव नवाम्बुदः ॥ ४८ ।। प्रभुः क्रीडाचलोद्यानादिषु क्रीडंस्तयान्वितः । १ सानन्दा सभया च । २. मण्डलानि, इत्यपि । Page #290 -------------------------------------------------------------------------- ________________ २७८ श्रीपार्श्वनाथचस्तिजनानां जनयन् प्रीतिं वासरानत्यवाहयत् ॥ ४९ ।। सौधेऽन्यदा गवाक्षस्थः प्रभुः काशी विलोकयन् । सपूजोपस्करान् पौरानपश्यद् गच्छतो बहिः ॥ ५० ॥ जगाद च निजान् कोऽयमद्याहो ! बहिरुत्सवः । येनेत्येष जनो याति पुरीतो हर्षसत्वरम् ।। ५१ ॥ कोऽप्यूचे देव ! पश्चाग्नितपः कुर्वन् कठाह्वयः। आगतोऽस्ति तपस्व्येको जनो याति तमर्चितुम् ।। ५२ ।। तं द्रष्टुं कौतुकात् तत्र सानुगः प्रभुरप्यगात् । अपश्यच्च कटं तीव्र पश्चाग्नितपास स्थितम् ॥ ५३॥ ज्ञानत्रयधरः स्वामी दह्यमानं महोरगम् । अपश्यद् वह्निकुण्डान्तः क्षिप्तकाष्ठान्तरस्थितम् ॥ ५४ ॥ तं दृष्ट्वा सहसाऽवोचत् कृपाम्भोधिरिदं. विभुः । अहो ! अज्ञानमज्ञानां यत् तपस्यपि नो दया ॥ ५५ ॥ बालगोपालकादीनामप्येवं सर्वतः सदा । प्रसिद्धं यद् दयाहीनो धर्मो न स्यात् कथञ्चन ॥५६॥ यथा नाथं विना सैन्यं यथात्मानं विना वपुः । शेषकष्टक्रिया शून्या दयाधर्म विना तथा ॥ ५७ ॥ वस्य चेत् कष्टमारेभे तदन्येषां करोषि किम् ? । जीवघातात् कथं पुण्यं न विषादमृतोद्भवः ॥ ५८ ॥ इति श्रुत्वा कठः प्रोचे हस्त्यश्वायेव केवलम् । राजपुत्रा विजानन्ति धर्म तु मुनिपुङ्गवाः ॥ ५९ ॥ ततस्तत्प्रत्ययार्थ स्वैर्नरैराकृष्य कुण्डतः तत् काष्ठं स्फोटयामास यत्नेन जगतां पतिः ६० ॥ सहसा निरगात् तस्मादहिर्दाहाकुलः स्फुरन् । तस्य चाशु नमस्कारं नृभिः प्रभुरदापयत् ॥ ६१ ॥ विभोगवाक्यपीयूषैः सोऽस्ततापः समाधिना । नमस्कारामृतं पीत्वा मृत्वा नागाधिपोऽभवत् ॥ ६२ ॥ Page #291 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। . २७९ महर्द्धिर्धरणो नाम रेजे नागसुरेषु सः । जयी विश्वे नमस्कारः स्याद् मृतोऽप्यमरो यतः ॥ ६३ ॥ अहो ! म्रर्तिः कट ! ज्ञानं दया काऽप्यस्य साधुवाक् । स्तूयमानो जनैरेवं ययौ स्वभवनं विभुः ॥ ६४ ॥ अथ कष्टतरं बालस्तपस्तेपे कठो हठात् ।। कष्टं हि सुकरं पुंसां विवेकोऽतिसुदुर्लभः ॥ ६५ ॥ विवेको ज्ञानरूपस्तत् तत्पभावाच्छुभं कृतम् । तन्वपि प्राज्यपुण्याय तं विना नतु बह्वपि ।। ६६ ॥ लभतेऽल्पं धनं स्थूलग्रावोद्धारेऽपि कर्मकृत् । तद् बहु स्वल्पभारेणाऽप्यर्जयेद् रत्नकोविदः ॥ ६७ ॥ मृत्वा मेघकुमारेषु कठो भवनवासिषु । असुरो मेघमालीति नामतः समजायत ॥ ६८ ॥ श्रीपार्थो भोगसौख्यानि भुञ्जानोऽन्येारागते । मधौ जनोपराधेन ययावुद्यानमीक्षितुम् ॥ ६९ ॥ स तत्रोद्यानपालेन दर्शमानलताद्रुमः ।। निध्यायन् पुष्पावचयजलक्रीडादिकृजनम् ॥ ७० ॥ क्रमेणोद्यानमध्यस्थं प्रासादं प्राविशद् विभुः। तद्भित्तौ नेमिचरितचित्रं चैक्षत नीलरुक् ॥ ७१ ॥ राज्य-राजीमतीत्यागं विधायाश्रितसंयमम् । दृष्ट्वा नेमि विरक्तोऽसौ सुतरामित्यचिन्तयत् ।। ७२ ॥ विवेकः कोऽप्यहो ! श्रीमन्नेमेरनुपमः खलु । नवे वयसि निःसङ्गो य एवं व्रतमग्रहीत् ॥ ७३ ॥ सर्वथा त्याज्य एवाऽयं संसार इति चिन्तयन् । बभूव भगवान् भुक्तभोगकर्मा व्रतोन्मुखः ॥ ७४ ॥ तदा च तं सपद्येव सुराः सारखतादयः । लोकान्तिका ब्रह्मलोकादेत्य नत्वा व्यजिज्ञपन् ॥ ७५ ॥ १ पश्यनू । Page #292 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते जगद्रोहकमोहस्य त्वमेव शमने क्षमः । तत् त्रैलोक्योपकाराय प्रभो ! तीर्थं प्रवर्तय ॥ ७६ ॥ आ गर्भवासात् त्रिज्ञानः स्वयं विश्वपते ! वयम् | इदं ब्रूमोsधिकारित्वादित्युक्त्वा ते ययुर्दिवम् ॥ ७७ ৷ ततः सायं गतः सौंधं विसृज्य सुहृदः प्रभुः । पल्यङ्कस्थो निशां निन्ये भावयन्निति भावनाम् ॥ ७८ ॥ किं न भुक्तं च मुक्तं च भवे सौख्यं शरीरिणाम् । तदपूर्वस्य कस्यार्थे भूयोऽप्यायासमेत्यसौ ॥ ७९ ॥ किं कस्यापि कृते किञ्चिद् भुवने वस्तु विद्यते १ । aayad काले स्वयमेव विपद्यते ॥ ८० ॥ तदेवं सति को मोहो देहिनां यदिदं मम । गते च तत्र कः खेदो यदिदं मे गतं मृतम् ? ॥ ८१ ॥ ममतामालया चद्धः कोऽरघट्टघटीव न ? | करोति भवकूपेऽस्मिनेहिरेयाहिरां क्रियाम् ॥ ८२ ॥ हा ! मुक्त्वा ध्रुवमज्ञानादध्रुवेऽप्यलगज्जनः । तदात्मानं स्थिरज्ञानं कृत्वा लोकं प्रबोधये ॥ ८३ ॥ इत्यादि ध्यायतो मोह इव पर्यगलन्निशा । प्रबोध इव चादित्यो विश्वोद्योतार्थमुद्गतः ॥ ८४ ॥ कृत्वा प्रभातकृत्यानि गत्वा पित्रोव सन्निधौ । तौ संबोध्य स्वदीक्षायै दानमारभत प्रभुः ।। ८५ । यथेच्छं गृह्यतामित्याघोष्याऽऽवर्षं प्रयच्छतः । दानं विभोर भूदिन्द्रादिष्टः श्रीदः स्वेपूरकः ॥ ८६ ॥ स्वर्ण पार्श्व वित्ताम्बु वर्षति । वृद्धा कीत्यपिगा विष्वक् पूर्णान्यर्थिसरांसि च ॥ ८७ ॥ दारिद्र्यमयदावाग्निः शशाम जगतोऽखिलः । परमानन्दकन्दाश्च सद्यः कन्दलिता भुवि ॥ ॥ ८८ ॥ १ एहि रे ! याहि रे ! यस्यां क्रियायां सा एहिरेयाहिरा, ताम् । २ धनपूरकः । २८० Page #293 -------------------------------------------------------------------------- ________________ पष्ठः सर्गः। २८१ सरोऽल्पदं प्रधिर्दुर्गोऽपेयोऽम्भोधिर्नदीवरी । घनस्तु घनदस्तेन विश्वोपरि जिनस्तथा ॥ ८९ ॥ तदानेनार्थिनः पुष्टा रणद्भिः स्वर्णभूषणैः । कुर्वन्तीव गृहे दौस्थ्यनिर्वासपटहध्वनिम् ॥ ९० ॥ एका कोटी हिरण्यस्य लक्षाण्यष्टौ च स प्रभुः । ददौ प्रतिदिनं सूर्योदयादाभोजनक्षणम् ॥ ९१ ॥ त्रीणि कोटिशतान्यष्टाशीतिश्च स्वर्णकोटयः। अष्टाशीतिश्च वर्षेण सर्वदाने विभोरभूत् ।। ९२ ॥ अथेयुर्वासवाः सर्वे ज्ञातदीक्षाक्षणा विभोः। ते चाऽश्वसेनशेषाश्च पार्थिवा एकतोऽमिलन् ॥ ९३ ॥ सर्वेऽनुज्ञाप्य ते दीक्षाभिषेकाय नता विभुम् । तीर्थाम्भःसंभृतैः कुम्भैरुत्सवात् तमसिष्णपन् ॥ ९४ ॥ हरिचन्दनकर्पूरलिप्ताङ्गो दिव्यचीरभृत् । पारिजातादिपुष्पौघस्फारधम्मिलबन्धुरः ॥ ९५ ॥ हार-कुण्डल-कोटीर-कङ्कणा-ऽङ्गदभूषणैः । शक्रेण भूषितो भक्त्या रेजे कल्पद्रुवद् विभुः ॥ ९६ ॥ (युग्मम् ) अथाऽऽरोहनरा-ऽमत्र्यैरुद्वाह्यां शक्रसूत्रिताम् । ... विशालां शिबिकां स्वामी चित्तवृत्ति सतामिव ॥ ९७ ॥ तत्रासनमलंचक्रे स पूर्वादिमिवार्यमा । अभातां चामरे तस्य पक्षयोर्यशसी इव ।। ९८ ॥ रेजे तस्योपरि च्छवं सुवृत्तोज्ज्वलमुल्लसत् । खस्वरूपमिव ब्रह्मद्वारोपरि परिस्फुरत् ॥ ९९ ।। वाद्यमानेषु वाद्येषु पठत्सु पटु बन्दिषु । जयारवे प्र#मरे सङ्गीते विविध सति ॥ १०० ।। काशिमध्येन सोत्कण्ठं वीक्ष्यमाणः पुरीजनैः। १ कूपः । २ इत्वरी गमनशीला । ३ प्रसरणशीले । Page #294 -------------------------------------------------------------------------- ________________ २८२ श्रीपार्श्वनाथचरितेनम्यमानोऽञ्जलिप्रडं स्तूयमानः सहाशिषा ॥ १०१ ॥ तद्भक्तिं श्रीवरः स्वामी प्रतीच्छन् सनराऽमरः । मुदाऽगादाश्रमपदमुद्दोढुं संयमश्रियम् ॥ १०२ ॥ (विशेषकम् ) यत्र स्वाम्यागमात् तुष्टा इवाऽशोका-ऽऽम्र-जम्बवः । एला-लवङ्ग-कक्कोल-पूगाद्या विलसन्त्यगाः ॥ १०३ ॥ कदली-लवली-द्राक्षा-नागवल्ली-प्रियङ्गवः । वासन्त्याद्या लताः कम्पैर्नृत्यन्तीवाप्रपल्लवैः ॥ १०४ ।। मालती-यूथिका-मल्ली-केतकी-शतपत्रिकाः। चम्पकाद्या हसन्तीव विकाशिकुसुमच्छलात् ।। १०५॥ शिविकातः समुत्तीर्य तत्राऽशोकतरोस्तले । स्वाम्यमुश्चत् क्षमैश्वर्य-स्वर्ण-रत्नपरिग्रहम् ॥ १०६॥ क्षमा सहिष्णुतामेव सुवर्ण समतां पुनः। ज्ञानादीन्येव रत्नान्यन्तरङ्गत्वेन सोऽग्रहीत् ॥ १०७॥ त्रिंशद्वर्षः प्रभुः खांशे दृष्यं शक्राहितं दधत् । पौषस्य कृष्णैकादश्यां विशाखाभे कृताष्टमः ॥ १०८ ॥ केशानुन्मूल्य सिद्धांश्च नत्वा चारित्रमग्रहीत् । द्राग मनःपर्ययज्ञानं चापद् दीक्षासहोद्भवम् ॥ १०९ ॥ (युग्मम् ) पञ्चमुष्टयुद्धृतान् केशान् विभोरिन्द्रः स्ववाससा । प्रतीष्य गत्वा चिक्षेपाक्षेपेण क्षीरसागरे ॥ ११० ॥ तदा च राजपुत्राणां प्रभोर्मेव्यमुपेयुषाम् । शतैस्त्रिभिरुपादत्त संवेगातिशयाद् व्रतम् ॥ १११ ॥ इति श्रीपार्श्वनाथस्य शुभभावकृतस्तवाः । स्वस्वस्थानं ययुः सर्वे सुरा-ऽसुर-नरेश्वराः ।। ११२ ॥ तदा तत्रैव भगवाल्लॅम्बमानभुजद्वयः। कायोत्सर्गेण कर्माऽम्भोभ्रंशनायेव तस्थिवान् ॥ ११३ ॥ Page #295 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । द्वितीयेऽह्नि गतः कोपकटाख्ये सन्निवेशने । पारणायाविशन्नाथो धनस्य गृहिणी गृहे ।। ११४ ॥ तदा सार्थाभिर्धमन्यो धन्यो गेहाङ्गणस्थितम् । कल्पद्रुमित्र तं वीक्ष्य सहसाऽभून्मदोत्सुकः ॥ ११५ ॥ सद्यो जातविवेकश्च तं नत्वा पायसेन सः । शुद्धेन शुद्धधर्नाथं कारयामास पारणम् ॥ ११६ ॥ अहो ! दानमहो ! दानमित्युद्धोपपरैर्दिवि । ताडितो दुन्दुभिर्देवैः स्वर्णवृष्टिः कृता ततः ।। ११७ ॥ नानापुष्पैः प्रकीर्णा भूः सिक्ता गन्धाम्बुदृष्टिभिः । चेलोत्क्षेपश्च तैश्चक्रे धन्यस्याऽहो ! सुधन्यता ॥ ११८ ॥ धन्यः पुण्येन गेहं च सुवर्णेन जनो मुदा । गगनं दुन्दुभिध्वानैः पूर्ण नाथस्य पारणे ।। ११९ ॥ धन्यो बहुमतो राज्ञा लोकैरे त्याऽभिनन्दितः । स प्रभोः पारणस्थाने पादपीठं मुदा व्यधात् ॥ १२० ॥ विचचार ततः स्वामी ग्रामा-कर- पुरादिषु । मोहेनैव सवैरत्वाद् मौनी नैकत्र च स्थितः ॥ १२१ ॥ सर्वसहो धरित्री शारदाऽम्भ इवामलः । वह्निवत् तेजसा दीप्रोऽप्रतिबद्धश्च वायुवत् ॥ १२२ ॥ आकाशवन्निरालम्बः पृथ्व्याद्यैरपि पञ्चभिः । दत्तात्मगुणसारत्वादिव सोऽभूज्जगन्मतः ।। १२३ ॥ मेदिनीं पावयन्नाथो द्विधाऽपि चरणक्रमात् । निर्लेपः पद्मवत् कस्य हृदि वासं न स व्यधात् १ ॥ १२४ ॥ अटव्यामन्यदा कादम्ब कलिगिरेरधः । कुण्डाख्यसरसस्तीरे स्थितः प्रतिमया विभुः ।। १२५ ॥ तस्मिन् महीधरो नाम जलपानाऽऽगतः करी । ईहापन्नः प्रभुं दृष्ट्वा जातिस्मरणमासदत् ॥ १२६ ॥ सदध्यौ च यथा प्राच्यभवेऽहं हेमलाभिधः । २८३ Page #296 -------------------------------------------------------------------------- ________________ २८४ श्रीपार्श्वनाथचरितेवामनाङ्गो जने हास्यभूरासं कुलपुत्रकः ॥ १२७ ।। पितुः परिभवेऽन्येाहानिर्गत्य बम्भ्रमत् । सुप्रतिष्ठाख्यमित्रेण नीतोऽहं गुरुसन्निधौ ॥ १२८ ॥ गुरुणा च यतित्वस्याऽयोग्यत्वात् श्रावकवतम् । ग्राहितोऽहं परं लोकैहोस्यमानोतिखिन्नवान् ।। १२९ ॥ तल्लघु स्वां तनुं निन्दन्नभिनन्दन् महातनुम् । मृत्वाऽऽर्तध्यानतोऽभूक्मेष शैलोपमः करी ॥ १३० ॥ तदिदानी पशुः कुर्वे किं किं वाऽऽराधयाम्यहम् । अथवा किं वितर्केणाऽमुमेव प्रभुमर्चये ? ॥ १३१ ॥ इति ध्यात्वा प्रविश्यान्तःसरः स्नात्वा च दन्तिराट् । आदाय चारु पनानि पार्ये पार्थप्रभार्ययौ ॥ १३२ ॥ स त्रिःप्रदक्षिणीकृत्य प्रभुं पद्मः पदद्वयम् ।। पूजयित्वा च नत्वा च यथास्थानं गतः करी ॥ १३३ ॥ अथागत्य यथासन्ना देवाः सद्गन्धवस्तुभिः । पूजयित्वा विभुं नाट्यविधि विदधिरे मुदा ।। १३४ ॥ सर्व गत्वा च चम्पायां तत्प्रदेशवनेचराः । करकण्डुनरेन्द्रस्य तत् स्वरूपं न्यवेदयन् ॥ १३५ ॥ विस्मितश्च नरेन्द्रोऽसौ सद्यः सबलवाहनः । वन्दितुं प्रभुमभ्यागात् प्रभुस्त्वग्रेऽन्यतो ययौ ॥ १३६ ॥ तत्र च प्रतिमा भर्तुर्नवहस्ता विनिर्मिता । सुरैर्दिव्या, महाभक्त्या सा नरेन्द्रेण पूजिता ॥ १३७ ।। कारयित्वा च तत्रोरु चैत्यं तस्मिन्निवेशिता । साऽधिष्ठायकभावेन सप्रभावाऽभवद् भृशम् ।। १३८ ।। दूरदेशान्तरादागाजनस्तां मूर्तिमर्चितुम् । साऽपि दत्ते मनोऽभीष्टमनिष्टं हरते नृणाम् ॥ १३९ ॥ कलेः कुण्डस्य चासन्नभावित्वादगमजने । कलिकुण्ड इति ख्यातं तत् तीर्थ विश्वपावनम् ॥ १४०॥ Page #297 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। २८५ सोऽपि काले करी मृत्वा तीर्थे तत्रैव भक्तिमान् । महर्द्धिय॑न्तरो जातः प्रातिहार्यकरः परः ॥ १४१ ॥ प्रभुः श्रीपार्श्वनाथोऽपि शिवापुर्या ययौ क्रमात् । कौशाम्बाख्ये वने तत्र कायोत्सर्गेण तस्थिवान् ॥ १४२ ॥ स्मृत्वा पूर्वोपकारं च तदागाद् धरणोरगः । महद्धा स्वामिनं नत्वा पुरो नाट्यविधि व्यधात् ॥१४३॥ हहाऽस्यार्ककरस्पर्शो मयि सत्यपि सेवके । ध्यात्वेति स व्यहं भर्तुः शीर्षे छत्रमहिर्दधौ ॥ १४४ ॥ ततोऽन्यत्र गते नाथे स्वस्थानं धरणोऽप्यगात् । तदारभ्य जने सा पूरहिच्छत्रेति कथ्यते ॥ १४५ ॥ अथ राजपुरे स्वामी गत्वा प्रतिमया स्थितः । ईश्वराख्यो नृपस्तत्र राजपाट्यां विनिर्ययौ ॥ १४६ ॥ व्रतस्थं देव ! पश्यैनमश्वसेननृपाङ्गजम् । इत्युक्तो बन्दिना हृष्टो नृपः पार्थान्तिकं ययौ ॥ १४७ ॥ नृपो दृष्ट्वा विभुं कापि दृष्टोऽयमिति चिन्तयन् । मूर्छितो लब्धसंज्ञश्च जातजातिस्मृति गौ ॥ १४८ ।। अहो ! चित्रं यदस्मारि निजप्राच्यभवो मम । मन्त्र्यूचे स विभो ! कीदृग् नृपः प्राह निशम्यताम् ? ॥१४९॥ श्रीवसन्तपुरे जज्ञे दत्तनामा द्विजः पुरा । निमित्तोद्वाहलग्नादिकथनाजनसम्मतः ॥ १५ ॥ अथाऽभूत् कुष्ठरोगोऽस्य विनष्टवपुरित्यसौ। कुटुम्बेनाऽप्यवज्ञातो गङ्गायां मृत्यवे गतः ॥ १५१ ॥ तज्जले निपतन्नेष दृष्टो विद्याधरर्षिणा । उदितश्च महाभाग ! ब्रुडस्येवं जले कथम् ? ॥ १५२ ॥ महारसायनं जैन सर्वरोगहरं कुरु । शाखाच्छेदेन किं कर्ममूलं छिन्द्धि विपत्तरोः ॥ ? १५३ ॥ किं तद् रसायनं तेनेति पृष्टो मुनिराख्यत ? । Page #298 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते पञ्चव्रती ससम्यक्त्वां कषाया ऽक्षजयं तथा ।। १५४॥ ततोऽसौ शुद्धभावेन गृहिधर्म प्रपन्नवान् । अचित्ताहार-पश्चेष्टनमस्कारपरोऽभवत् ।। १५५ ॥ : अन्यदाऽसौ गतचैत्ये जिनं नन्वा तथा मुनिम्। . उपविष्टस्ततोऽपृच्छत् पुष्कलिश्रावको मुनिम् ॥ १५६ ॥ स्वामिन्नेवंविधव्याधिशीर्णाङ्गस्य जिनौकसि । आगत्य युज्यते देववन्दनं किमु वा न हि ? ॥ १५७ ॥ यत्यूचे वन्दने देवावग्रहाशातनोज्झनात् । को दोषो यद् मलक्लिनदेहाः स्युर्यतयोऽपि हि ? ॥१५८॥ क गतावेष गन्तेति तेनोक्तः स पुनर्जगौ । बद्धायुभाव्यसौ राजपुरे तिर्यक्षु कुक्कुटः ॥१५९ स कुष्ठी भावि दुःखं तत् श्रुत्वा स्वस्याऽरुदत्तराम् । संबोधितश्च मुनिना यद् मा खिद्यस्व कोविद ! १६० ॥ प्रचण्डपवनोद्धृततरङ्गस्याऽम्बुधेरपि । प्रसरः शक्यते रोडुं न तु प्राक्कृतकर्मणः ।। १६१ ।। बुद्ध्वा दत्तोऽवदन्नाथ ! लप्स्ये बोधिं पुनः कदा ?। मुनिराख्यदितस्तावत् कुक्कुटस्त्वं भविष्यसि ॥ १६२ ।। ततो राजपुरे दृष्ट्रा मुनि जातिस्मृतिं गतः । विहितानशनो मृत्वा नृपस्तत्रैव भाव्यसि ॥ १६३ ॥ राजपाट्यां गतस्तत्र दृष्ट्वा पार्श्वजिनं भवान् । लब्धा बोधिमिति श्रुत्वा दत्तः प्रमुदितोऽभवत् ॥ १६४ ॥ स्मृत्वाऽसौ कुक्कुटो भूत्वा ततोऽभूदीश्वरो नृपः । स चैषोऽहं प्रभुं नत्वा मन्त्रिन् ! जातिस्मृतिं गतः ॥१६५।। ततो नत्वा प्रभोः कायोत्सर्गस्थाने विधाप्य राट् । : चैत्यं तत्र विभोर्बिम्बमुत्सवेन न्यवीविशत् ॥१६६॥: कुक्कुटेश्वर इत्याख्या तस्य चैत्यस्य विस्तृता । । १ मुनिः । Page #299 -------------------------------------------------------------------------- ________________ २८७ षष्ठः सर्गः। कुक्कुटेश्वरसंज्ञं तत्संबन्धात् पुरमप्यभूत् ॥१६७॥ सुख दुःखे भवे मोक्षे शत्रौ मित्रे च तत्समः । ज्ञान-दर्शन-चारित्रैः क्षान्त्यादिभिरनुत्तरः ।। १६८ ॥ विहरनेकदा नाथो नगरासनवर्तिनम् । तापसाश्रममागाच ययौ चाऽस्तमहर्पतिः ॥ १६९ ॥ (युग्मम् ) मोहदस्योः पदमिव द्रष्टुं भूमि विलोकयन् । प्रभुश्वरति तेनार्कदीपाऽस्ते न पुरोऽचलत् ॥ १७० ॥ तत्रोपकुपं न्यग्रोधमूले प्रतिमया विभुः। तस्थिवानिशि निष्कम्पः कायेन मनसेव सः॥१७१॥ इतश्च मेघमाली प्राग्भवव्यतिकरं निजम् । विवेदाऽवधिना पार्श्व पूर्ववैरं च सोऽस्मरत् ।। १७२ ॥ ततः क्रुधा ज्वलन्नुच्चैर्दवेनेव महीधरः । श्रीवामेयमुपद्रोतुमुपागादसुराधमः ॥ १७३ ॥ स विचक्रे पुरो व्याघ्रान् दंष्ट्राक्रकचभीषणान् । सुतीक्ष्णनखकुद्दालानग्निदीप्रदृशो बहून् ।। १७४ ॥ पाताल इव ते क्षेप्तुं पुच्छराछोटयन् महीम् । चक्रुः पुत्कारशब्दं चाऽऽह्वातुं मृत्युमिवोच्चकैः ।। १७५॥ तथाऽपि प्रभुमक्षोभ्यं विदित्वा कापि ते ययुः। स्फुरद्ध्यानप्रदीपेन स्वामिना भीषिता इव ।। १७६ ॥ गर्जन्तोऽथ गजास्तेन विकृता विकृतात्मना । दूरादेत्य प्रभौ पेतुस्ते शैला इव जङ्गमाः ॥ १७७ ॥ भीष्मस्तैरपि नाऽक्षोभि प्रभुस्तत् तेऽप्यदृश्यताम् । वृथा स्थूलत्वमस्माकमिति हीता इवाऽगमन् ॥ १७८ ॥ तेनाऽथ विकृता नाथोपसर्गाय क्रमादिमे । भल्लूकाश्चित्रका दृष्टिविषसाश्च वृश्चिकाः ॥ १७९ ॥ १ लजिताः । Page #300 -------------------------------------------------------------------------- ________________ २८८ श्रीपार्श्वनाथचरितेतैरप्यक्षोभि न तिलतुषमात्रमपि प्रभुः । बहीभिरपि वात्याभिः कथं चलति मन्दरः १ ॥ १८० ॥ तथाकाष्ठमङ्गारतां याति भस्मतां गोमयादिकम् । वह्नौ कीर्ण सुवर्ण तु सुवर्णोत्कर्षतां व्रजेत् ॥ १८१ ॥ जातामर्षस्ततो बाढं भवे स्वमिव तं प्रभुम् । नीरे मज्जयितुं पापो विचक्रे घनमम्बरे ॥ १८२ ॥ कालरात्रिनिभः क्लप्ततर्जितैरिव गर्जितैः। सोऽपूरयद्दिशः कालजिह्वामा विद्युदातत् ॥ १८३ ॥ निरुद्धचक्षुःप्रसरमसञ्चारं तमोभरैः। तदाऽभूदाकुलं विश्वं गर्भवास इव स्थितम् ॥ १८४ ॥ मुशलाकारधाराभिः प्रवृत्ते वर्षितुं घने । रोदस्येकजला जज्ञे प्लाविता जन्तवो जलैः ॥ १८५ ॥ क्रन्दन्तीव दिशो गर्जिनादैर्धाराश्रुभिनभः । रोदितीव भुवोऽप्यास्यं नीरैश्वीरिवावृतम् ॥ १८६ ॥ केषां दुःखं न पार्श्वस्योपसर्गेऽभूनिशाऽपि यत् । चक्रेऽभ्रच्छन्ननक्षत्रव्याजान्नेत्रनिमीलनम् ॥ १८७ ॥ प्रभोर्जानुकटीकण्ठदनं नीरं भवत् क्रमात् । नासाग्रमाययौ नेत्रेऽस्याऽशोभेतां तदाऽब्जवत् ॥ १८८ ।। नासाग्रन्यस्तगयुग्मः सदाऽयं तत् तदेव हि । पश्यामीति धियेवाऽम्भः प्रभोर्नासाग्रमाययौ ॥ १८९ ॥ तथाऽपि स निजान्नाथः स्थानाद् ध्यानाच्च नाऽचलत् । भवाम्भोधिपतद्विश्वाधारस्तम्भ इव स्थितः ॥ १९ ॥ अथो विवेद धरणोरगेन्द्रोऽवधिना विभोः । कठोपसर्ग सद्यश्च स्वदेवीभिः सहाययौ ॥ १९१ ॥ प्रभुं नत्वाऽथ सोऽम्भोज न्यधात् तत्पादयोरधः । खभोगेन पुनः पृष्ठं पाश्वौं च पिदधे विभोः ॥ १९२ ।। Page #301 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। २८९ चक्रेऽस्य शिरसि च्छत्रं धरणः सप्तभिः फणैः। अधस्तात् तिर्यगूज़ च स्वयशः ख्यापयन्निव ॥ १९३ ॥ तदा च भगवानम्भोमाननालेऽम्बुजे स्थितः । समाधिसुखलीनात्मा राजहंस इवाबभौ ॥ १९४ ॥ वर्षान्तोद्भूतभोगीन्द्रशिरोरत्नाङ्कुरैः प्रभुः ।। दीपोत्सवमिवातन्वन् न कस्याऽऽसीत् शिवंकरः॥१९५॥ चक्रुर्धरणदेव्योऽथ सङ्गीतं भक्तिनिर्भराः । वेणु-वीणा-मृदङ्गादिवाद्यपूर्व पुरः प्रभोः ।। १९६ ॥ धरणो भक्तिमानेवं कमठश्चोपसर्गकृत् । द्वयोरपि तयोस्तुल्यमनोवृत्तिरभूद् विभुः ॥ १९७ ।। येन व्याप्रियमाणेन सुखं दुःखं च वेद्यते । धर्मध्यानलये लीनं तन्मनो हि दृढं विभोः ॥ १९८ ॥ एवं सत्यप्यमर्षेण वर्षन्तं मेघमालिनम् । निरीक्ष्य धरणः कोपात् साक्षेपमिदमब्रवीत् ॥ १९९ ॥ अरे ! किमेतदारेभे स्वस्याऽनर्थाय दुर्मते ! । सहिष्णोरपि भृत्योऽहं सहिष्येऽतः परं नहि ॥ २०० ॥ काष्ठान्तदह्यमानाहिं प्रदश्य प्रभुणाऽसि चेत् । निषिद्धोऽनेन पापात् तत् कोऽपराधः कृतस्तव ? ॥२०१।। लवणायोषरावन्यां मेघवारि यथा भवेत् । तथा सदुपदेशोऽपि वैरायाऽजायत त्वयि ॥ २०२ ॥ निष्कारणारिस्त्वं नाथेऽस्मिन्निष्कारणबान्धवे । रे ! यदेवमपाकास्तिदद्य न भविष्यसि ॥ २०३ ॥ निमज्ज्यते जलै ऽयं त्रिजगत्तारणक्षमः । त्वं त्वगाधे भवाम्भोधौ पापाद् नूनं ब्रुडिष्यसि ॥२०४ ॥ निशम्येदं वचो मेघमाली दृशमधो न्यधात् । तथास्थितमपश्यच्च पार्थ नागेन्द्रसेवितम् ॥ २०५॥ दध्यौ चैवं स भीतः सन् मम शक्तिरियत्यपि । Page #302 -------------------------------------------------------------------------- ________________ २९० श्रीपार्श्वनाथचरितेवृथाऽत्राऽभूत् पिनष्ट्येष मुष्टिना हि गिरीनपि ॥ २०६॥ मूढेन हा ! मयाऽऽत्मैव पातितो भवसागरे । क्षिप्तः कल्पद्रुमे वह्निर्यदेष स्वाम्युपद्रुतः ।। २०७॥ दयालुनैष मे हन्ता धरणेन्द्रात् तथाऽपि भीः । अनन्यशरणः पार्थ तद् विश्वशरणं श्रये ॥ २०८ ॥ इति ध्यात्वाऽऽशु संहृत्य घनं स्खमिव कश्मलम् । उपेत्य नत्वा श्रीपार्श्व सदैन्यं स व्यजिज्ञपत् ।। २०९ ॥ कोपो यद्यपि नास्त्येवाऽपकारिण्यपि ते प्रभो !। तथाऽपि निजदुष्कर्मदोषादस्ति महाभयम् ॥ २१० ॥ रक्ष रक्ष जगन्नाथ ! ततो मां पापशङ्कितम् । रक्षाक्षमः कृपालुश्च यत् त्रिलोक्यां त्वमेव हि ॥ २११ ॥ इत्युक्त्वा क्षमयित्वा च प्रभु भक्त्या प्रणम्य च । पश्चात्तापपरः स्थानं मेघमाली निजं ययौ ॥ २१२ ॥ उपसर्गहरस्याऽपि निवार्योपद्रवं विभोः। स्तुत्वा नत्वा च चरणौ खं धाम धरणोऽप्यगात् ॥२१३॥ अथ रात्रिः प्रभोर्दुःखेनैव सार्धं ययौ क्षयम् । मुखोद्घाटः कृतश्चैन्द्रया मुदेवोद्यद्रविच्छलात् ।। २१४ ॥ कठेन सह कर्मार्णोमुक्तः स्वामी ततः पुनः । काशिं गत्वाऽऽश्रमपदोद्यानेऽस्थाद् धातकी तले ॥२१५॥ अपूर्ववीर्योल्लासाच घातिकर्मतरूंस्तदा । आधभेदद्वयीधारशुक्लध्यानासिनाऽच्छिदत् ॥ २१६ ॥ दिनेषु चतुरशीतौ गतेषु व्रतवासरात् । चैत्रकृष्णचतुर्थ्यति विशाखास्थे निशाकरे ॥ २१७ ॥ तत्राष्टमतपस्स्थस्य श्रीपार्श्वस्य जगत्पतेः। पूर्वाह्ने केवलज्ञानमुत्पेदेऽनन्तवैभवम् ॥ २१८ ॥ तदालोकमलोकं च ज्ञानाद्वैतमयः प्रभुः । Page #303 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । २९१ त्रिकालविषयं सर्वं जानीते स्म ददर्श च ॥ २१९ ॥ ततो विष्वक् सुरेन्द्राणामासनानि चकम्पिरे । ज्ञात्वाऽवधेच ते ज्ञानं विभोस्तत्रैयुरञ्जसा ।। २२० ॥ पुण्यं क्वाऽविरतानां नः स्यादेतं सत्क्षणं विना । इति हृष्टाः सुराः सर्वे स्वस्वकृत्यानि चक्रिरे || २२१ ॥ वायुकुमाराः समवसृतिक्ष्मामेकयोजनाम् । अमार्जन मेघदेवावासिञ्चन् गन्धाम्बुदृष्टिभिः || २२२ ॥ व्यन्तराः स्वर्णरत्नैस्तद् वबन्धुर्भूतलं पुनः । तस्मिन् विचित्र पुष्पाण्यधोवृन्तान्यकिरंश्च ते ॥ २२३ ॥ चतुर्दिशं विचस्ते रत्नमाणिक्यकाञ्चनैः । तोरणानि च तद्भूमिशोभायै कण्ठिका इव ॥ २२४ ॥ तस्मिन् मणी रत्न- हेमकपिशीर्षकशोभिताम् । त्रिवमीं रत्न-रे-रूप्यैरन्तर्मध्ये बहिः क्रमात् ।। २२५ ॥ वैमानिका ज्योतिषिका भवनेशा व्यधुः सुराः । ऊर्ध्वाधस्त्रिजगत् त्रातुं प्रवृत्तस्य विभोः कृते ॥ २२६ ॥ ( युग्मम्) प्रतिवमं चतुर्द्वारे सनीलमणितोरणे । धूपघव्यश्चिते वाप्यः स्वर्णाब्जा व्यन्तरैः कृताः ॥ २२७॥ प्राकारस्य द्वितीयस्यान्तरा चोत्तरपूर्वतः । देवच्छन्द विचस्ते स्वामिविश्रामहेतवे ॥ २२८ ॥ मध्ये समवसरणं चैत्यद्भुर्व्यन्तरैः कृतः । सप्तविंशतिधन्वोच्चः स्वाम्यागममिवेक्षितुम् ॥ २२९ ॥ तस्याधो विविधै रत्नैः पीठं विदधिरे च ते । तस्योपरिच्छन्दकं चामेतिच्छन्दं मणीमयम् ॥ २३० ॥ तन्मध्ये पूर्वदिग्भागे रत्नसिंहासनं व्यधुः । छत्रत्रयं मूर्ध्नि दधेः यक्षाभ्यां चामरद्वयी ।। २३१ ॥ १राः सुवर्णम् । २ अनुपमम् । Page #304 -------------------------------------------------------------------------- ________________ २९२ श्रीपार्श्वनाथचरितेधर्मचक्रं पुरो द्वारे चक्रुः स्वर्णाम्बुजस्थितम् । .. तत्राऽन्यदपि यत् कृत्यं तत् सर्व व्यन्तरा व्यधुः ॥२३२।। सुरसञ्चारितस्वर्णपद्मन्यस्तपदः क्रमात् । प्रभुः समवसरणं सुरकोटीतो ययौ ।। २३३ ॥ तत्र प्रविश्य चैत्यद्रोः प्रभुश्चक्रे प्रदक्षिणाम् । तीर्थ नत्वा प्राङ्मुखोऽथ सिंहासनमशिश्रियत् ॥ २३४ ॥ द्राक् प्रभोः प्रतिरूपाणि दिवन्यासु तिसृष्वपि । व्यन्तरास्तादृशान्येव चक्रुः स्वामिप्रभावतः ।। २३५ ॥ पश्चाद् भामण्डलं रेजे पुरो रत्नमयध्वजः । प्रभोजलदगम्भीरो दिवि दध्वान दुन्दुभिः ॥ २३६ ॥ साधु-वैमानिकी-साध्व्यः स्युराग्नेय्यां विभोः क्रमात् । नैऋत्यां भुवनपति-ज्योति य॑न्तरयोषितः ।। २३७ ।। वायव्यां दिशि भवन ज्योति य॑न्तरनाकिनः । वैमानिका नरा नार्यः स्युरैशान्यामनुक्रमात् ॥ २३८ ॥ पर्षत्त्रयचतुष्कस्य द्वारैः प्राच्यादिभिः क्रमात् । प्रवेशो नतिपूर्व च तत्र स्थानं यथास्थिति ॥ २३९ ॥ वप्रस्यान्तर्द्वितीयस्य तिर्यञ्चस्त्यक्तविग्रहाः। बाह्यस्य वाहनान्येषा स्यात् समवसृतिस्थितिः ॥ २४० ॥ तदादौ तत्र साध्वीनामभावादेवमेव हि । अस्थात् तत् स्थानकं शेषं सर्वमासीद् यथोचितम् ॥२४१॥ तिर्यग्-नरा-ऽमरा रीत्या स्वस्वस्थाननिवेशिनः । प्रभुप्रभावाद् मान्ति स्माऽनाबाधं तत्र कोटिशः ।। २४२ ॥ वैभवं पार्श्वनाथस्य तत् श्रुत्वोद्यानपालकात् । सद्योऽश्वसेनो रोमाञ्चैज्ञेऽद्धीक्षितनीपवत् ।। २४३ ॥ शकुनायाऽर्थवत् तस्मै दत्त्वेष्टं पारितोषिकम् । वामादेव्यै निवेद्यैतत् प्रभावत्यै च तोषतः ॥ २४४ ॥ १ मेघसिक्तकदम्बवत् । Page #305 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। २९३ हस्त्यश्वरथसंवाहं कारयित्वाऽथ भूपतिः ।। देव्यादिसहितः पार्थ महा वन्दितुं ययौ ॥ २४५ ॥ ज्ञानकजलधौ नद्य इवाऽमरनरश्रियः । श्रीपार्श्वनाथे का नैयुः स्पर्धयेव मिथोऽभितः ? ॥ २४६ ॥ नृपः प्रविश्य समवसरणं त्रिप्रदक्षिणम् । कृत्वा नत्वा च विधिना प्रभुं भक्त्यैवमस्तवीत् ॥ २४७ ॥ एकः पुरुषसिंहस्त्वं मोहमत्तेभनिग्रहात् । इतीव विदधे नाथ ! सिंहासनमिदं सुरैः॥ २४८ ॥ राग-द्वेषमहाशत्रुजयोत्थयशसी इव । चकास्तश्चामरे शुभ्रे पक्षयोरुभयोस्तव ।। २४९ ॥ ज्ञान-दर्शन चारित्रराज्यं त्वय्येकतां गतम् । अतस्तेषामिवैषा ते मूर्ध्नि च्छत्रत्रयी स्थिता ॥ २५० ।। चतुर्धा दिशतो धर्म चतुर्मुख ! तब ध्वनिः । दिव्यश्चतुर्दिशं याति कषायानिव धर्षितुम् ।। २५१ ।। मन्दरादीनि पुष्पाणि पञ्चधा देशनाभुवि । किरन्ति तव पञ्चाक्षजयतोषादिवामराः ॥ २५२ ॥ शाखाशिखरमूलैः षड्दिग्गतैः शंसतीव ते । षण्णां जीवनिकायानां रक्षां किकिल्लिरुल्लसन् ॥ २५३ ॥ दग्धसप्तभयधस्त्वात् सप्ताचिःसममप्यदः । धत्ते भामण्डलं नाथ ! त्वत्सङ्गादिव शैत्यताम् ॥ २५४ ॥ भूत्वा दुन्दुभिरप्युच्चै नन्नष्टासु दिवसौ । अष्टकमरिपुवातविजयं शंसतीव ते ॥ २५५ ।। प्रातिहार्यश्रियं मूर्तामन्तरङ्गां गुणश्रियम् । इत्थं दृष्टा मनो नाथ! कस्य न स्यात् त्वयि स्थिरम् ? ॥२५६॥ इति स्तुत्वा जगन्नाथं पार्श्वनाथमुदारधीः । अश्वसेनो यथास्थानं निविष्टः सपरिच्छदः ॥ २५७ ॥ १ एधस्त्वात् काष्ठत्वात् । Page #306 -------------------------------------------------------------------------- ________________ २९.४ श्रीपार्श्वनाथचरितेअथ दन्तप्रभोन्मिश्रस्वतनूकान्तिभिः प्रभुः । गङ्गा-यमुनयोश्चङ्गसङ्गमश्रियमुद्वहन् । २५८ ॥ गिरा योजनगामिन्या सर्वमाषागुणस्पृशा । त्रिलोक्यालादिमाधुर्यजुषैनां देशनां व्यधात् ।। २५९ ॥ (युग्मम् ) अहो ! भव्याः ! श्रयित्वाऽन्तर्मुखीभावं मनोदशा। निरीक्ष्याऽसारमुज्झित्वा कुरुध्वं सारसंग्रहम् ।। २६० ॥ यतःक्रोधवाडवदुर्दर्श मानपर्वतदुर्गमे । मायाप्रपञ्चनकान्ये लोभावर्तभयङ्करे ॥ २६१ ॥ जन्म-मृत्यु-जरा-रोग-शोक-दुःखजलैभृते । इन्द्रियेच्छामहावातोद्भूतचिन्तोर्मिसङ्कले ॥ २६२ ॥ अस्मिन्नपारे संसारपारावारे शरीरिणाम् । महारत्नमिवाऽनयं मानुष्यमतिदुर्लभम् ।। २६३ ।। तत्राऽपि विजयानां स्यात् शतं षष्टयाऽधिकं तथा । भरतैरवतक्षेत्रदशकं सर्वसङ्ख्यया ॥ २६४ ॥ इत्येवं कर्मक्षेत्राणां स्यात् सप्तत्यधिकं शतम् । प्रतिक्षेत्रं च तत्राऽप्यनार्याणां खण्डपञ्चकम् ।। २६५ ॥ षष्ठं खण्डं भवत्यार्य प्रायो म्लेच्छाद्यधिष्ठितम् । तत्राऽप्यनार्यका देशा धर्मसामग्यभावतः ॥ २६६ ॥ तदेवं सुकुलोत्पत्तिर्दीर्घमायुररोगिता । धर्मेच्छा सुगुरोर्योगः सामग्रीयं सुदुर्लभा ।। २६७ ॥ प्रमादपञ्चक-स्तम्भ-मोह-शोकादिकारणैः। लब्ध्वाऽप्यधन्या मानुष्यं न लभन्ते हितं श्रुतम् ॥२६८॥ हितं श्रुत्वाऽपि कस्याऽपि मतिधर्मे प्रजायते । नहि शुक्तिषु सर्वासु मेघाम्भो मौक्तिकीभवेत् ॥ २६९ ॥ धर्मः शर्मलताकर्ता हर्ता भवनवाऽऽपदाम् । Page #307 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। मनोरथसरोभर्ता धर्ताऽम्बुदवदङ्गिनाम् ॥ २७० ॥ भोगीन्द्रस्थितिमूलान्यः साम्राज्यस्कन्धबन्धुरः । देवर्द्धिविटपो धत्ते धर्मवृक्षः शिवं फलम् ॥ २७१ ॥ अतो धर्मः सदा सेव्यो हेतुरूपः फलार्थिभिः । दान-शील-तपो-भावभेदात् त्वेष चतुर्विधः ॥ २७२ ।। तत्र तावत् त्रिधा तज्ज्ञैर्दानधर्मः प्रकीर्तितः । ज्ञानदाना-ऽभयदान-धर्मोपष्टम्भदानतः ॥ २७३ ॥ यथा लध्वपि सच्चक्षुजने गौरवभाजनम् । तथाऽल्पमपि संज्ञानं तदानं श्रेष्ठमेषु तत् ॥ २७४ ॥ सम्यग् ज्ञानेन वेत्त्यात्मा पुण्य-पापे ततस्तयोः । प्रवृत्तिं च निवृत्तिं च कृत्वा मोक्षसुखं व्रजेत् ।। २७५ ॥ विनाशः शेषदानानां कुतोऽपि कापि दृश्यते । ज्ञानदानं पुनर्वृद्धिसिध्यै स्वस्य परस्य च ॥ २७६ ॥ दत्तानि विश्वसौख्यानि तस्मै तेनाऽखिलान्यपि। यो दत्ते दुर्लभं यस्मै ज्ञानं सर्वज्ञभाषितम् ॥ २७७ ।। याति रागगणो ज्ञानादर्कात् तम इव ध्रुवम् । तेनाऽन्यो नोपकारोऽस्ति ज्ञानदानसमो भुवि ।। २७८ ।। किं वाऽथ बहुना ज्ञानदानात् त्रैलोक्यपूजितः ? । सर्वज्ञो भवतीत्यत्र धनमित्रो निदर्शनम् ॥ २८९ ॥ तथाहिअस्त्यत्र मगधाऽभिख्ये देशे राजपुरं पुरम् । तत्रासीत् त्रासरहितो जयन्तो नाम पार्थिवः ॥ २८० ॥ तत्पुत्रौ कमलावत्याः सत्याः कुक्षिभवावुभौ । विजयश्चन्द्रसेनश्व कुमारगुणशालिनौ ।। २८१ ॥ किन्तु प्राकर्मदोषेण कृताऽमर्षों परस्परम् । असहिष्णू परं तेजस्तौ निर्गमयतो दिनान् ॥ २८२ ॥ नृपमन्येशुरास्थानस्थितं वेत्री व्यजिज्ञपत् । Page #308 -------------------------------------------------------------------------- ________________ २९६ श्रीपार्श्वनाथचस्तेि उभौ द्वारे नरौ देव ! तिष्ठतो दर्शनोत्सुकौ ।। २८३ ॥ आदेशादेत्य तौ तत्र लेखं मुमुचतुः पुरः । वयं राजा तमुद्वेष्ट्य वाचयामास तद्यथा ॥२८४ ॥ स्वस्ति मागधभूमीन्द्रं श्रीजयन्तं महानृपम् । गङ्गोपान्तभुवः स्वाम्ये नियुक्तः सन्निदेशकृत् ॥ २८५ ।। कुरुदेवः सपञ्चाङ्गं नत्वा विज्ञपयत्यदः । देवपादाम्बुजद्वन्दं स्मृत्वा नः कुशलं सदा ॥ २८६ ॥ किन्तु सीमालभूपालः सेवालो देशविप्लवम् । करोत्युपहतग्रामः प्रमाणं देव एव तत् ॥ २८७ ॥ वाचयित्वेति भूपालः स्फुरत्कोपारुणेक्षणः । उवाच भटसामन्ताः ! सन्नद्धा भवत द्रुतम् ।। २८८ ॥ अरे ! पश्यत सुप्तस्य शिरःकण्डूयनं हरेः। सेवालो बालवद् मूढः कथं कर्तुमुपस्थितः ? ॥ २८९ ॥ विज्ञप्तोऽथ कुमाराभ्यां नृपो यदेव ! कीदृशः । संरम्भो राजहंसस्य तव सेवालमात्रके ॥ २९० ॥ आदेशं देहि तदर्पमनल्पमपि तत्क्षणात् । यथा हन्मः प्रयासो हि सेवके सति कः प्रभोः ? ॥२९१॥ तन्निशम्य दृशं राजाऽमात्ये चिक्षेप सोऽवदत् । साधूक्तं राजपुत्राभ्यां कोऽन्यो वेत्तीति जल्पितम् ॥२९२॥ ततो ज्येष्ठसुतो राज्ञाऽऽदिष्टः प्रत्यर्थिनिग्रहे | अमर्षाचन्द्रसेनस्तु सभातो गन्तुमुद्यतः ॥ २९३ ।। सञ्जातेऽथ सभाक्षोभे नृपेण कथमप्यसौ । निवर्त्य भणितो वत्स ! किमेवं कुपितो भवान् ? ॥२९४॥ ज्येष्ठे सति कनिष्ठस्योत्थापनं नैव युज्यते । सन्मानमपि नेच्छन्ति विगतक्रममुत्तमाः ।। २९५ ॥ कियदेतत् पितुस्तुल्यरूपे ज्येष्ठसहोदरे । सति राज्यमपीच्छन्ति दीयमानं न वंशजाः ॥ २९६ ॥ Page #309 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः . २९७ इत्थं प्रज्ञापितो राज्ञा यदाऽसौ नोपशाम्यति । मन्त्रिभिर्भणितश्चन्द्रसेनः सामगिरा तदा ॥ २९७ ।। किं राजपुत्र ! दक्षोऽपि मन्यसे न पितुर्वचः ? । मैवं दुर्विनयीत्युक्तिपङ्किलं कुरु जीवितम् ॥ २९८ ॥ इत्यादिवचनैर्मार्ग चन्द्रसेनः प्रपन्नवान् । विजयोऽप्यभिसेवालं प्रतस्थे सैन्यदुर्धरः ॥ २९९ ॥ सीमासन्धिं स्वदेशस्य गत्वा तद्देशवर्तिनः । स सामन्तान् समाहूय दूतात् सेवालमुक्तवान् ।। ३०० ॥ अयथावलमारम्भो निदानं क्षयसम्पदः । परिभाव्य तदात्मानं यद् युक्तं तत् कुरुष्व भोः ! ॥३०१॥ . सेवालोऽप्यवदद् युद्धभीरवो नीतिमाश्रिताः । मत्तेभकुम्भनिर्भेदे हरेः को दर्शयेनयम् ? ।। ३०२ ।। युद्धसज्जो भव क्षिप्रं यथा बलविनिर्णयम् । वक्ष्यतो में भुजावेव किं वाचां फल्गुवलिगतैः ? ।। ३०३॥ इत्यमर्षवशात् सैन्यद्वयेऽपि मिलिते तयोः । सङ्ग्रामोऽजनि निःस्वानध्वानाहूतसुरासुरः ॥ ३०४ ॥ भवितव्यवशाद् भग्नं कुमारस्याखिलं बलम् । कथश्चिन्मन्त्रिभियुद्धात् कुमारोऽपि निवर्तितः ॥३०५|| तत् श्रुत्वा विजयं राजाऽऽनाय्य गन्तुमनाः स्वयम् । विज्ञप्तश्चन्द्रसेनेन तात ! मां प्रेषयाऽधुना ॥ ३०६ ॥ मन्त्रिभिः कथितं देव ! प्रागप्येष महाहठात् । प्रतिषिद्धस्ततः सम्प्रत्यत्रादेशः खलूचितः ।। ३०७ ॥ तत् प्रपद्य नृपेणाऽसौ स विशेषबलान्वितः । प्रहितश्चन्द्रसेनोऽपि ययौ नित्यप्रयाणकैः ॥ ३०८ ॥ स्थित्वा सेवालभूपस्य सीमभूमि कुमारराट् । सामाग्रुपायैः संसेव्य युद्धं कृत्वा तमग्रहीत् ।। ३०९ ॥ सेवालं सह सप्ताङ्गश्रियाऽऽदाय नृपाङ्गजः। . Page #310 -------------------------------------------------------------------------- ________________ २९८ श्रीपार्श्वनाथचरितेययौ स्वनगरं, राज्ञा महा च प्रवेशितः ॥ ३१० ॥ सन्मान्य तं रिपुं पूर्वस्थितावस्थापयन्नृपः । सन्तो गृहागतं दीनं शत्रुमप्यनुगृह्णते ॥ ३११ ॥ चन्द्रसेनं गुणज्येष्ठं मत्वा बुद्धिपराक्रमः । युवराजपदे राजा प्रसन्नः सन् न्ययोजयत् ॥ ३१२ ।। अतोऽत्यन्तपराभूतिलज्जितो विनयो निशि । निर्गत्य चलितो देशान्तरं क्रान्त्वा बहुं महीम् ।। ३१३ ॥ अथैकत्र पुरं शून्यं संप्राप्य तद्धहिर्निशि । श्रमात् सुष्वाप शून्यात्मा प्रातस्तन्मध्यमैक्षत ॥३१४॥ जीर्णदेवकुलं श्रस्तमन्दिरं शीर्णपादपम् । दृष्ट्रा स्वमिव निःश्रीकं तद्विषण्णस्ततोऽचलत् ॥ ३१५ ॥ आस्तामन्येन निस्तेजाः खेनाऽपि परिभूयते । दुर्दर्शस्तु महातेजाः प्रतिबिम्बेऽपि मूर्यवत् ॥ ३१६ ॥ उड्डियाणभुवं प्राप्तः कुमारो विजयः क्रमात् । मुनि कीर्तिधरं तत्राऽनभ्रवृष्टिमिवैक्षत ॥ ३१७ ॥ । तं दृष्ट्वोल्लसितानन्दकन्दलः सहसा हृदि । स दध्यौ यदहो ! निष्ठा काऽप्यस्य भुवनातिगा ॥३१८ ॥ किश्चसन्तः सन्तोऽपि संसारे न मुञ्चन्ति निजां स्थितिम् । स्पष्ट एव समुद्रोऽपि महीरावणवाहकः ॥ ३१९ ॥ तदेनं प्रणिपत्याऽऽत्मशुद्धिं कुर्वे यतः पुमान् । वारिवद् गुरुपादानां स्पर्शनाऽपि शुचिर्भवेत् ॥ ३२० ॥ इति शुद्धधिया साधु कुमारः प्रणनाम तम् । धर्मलाभाशिषं दत्त्वा मुनिनाऽप्येष तोषितः ॥ ३२१ ॥ यतः-- देवस्य दर्शनात् तुष्टिराशीर्वादाद् गुरोः पुनः । प्रभोश्च दानसन्मानात् कस्याऽपि किमपीष्यते ॥ ३२२ ॥ Page #311 -------------------------------------------------------------------------- ________________ । षष्ठः सर्गः : तस्मिन् यथासनाssसीने मुनिः सद्धर्ममादिशत् । पूर्व भाष्यं हि साधूनामिदमेव जनं प्रति || ३२३ ॥ सर्वावस्थास्वपि नरैः सर्वथा हितमिच्छुभिः । जीवरक्षामयः कार्यो धर्मः सर्वज्ञभाषितः ॥ ३२४ ॥ २९९ यतः धर्मो मोहमहारात्रिव्याकुलानां दिनोदयः । शुष्यतः सौख्यवृक्षस्य धर्म एव घनाघनः ॥ ३२५ ॥ धर्म एव परो बन्धुर्धर्म एवोत्तमः प्रभुः । सहायो धर्म एवैको भवारण्ये शरीरिणाम् ३२६ किश्चान्यत् क्षणिकं कष्टसाध्यं पापकरं परम् । षट्कर्म यत् किञ्चित् शुभं तद् धर्म एव हि ।। ३२७ ॥ तथाहि भव्यैराराधिता सम्यगाकृष्टिं सुखसम्पदाम् । उच्चाटं विपदां स्तम्भं दुर्गतौ पतदङ्गिनाम् || ३२८ ॥ मोहनं मोहराजस्य विद्विषं पुनरेनसोम् । वश्यतां कुरुते मुक्तेर्ध्रुवं सद्धर्मदेवता ॥ ३२९ ॥ ( युग्मम् ) अहो ! नामाऽपि धर्मस्य सिद्धमन्त्र इवानघः । सम्यक् पुनरसौ ज्ञात्वा सेवितः कस्य नेष्टकृत् १ ||३३०॥ सम्यग् धर्मस्तु सर्वज्ञादिष्टो जीवदयामयः । गृहस्थ-यतिभेदेन यथाशक्ति तमाश्रयेः || ३३१ ॥ सकृद् दृष्टोऽपि सौख्याय धर्मः कलिमलावृतः । छन्नोऽभ्रपटलेनेव सूर्यः सूर्यव्रतस्य हि ।। ३३२ ॥ इत्यादिदेशनामन्त्रैर्ध्वस्त मोहमहाविषः । सद्धर्मचेतनां प्राप्य विजयो व्रतमग्रहीत् ।। ३३३ ॥ दत्त्वा दीक्षां गुरुर्धर्मशिक्षामेवं प्रदत्तवान् । १ मेघः । २ पापानाम् । Page #312 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते अहो ! विजयराजर्षे ! हितमेकमनाः शृणु ॥ ३३४ ॥ सर्वत्रौचित्यवर्तित्वमुपेक्षा परदूषणे । परेणात्ते गुणे दोषे क्षमायां धर्मसंग्रहः || ३३५ || औचित्याचक्षुषि न्यस्तं श्रिये कज्जलमप्यहो ! | अनौचित्येन पादस्थं न कुण्डलमपीष्यते ।। ३३६ ॥ विमृश्याय-व्ययं धर्मकार्यं कुर्यात् तथा बुधः निश्चय व्यवहाराभ्यां यथा बहुगुणं भवेत् ।। ३३७ ॥ केवलं व्यवहारोऽन्तं नैति नद्योघगामिवत् । सदोत्सर्गोऽप्यगच्छेदाद् ऋजुगामीव नो मतः ॥ ३३८ ॥ यथैवाऽछिन्दता वृक्षं गृह्यते तस्य तत् फलम् । . व्यवहारमनुल्लङ्घय ध्यातव्यो निश्चयस्तथा ।। ३३९ ।। निश्चयस्तसारोऽपि व्यवहारेण निर्वहेत् । ३०० सकलस्याऽपि देवस्य रक्षा प्राहरिकैर्भवेत् ॥ ३४० ॥ निम्नोन्नतादिवैषम्यं विदित्वा सर्ववस्तुषु । मध्याङ्कव्यवहारेण सूत्रधारः प्रवर्तते ।। ३४१ ॥ आत्मोत्कर्ष - परद्वेषपरे प्रायः कलौ जने । प्राप्य तत्त्वामृतं धीरः कलिं कृत्वा न हारयेत् || ३४२ || जिनेन निगृहीता ये रागद्वेषादयो हठात् । तान् ये पुष्णन्त्यसौ तेषां कथं नाथः प्रसीदति ? || ३४३ ॥ ! अज्ञानाद् दृष्टिवन्धेन पदबन्धेन गेहिनः । रुध्यन्ते ते पुनः शोच्या ये रुद्धा बन्धनं विना || ३४४ || दूरेऽस्तु परदोषस्याऽऽदानं स्वपरतापकम् । धत्ते तत्स्पर्शमात्रेऽपि हृद् वाग् मालिन्यमुल्बणम् || ३४५ || सन्तो गुणप्रियास्तेन परणात्ते गुणे भृशम् । हृष्टाः, नीचास्तु दूयन्ते येन ते दोषवत्सलाः ।। ३४६ ॥ कृतप्रतिकृता वृद्धिः स्यात् सम्बन्ध - विरोधयोः । परोक्तं तेन नो धत्ते योगी लाभनकोपमम् || ३४७ ॥ Page #313 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः महतां दूषणोद्धारादुपकारी खलः खलु । मुधा निदायकं सस्यक्षेत्रे को नाभिनन्दति १ ॥ ३४८ ॥ अर्थमिच्छन्ति सन्तोऽपि किन्त्वनौपाधिकत्वतः । स्वगुणख्यापनान्पध्याः नीचास्तु परदूषणात् || ३४९ ॥ आस्तां स्वात्ताऽऽतपत्राभं स्वगुणोच्चारणं स्वयम् । अन्येनाऽपि गुणे ह्यात्ते साधुर्नम्रो हिया भवेत् || ३५०॥ दूषयित्वाऽन्यवस्तूनि गुणारोपं स्ववस्तुनः । वणिग्धर्मेऽपि शौचात्मा न कुर्यात् किं पुनर्यतिः १ ॥३५१॥ उद्धर्तु नैव शक्यन्ते सर्वतो भुवि कण्टकाः । स्वयं तु शक्यते मोक्तुं पादो निष्कण्टकक्षितौ ॥ ३५२ ॥ रक्ता देह यशो धर्मे पत्र - पुष्प फलप्रभे । 1 ३०१. तदा त्वचिरनित्यस्थे स्वल्पधी - मध्यमोत्तमाः ॥ ३५३ ॥ चक्षुः श्रवणवैकल्यात् पापानां मोहनिद्रया । दिवाऽपि रजनी, साऽपि धर्मिणां दिवसायते ।। ३५४ ॥ कलिकालकुवा वाति यस्य विनश्यति । न सस्यं, शस्यते लोके स एव पृथुभाग्यभूः ।। ३५५ ।। रजःक्रीडापरे लोके धूलिपर्वसमे कलौ । तद्वाक्यतिलकं मत्वा रक्षत्यात्मानमात्मवित् ॥ ३५६ ॥ सुषमत्वात् सुखोत्तारास्तता अपि कृतादयः । दुस्तरो विषमावर्तः स्वल्पोऽपि हि कलिः पुनः || ३५७॥ पुरुषार्थद्विषं ज्ञात्वा प्रकृतिं स्वार्थतत्पराम् । धूर्त मैत्र्या ततः स्वार्थ यः करोति स चेतनः ।। ३५८ ।। अजीर्ण तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः । परतप्तिः क्रियाजीणं जित्वा त्रीन् निर्वृतो भव ॥ ३५९ ॥ सद्यः प्रीतिकरं लोके वचो वाच्यं हितं मतम् | मूर्खः स्वमुखलालाभिरेव लूतेव बध्यते ।। ३६० || १ उच्छेदकम् । २ कृतयुगादयः । Page #314 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनायचरितेसामकः कायिको दोषः प्रायोऽत्यर्थस्तु वाचिकः । यतः पश्चादवस्थायि व्यापकं च वचो जने ॥ ३६१ ॥ परार्थ व्यापयन् जीवो वं कान्दविकायते । नतु स्थूलोपयोगोऽपि यस्य कः स्यात् ततोऽधमः १ ॥३६२।। तुच्छा देहस्य सौन्दर्याद् रज्यन्ते मध्यमा गिराम् । चित्तस्य तूत्तमा जीवे सुदुर्लभं पुनस्त्रयम् ।। ३६३ ॥ वीक्ष्य बाह्यान्नसहर्षात् खेदितव्यं जनार्जने । रज्येत् त्वन्तर्मुखीभूय लक्ष्यं भित्वात्मपार्थिवः ॥ ३६४ ॥ शमसर्वस्खमादाय जितो मोहमहारिणा । धत्ते यस्तजयेऽमर्ष स योग्यो मुक्तिसम्पदः ।। ३६५ ॥ यदि शत्रुजये वाञ्छा तदात्मानं विनिर्जय । अयमात्मा यतो येन तेन सर्वे द्विषो जिताः ॥ ३६६ ॥ बहिर्मुक्तोऽप्यमुक्तोऽन्तर्बद्धपक्षीव वल्गितः । निस्तुषोऽपि तिलस्तापकरोऽन्तःस्नेहधारणात् ।।३६७॥ एकत्र वसतां यस्य वाक्-काय-मनसां भवेत् । परस्परं पृथग्भावः कुतः तस्याऽऽत्मनः शिवम् ? ॥३६८॥ एकान्ते मुखरोधेन निलम्पटमतेः सतः ।। क्षणाद् मोहज्वरे क्षीणे भोगो भूरितरो भवेत् ॥ ३६९ ।। यदारिष्टकुलादन्यं खं विदित्वा तदुज्झति । तदा व्यक्तगुणो जीवः श्लाघ्यः स्यात् परपुष्टवत् ॥३७०॥ मध्येछाद्यगृहं बद्धभूमिकस्याऽतिभीर्यथा । प्रदीपेन तथा लोकमध्ये साधोरपि स्फुटम् ॥ ३७१ ॥ सदोषः पादधानीव प्रमादीवाऽङ्गरक्षकः । धर्मेऽशस्यमुनि ढं न ग्राह्यस्तेन तं त्यजेत् ॥ ३७२ ॥ यतित्वं यः समादाय विरुद्धं चेष्टते कुधीः । आमपात्रमिव न्यायध्वस्तं कस्तं न निन्दति ? ॥३७३।। पण्डितेन मनो लक्ष्ये शिक्षणीयं मुहुर्मुहुः । Page #315 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३०३ शैक्षवद् वश्चयित्वैनं भवक्रीडारसं बजत् ॥ ३७४ ॥ घटी निरवधानस्य गणकस्येव मज्जति । . युङ्ग्यात् तेन मनो लक्ष्ये धन्वीवाऽभ्यासतः शरम् ॥३७५॥ धीरः सचेतनो मौनी यो मार्गे यात्यसङ्गतः । बलिष्ठरपि मोहाद्यैः स शिवं यात्यगर्जितः ।। ३७६ ॥ अज्ञानाजायते दुःखं सज्ञानाच्च सुखं पुनः । अभ्यस्यं तत् तथा तेन स्वात्मा ज्ञानमयो भवेत् ॥३७७॥ अल्पज्ञानेन नो शान्ति याति दृप्तात्मनां मनः । स्तोकदृष्ट्या यतस्तप्तभूमिरूष्मायतेतराम् ।। ३७८ ।। बह्वासङ्गेन जीवस्याऽत्यासन्ना अपि पापिनः । ज्ञातास्तेन स्वयं यान्ति दोषा हीता इव ध्रुवम् ॥ ३७९ ।। विज्ञातभवतत्त्वस्य दुःखं शोकेऽपि नो भवेत् । तानं स्वर्ण विदित्वा यो गृह्णीते तस्य कः क्लमः ? ॥३८०॥ पङ्गुरूपं नृणां भाग्यं व्यवसायोऽन्धसनिमः। यथा सिद्धिस्तयोर्योगे तथा ज्ञान-चरित्रयोः॥ ३८१ ॥ मैत्री-प्रमोद-कारुण्य-माध्यस्थ्याख्या महागुणाः । युक्तस्तैर्लभते मुक्तिं जीवोऽनन्तचतुष्टयम् ॥ ३८२ ॥ मैत्री परहिते चिन्ता परार्तिच्छेदधीः कृपा । मुदिता सद्गुणे तुष्टिमाध्यस्थं पाप्युपेक्षणम् ॥ ३८३ ॥ क्षिप्तोऽपि लघुकर्माधः स्यादुच्चैस्तुम्बवजले । अश्मवद् गुरुकर्मा तु नीतोऽप्यूर्ध्वमधो व्रजेत् ३८४ ॥ निर्माय स्वभवं चैत्यं आदिमध्यान्तसुन्दरम् । निर्वाहकलशं कोऽप्यारोप्य कीर्तिध्वनां नयेत् ॥ ३८५ ॥ इति तत्त्वोपदेशाख्यं मयाऽनं परिवेषितम् । तव दीक्षामये पात्रे तद् भुक्त्वा त्वं सुखी भव ॥ ३८६।। किश्चैतद् भवतो भद्र ! सन्महाव्रतपञ्चकम् । १ अभीतः। Page #316 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते १ तथा तन्यं यथा तेने रोहिण्या त्रीहिपञ्चकम् || ३८७ ॥ अथ तत्वामृतास्वादनिर्वृते विजयो जगौ । प्रभो ! का रोहिणी नाम गुरुरप्येवमब्रवीत् ? ।। ३८८ ॥ श्रेष्ठी दत्ताभिधः स्वीयचतुष्पुत्रवधूः पुरा । गृहकर्मनियां गाय समारेभे परीक्षितुम् || ३८९ ।। पितृवर्ग वधूनां स संमील्य स्वजनानपि । कृत्वा भक्तादिसत्कारं यथौचित्यं न्यवीविशत् ।। ३९० ॥ तत्समक्षं समाकार्य ज्येष्ठानुक्रमतो वधूः । ३०४ स त्रीहिपञ्चकं दत्त्वा प्रत्येकमिदमादिशत् ।। ३९१ ॥ तथाऽमी व्रीहयो धार्या यथा मे यच्छतः पुनः । हे ! वध्वोऽर्पयतेत्युक्त्वा विससर्जाऽखिलं जनम् ||३९२| ज्येष्ठया चिन्तितं वध्वा वृद्धोऽयं ग्रहिलोऽभवत् । इत्थं द्रव्यव्ययं कृत्वा यश्चकार विडम्बनाम् || ३९३ ॥ ते तयेति बहिस्त्यक्ताः, शेष मत्वा द्वितीयया । भक्षिताः, गोपितास्ते तु प्रयत्नेन तृतीयया ।। ३९४ ॥ चतुर्थ्या तु स्वबन्धूनां समर्प्य व्रीहिपञ्चकम् | प्रतिवर्ष वापयित्वा निन्ये तच्च धिया ततिम् || ३९५ ।। अथेभ्यः पञ्चमे वर्षे संमील्य स्वजनान् पुनः । तानेव शपथं दत्त्वा वधूहीनयाचत ।। ३९६ ॥ वध्वोऽपि कथयामासुः कुलीनत्वाद् यथास्थितम् । इभ्येनाभाणि युष्माभी रोष्यं भोः ! स्वजना न हि ।। ३९७॥ तदेतासामभूदेवं बुद्धिः कर्मानुसारिणी । इत्युक्त्वा ता यथौचित्यं गृहकार्ये नियोजिताः ॥ ३९८ ॥ झिका भस्म-पुञ्जादौ रसवत्यां च भक्षिका । भाण्डागारे रक्षिता तु गृहस्वाम्ये च रोहिणी ।। ३९९ ॥ १ निर्माल्यदानम् । २ त्यागिनी । Page #317 -------------------------------------------------------------------------- ________________ पष्ठः सर्गः ततो यथा कनिष्ठाऽपि वधूर्गुज्ञिया कणान् । वृद्धिमारोप्य सर्वासु सुमहत्त्वं समा यत् ॥ ४०० ॥ त्वयाऽपि हि महाभाग ! तथैव व्रतपञ्चकम् । सम्यग् नीत्वा परां वृद्धिमात्मा कार्यो महोदयः॥४०१॥ तथेति प्रतिपद्यैतद् विजयो गुरुणा समम् । विहरत्युद्यतो धर्मे श्रुताऽध्ययनतत्परः ॥ ४०२ ॥ कालेन योग्यतां ज्ञात्वा न्यस्य तं स्वपदे गुरुः । बमाण वत्स ! सर्वेषु पदेष्वग्रमिदं पदम् ।। ४०३ ॥ तत् सदैवाऽप्रमत्तेन शिष्याणां वाचनादिना। ऋणमोक्षस्त्वया कार्यो वृद्धिश्च जिनशासने ॥ ४०४ ॥ इति तं शिक्षयित्वाऽसौ चिन्ताभारच्युतो द्रुतम् ।। सम्मेतगिरिमारुह्य निर्वाणमगमद् गुरुः ।। ४०५॥ विजयोऽप्यथ शिष्याणां वाचना-ऽध्यापनादिना । उद्युक्तो विहरन्नुच्चैर्महती महिमामगात् ॥ ४०६ ॥ बहुकाले गते शास्त्रश्रमेण विविधोत्तरैः । परे च स तथा भग्नो यथा वक्तुमपि स्थितः ॥४०७ ॥ चित्ते च चिन्तयत्येवं मुमयोऽमी वरं जडाः । ये परमश्नशास्त्रातिविमुखाः सुखमासते ।। ४०८ ॥ स्थविरैः प्रेरितो ब्रूते कण्ठशोषेण किं नु भोः ! १ । तपस्येवादरः कार्यों यः क्रियावान् स पण्डितः ।।४०९॥ विनवाऽध्ययनं सिद्धिलेभे माप-तुषादिभिः । ब्रुवन्नित्यादिदृष्टान्तं स्थविरैः स उपेक्षितः ॥४१०॥ हताविव पयो विद्या किं करोति निराकृतौ ? । नरो नाऽतिमृदुर्नाऽतितीक्ष्णोऽन्नमिव शस्यते ॥४११ ॥ परबोधक्षमेणाऽपि केनाऽपि स्खं न बोध्यते । धवलीकृतविश्वोऽपि चन्द्रः स्वाईन शुभ्रयेत् ॥ ४१२ ॥ १ मुनिविशेषैः । Page #318 -------------------------------------------------------------------------- ________________ ३०६ श्रीपार्श्वनाथचरितेस कालेनाऽप्रतिक्रान्तो मृत्वा सौधर्ममासदत् । ततश्च्युत्वा पद्मपुरे धनश्रेष्ठिसुतोऽभवत् ४१३ ॥ धनशर्माऽभिधः सोऽथाऽऽरेभेऽध्यापयितुं क्षणे । किमपि प्राकृतज्ञानावज्ञादोषेण नैति तु ॥ ४१४ ॥ एवं पञ्चशतीसङ्खयोपाध्यायैर्वीक्षितः परम् । नैकमप्यक्षरं हृद्याधातुं शेकेऽस्य वज्रवत् ॥ ४१५ ॥ ततो बहुधनस्तस्य तदेकतनयः पिता । दध्यौ विषादाद् हा ! कष्टं किमु कार्य मयाऽधुना?॥४१६।। यत उच्यतेअजात-मृत-मूर्खेभ्यो मृता-ऽजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो भवेत् ।। ४१७॥ देवानां भाषते पूजां करोति विविधौषधान् । मान्त्रिकानाह्वयत्यार्तो निमित्तज्ञांश्च पृच्छति ।। ४१८ ॥ व्यर्थीभूतेषु सर्वेष्वप्युपायेषु धनोऽन्यदा। बहिः श्रुत्वाऽऽगतं साधुं तत्र पुत्रयुतो ययौ ॥ ४१९ ॥ नीचैर्नत्वा मुनेः पादौ पप्रच्छ कथय प्रभो ! । प्राक् कर्म किं कृतं येन मत्पुत्रः प्रस्तरोऽजनि ॥४२०॥ मुनिः पूर्वकृतज्ञानावज्ञाव्यतिकरं जगौ । तन्निशम्याऽभवजातिस्मरणं धनशर्मणः ॥ ४२१ ॥ मुनि नत्वाऽवदचैवं प्रभो ! सत्यं तवोदितम् । भीतोऽहं संप्रति ज्ञानावरणं गलिता कथम् ॥ ४२२ ॥ मुनिराह महाभाग ! ज्ञानावरणकर्मणः । नाशः स्याज् ज्ञानदानेन तत् साक्षाद् घटते न ते ॥४२३॥ तज् ज्ञान-ज्ञानिनां बाढं बहुमानं कुरुष्व भोः !। श्रुतं च पठतां भक्त-पुस्तकाद्यैरुपग्रहम् ॥४२४।। तनिशम्य महात्माऽसौ पश्चात्तापं परं दधत् । १ शक्लृट् शक्तौ । २ पाषाणः, जड इति यावत् । Page #319 -------------------------------------------------------------------------- ________________ .. षष्ठः सर्गः।... ३०७ स ज्ञानोपनहे. सर्वप्रयत्नेन प्रवृत्तवान् ॥ ४२५ ॥ परिपूर्णमनुष्यायुः स सौधर्मे सुरोऽभवत् ।। तच्च्युतः सुकुले जातो धनमित्राऽभिधो नरः ॥ ४२६॥ तत्रापि सावशेषत्वाज् ज्ञानावरणकर्मणः। पठतोऽपि भृशं किश्चिनैति तस्य कथञ्चन ॥ ४२७ ॥ ईहापोहं स वैराग्यात् कुर्वाणो जातिमस्मरत् । ततः प्राग्वत् श्रुतज्ञानोपष्टम्भं कर्तुमुद्यतः ॥ ४२८ ।। दुष्कृतं गर्हतस्तस्य संवेगादतिदुस्तरम् । ज्ञानावरणमुच्छिन्नं प्रव्रज्यां च प्रपन्नवान् ॥ ४२९ ।। साङ्गोपाङ्गे श्रुतेऽधीती स्मारं स्मारं पुरा कृतम् । ज्ञानदाने सदोमुक्तः केवलज्ञानमासदत् ॥ ४३० ॥ तत्रासन्नसुरैश्चक्रे दुन्दुभिध्वानपूर्वकम् । वर्णपद्मं तदाऽऽसीनः केवली धर्ममादिशत् ॥ ४३१ ॥ इह सर्वः सुखस्यार्थी सुखं सच्चरणाद् भवेत् । सदाचारः पुनज्ञानाज् ज्ञानं ज्ञानप्रदानतः ॥ ४३२ ॥ ज्ञानदानं च सच्छास्त्रव्याख्या-ऽध्यापन-वाचनैः । अधीयानेषु साहाय्याज ज्ञानोपकरणार्पणैः ।। ४३३ ॥ तदत्र प्रयतैर्भाव्यं न कार्या ज्ञानहीलना। . ज्ञानावज्ञानतो दुःखं मयाऽप्यासादित पुरा ॥४३४॥ तत् श्रुत्वा तं नमस्कर्तुमागतैर्देव-मानवैः । स पृष्टो निजवृत्तान्तमाचचक्षे प्रमादजम् ॥ ४३५ ॥ इत्थं तस्योपदेशेन बहवो भव्यजन्तवः । प्रबुद्धा ज्ञानमाराध्य क्रमादापुः परं पदम् ॥४३६॥ इत्यसौ ज्ञानदानेन स्वमुद्दधे परानपि । पश्चादपि चिरस्थायि तज् ज्येष्ठं तेन कथ्यते ॥४३७॥ ज्ञानं तु तदुपादेयं यत् स्यात् स्वस्य परस्य च । निर्व्याघातप्रकाशार्थमभ्रदीपालयोपमम् ॥ ४३८ ॥ Page #320 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते ज्ञानदानस्य माहात्म्यमित्थं स्व- परयोर्हितम् । वर्णितं साम्प्रतं जीवाऽभयदानं प्रपञ्च्यते ॥ ४३९ ॥ सर्वे जीवितुमिच्छन्ति जीवास्तदभयं ततः । ध्रुवं त्रिभुवनैश्वर्यदानादव्यतिरिच्यते ॥ ४४० ॥ ग्रन्थान्तरेऽप्युच्यते नातो भूयस्तरो धर्मः पृथिव्यामस्ति कश्चन । प्राणिनां भयभीतानामभयं यत् प्रदीयते ।। ४४१ ॥ एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् || ४४२ ॥ जीवितव्याभयं प्राप्य हीनदीनोऽपि सम्पदात् । मन्यते स्वं त्रिलोकीशं दृष्टान्तोऽत्र वसन्तकः ॥ ४४३ ॥ तथाहि ३०८ SERD श्रीवसन्तपुरे भूमिमण्डलाखण्डलः पुरा । मोऽभून्नृपतिस्तेजोवज्रक्षपितभूमिभृत् ॥ ४४४ ॥ तस्य प्रियङ्करा नाम राज्ञी पञ्चशताग्रणीः । दयिता निजरूपेण निर्जितामरसुन्दरी || ४४५ ॥ तेन राज्ञा भुवं नीत्या रक्षता सुखितात्मनाम् । दिवो वार्ताऽपि लोकानां विसस्मार कुतोऽर्थिता ? || ४४६ ॥ अन्यदा तत्र यामिन्यां कोऽपि चौरः सलोकः । दृष्टो बद्धस्तलारक्षैर्निन्ये च नृपतेः पुरः || ४४७ ॥ तं निरीक्ष्य सभासीनो नृपः क्रौर्यस्पृशा दृशा । पुनः प्रसन्नया किञ्चित् तदङ्गे चङ्गिमेक्षणात् ॥ ४४८ ॥ विधाप्य शिथिलं बन्धं प्रोचे विस्मितमानसः । वद रे ! तव को देश का जातिः किमु नाम च १ ॥ ४४९ ॥ वयस्येवंविधे नव्ये वैपुराकारलक्षणम् । विरुद्धमिदमारेभे चौरकर्म च किं त्वया ? ।। ४५० ॥ १ चौर्यधनसहितः । २ शरीराकृतिकलङ्कम् । Page #321 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ३०९ भयभ्रान्तेक्षणः किञ्चित् किश्चिदाश्वस्तमानसः । पदे पदे स्खलद्वाक्यः स जगाद तदादितः॥४५१ ॥ देव ! विन्ध्यपुरे विन्ध्यभूपतेः प्रीतिसमनः । श्रेष्ठिनो वसुदत्तस्य वसन्ताख्योऽहमङ्गजः ॥ ४५२ ॥ लालितः पालितोऽत्यन्तं पाठितः परिणायितः । तन्न यन्न सुखं प्रापमहं तातप्रसादतः ॥ ४५३ ॥ दुर्दैववशतः किन्तु द्यूतव्यसनवानहम् । अभवं तेन दुःखातपितृभिः स्वजनैर्जनैः ॥ ४५४ ॥ नितान्तं शिक्ष्यमाणोऽपि प्रत्यासन्नतयाऽऽपदः । न द्यूतममुचं नीरे मिमजिषुरिवोपलम् ।। ४५५ ॥ सर्वदोषनिवासेन सर्वाऽनर्थविधायिना । तेन सर्वविरोधेन व्यसनेन प्रणोदितः॥ ४५६ ॥ वञ्चयित्वा दृशं गेहान् बहिर्द्रव्यं शनैः शनैः । नेतुमारब्धवानस्मि प्रस्थानकमिवात्मनः ॥ ४५७ ।। ततो राजकुले गत्वा कृष्णाक्षरविधिक्रमात् । तत् तादृग् वल्लभोऽप्येष पित्रा निष्कासितो गृहात् ।।४५८॥ तेजसेवाऽथ तेनाऽहं पित्रा मुक्तो गतद्युतिः । निरङ्कुशतया खैरं भ्रमामि जगतीतले ।। ४५९ ॥ भिक्षां प्रतिगृहं याचे शून्यदेवकुले शये । पापकृत्याच नो शङ्के छूतेन च पुना रमे ॥ ४६० ॥ एवं हतमतिर्यावन्नगरेऽत्र समागमम् । दृष्ट्रा च मुदितं लोकं ममापीच्छा सुखेऽभवत् ।।४६१॥ तच्च द्रव्यं विना न स्यान्नष्टोपायान्तरो निशि । तत् प्रवृत्तोत्र चौर्याय धृतश्च तव पूरुषैः ॥ ४६२ ॥ इत्थमात्मीयवृत्तान्तो यथावत् कथितो मया । त्वमेवाऽतः परं दैवं कुरु नाथ ! यथोचितम् ॥ ४६३ ॥ ईषदामनस्कोपि तत्स्वरूपनिरूपणात् । Page #322 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते परं चौरो न मोक्तव्य इत्यभिग्रहतो नृपः ॥ ४६४ ॥ आदिदेश तलारक्षं शूलारोपाय तस्य सः । यावच्च सहसा तेन चालितस्तावदन्तरे ।। ४६५ ॥ वामपक्षासनासीना पट्टराज्ञी प्रियङ्करा । शरण्यरहितं वीक्ष्य तं दीनवचनाननम् ।। ४६६ ॥ हा ! निराशो वराकोऽस्तं मा गादिति दयावशात् । नृपं विज्ञपयामास देवाऽद्यायं ममायताम् ||४६७ || येनाऽस्य तनयस्येव संसारसुखकौतुकम् । दिवैकं दर्शयित्वाऽस्य पूरयामि मनोरथम् ।। ४६८ ॥ अथाऽनुल्लङ्घ्यवाक्यत्वादनुज्ञाता नृपेण सा । वन्धमुच्छिय तं निन्ये निजावासे वसन्तकम् ॥ ४६९ ॥ तदादिष्टाः परीवारजनाः स्नानादिहेतवे । तत्र तं शतपाकाद्यैस्तैलैरभ्यज्य सादरम् || ४७० || अङ्गं सुगन्धचूर्णेनोद्वर्त्य लालित्यकोविदाः । स्नानपीठे च विन्यस्य सुवर्णकलशाऽऽहितैः || ४७१ ॥ उष्णैः कदुष्णैः पुष्पाढ्यैः स्वच्छैश्व सलिलैः क्रमात् । स्नपयामासुरुद्भूतशङ्खनिर्घोषपूर्वकम् ॥ ४७२ ।। अ काषायवस्त्रेण रूक्षयित्वाऽच्छवाससी । कदलीगर्भशङ्काशे परिधाप्य सवेणिके || ४७३ ॥ असिता गुरुधूमेन धूपयित्वा शिरोरुहान् । धम्मिलं विदधुमल पुष्पप्राग्भारभासुरम् ४७४ सच्चन्दनरसेनाङ्गं विलिप्याभरणोत्करम् । दिव्यं निवेशयामासुर्यथास्थानमनाकुलाः || ४७५ ।। स्वर्णशृङ्खलके मुक्तासरिके पाणि पादयोः । वाह्वोः सवीरवलये केयूरेऽङ्गुलिपूर्मिकाः || ४७६ ॥ सनकण्ठकं कण्ठे हारत्रिसरकादि च । कर्णयोः कुण्डलं मूर्ध्नि मुकुटं चाऽलिके घटीम् ॥ ४७७ ॥ ३१० Page #323 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । इत्याद्यशेषं निर्मायोपवेश्य विशदासने । स्वर्णधारस्थसुस्थालकच्चोलाद्यममण्डयत् ॥ ४७८ ॥ शुष्काफलभक्ष्याणि पकान्नं बहुवर्णकम् । शालि-सूपाद्यमाधुर्यघृतपूरादिकं क्रमात् ।। ४७९ ॥ दध्योदनं चेत्यखिलं परिवेष्य सगौरवम् । स्वयं पार्श्वस्थिता राज्ञी भोजनं तमकारयत् ।। ४८० || स्वच्छशीतलसद्गन्धैराचम्य मधुरैर्जलैः । पिष्टिका - हस्तचीराभ्यां रूक्षीकृत्य करद्वयम् ॥ ४८१ ॥ पुष्पद्रव र सस्वच्छ श्रीखण्डेनोपलिप्य च । कर्पूर मिश्रताम्बूलसमाननपुरस्सरम् || ४८२ ।। निषण्णस्याsस्य पल्यङ्के चेटीजनपरावृते । पुरश्चित्रकथाकाव्यविनोदान् देव्यचीकरत् ॥ ४८३ ॥ (विशेषकम् ) ३११ अथाऽपराह्नसमये राज्यादेशेन किङ्करैः । वरं तुरङ्गमारोप्य स्वर्णपर्याणभूषणम् ॥ ४८४ ॥ पट्टसूत्रमयीं वल्गां दधानः करपल्लवे । उपरिष्टाद् धृतोल्लासिमायूरातपवारणः || ४८५ || विष्वक् परिवृतो यत्नात् शतसङ्ख्यामितैर्भटैः । पुरः प्रारब्धसङ्गीतः कुतूहलकरैर्नरैः ।। ४८६ ॥ सपञ्चशब्दनिर्घोषः पठन्मङ्गलपाठकः । उत्फुल्लनयनैर्लोकैर्वीक्ष्यमाणः सकौतुकम् ॥ ४८७ ॥ विपणिश्रेणिमार्गेण मन्दं मन्दं च सश्चरन् । दर्शितानेकद्रष्टव्यः स नीत्वा राजमन्दिरम् ॥ ४८८ ॥ उच्चैर्वातायनस्थाय नृपाय विहितानतिः । आसन्नं बहिरावासमानिन्ये दिवसात्यये ।। ४८९ ॥ ( षड्भिः कुलकम् ) तत्र मातङ्गगीतेन दास-दासीकुतूहलैः । Page #324 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते निर्मापितवहुप्रीतिः शर्वरीं समवाहयत् ।। ४९० ॥ प्रातरुत्सारितोपाधिः कारितः प्राच्यवेषभृत् । इन्द्रकेतुरिव भ्रष्ट नीत्वा राज्ञः समर्पितः ।। ४९१ ॥ तं दण्डपाशिकस्याय यावदर्पयते नृपः । तावद् द्वितीयया राज्ञ्या तथैवाऽयं प्रयाचितः ॥। ४९२ ॥ अन्याभिरपि राज्ञीभिरेकैकदिवसं क्रमात् । नृपं विज्ञप्य याचित्वा तं प्रसादे महाग्रहात् ।। ४९३ ॥ सापत्न्यभावसंजातस्पर्धावर्धिष्णुसंमदात् । कृतभूरितरद्रव्यव्ययभावाऽधिकाधिकैः ॥ ४९४ ॥ दोगुन्दुरासुराभासं विधाप्य विविधोत्सवैः । पूरितं कौतुकं स्वस्य मनसस्तस्य नो पुन: ।। ४९५ ॥ अथ तस्य नृपस्याऽस्ति राज्ञी पञ्चशताऽन्तिमा । पत्नी शीलमती नाम पालयन्ती कुलव्रतम् ।। ४९६ ॥ साऽल्पस्थितिपरीवारा निजावासं गता सदा । स्वस्यैव कर्मणो दोषं मन्यते न तु भूपतेः ।। ४९७ ॥ ३१२ आस्तामन्यदलङ्कार-वसनाद्यं प्रसादजम् | विवाहानन्तरं राज्ञा दृष्टा दृष्ट्याऽपि नैव सा ।। ४९८ ॥ न हि मे मन्दभाग्यायाः काऽपि स्पर्धाsत्र विद्यते । अन्याभिः सह राज्ञीभिः किन्तु पङ्किक्रमागतम् ॥४९९ ॥ यद्येतदपि नाssधास्ये न लप्स्ये गणनामपि । हृदये संप्रधार्यैवं साऽपि भूपं व्यजिज्ञपत् ॥ ५०० ॥ ( युग्मम् ) देव ! नाऽऽबोधितः स्वामी कापि कार्ये पुरा मया । चौरस्य पुनरस्यार्थे कर्तव्यं कथयामि यत् ।। ५०१ ॥ तदाकर्ण्याऽथ तां स्मृत्वा तज् ज्ञात्वा गुणगौरवम् । उद्भिन्नपुलकः प्रीत्या मेने सर्व धराधवः ।। ५०२ ॥ Page #325 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः साऽपि तं स्वगृहे नीत्वा संक्षेपात स्नान- भोजनम् । कारयित्वाऽल्पवस्त्राणि परिधाप्याऽभयं ददौ ॥ ५०३ ॥ स तु त्रिभुवनैश्वर्यलाभादप्यधिकं तदा । जीवितव्याऽभयं प्राप्य न माति स्म मुदा हृदि ॥ ५०४ ॥ गते तस्मिन्नहोरात्रे प्रातः शीलमती स्वयम् । तं धर्मतनयं कृत्वा पुरो राजकुलं ययौ ।। ५०५ ॥ सोऽपि तत्र पुरो राज्ञो मृगेन्द्रासनवर्तिनः । समग्रेऽपि समालोके कौतुकोदचितानने ।। ५०६ ॥ एषा याचिष्यतेऽस्मत्तोऽप्यधिकं किमितीयया । ३१३ स्थानं निविष्टासु राज्ञीषु निखिलास्त्रपि ।। ५०७ ॥ वल्गनोललने नृत्तं सिंहनादमथोच्चकैः । हर्षेण कुवन् नो केषामाचिक्षेप मनो-दृशः १ ॥ ५०८ ।। ? अन्यादृशमिवाऽथैनं वीक्ष्य राजाऽपि विस्मितः । पप्रच्छ वद रे ! सत्यं किं कारणमिदं यतः ॥ ५०९ ॥ एतावदिवसान् यावद् मण्डितोऽपि महर्द्धिभिः । विषण्णवदनच्छायो मषीलिप्त इवाऽभवः ? ।। ५१० ।। अद्य तु स्वल्पवेषोऽपि पादचार्यपि हर्षितः । कुर्वाणो विविधां चेष्टामुन्मत्त इवेक्ष्यसे || ५११ ॥ सोऽप्याह श्रूयतां देव ! शूलारोपाक्षरैस्तव । कर्णप्रविष्टैर्विषवत् सर्वे शून्यं ममाऽभवत् ॥ ५१२ ॥ ततोऽहं भ्रान्तचित्तत्वान्मेनेऽयं क्षोत्रसंन्निभम् । जलं च विषसंवादि सौंधं यमगृहोपमम् ।। ५१३ ॥ पल्यङ्कं शल्यसङ्काशं चन्दनं चूर्णसोदरम् । तुरङ्गं रासभाकारं श्री जीर्णसूर्यवत् ॥ ५१४ ॥ शृङ्खला निगडपायं पाणिपाद विभूषणम् । हारं शरावमालाभं मुकुटं बिल्ववन्धनम् ।। ५१५ ॥ १ क्षेत्रक्षेप्यो मलः । २ सुखासनविशेषः । ४० Page #326 -------------------------------------------------------------------------- ________________ ३१४ श्रीपार्श्वनाथचरितेडिम्भकल्प परीवारं तलारक्षसमान भटान् । पञ्चशब्दनिनादं च विषमानकदारुणम् ।। ५१६ ॥ अन्यायघोषणाकारि तुल्यं बन्दिजनं पुनः । भ्रमयित्वा वधस्थाननयनाभमिहागतम् ॥ ५१७ ॥ भविष्यन्मरणाशङ्काशङ्कुकीलितचेतसः । एकां मे ध्यायतः शूलां तत् सर्व तन्मयायितम् ॥५१८॥ अद्य देव ! पुनर्विश्वपावन्या मूर्तिगङ्गया । धर्ममात्रा मम स्त्रीषु सुगृहीताभिधानया ॥ ५१९ ॥ श्रीशीलमत्या दुर्देयं जीवितव्याऽभयं ददे । तेन सर्व जगत् पूर्ण पश्याम्यधिवसामि च ॥ ५२० ॥ तत् श्रुत्वा भूभुजा चैक्षि तस्या वदनपङ्कजम् । साऽप्यूचे श्रीमुखेनाऽस्मै दीयतामभयं विभो ! ॥ ५२१ ॥ देवि ! प्रदत्तमेवेदं किमप्यन्यन्निवेद्यताम् । साऽवोचत् त्वत्प्रसादेन न्यूनं किमपि नो मम ॥ ५२२ ॥ अहो ! गाम्भीर्यमेतस्या अहो ! निर्लोभतागुणः । अहो ! सत्याः परं दाक्ष्यमहो ! जीवदयालुता ॥ ५२३ ॥ अहो ! वचनमाधुर्यमहो ! काऽपि प्रसन्नता । ध्रुवमस्याः प्रभावेन मम राज्यं प्रवर्धते ॥ ५२४ ॥ इति तोषानिवेश्यात्मवामाङ्गे तां त्रपालसाम् । पट्टराज्ञीपदे सद्यः स्थापयामास भूपतिः ॥ ५२५ ॥ पश्चिमद्वारगामिन्यो नद्यः सर्वा नदीपतेः । प्रवेशं लभते पूर्वद्वारि गङ्गा शुचिः पुनः ॥ ५२६ ॥ पत्युः प्रसादमासाद्य सच्चरित्रजलेन सा। कश्मलं क्षालयामास सपत्नीमनसामपि ॥ ५२७ ॥ एवं विख्यातवृत्तान्ता विश्वस्याऽपि महाय॒ताम् । गता सुगतिसौख्यं च जीवरक्षाप्रभावतः॥ ५२८॥ १ तन्मयमिवाचरितम् । Page #327 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३१५. वसन्तकोऽपि विख्यातो देव्या धर्मसुतत्वतः। राजप्रसादसंजातः समृद्धिभरभासुरः ॥५२९।। विविधां च विचिन्त्यैवं सुख-दुःखविडम्बनाम् । सदाचाररतो नित्यं वासरानत्यवाहयत् ॥५३०॥ (युग्मम् ) अन्यदा सुगुरोः पार्थे श्रुत्वा पूर्वभवे कृतम् । व्रतस्य ग्रहणं भङ्गं संधानं च तथात्मनि ॥५३१॥ जातशुद्धपरीणामो गृहिधर्म यथाविधि । प्रपन्नाणुव्रतः सम्यक् पालयित्वा दिवं ययौ ॥५३२॥ अन्नो-पाश्रय-भैषज्य-वस्त्र-पात्रादिदानतः। उपष्टम्भोऽनेकधात्र चाऽन्नदानं विशिष्यते ॥५३३॥ अन्नदातुरवस्तीर्थकरोऽपि कुरुते करम् । तच्च दानं भवेत् पात्रे दत्तं बहुफलं नृणाम् ।। ५३४ ।। यत: पात्रं क्षेत्रं दैदिप्ता धनं बीजं शमो जलम् । वाक्यं वातो यशः पुष्पं फलं पुण्यं सुखं रसाः ।। ५३५ ।। खलोऽपि गवि दुग्धं स्याद् दुग्धमप्युरगे विषम् । पात्राऽपात्रविशेषेण वत् पात्रे दानमुत्तमम् ।। ५३६ ।। पात्रं च त्रिविधं तत्र समताश्रीविभूषिताः । ज्ञान-दर्शन-चारित्ररूपरत्नत्रयान्विताः ।। ५३७ ॥ प्रशान्ततनु वाक्-चित्ता भैक्ष्यमात्रोपजीविनः । रताः परहिते नित्यं यतयः पात्रमुत्तमम् ॥ ५३८ ॥ सम्यग् दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ५३९ ॥ सम्यक्त्वमात्रसंतुष्टा व्रतशीलेषु निःस्पृहाः । तीर्थप्रभावनोद्युक्तास्तृतीयं पात्रमुच्यते ॥ ५४० ॥ १ दाता। Page #328 -------------------------------------------------------------------------- ________________ ३१६ श्रीपार्श्वनाथचरितेइयं मोक्षफले दाने पात्राऽपात्रविचारणा । दयादानं च सर्वज्ञैः कुत्राऽपि न निषिध्यते ॥ ५४१ ॥ यतःवर्षन् क्षाराणवेऽप्यन्दो मुक्तात्मा कापि जायते । सततं ददतो दातुः पात्रयोगोऽपि संभवेत् ।। ५४२ ॥ तच्च न्यायार्जितं क्षेत्रकालभावैरदूषितम् । देयं धर्मार्थिना दानं विना कीर्त्यादिकारणम् ।। ५४३ ॥ ग्रन्थान्तरेऽप्युक्तम्दातव्यमिति यहानं दीयतेऽनुपकारिणे । क्षेत्रे काले च भावे च तदानं सात्त्विकं स्मृतम् ॥ ५४४ ॥ यत्तु प्रत्युपकाराय फलमुद्दिश्य वा पुनः । दीयते हि परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥ ५४५ ॥ अदेशकाले यदानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तद् दानं तामसं स्मृतम् ।। ५४६ ॥ मुग्धत्वेनाऽपि सिद्ध्यै स्याद् दानं दत्तं महात्मने । इत्यर्थे चन्द्रभान्वाद्याः सुन्दरश्च निदर्शनम् ॥ ५४७ ॥ तथाहिपुरे जयपुरहाने राज्ये जयनरोशितुः । महेभ्यतनयाः सन्ति चत्वारो मित्रतां गताः ॥ ५४८ ॥ आद्यश्चन्द्रस्तथा भानुर्भीमः कृष्णश्च ते मिथः । एकीभूता इव स्नेहात् पूर्वा विलसन्त्यलम् ॥ ५४९।। अन्यदाऽचिन्तयञ्चन्द्रो वयं न खलु सत्तमाः । बाल्ये हि युज्यते भोक्तुं मातुः स्तन्यं पितुर्धनम् ॥५५०॥ नीत्या यः स्वभुजोपात्तं वित्तं भुङ्क्ते ददाति च । उदारः स हि विख्यातोऽधमो मूलहरः पुनः ॥ ५५१ ॥ , मौक्तिकस्वरूपः। Page #329 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः . ३१७ तद् धनोपार्जनोपायः कार्य एवाधुना यतः । आयाऽभावे व्ययं कुर्वन् मेरुरप्यपीयते ॥ ५५२ ।। उक्तं चअनायः व्ययकर्ता च अनाथः कलहप्रियः । आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ ५५३ ॥ इत्यादि चिन्तयित्वाऽसौ संकल्पं सुहृदां निजम् ।। आचख्यौ तच्च सर्वेषामभवत् सम्मतं वचः ।। ५५४ ॥ निर्णीतं च यथाऽम्भोधिसुता श्रीस्तेन वारिधेः । विना सेवामियं न स्यादतः सेव्यः स एव हि ॥५५५।। इति तैः स्वस्वपितृणां कथितं पितृभिश्च ते । प्रतिषिद्धा यथा वत्साः ! न माति विभवो गृहे ॥५५६॥ यूयं मुग्धा जनो धृतः संदिग्धः कुशलागमः । विषमाः परदेशाश्वाब्धिवाणिज्यं विशेषतः ॥ ५५७ ॥ इत्यादियुक्तिभिर्वाहं वारिता अपि ते सुताः । सर्वे संवोढुमारब्धाः समुद्रगमनोत्सुकाः ॥ ५५८ ॥ भृतं प्रवहणं भाण्डैः प्रयाणदिनमागतम् । अथाऽपशकुनश्रेणी प्रावर्तिष्ट समन्ततः ॥ ५५९ ।। अदृष्टव्यानि पश्यन्ति शृण्वन्त्यपरवान् बहून् । उद्दण्डो मरुदुतश्छादितं रजसा नभः ॥ ५६० ॥ ततः समुदितीभूय स्वजनैर्वारितोऽखिलैः। चन्द्रस्तानाह किं यूयं कुरुतेत्थमधीरताम् ? ॥ ५६१ ॥ सकाशाद् यस्य यद् येन प्राप्तव्यं जायते यदा। प्राप्यते खलु तत् तेन शकुनाऽशकुनः किमु ? ॥ ५६२ ॥ इत्येकाग्रमनाश्चन्द्रः समित्रः प्रस्थितोऽम्बुधौ । मार्गेऽस्य गच्छतोऽन्येशुरुत्पाताः सहसाऽभवन् ॥ ५६३ ॥ छादितं गगनं मेधैर्गद्भिः सह वार्धिना। मिथश्वास्फाल्य दुर्वाताश्चक्रुर्यानानि खण्डशः॥ ५६४ ॥ Page #330 -------------------------------------------------------------------------- ________________ ३१८ श्रीपार्श्वनाथचरिते छिन्नसूत्रस्य हारस्य मुक्ता इव दिशोदिशम् । ययुः सर्वेऽपि ते लोकाः केऽपि तत्रैव संस्थिताः ॥५६५।। चन्द्रस्तु फलकाधारादासाद्य जलधेस्तटम् । चिन्तयामास हा ! कष्टे क्षिप्तः सर्वो जनो मया ॥५६६।। पितृस्वजनलोकनां तदा वारयतां हठात् । यदिदं कार्यमारेभे दृष्टं सपदि तत्फलम् ।। ५६७ ॥ स्फुरत्संतापपापेनाऽधुना मे जीवितेन किम् ? । ध्यात्वेति वस्त्रपाशेन बद्धात्मा लम्बितस्तरौ ॥ ५६८ ।। अथ कोऽपि द्विजः पाशं छित्वा क्षुरिकयाऽब्रवीत् । आत्मघातस्त्वयाऽऽरेभे किमहो ! शास्त्रदृषितः १ ।। ५६९ ।। मर्तव्यमेव किंवा चेत् तदासनगिराविह। कामुकं विद्यते तीर्थ तत्र गत्वोज्झ जीवितम् ॥ ५७० ॥ तच्च कृत्वा ततश्चन्द्रो यावदुल्लम्बते गिरौ । मा साहसमिति प्रोचे तावत् कोऽपि स्फुटाक्षरम् ५७१ ।। ततश्चन्द्रो दिशालोकं कृत्वाऽपश्यन्न किश्चन । पुनरुल्लम्बितुं लग्नः पुरस्तदशृणोद् वचः ॥ ५७२ ॥ एवं तृतीयवेलायां निषिद्धेन प्रयत्नतः । दृष्टो निरीक्षमाणेन पादपान्तरितो मुनिः ।। ५७३ ॥ नत्वा पृष्टश्च किं नाथ ! मन्दभाग्यस्य मेऽधुना। नैव संपद्यते मृत्युरपि साधुरथाऽब्रवीत् ॥ ५७४ ॥ अनीतिमृत्युना तेन स्त्रीजनस्योचितेन किम् ? । जीवन्नेवेक्षते भद्रं दृष्टान्तोत्राहमेव भोः ! ॥ ५७५ ।। तथाहिश्रीमङ्गलपुरे राज्ञश्चन्द्रसेनस्य नीतिचित् । भानुनामाऽभवद् मन्त्री तद्भार्या च सरस्वती ॥५७६।। रथाङ्गयोरिव तयोस्तथा प्रीतिर्मियोऽभवत् । १ त्यज। - Page #331 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३१९ यथा निष्कृत्रिमस्नेहविधौ जज्ञे निदर्शनम् ॥ ५७७ ॥ पल्यङ्कादुत्थिताऽन्येयू रुदती भर्तृभानुना । पृष्टा प्रिये ! किमेतत् साऽवदन्नाथ ! न किश्चन ? ॥५७८॥ आग्रहेण पुनः पृष्टाऽऽचख्यौ स्वमेऽद्य यद् मया । प्रिय ! दृष्टोऽसि संभाष कुर्वाणोऽन्यस्त्रिया सह ॥ ५७९ ॥ तत् श्रुत्वा सचिवो दध्यौ सपत्नी वीक्ष्य याऽजनि । इत्थं स्वप्रेऽपि सा साक्षाद् दृष्टा कीदृग् भविष्यति ॥५८०॥ पत्नी तदियमेकैव यावज्जीवं न मेऽपरा । तयोः स्नेहप्रकर्षोऽयं प्रसिद्धिमगमत्तराम् ॥ ५८१ ॥ अन्यदा सचिवे राज्यभारमारोप्य भूपतिः । दूरं कटकयात्रायां गतस्तत्राऽस्ति सुस्थितः ॥ ५८२ ॥ दम्पतीविषये वार्ता प्रस्तावे यावदेकदा।। कोऽपि राज्ञः पुरोऽशंसत् स्वरूपं भानुमन्त्रिणः ॥ ५८३॥ परक्षिार्थ ततो राज्ञा कार्यमुद्दिश्य मन्त्रिणम् । आकार्य स्वान्तिके प्रैषीनरं जयपुरे द्रुतम् ॥ ५८४ ॥ तेन तत्र नृपादेशादलीका भानुमन्त्रिणः । विपत्तिविषया वार्ता सदुःखेनेव निर्मिता ॥ ५८५ ॥ वज्रघातसमं वाक्यं तनिशम्य सरखती । सञ्जातहृदयस्फोटा सहसा पश्चतां गता ५८६ ॥ तद् नरः कटके गत्वा नरेन्द्राय न्यवेदयत् । नृपोऽप्यत्याकुलश्चित्ते दध्यौ धिक् किं कृतं मया ? ॥५८७॥ स्त्रीघातपातकादस्माद् मोक्ष्ये कथमहं हहा ! १ । हास्येनाऽपि न कर्तव्यमकार्य हितमिच्छता ।। ५८८ ॥ अन्यच्च सचिवस्तस्या मृति यावत् शृणोति न । तत्प्राणान् रक्षितुं तावदुपायः कोऽपि चिन्त्यते ॥ ५८९॥ इति राजा गतोऽमात्यपार्वेऽमात्योऽपि संभ्रमात् । उवाच किमयं देव ! भृत्यान्ते खयमागमः ॥ ५९०॥ Page #332 -------------------------------------------------------------------------- ________________ ३२० श्रीपार्श्वनाथचरितेनृपोऽवोचदहं किञ्चिद् याचितुं त्वामिहागमम् । मन्त्री प्राह किमत्राऽर्थे कथ्यं यत् कृत्यमादिश ।। ५९१॥ ततश्चरणयोर्भानोलगित्वा नृपति गौ । वृत्तान्तेनामुनाऽमात्य ! विपन्ना सा तव प्रिया ।। ५९२ ॥ तदभ्यर्थनयाऽस्माकं न कार्याऽनुमृतिस्त्वया । हा ! किमेतदिति क्षुब्धचित्तेनाऽभाणि मन्त्रिणा ॥ ५९३ ॥ त्वदुक्तं सिद्धमेवेदं सत्त्वहीनस्य मे विभोः । दुःश्रव्यमप्यदः श्रुत्वा हृदयं न द्विधाऽभवत् ॥ ५९४ ।। किन्तु देवेन नो किश्चिद् वाच्यं दारपरिग्रहे । अन्यच्च करवै तस्यास्तत्र गत्वीयदेहिकम् ।। ५९५ ।। इति मुक्तो नृपेणाऽसौ गत्वा स्वनगरं गृहे । स्वजनैः संगृहीतानि प्रियास्थोनि सदार्चति ॥ ५९६ ॥ स्मारं स्मारं गुणांस्तस्या रोदिति प्रलपत्यति । नृपवाक्यनिबद्धत्वाद् मुमूषुरपि जीवति ५९७ अन्यदाचिन्तयद् यावज्जीवन स्मि विधवंशात् । तावद् गत्वैतदङ्गानि काऽपि तीर्थे क्षिपाम्यहम् ।। ५९८ ॥ इत्यनाख्याय भूपस्य मन्त्री गङ्गातटं गतः। तत्र दत्त्वार्थिनां दानमिति प्रलपति स्म सः ।।५९९।। प्रियास्थिभिरपीदानीं भाव्यहो ! विरहो मम । विराधित इव स्तोकमपि नो सुखद् विधिः ॥६००॥ अथ क्रीडागता वाराणसीश्वरनृपाङ्गजा। नाम्ना सरस्वती तत्र प्रलपन्तं तमाशृणोत् ॥६०१॥ पृष्टश्च स तया दुःखकारणं सर्वमाख्यत । तत् श्रुत्वा प्राग्भवं स्मृत्वा मूर्छिता साऽपतद् भुवि ॥६०२॥ ततो भीताभिरारब्धाः सखीभिर्विविधाः क्रियाः। . ज्ञात्वा राजाऽपि संभ्रान्तस्तत्रागात् सपरिच्छदः ॥६०३॥ Page #333 -------------------------------------------------------------------------- ________________ ... षष्ठः सर्गः । ३२१ पप्रच्छ लब्धचैतन्यां कन्यां किं पुत्रि ! तेऽभवत् । कथितं च तया मेऽप्तौ भर्ताऽऽसीत् पूर्वजन्मनि ॥६०३॥ इत्यादिबहुभिस्तस्याः प्रत्ययैः सहितां गिरम् । श्रुत्वा तोषं गतो मन्त्री राज्ञा कन्यां विवाहितः ॥६०४॥ लब्धाऽऽवासस्थितिस्तत्र स भानुसचिवः सुखम् । भुञ्जानोऽगम यत् कालं नरेन्द्रसुतया सह ॥६०५॥ साऽप्यहो ! मत्कृते सोढं कियद् दुःखं महात्मना । इति बुद्ध्या परं तत्र प्रतिबन्धपराऽभवत् ॥६०६॥ : अन्यदा नृपतिर्भानौ राज्यं न्यस्य विरागतः। . प्रव्रज्यां जगृहे भानू राजा पालयति प्रजाम् ।।६०७॥ अथ दाहज्वरस्तीवो देव्या आकस्मिकोऽजनि । चिकित्सा विविधाऽऽरेभे परं व्यर्थाऽखिलाऽभवत् ॥६०८॥ मुक्तबाणेषु वैद्येषु दध्यौ विध्यातधीनृपः। यावषा विपद्येत तावत् प्राणांस्त्यजाम्यहम् ॥६०९॥ मा भूद् विडम्बना प्राग्वदिति निश्चित्य सप्तमम् । प्रासादतलमारुह्य स्खमुल्लम्बितुमुद्यतः ॥६१०॥ तदा व्योम्नि वजन् दृष्टा तं चारणमुनि गौ । किं करोषि महाभाग ! स्ववधं बालिशोचितम् १ ॥६११॥ मृतस्याऽविधिना दुःखं पुरोऽधिकतरं भवेत् । दुष्कर्माण्येव वध्यानि वृथा देहवधेन किम् ? ॥६१२।। ऊचे भानुनृपः स्वामिन् ! किं कर्तव्यं मयाऽधुना ? । मुनिराह परं धर्म सर्वदुःखापहं कुरु ॥६१३।। जिनं देवं प्रपद्यस्व महाव्रतधरं गुरुम् । सर्वज्ञाऽभिहितं तत्वं सम्यक्त्वमिदमाश्रय ॥ ६१४ ॥ कल्पवृक्षस्तथा कामधेनुश्चिन्तामणिस्तथा । त्रिपदीयं समस्या हि पूर्णा स्याजिनधर्मतः ॥६१५॥ विरम प्राणिघातादिपापादित्यादिदेशनाम् । Page #334 -------------------------------------------------------------------------- ________________ ३२२ श्रीपार्श्वनाथचरितेनिशम्य स्वीकृतो धर्मो धन्यमन्येन भानुना ॥६१६॥ नीतश्च स मुनिर्देव्याः पार्थे साऽपि तमार्जवात् । वन्दित्वा देशनां श्रुत्वा गृहिधर्म समाश्रयत् ॥६१७॥ गतपापा च सज्जा च सा जज्ञे मुनिदर्शनात् । मणि-मन्त्र-महौषध्यो यथा तुर्यस्तथा मुनिः। ॥ ६१८॥ चिरं राज्यसुखं भुक्त्वा वयःपरिणतावुभौ । राज्ये निजाङ्गजं न्यस्य पार्थे प्रावजतां गुरोः ॥६१९॥ सरस्वती स्थिता साध्वी समीपे विशदव्रता । भानुस्तु विहरत्येकः स चाऽहं नन्विहागतः ॥६२०!! अतो यदि तदा स्वस्याऽकरिष्यं हननं ततः । ऐहिकाऽऽमुष्मिकश्रेयोऽभविष्यदिति मे कुतः ? ॥६२१॥ सत्यमेतद् वचो जज्ञे जीवन् भद्राणि पश्यति । तद् भद्र ! कुरु सद्धर्म विरमाऽज्ञानमृत्युतः ॥६२२॥ तन्निशम्याऽवदचन्द्रः सत्यमेतद् मुने ! परम् । वित्त-मित्रवियोगाा बाढमस्म्यनवस्थितः ॥ ६२३ ॥ प्रसीद तत् तथा नाथ ! यथा स्यां स्वच्छमानसः । पश्चाच्च भवदादिष्टे यतिष्ये धर्मकर्मणि ॥ ६२४ ॥ प्राह भानुमुनिस्तर्हि शिक्षयख तदेकधीः । परमेष्ठिनमस्कारं यः सद्यः सर्वकामदः ॥ ६२५ ॥ लघिष्ठोऽपि यथा हन्ति द्रुतं पश्चाननो गजान् । तथा पञ्चनमस्कारो इस्खोऽपि दुरितापहः ।। ६२६ ॥ प्राप्य पश्चनमस्कारं चिन्तामणिसमं जडाः । उपलावज्ञया पश्यन्त्यन्ये ध्यायन्ति यत्नतः ॥ ६२७ ॥ तथाहिदेशकालानुमानेन वर्तनं कलिवर्जनम् ।। यथालब्धे च सन्तोषो महासुखमिदं नृणाम् ॥ ६२८ ॥ अतिलौल्यात् पुनर्लब्धमप्यर्थ हारयेत् कुधीः । Page #335 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । ३२३ मयूरग्राहको यद् यथा च किल वानरः ।। ६२९ ॥ तथाहिकेनाsप्याराधितो यक्षो भक्तितो धनवान्छया । अनिर्विण्णतया तस्मै सुरस्तुष्टो ददौ वरम् || ६३० ॥ अहो ! यो नृत्यति स्वर्णमयूरः पुरतो मम । तस्यैकं गलितं पिच्छं त्वया ग्राह्यं दिने दिने ।। ६३१ ।। इति यक्षसमादिष्टं कुर्वन् दध्यौ नरोऽन्यदा । किमु कालविलम्बेनाऽखिलं गृह्णामि बर्हिणम् ।। ६३२ ।। इति ध्यात्वा गृहीत्वा च तं यावद् वीक्षते कुधीः । तावदन्यशिखिप्रख्यं दृष्ट्वा सोऽप्याकुलोऽभवत् ॥ ६३३॥ मागतान्यपि गत्वाऽसौ गृहे सामान्यपिच्छवत् । पिच्छानि वीक्ष्य वक्षः स्वं ताडयन् बह्वशोचत ॥ ६३४ ॥ तथैकत्र वने प्रीत्या युग्मं वानरयोरभूत् । प्रपाताख्यं ययौ तीर्थमन्यदा तत् परिभ्रमत् ॥ ६३५ ॥ तच्च तीर्थतरौ तत्राऽऽरोहच्चापल्यतस्ततः । पपात सद्यो जज्ञे च मर्त्ययुग्मं मनोहरम् || ६३६ ॥ तादृक् तीर्थस्य माहात्म्यं दृष्ट्रा तअतिविस्मितम् । सुखमास्तेऽतिलुब्धत्वादथो स्त्रीं पुरुषोऽवदत् || ६३७॥ वानरत्वं प्रिये ! तावत् त्यक्त्वाऽवानरतां गतौ । पतावः पुनरप्यत्रारुह्य देवत्वहेतवे ।। ६३८ ॥ अथो जगाद सा दक्षाऽतिलोभो न शुभः प्रिय ! | वारितोऽपीत्यमर्षेण वृक्षमारुह्य सोऽपतत् ।। ६३९ ।। भूयोऽपि वानरः सोऽभूद् दुःखितश्चारटद् भृशम् | तत्रायातेन साऽपि खी खेचरेण समं ययौ । ६४० ॥ इति ज्ञात्वा सुसंतोषं हृदि धारय तं विना । आरुह्योच्चैरपीच्छा यत् तथैवाकाशवद् नृणाम् ॥ ६४१ ॥ अथाऽसौ तं मुनिं नत्वा प्रीतः पुष्पपुरं ययौ । Page #336 -------------------------------------------------------------------------- ________________ ३२४ श्रीपार्श्वनाथचरितेवाणिज्यं किश्चिदारेभे तत्र जातो महर्द्धिकः ॥ ६४२ ॥ चन्द्रः पश्चनमस्कारशुद्धपक्षानुभावतः। वर्धमानकलो जज्ञे सुवृत्तकलितः क्रमात् ।। ६४३ ।। अथो विधिवशात् तस्य त्रयोऽपि सुहृदोऽचिरात् । भानुभॊमश्च कृष्णश्च तत्राऽऽजग्मुः पृथक् पृथक् ॥ ६४४ ॥ चन्द्रस्य मिलिताः सर्वे स्वखोदन्तं न्यवेदयन् । चन्द्रोऽपि निजवृत्तान्तं पुरस्तेषां शशंसिवान् ।। ६४५ ॥ नमस्कारस्य माहात्म्यं श्रुत्वा ते तं शिशिक्षिरे । ततस्तेऽपि शनैर्जाता महर्द्धिभरभासुराः ।। ६४६ ।। चन्द्र-भानू स्वभावेन प्राञ्जलौ सर्ववत्सलौ । किश्चिद् मायाविनौ वन्यौ भेदः साम्येऽपि दृश्यते ॥६४७॥ चत्वारोऽप्यन्यदैकत्र निविश्यालोचयन्त्यदः। ऋद्धिर्जाता बहुः किन्तु किं तया स्वजनैर्विना?॥ ६४८ ॥ सैव लक्ष्मीः प्रशस्येत चमत्कारं करोति या । सज्जनैर्भुज्यतेऽप्याशामाशङ्कां च प्रतन्वती ।। ६४९ ॥ अतः स्खं नगरं याम इति निश्चित्य ते ततः । क्षेमेणाऽम्भोधिमुल्लद्ध्य प्रस्थिताः पदवर्त्मना ॥ ६५० ॥ ऋद्धिसंभारसंपूर्णस्तेषां सार्थः पथि वजन् । एकत्राऽऽवासितो ग्रामे पारेभे भोजनस्थितिम् ॥ ६५१ ॥ तदाऽधोन्यस्तदृक् साधुरेको नेत्रप्रभाऽमृतैः । सिञ्चन्निव भुवं तत्राऽऽययौ मासोपवासिकः ॥ ६५२ ॥ स मुनिस्तपसा शुष्काङ्गोऽपि चन्दनदारुवत् । उज्ज्वलः शीतलश्वासीत् कस्य नाह्लादको जने ? ॥६५३।। तेषां भद्रकभावत्वात् स दृष्टो विमले हृदि । . मुनिः संक्रान्तबिम्बोऽभूजातास्त तेन तन्मयाः ॥ ६५४ ॥ स्वयं भोक्तुं निविष्टत्वात् तस्मै चन्द्रादिभिः समम् । आदिष्टो भक्तदानाय सुन्दरो नाम कर्मकृत् ।। ६५५ ।। Page #337 -------------------------------------------------------------------------- ________________ - षष्ठः सर्गः। ३२५ । स तुष्टो हृदये दध्यावहो ! मे सुकृतोदयः।। काऽहं काऽयं मुनिः कैतदेयं कैते च दापकाः ? ॥ ६५६ ॥ यदि वस्तु निजं न स्यात् तदित्थमपि यच्छतः। पात्राय स्यान्महालाभो नृत्य नृत्य ततो मनः ! ६५७।। इति हर्षोल्लसञ्चित्तः सुन्दरो भाविसुन्दरः। अदत्त मुनये दानं निदानं मोक्षसंपदः ।। ६५८ ॥ द्विचत्वारिंशता दोषैरदुष्टं मुनिरप्यदः । प्रतिजग्राह भक्ताद्यं प्राणाधाराय धार्मिकः ॥ ६५९ ॥ चतुर्भिरपि तैर्भोगफलं कर्मार्जितं ततः । सुन्दरेणाऽधिकं तत्तु परिणामविशेषतः ॥ ६६० ॥ क्रमान्जयपुरं प्राप्तं मिलिता बन्धवोऽखिलाः । चतुर्णामपि गेहेऽभून् महान् वर्धापनोत्सवः ॥ ६६१ ॥ चिरमृद्धिसुखं भुक्त्वा प्रान्ते सुन्दरसंयुताः। जाता ज्योतिष्कुमारेषु ते चत्वारोऽपि देवताः ॥ ६६२ ।। चन्द्र-भानू ततश्च्युत्वा महेभ्यतनयावुभौ । अभूतां विश्रुतौ नाम्ना श्रीवर्धन-मनोरमौ ॥ ६६३ ॥ भीम-कृष्णौ पुनश्च्युत्वा पुत्रीत्वेन धनेशितुः । सुन्दरी रुक्मिणी नाम्ना बभूवतुरनुक्रमात् ।। ६६४ ॥ परिणीते च ते ताभ्यामुभाभ्यामपि कन्यके । मिथः प्राच्यभवाऽभ्यासात् प्रतिबन्धो महानभूत् ॥ ६६५॥ च्युत्वा सुन्दरजीवस्तु जज्ञे विश्वपुरे नृपः। विश्वसेनाऽभिधः श्रीभिः स्वयमागत्य यो वृतः ॥ ६६६ ॥ पुरे तत्रान्यदाऽऽयातौ श्रीवर्धन-मनोरमौ । वाणिज्यार्थमथो तत्र राजानमुपतस्थतुः ॥ ६६७ ।। तौ दृष्ट्वा मुदितो राजा दानमुक्तिमकारयत् । प्राच्यस्नेहाच्च तत्रैवाऽस्थापयत् सकुटुम्बकौ ॥ ६६८ ॥ अन्यदा सहितस्ताभ्यां बहिरुद्यानमागतम् । Page #338 -------------------------------------------------------------------------- ________________ ३२६ श्रीपार्श्वनाथचरितेययौ राजा मुनि नन्तुं ध्यानस्थं च तमैक्षत ॥ ६६९ ॥ नृपस्तदर्शनोद्भूतप्रभूनानन्दकन्दलः । ध्यानकरगितात्मानं भक्त्या नत्वेदमब्रवीत् ।। ६७० ॥ निस्तन्द्रां योगमुद्रां ते दृष्ट्वा मे मुदितं मनः । ततस्तस्या विधि श्रोतुमिच्छामि शिवदं मुने ! ॥ ६७१ ।। अथ तस्योपरोधेन योग्यं ज्ञात्वा च तं मुनिः । पारयित्वा क्षणं ध्यानं मधुरध्वनिराख्यत ॥ ६७२ ।। साधु पृष्टं महाभाग ! श्रूयतां किश्चिदुच्यते । नृणां येन श्रुतेनाऽपि निष्पकम्पं मनो भवेत् ॥ ६७३ ॥ यमो नियमाऽऽसने च प्राणायामश्चतुर्थकः । प्रत्याहारो धारणा च ध्यानं समाधिरष्टमः ॥ ६७४ ॥ अहिंसा सत्यमस्तेयं ब्रह्माऽकिश्चनता यमाः। नियमाः शौच-सन्तोषौ स्वाध्याय-तपसी अपि ।। ६७५ ॥ देवताराधनं चैव करणं पुनरासनम् । प्राणायामो गतिच्छेदः श्वास-प्रश्वासयोर्मतः ॥ ६७६ ॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः । धारणा तु कचिद् ध्येये चित्तस्य स्थिरबन्धनम् ॥६९७॥ ध्यानं च विषये तस्मिन्नेकपत्ययसन्ततिः । समाधिस्तु तदेवैकमात्राऽभ्यसनरूपकः ॥ ॥ ६७८ ।। अष्टाङ्गो योग इत्येवं तज्ज्ञैराख्यायि यः सदा । अष्टकर्मबलं जेतुं जागर्ति हृदि योगिनाम् ॥ ६७९ ॥ पद्म-वज्रासनादीनामभ्यासेनाऽऽसनं जयेत् । रेचकादिक्रमेणाऽथ करणीयो मरुजयः ॥ ६८० ॥ तजये स्याद् वपुःसौस्थ्यं देहसौख्यं मनः स्थिरम् । मनःस्थैर्ये लगेद् ध्यानं ध्याने च समतासुखम् ।। ६८१ ॥ तत् सौख्यमपि दुःखाय रागद्वेषाच्च यद् भवेत् । तद् भो विहाय तन्मध्यं समताख्यं समाश्रय ॥६८२॥ Page #339 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। .. ३२७ रागः शीतसमो द्वेषो ग्रीष्मतुल्यस्तदन्तरे । स्थितश्चैत्र इवानन्दोत्सवं कस्य करोति न ? ॥ ६८३ ॥ मूक्ष्ममार्गे हि धर्मस्य समताख्ये शिवोपरि । एक एव ततो मा गा विकल्पगहनं वनम् ॥ ६८४ ॥ शर्म धर्मश्च तत ते स्यानिर्विकल्पं मनो यदि । विकल्पो याति साम्येन तदभ्यासं ततः कुरु ॥ ६८५ ॥ भवे पर्यटतो जन्तोः को निजः कोऽथवाऽपरः । ग्रामस्यार्वाक् प्रदेशो यः स एव बनतः परः ॥ ६८६ ॥ विकल्पैरब्धिकल्लोलाऽवगाहनसमैः किमु । साम्यं फलकमादाय तीरं श्रय भवाम्बुधेः ॥ ६८७ ॥ विद्यया तपसा तीर्थयात्रया वा न नितिः । विना तद् मर्मसाम्येन साम्यात् सौस्थ्येऽपि सा भवेत्॥६८८॥ उक्तं चहूयते न तप्यते न दीयते वा न किश्चन । अहो ! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥ ६८९॥ कन्या किल यथा विद्या-तीर्थ-कष्टकतामपि । नासीदासीत् स्थितस्याऽपि तन्मर्माहारदायिनः॥ ६९०॥ तथाहिश्रीपुरे चन्दन श्रेष्ठिपुत्री नन्दा गुणैकभूः । प्रदीपकलिकेवाऽसीत् बालाऽपि कुलमण्डनम् ॥ ६९१ ॥ पाणिग्रहणयोग्याया ग्रामान्तरगतैः समम् । तस्याः पित्रादिभिश्चके संपदानं पृथक् पृथक् ॥ ६९२ ॥ पित्रैकत्र पुरे दत्ता महेभ्यतनुजन्मने । पितृव्येण पुनर्मित्रपुत्रस्याऽन्यत्र पत्तने ॥ ६९३ ॥ स्वपितृनगरे मात्राऽभीष्टसख्याः सुतस्य तु । ददे भ्रात्रा पुरेऽन्यत्र महागुणवते तु सा ॥ ६९४ ॥ सर्वेऽपि वपुरं प्राप्ताः कन्यादानं निजं निजम् । Page #340 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते निर्मितं कथयामासुरन्योऽन्यं हर्षनिर्भराः ।। ६९५ ॥ विसंवादेऽथ सर्वेषां स्पर्धाविन्धो महानभूत् । यदस्माभिः कृतं कार्य प्रलयेऽपि किमन्यथा ? ॥ ६९६ ॥ यथावृतवराणां च लग्नमेकं प्रहित्य तैः । संवाहः कर्तुमारेभे विवाहाय सविस्तरम् || ६९७ ॥ अथ लग्नदिने प्राप्ते चत्वारोऽपि वराः समम् । तत्राऽऽगत्य बहिस्तस्थुर्महायानपरिग्रहाः ।। ६९८ । परिणेतुं च तां सर्वे सममाजग्मुरुद्धताः । विवदमाना युद्धाय सन्नद्धाश्च रुषाऽभवन् ।। ६९९ ।। सा तेषां युद्धसंरम्भं पुरुषक्षयकारणम् । पित्रादीनां विरोधं च वक्ष्यि नन्दा व्यचिन्तयत् ॥७०० ॥ धिग मां यस्याः कृतेऽमीषां महाऽनर्थोऽयमुत्थितः । मृतायां मयि सर्वेषां श्रेयो भवति नान्यथा ।। ७०१ ॥ निश्चित्यैवं चितां बाह्ये रचयित्वैकमानसा | साहिं साधयामास सदुःखं वीक्षिता जनैः ॥ ७०२ ॥ तेषामेको वरो वह्निं प्रविवेश तया सह | द्वितीयस्तु विरागेण दूरदेशान्तरं ययौ ।। ७०३ ॥ तृतीयोऽपि तदङ्गान्यादाय तीर्थ प्रतस्थिवान् । तुर्यस्तु तस्याः शेषाङ्गोपरि स्थण्डिलकं व्यधात् || ७०४ ॥ याचित्वा च पुरे भिक्षां मुक्त्वा तत्राऽन्नपिण्डकम् । स्वयं भुङ्क्ते प्रियामोहात् तत्रास्ते च दिवानिशम् ।। ७०५ ।। कियत्यपि गते काले देशान्तरगतो वरः । काsपि संजीवनीं विद्यां प्राप्य तत्राप्ययौ मुदा ॥ ७०६।। आकृष्य स्थण्डिलाच्छेषाऽस्थीनि विद्याऽनुभावतः । - चक्रे पुनर्नवां कन्यां नव्यः सहमृतोऽप्यभूत् ।। ७०७ ।। तीर्थान्तरगतोऽप्यागात् तदानीं तत्र दैवतः । कन्यार्थं विवदन्ते स्म चत्वारोऽपि तथैव ते ।। ७०८ ॥ ३२८ Page #341 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३२९ मिलिताः स्वजनाः सर्वे सपौरा राजपुरुषाः। कन्याविवादः किन्त्वेषां न केनापि निवर्तितः ॥ ७०९॥ अथैकः प्रवया ज्ञाततत्स्वरूपो महामतिः। तेषां वचनमादाय स्फुटं निर्णीतवानिदम् ।। ७१० ॥ तीर्थेऽस्थिन्यासकः पुत्रः पुनर्जन्मप्रदः पिता । सहोत्पन्नः पुनाता स भो यस्तु भक्तदः ॥ ७११ तदस्यैव प्रियाऽस्त्वेषा यः सदा भोजनं ददौ । लोकेऽपि श्रूयते भर्ता भार्याभरणपोषणात् ।। ७१२ ।। इत्युक्ते मुक्तवैरास्ते सर्वे वस्वास्पदं ययुः । परिणीता तु सा तुर्यवरेण जनसम्मतम् ।। ७१३ ।। यथासौ नाभवद् विद्या-तीर्थ-कष्टकृतामपि । . भक्तदानं विना तद्वद् विना साम्यं न निवृतिः ॥ ७१४ ।। तत्त्वज्ञानं विना विद्या तपस्या शमवर्जिता । तीर्थयात्रा मनःस्थैर्यवन्ध्या वन्ध्येव कामिनी ।। ७१५ ॥ अतोऽत्यायासमुक्तोऽपि तल्लीनो निवृतेर्नरः । यः साम्यभोजनं दत्ते पोषणं स भवेद् वरः ।। ७१६ ॥ तत्त्वज्ञानं शमः स्थैर्य साम्ये हि युगपत् त्रयम् । विद्यादीनां फलं साक्षाद् दृश्यते तेन.तत् कुरु ॥ ७१७ ।। यदाहुमहात्मानःप्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥ ७१८ ।। वीतरागं इदि ध्यायन् वीतरागो यथा भवेत् । .. मुक्त्वाऽखिलमपध्यानं भ्रामरं ध्यानमाश्रय ।। ७१९ ॥ स्थाने याने जनेऽरण्ये सुखे दुःखे तथा मनः । अभ्यस्य वीतरागत्वे लयलीनं यथा भवेत् ॥ ७२० ॥ बद्धमाबाध्यते मुक्तमग्रहं स्यात् ततो बुधैः। . . १ वृद्धः । २ अभ्यासं कुरु । २७. . . Page #342 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेवारणीयं धृतोन्मुक्तं रज्जुबद्धोक्षवद् मनः ॥ ७२१ ॥ अभ्यासमनया युक्त्या कुर्वतो योगिनः क्रमात् । अङ्गुल्यग्रस्थितो दण्ड इव स्थैर्य मनः श्रयेत् ॥ ७२२ ॥ घनात् स्तोके मनो योगी स्थूलात् सूक्ष्मे नियोजयेत् । परमाणौ ततो दध्याद् दंशे मान्त्रिकवद् विषम् ॥ ७२३ ।। स्थैर्यस्थे सति चित्ते च वारीवात्मा स्वमीक्षते । चिन्मयः स्यात् ततो नालोद्भेदात् कूप इवाऽम्मयः ॥७२४॥ द्रुतिः पुष्पे घृतं दुग्धे तेजः काष्ठे यथा स्थितम् । ज्ञानं जीवे तथा किन्तु व्यक्तीस्यात् परिकर्मणा ॥७२५॥ इति सारोपदेशं तं सम्यग् ध्यात्वा नृपो हृदि । ज्ञानातिशयसंपन्नं पप्रच्छेदं पुनर्मुनिम् ॥ ७२६ ।। अनयोरुपरि खामिन् ! मम ब्रूहि कुतोऽभवत् । भिन्नजातिक्रमस्थानस्यापि स्नेहोऽयमीदृशः ? ॥ ७२७॥ ततश्चन्द्रादिमित्राणि सुन्दरश्वाऽपि कर्मकृत् । यथाऽऽसीत् तत् तथा सर्व कथयामास केवली ॥ ७२८ ।। तत् श्रुत्वा नृपतिर्जातजातिस्मृतिरतीव सः । मुनिदानप्रभावेन प्रतनूकृतकर्मकः ।। ७२९ ॥ प्रवर्धमानसंवेगात् संस्थाप्य स्वपदे सुतम् । पर्यव्राजीत् सभायौं च श्रीवर्धन-मनोरमौ ॥ ७३० ॥ (युग्मम्) स्नेहान्ते शालिवद्दीक्षामवाप्य शमगोरसम् । चारुवैराग्यकर्पूरैवासं भुञ्जीत भाग्यवान् ॥ ७३१ ॥ निरवयं तपः कृत्वा ययुः सर्वे सुरालयम् । पुनमादिसामग्रीमाप्य सेत्स्यन्ति तेऽचिरात् ॥ ७३२ ॥ त्रिविधस्याऽपि दानस्य माहात्म्यमिति वर्णितम् । शीलनाम्नो द्वितीयस्य धर्माङ्गस्य प्रचक्ष्यते ॥ ७३३ ॥ १ जलमयः । २ अव्यक्तं व्यक्तं स्यात् । ३ मार्जनेन । Page #343 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३३१ शौचानां परमं शौचं गुणानां परमो गुणः । प्रभावमहिमाधाम शीलमेकं जगत्त्रये ।। ७३४ ॥ तथाहिदाक्ष्यं भूषणमैश्वर्ये शौर्ये वाक्यस्य संयमः । ज्ञानस्योपशमः स्फीतः श्रुतस्य विनयः पुनः ।। ७३५ ॥ अक्रोधस्तपसो भूषा सामर्थ्यस्य सहिष्णुता । पात्रव्ययश्च वित्तस्य दानस्य प्रियभाषणम् ॥ ७३६ ॥ निर्व्याजता च धर्मस्य सर्वेषां पुनरुज्ज्वलम् । भूष्यभूषणभावानां शीलं परमभूषणम् ।। ७३७ ॥ तच्च चारित्ररूपं च ब्रह्मरूपं च कथ्यते । चारित्रं च द्विधा सर्व-देशचारित्रभेदतः ॥ ७३८ ॥ यतिधर्मो दशविधः सर्वचारित्रमुच्यते । यः सम्यक् सेवितः शीघ्रं भवेद् मुक्तिपदपदः ।। ७४९ ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । शान्तिर्दिवमृजुता मुक्तिश्च दशधा स तु ।। ७४० ॥ तत्रपञ्चाश्रवपरीहारः कषायेन्द्रियनिग्रहः । त्रिदण्डविरतिः सनदशधा संयमो भवेत् ॥ ७४१ ॥ सूनृतं च भय-क्रोध-लोभ-हास्यैर्मषोज्झनम् । शौचं शुद्धिर्बहिश्वान्तरयुक्तोपधिवर्जनात् ।। ७४२॥ दिव्यौदारिक-कामानां निषेधो ब्रह्म कथ्यते । आकिञ्चन्यं त्वमूर्छा या सत्स्वथाऽसत्सु वस्तुषु ॥७४३॥ तपो द्वादशधा ज्ञेयं बाह्या-ऽभ्यन्तरभेदतः । स्वशरीरगतं बाह्यमन्यद् योगक्रियागतम् ॥ ७४४॥ तथाचअनशनमौनोदर्य वृत्तिसंक्षेपणं तथा। रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः ।। ७४५ ॥ Page #344 -------------------------------------------------------------------------- ________________ ३३२ श्रीपार्श्वनाथचरिते प्रायश्चित्तं वैयाकृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं-छोटेत्याभ्यन्तरं तपः ।। ७४६ ॥ क्षान्तिः सहिष्णुतारूपा मार्दवं मानवर्जनम् । आर्जवं प्राञ्जलत्वं यद् मुक्तिर्निर्लोभता पुनः ॥ ७४७ ॥ इत्येवं यतिधर्मस्य स्पष्टं भेदा दशाऽप्यमी । विवृताः, सर्वचारित्रमियता परिकीर्तितम् ॥ ॥ ७४८ ॥ तत् पुनर्देशचारित्रं यो द्वादशवतात्मकः । गृहिधर्मः क्रमात् त्वेष सिद्धिसौख्यविधायकः ॥ ७४९ ॥ अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहान् । स्थूलत्वात् पालितान् पञ्चाऽणुव्रतानि जगुर्जिनाः ॥७५०॥ दिविरतिव्रतं भौगोपभोगपरिमाणकम् । अनर्थदण्डविरतिश्चैतद् गुणवतत्रयम् ॥ ७५१ ॥ सामायिकं च देशावकाशिकं पौषधं तथा । अतिथिसंविभागाख्यं शिक्षाबतचतुष्टयी ।। ७५२ ॥ नामतः कीर्तितान्येवं व्रतानि द्वादशापि हि । अथो विवरणं तेषां क्रमेणैव प्रचक्ष्यते ॥ ७५३ ॥ त्रसान् जीवान् प्रयत्नेन प्रायेण स्थावरानपि । आत्मवद् रक्षति गृही यत्राहिंसावतं हि तत् ॥ ७५४ ॥ सर्वलोकविरुद्धं यत् कूटसाक्ष्यादिवर्जनम् । विमृश्य प्रोच्यते तथ्यं तद् भवेत् सूनृतवतम् ॥ ७५५ ॥ आहितं स्थापितं नष्टं पतितं विस्मृतं स्थितम् । अगृह्णतः परद्रव्यं तृतीयाणुव्रतं भवेत् ॥ ७५६ ।। विश्वप्रशस्यं सुधियां परब्रह्मैककारणम् ।। परकान्तानभिगमश्चतुर्थव्रतमुच्यते ॥ ७५७ ॥ क्षेत्रस्य वास्तुनः कुप्याऽकुप्ययोर्धन-धान्ययोः । चतुष्पद-द्विपदयोर्या सङ्ख्या सोऽपरिग्रहः ।। ७५८ ॥ जीवोपमर्दनाभीतैः कृता दिक्षु दशस्वपि । Page #345 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । ३३३ सीमा न लङ्घ्यते यत्र प्रथमं तद् गुणव्रतम् ।। ७५९ ॥ निषिद्धाऽनन्तकायाद्यैः क्रियते यासु कर्मभिः । भोगोपभोगयोः सङ्ख्या तद् द्वितीयं गुणव्रतम् ॥७६०॥ पापोपदेशोऽपध्यानं हिंस्रोपकरणार्पणम् । प्रमादाचरणं चाऽपि त्यज्यतेऽन्त्यगुणत्रते । ७६१ ।। मनो-वाक्-कायसावद्यवर्जितैर्यो विधीयते । मुहूर्त्त समताभावस्तत् स्यात् सामायिकव्रतम् ||७६२| दिग्वते या कृता मार्गसङ्ख्या सा सर्वदा पुनः । दिने रात्रौ च संक्षेप्या व्रते देशावकाशिके ॥ ७६३ ॥ चतुर्थाद्यं चतुष्पव्र्व्यामस्नानं ब्रह्मचारिता । कुव्यापार निषेधश्च यत्र तत् पौषधत्रतम् ॥ ७६४ ॥ भावाच्चतुर्विधाहारो वस्त्रं पात्रमुपाश्रयः । अतिथिभ्यो दीयते यत तुर्ये शिक्षाव्रतं हि तत् ॥ ७६५ ॥ एवं व्रतस्थः सद्भक्त्या सप्तक्षेत्र्यां धनं वपन् । दीनादौ च दयापूर्व महाश्रावकतां व्रजेत् || ७६६ ।। इमैर्निरतिचारैः सत्सम्यक्त्वालङ्कृतैव्रतैः । गृहिधर्मोऽपि मोक्षाय भवेदन्तर्भवाष्टकम् || ७६७ ॥ इत्थं द्विधाऽपि चारित्ररूपं शीलमुदाहृतम् । अधुना लोकविख्यातं ब्रह्मरूपं निगद्यते । ७६८ ।। नारीणां च नराणां चाऽन्यकान्तासक्तिवर्जनम् । गृहिणां शीलमाख्यातं देवानामपि दुर्लभम् ॥ ७६९ ।। विषयव्याकुलैः शीलं खण्डितं मनसाऽपि यैः । ते यान्ति नरकं घोरं यथा मणिरथो नृपः ।। ७७० ।। सती मदनरेखेव पालयत्यमलं तु तत् । यः स धन्येषु रेखाप्तो भवेत् सुगतिभाजनम् ॥ ७७१ ॥ एतयोश्चरितं चारु चारित्रप्रतिपत्तये । ज्ञानवैचित्र्यतः किञ्चिद् भविष्यदपि कथ्यते ॥ ७७२ ॥ Page #346 -------------------------------------------------------------------------- ________________ ३३४ श्रीपार्श्वनाथचरितेअस्त्यत्र भरतेऽवन्त्यां पुरं नाम्ना सुदर्शनम् । राजा मणिरथस्तत्र निवासः सततं श्रियः ।। ७७३ ।। ताता युवराजस्तु युगबाहुमहामनाः । प्रिया मदनरेखाहा तस्य सद्गुणशालिनी ।। ७७४ ॥ यस्या रूपश्रियं दृष्टा समुद्भूतस्मरामिना । दग्धः कामोऽपि तेनाऽसौ पाप नूनमनङ्गताम् ।। ७७५ ।। सती रूपवती साऽपि जैनधर्मे रताऽभवत् । तत्सुवर्णस्य सौरभ्यं सौभाग्योपरि मञ्जरी ।। ७७६ ।। अथ तां काऽपि विश्रब्धां पश्यन् मणिरथो हृदि । ईय॑येव हतो बाणैर्मदनेनेत्यचिन्तयत् ॥ ७८७ ॥ ध्रुवं ग्राह्या मया तावदेषा तस्मात् प्रलोभये । यल्लोभान्तरितः कृत्याकृत्यं न गणयेज्जनः ।। ७७८ ॥ ततोऽसौ पुष्प-ताम्बूल-वस्त्रा-लङ्करणादिकम् । पहिणोति न तस्यास्तु कोऽपि दुष्टाशयो हृदि ॥ ७७९ ॥ ज्येष्ठस्याऽयं प्रसादो मे संकल्प्येत्याददाति तत् । अन्यदा प्रहिता राज्ञा दूती तामित्यवोचत ।। ७८० ॥ भद्रे ! तव गुणग्रामे रक्तो राजा वदत्यदः। मां प्रतिपद्य भर्तारं राज्यस्य स्वामिनी भव ।। ७८१ ॥ ज्ञाताकूता ततो राज्ञी जगादैवं सतां मनः । अन्यास्वपि परस्त्रीषु नैति दूरे वधूजनः ॥ ७८२ ॥ शीलमाद्यगुणः स्त्रीणां यदि सोऽपि न मे भवेत् । ततः केऽन्ये गुणा येषु रज्यते नरपुङ्गवः ? ॥ ७८३ ॥ स्वामित्वं यत् तु राज्यस्य तत् त्वदीयानुजन्मनः । गृहिणीत्वं दधत्या मे युवराजस्य को हरेत् ? ॥ ७८४ ॥ किश्च सत्पुरुषा मृत्युमप्यङ्गीकुर्वतेतराम् । लोकद्वयविरुद्धं तु नाचरन्ति कथश्चन ॥ ७८५ ॥ . Page #347 -------------------------------------------------------------------------- ________________ . षष्ठः सर्गः। ३३५ यतःजीवघातादलीकोक्तात् परद्रव्यापहारतः । परस्त्रीकामनेनापि व्रजन्ति नरकं नराः ॥ ७८६ ।। तद् महाराज ! संतोषं कुरु मुश्च कदाग्रहम् । भोगतृष्णा हि भोगाद् न याति प्रत्युत वर्धते ॥ ७८७ ॥ इत्यादि गदितं तस्या दूती राजे न्यवेदयत् । अनिवृत्तस्तथाप्येष विशेषोपप्लुतोऽभवत् ।। ७८८ ॥ नोपदेशजलैः शाम्यत्यग्नितैलकृशानुवत् । विवेककालिकेनैव शाम्यति स्मरपावकः ॥ ७८९ ॥ स दध्यौ निस्सपो नैषा युगबाहौ हि जीवति । अन्यमिच्छति तद् हत्वा तं गृह्णामि बलादिमाम् ॥७९०॥ इति निश्चित्य स भ्रातुर्लघोश्छिद्राणि वीक्षते । विवेकबन्धुमुक्तानां काममोहविडम्बना ॥ ७९१ ॥ अन्यदा चन्द्रमाः स्वमे दृष्टो मदनरेखया । भर्ने शिष्टश्च सोऽप्याख्यचन्द्राभसुतसम्भवम् ।। ७९२ ॥ तस्या गर्भानुभावेन तृतीये मासि दोहदः । जज्ञे यदि जिनेन्द्राणां करोमि विविधार्चनम् ॥ ७९३ ॥ अर्हतां च कथां नित्यं शृणामीति यथेप्सितम् । संपूर्णदोहदा गर्भ सुखेनैवोद्वहत्यसौ ॥ ७९४ ॥ अथ मल्लीरदश्चूतमञ्जरीकेसरो वने । पलाशपुष्पनखरो वसन्तहरिरागतः ॥ ७९५ ॥ पुष्प्यन्ति तरुणीश्लिष्टा यस्मिन् कुरुवकद्रुमाः । विकाशं यान्त्यशोकास्तु वधूपादप्रहारतः ॥ ७९६ ॥ मृगाक्षीसीधुगण्डूषैः पुष्यान्त बकुला अपि । चम्पकास्तु प्रफुल्लन्ति सुगन्धजलदोहदैः ।। ७९७ ॥ सुभ्रूकटाक्षिताः सद्यस्तिलका विकसन्त्यलम् । श्रुत्वा च पश्चमोद्गारं पुष्यन्ति विरहद्रुमाः ॥ ७९८ ।। Page #348 -------------------------------------------------------------------------- ________________ ३३६ श्रीपार्श्वनाथचरितेस्पर्शादिविषयैरेवं क्रमादेकेन्द्रिया अपि । क्रियन्ते तत्र का वार्ता पश्चेन्द्रियविमोहने ? ॥ ७९९ ॥ वर्णोज्ज्वलेऽप्यगन्धत्वात् कर्णिकारे न रेमिरे । भृङ्गा रूपेण किं छेका रज्यन्ते ह्यान्तरैर्गुणैः ? ॥ ८०० ॥ भृशं कुसुमिता यत्र पुन्नागमिव माल्लिका । पाटला-काञ्चनाराश्च मुचकुन्दोऽपि नार्हति ॥ ८०१ ॥ एला-लवङ्ग-ककोल-द्राक्षा-खजूरिकादयः । कदली-लवलीमुख्या वृक्षा यत्राधिकश्रियः ॥ ८०२ ॥ यश्च स्वयमपि स्मेरस्मरोन्मत्त इव ध्रुवम् । हसतीवोज्ज्वलैः पुष्पैः कूजतीव पिकस्वरैः ॥ ८०३ ॥ गायतीवाऽलिझङ्कारैर्नृत्यतीवाऽग्रपल्लवैः । नमतीव द्रुशाखाभिः पठतीव शुकारवैः ।। ८०४ ॥ तस्मिन् वसन्ते सत्येवं युगबाहुः प्रियायुतः । ययौ क्रीडार्थमुद्यानं पश्यन् नागरचर्चरीः ॥ ८०५ ॥ जलक्रीडान्दोलनाद्यैः खाद्यपानाऽशनादिभिः । व्यग्रस्य युवराजस्य दिनं क्षण इवाऽभवत् ॥ ८०६ ॥ रात्रौ तत्रैव कदलीगृहे सुष्वाप निर्वृतः । परिवारस्तु कुत्रापि कोऽप्यगात् प्रतनुः स्थितः ॥८०७॥ अथो माणिरथो दध्यौ यदिष्टस्य क्षणोऽधुना। युगबाहुर्यतः स्वल्पपरिवारो वनं निशा ।। ८०८ ॥ ततः खड्गकरो गत्वा वनं पप्रच्छ यामिकान् । कुत्रास्ते युगबाहुर्भोः ! तैरुक्तं कदलीगृहे ? ॥८०९॥ वने मद्भातरं कोऽपि शत्रुः परिभविष्यति । इत्यधृत्याऽहमायात इत्यूचानोऽत्र सोऽविशत् ॥ ८१० ॥ ससंभ्रमं समुत्तस्थौ युगबाहुः कृतानतिः। राज्ञाऽभाणि पुरं याम एहि वासोऽत्र नोचितः ॥ ८११ ॥ । चर्चरी हर्षक्रीडा। Page #349 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ततः प्रस्थातुमारेभे युगबाहुः, पिता गुरुः । ज्येष्ठो भ्राता प्रभुश्चानुल्लद्ध्याज्ञा इति चिन्तयन् ॥८१२॥ ततः पापधिया राज्ञाऽवगणय्याऽयशोभयम् । हतः स्कन्धेऽसिना भ्राता मूर्छन् भुवि पपात च ॥८१३ ॥ अहो ! अक्षत्रमक्षत्रमित्थं मदनरेखया । कूजितं धाविताश्चाशु खड्गोयतकरा नराः ।। ८१४ ॥ किमेतदिति जल्पन्तः प्रोक्ता मणिरथेन भोः !। मा बिभीत प्रमादेन करात् खड्गो ममाऽपतत् ॥ ८१५ ॥ ततो यथास्थितं ज्ञात्वा नरैर्मणिरथो बलात् । पुरं नीतो द्रुतं चन्द्रयशसस्तनिवेदितम् ।। ८१६ ।। सोऽपि हाहारवं कुर्वन् वैद्यानादाय जम्मिवान् । उद्यानं स्वपितुर्यत्नाद् व्रणकर्माद्यकारयत् ॥ ८१७ ॥ क्षणेनाऽस्य स्थिता वाचा नेत्रयुग्मं निमीलितम् । अङ्गं बभूव निश्चेष्टं पाण्डुरं रक्तनिर्गमात् ॥ ८१८ ॥ ज्ञात्वा मदनरेखाऽथ भर्तुः प्राणान्तिकां दशाम् । तस्य कर्णान्तिके स्थित्वा जगादेति मृदुस्वरम् ।। ८१९ ।। अहो ! महानुभाव ! त्वमधुनाऽवहितो भव । इयं सा धीर ! वेला ते सुभटत्वस्य सम्पति ॥ ८२० ॥ खेदं मनसि मा कार्मिनागपि तवैव यत् । निजकर्मपरीणामोऽपराध्यति न चाऽपरः ।। ८२१ ॥ . यत उच्यतेयद् येन विहितं कर्म भवेऽन्यस्मिनिहाऽपि वा। वेदितव्यं हि तत्तेन निमित्तं हि परो भवेत् ॥ ८२२ ॥ अतोऽधिसह तत् सम्यग् यदि देक्ष्यधुना परम् । अथाऽपि तस्य नो किश्चित् परलोकस्तु हार्यते ॥ ८२३ ॥ गृहाण धर्मपाथेयं कायेन मनसा गिरा। यत् कृतं दुष्कृतं किश्चित् तत् सर्वं गई सम्प्रति ८२४ ॥ Page #350 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते यश्व मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । 1 तं क्षमस्व तस्मै च क्षमस्व त्वमपि स्फुटम् || ८२५ ॥ तिर्यक्त्वे सति तिर्यञ्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः । ।। ८२६ ॥ ये त्वया स्थापिता दुःखे सर्वास्तान् क्षमयाऽधुना । : क्षाम्यस्व त्वमपि तेषां मैत्रीभावमुपागतः ।। ८२७ ॥ जीवितं यौवनं लक्ष्मी रूपं प्रियसमागमः । चलं सर्वमिदं वात्यानर्तिताऽन्धितरङ्गवत् ।। ८२८ ॥ व्याधि- जन्म-जरा-मृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म शरणं कोऽपि नाऽपरः ।। ८२९ ।। सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि १ ॥ ८३० ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको दुःखान्यपि स एव हि ।। ८३१ ॥ अन्यद् वपुरिदं यावदन्यद् धान्य-धनादिकम् । वन्धवोऽन्ये च जीवोऽन्यो वृथा मुह्यति बालिशः ||८३२ ॥ वसा रुधिर-मांसा-स्थि-यकृद् - विण्मूत्रपूरिते । पुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधीः १ ।। ८३३॥ अवक्रयाssत्तवेश्मेव मोक्तव्यमचिरादपि । ३३८ ' लालितं पालितं वाऽपि विनश्वरमिदं वपुः || ८३४ ॥ धीरेण कातरेणाऽपि मर्तव्यं खलु देहिना । तन् म्रियेत तथा धीमान्न म्रियेत यथा पुनः ॥ ८३५ ॥ अर्हतः शरणं सिद्धान् शरणं शरणं मुनीन् । उदीरितं केवलिभिर्धर्मं शरणमाश्रय || ८३६ ।। जिनधर्मो मम माता गुरुस्ततोऽथ सोदराः । साधवः साधर्मिकाश्च बन्धवस्त्विति चिन्तय ॥ ८३७ ॥ १ भाटकगृहीतगृहवत् । Page #351 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। .. ३३९ जीवघाता-ऽनृता-ऽदत्त-मैथुना-रम्भवनम् । त्रिविधं त्रिविधेनाऽपि प्रतिपद्यस्व भावतः ॥ ८३८ ॥ अष्टादशानां त्वं पापस्थानकानां प्रतिक्रमम् ।। कुरुष्वाऽनुसर स्वान्ते परमेष्ठिनमस्क्रियाम् ।। ८३९ ॥ ऋषभादीस्तीर्थकरान्नमस्य निखिलानपि । भरतै-रावत-विदेहाहतोऽपि नमस्कुरु ।। ८४० ॥ तीर्थकृद्भयो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः ॥ ८४१ ॥ सिद्धेभ्यश्च नमत्कारो भगवद्भयो विधीयताम् । कर्कंधोऽदाहि यैानाग्निना भवसहस्रजम् ।। ८४२ ॥ आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमस्कुरु । यैर्धार्यते प्रवचनं भवच्छेदसदोद्यतैः ।। ८४३ ॥ श्रुतं बिभ्रति ये सर्व शिष्येभ्यो व्याहरन्ति च । तेभ्यो नम महात्मभ्य उपाध्यायेभ्य उच्चकैः ८४४ शीलव्रतसनाथेभ्यः साधुभ्यश्व नमस्कुरु । क्षमामण्डलगाः सिद्धिविद्यां संसाधयन्ति ये ॥ ८४५ ॥ इत्थं पश्चनमस्कारसमं यज्जीवितं व्रजेत् । न याति यद्यसौ मोक्ष ध्रुवं वैमानिको भवेत् ॥ ८४६ ॥ सावधं योगमुपधि बाह्यं चाऽभ्यन्तरं तथा । यावज्जीवं त्रिविधेन त्रिविध व्युत्सूजाऽधुना ।। ८४७ ॥ चतुर्विधाहारमपि यावज्जीवं परित्यज । उच्छासे चरमे देहमंपि व्युत्सृज सत्तम ! ।। ८४८ ।। धन-स्वजन-गेहादौ ममत्वं मुश्च कोविद !। सर्व विघटते प्रान्ते धर्म एकस्तु निश्चलः॥ ८४९ ॥ दुष्कर्मगर्हणां जन्तुक्षामणां भावनामथ । . चतुःशरणं च नमस्कारश्चाऽनशनं तथा ॥ ८५० ॥ १. चित्ते । २ प्रणम। ३ क्षमा शान्तिरेव मण्डलं तद्गच्छन्तीति। Page #352 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेइत्थमाराधनां षोढा विधाप्य दयितं निजम् । पुनर्मदनरेखैवं धीरयामास धीरधीः ॥ ८५१ ॥ विभाव्यैतद् महाभाग ! विचिन्त्य नरकव्यथाम् । सर्वत्राऽप्रतिबद्धः सन्नेतद् दुःखं सह क्षणम् ॥ ८५२ ॥ नरत्वं जिनधर्मादिसामग्री दुर्लभा पुनः। समचित्तैः क्षणं भूत्वा तदस्या गृह्यतां फलम् ।। ८५३ ॥ इति वाक्यामृतस्तस्या विध्यातः क्रोधपावकः । हृष्टो बद्ध्वाञ्जलिं शीर्षे स सर्व प्रतिपन्नवान् ।। ८५४॥ शुभध्यानो विपद्याऽथ ब्रह्मलोके सुरोऽभवत् । ततः क्रन्दितुमारेभे दुःखी चन्द्रयशा भृशम् ॥ ८५५ ।। दध्यौ मदनरेखापि मन्दभाग्या हताऽस्मि हा !। ईदृक्पुरुषरत्नस्याऽनर्थमूलं बभूव या ॥ ८५६ ॥ धि मे रूपमिदं दीपकलिकेव परन्तपम् । यत्र यान्ति पतङ्गत्वं गुरूणामपि दृष्टयः ।। ८५७ ॥ मन्निमित्तं हतो येन निजभ्राता स पापकृत् । ग्रहीष्यत्येव मां तस्मात् स्थातुमत्र न युज्यते ॥ ८५८ ॥ तद् गत्वा कचिदन्यत्र पारव्यं कार्यमाश्रये । अन्यथा पुत्रमप्येष मम पापो हनिष्यति ॥ ८५९ ।। मन्त्रयित्वेति सा पुत्र शोकार्ने निरगात् ततः । निशीये दिशि पूर्वस्यां गच्छन्त्याप महाटवीम् ।। ८६० ॥ गता रात्रिर्द्वितीयेऽह्नि प्राप्य मध्यन्दिने सरः। चक्रे वनफलैस्तत्र प्राणत्तिं जलं पपौ ॥ ८६१ ॥ प्रत्याख्यायाऽथ साकारं भक्तमध्वश्रमादिता। खेदच्छेदार्थमेकस्मिन् सुष्वाप कदलीगृहे ।। ८६२ ॥ आगता रजनी तस्यां व्याघ्र सिंह-शिवारवैः । उत्तस्ता सा नमस्कारं भूयो भूयोऽप्यचिन्तयत् ।।८६३॥ १ पारलौकिकम् । Page #353 -------------------------------------------------------------------------- ________________ पष्ठः सर्गः। ३४१ अर्धरात्रेऽथ तत्रैवाऽतीवजातोदरव्यथा। कृच्छ्रेण सुषुवे पुत्रं सर्वलक्षणसंयुतम् ॥ ८६४ ॥ प्रातः कम्बलरत्नेन वेष्टयित्वा शिशुं करे। श्रीयुगबाहुनामाऽङ्कां तस्य प्रक्षिप्य मुद्रिकाम् ॥ ८६५ ॥ ययौ सरसि चीराणि प्रक्षाल्य स्नातुमग्रतः। प्रविष्टाऽऽदाय सा नीरहस्तिनोल्लालिताऽम्बरे ॥८६६॥ (युग्मम् ) अथ नन्दीश्वरद्वीपप्रस्थितः खेचरो युवा । पतन्तीमम्बराद् राजी जगृहे रूपमोहितः ॥ ८६७ ॥ रुदती करुणं नीता वैताढ्यं तेन साऽवदत् । भो महासत्त्व ! यामिन्यां प्रसूताऽहं सुतं वने ॥ ८६८॥ तं कदलीगृहे मुक्त्वा प्रविष्टाऽहं सरोवरे । तत्रोत्क्षिप्ता जलेभेने पतन्ती जगृहे त्वया ॥ ८६९ ॥ ततो बालः स केनाऽपि श्वापदेन हनिष्यते । आहाररहितः किं वा स्वयमेव विपत्स्यते ॥ ८७० ॥ तद् ममापत्यदानेन प्रसादं कुरु सद्दय !। स इहाऽऽनीयतां किं वा तत्र मां नय सत्वरम् ॥८७१॥ प्राह विद्याधरो भद्रे ! भर्तारं प्रतिपद्यसे । यदि मां तत् सदादेशकारी तव भवाम्यहम् ॥ ८७२ ॥ अन्यच्चवैतान्यखेचरश्रेणिस्वामी रत्नावहे पुरे । मणिचूडाऽभिधो राजा तत्पुत्रोऽहं मणिप्रभः ॥ ८७३ ॥ निर्विण्णः कामभोगानां राज्ये संस्थाप्य मत्पिता । मणिचूडोऽग्रहीद दीक्षां चारणश्रमणान्तिके ॥ ८७४ ॥ क्रमेण विहरनागात् तत्राऽसौ गतवासरे। गतश्च साम्प्रतं नन्दीश्वरे चैत्यानि वन्दितुम् ॥ ८७५ ॥ तमद्य वीक्षितुं भद्रे ! बजता त्वं मयेक्षिता । १ जलहस्तिना। Page #354 -------------------------------------------------------------------------- ________________ ३४२ श्रीपार्श्वनाथचरिते तद् भव स्वामिनी सर्वखेचरीणां प्रपद्य माम् ॥ ८७६ ॥ अन्यच्च स तनूजस्ते तुरङ्गापहृतेन हि । मिथिलापतिना पद्मरथेन ददृशे वने ॥ ८७७ ॥ : आदाय पुष्पमालायाः स्वप्रियायाः समर्पितः । पाल्यमानः सुतत्वेन तथा तिष्ठत्यसौ सुखी ८७८ ॥ प्रज्ञप्तिविद्यया ज्ञातं मयैतनाऽन्यथा भवेत् । तत् प्रसन्नमना भूत्वा मम राज्यमलङ्कुरु ।। ८७९ ॥ तच्छ्रुत्वा चिन्तितं राझ्या ममाऽहो ! कर्म कीदृशम् । अन्याऽन्यव्यसनश्रेणी यद् ममैषा पुरः स्थिता ॥ ८८० ॥ तावच्छीलस्य रक्षार्थमियद् दूरं समागमम् । तस्य भङ्गस्तथैवाऽयमिहाऽपि समुपस्थितः ।। ८८१ ।। तन्मया नियतं तावद् रक्षितव्यं सतीव्रतम् । अयं च प्रसूतानङ्गमषीलिप्साक्षरक्रमः ॥ ८८२ ॥ ततो न गणयेत् पापं न चाऽपि वचनीयताम् । न लज्जा न कुलावधं विचारविकलो नरः ।। ८८३ ।। व्याक्षेपः कोऽपि तद् युक्तो नोपायोऽस्त्यपरः पुनः। अशुभस्योच्यते कालहरण कोविदैर्यतः ।। ८८४ ॥ इति संकल्प्य साऽजल्पदहो ! नन्दीश्वरे जिनान् । तावद् दर्शय मे पश्चात् करिष्ये खलु ते प्रियम् ।।८८५।। ततस्तुष्टेन तेनाऽसौ नीता नन्दीश्वरे क्षणात् । तत्र शाश्वतचैत्यानि सन्ति तेषां त्वियं स्थितिः ।।८८६॥ चत्वारोऽञ्जनशैलेषु दधिमुख्येषु षोडश । द्वात्रिंशच रतिकराऽभिधानेषु जिनालयाः ॥ ८८७ ॥ योजनानां शतं दीर्घाः पश्चाशद् विस्तृताश्च ते । द्विसप्तत्युच्छ्रिताः सर्वे द्विपश्चाशद् भवन्त्यमी ।। ८८८ ॥ विमानादवतीर्याऽथ तत्र ताभ्यां यथाविधि । . निन्दनीयताम् । Page #355 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । ३४३ प्रपूज्य वन्दिता भक्त्या प्रतिमाः शाश्वताईताम् ॥ ८८९ ॥ ऋषभचन्द्राननश्च वारिषेणाभिधस्तथा । वर्धमानश्च चत्वारः शाश्वता जिनपुङ्गवाः ।। ८९० ॥ तद्वन्दनावसाने च मणिचूडं मुनीश्वरम् । नमस्कृत्य यथौचित्यमुभावपि निषीदतः ।। ८९१ ॥ ज्ञात्वा मदनरेखाया ज्ञानी व्यतिकरं मुनिः । सद्धर्मदेशनापूर्व मणिप्रभमबोधयत् ।। ८९२ ।। क्षमयित्वा ततो राज्ञी भणिता खेचरेण मे । अद्यप्रभृति यामिस्त्वमधुना किं करोमि ते १ ॥ ८९३ ॥ राइयाऽभाणि कृतं सर्वं त्वयैतत्तीर्थदर्शनात् । पृष्ट स मुनिः पुत्रप्रवृत्तिमिति शंसति ।। ८९४ ॥ मागास्तां राजपुत्रौ द्वौ देवौ राजसुतौ सुरौ । तयोरेकः पद्मरथो द्वितीयस्ते सुतोऽभवत् ।। ८९५ ।। तेन पद्मरथेनाऽश्वापहृतेन तवात्मजः । गृहीत्वा पुष्पमालायाः स्वप्रियायाः समर्पितः ।। ८९६ ॥ तुष्टः पूर्वभवस्नेहाद् मिथिलायां महोत्सवम् । राजा पद्मरथोऽकार्षीत् पुत्रस्तत्राऽस्ति ते सुखी ।। ८९७ ।। ऐवंवाचि मुनौ व्योनि जितसूर - शशिप्रभम् । नौ निर्मितं मुक्तादामशोभिलसध्वजम् ॥। ८९८ ॥ किङ्किणीध्वानमुखरमुच्छलत्तूर्यनिःस्वनम् । विमानमाययावेकं देवैः कृतजयारवम् ।। ८९९ ।। ( युग्मम् ) " ततो विनिर्ययौ देवस्तेजःप्रसरभासुरः । गीयमानगुणो देवखीभिः प्रवरभूषणः ॥ ९०० ॥ दत्त्वा मदनरेखायाः स च तिस्रः प्रदक्षिणाः । निपत्य पादयोः पश्चाद् मुनिं नत्वा निषण्णवान् ॥ ९०९ ॥ १ भगिनी । २ एवमित्थं वायू वाणी यस्य तस्मिन् । Page #356 -------------------------------------------------------------------------- ________________ ३४४ श्रीपार्श्वनाथचरिते असंबद्धमिदं दृष्ट्वा तमुवाच मणिप्रभः । देवानामपि यद्येषा नीतिस्तद् ब्रूमहेऽत्र किम् १ ॥९०२॥ चतुर्मानधरं चारुचारित्रं मुनिपुङ्गवम् । हित्वा त्वया प्रणामः प्राक् स्त्रीमात्रस्य कथं कृतः १ ॥९०३ अथ यावत् सुरः किश्चिद् वक्ति तावद् मुनि गौ । मा मैवं ब्रूहि नैवाऽयमुपालम्भं सुरोऽर्हति ॥९०४॥ यतो मणिरथो राजा युगवाहुं सहोदरम् । लुब्धो मदनरेखायास्तत्प्रियाया जघान तम् ॥ ९०५ ।। मृत्युकाले ततो भर्ता वाक्यैर्निपुणकोमलैः । तथाऽनुशिष्टो जैनेन्द्रं धर्म च ग्राहितस्तया ॥९०६॥ यथाऽभूत् पञ्चमे कल्पे इन्द्रसामानिकः सुरः । स चायमागतः पूर्व ववन्दे प्रमदामिमाम् ।।९०७॥ धर्माचार्या ध्रुवं धर्मदानादियममुष्य हि । प्रणामैः कोटिशोऽप्यस्यास्तत् स्यादेषोऽनृणः कथम् ॥९०८॥ यो येन स्थाप्यते धर्मे यतिना गृहिणाऽपि वा । स एव तस्य सद्धमैदानाद् धर्मगुरुभवेत् ।। ९०९॥ किश्चसम्यक्त्वं ददता दत्तं शिवसौख्यं सनातनम् । एतदानोपकारस्योपकारः कोऽपि नो समः ॥९१०॥ इत्यादौ मुनिनाऽऽख्याते जिनधर्मस्य भावयन् । सामर्थ्यमद्भुतं विद्याधरः क्षमयतेऽमरम् ॥ ९११ ॥ राज्ञी प्राह सुरो भद्रे ! किं तवेष्टं करोम्यहम् । साऽप्याह तत्वतो यूयं नेष्टं कर्तुं मम क्षमाः ॥९१२॥ यतो जन्म-जरा-मृत्यु-रोग-शोकादिवर्जितम् । निरुपाधि ध्रुवं मोक्षसौख्यमेव मम प्रियम् ॥९१३।। तथापि नय मां शीघ्रं मिथिलायां सुरोत्तम ! । तत्र पुत्रमुखं वीक्ष्य यतिष्ये धर्मकर्मणि ॥९१४॥ Page #357 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३४५ ततः सा तत् क्षणाद् निन्ये सुरेण मिथिलापुरिम् । यत्राऽभूद् मल्लिनाथस्य जन्म दीक्षा च केवलम् ॥९१५।। अतः सचीर्थबुझ्याऽर्हचैत्येषु प्रथमं गतौ । दृष्ट्वा साध्वीरथासन्नोपाश्रये तो प्रणेमतुः ॥ ९१६ ।। ताभिश्च कथितो धर्मो यल्लब्ध्वा मानुषं भवम् । धर्मा-ऽधर्मफलं ज्ञात्वा धर्मे कार्यः सदोद्यमः ९१७ ॥ इत्यादिदेशनाप्रान्ते सुरः प्रोवाच सुन्दरि !। एहि राजकुलं यामो दर्शये तनयं तव ९१८ साऽब्रवीदधुनाऽलं मे स्नेहेन भवहेतुना ?। संसारे भ्रमतां जातः को नु बन्धुः परोऽपि वा ?।।९१९॥ एतासामेव साध्वीनां चरणाः शरणं मम । इत्युक्ते त्रिदशः साध्वीस्तां च नत्वा गतो दिवम् ।।९२०॥ दीक्षां मदनरेखापि साध्वीनामन्तिके ग्रहीत् । संजातसुव्रताहाना कुरुते दुष्करं तपः ॥ ९२१ ॥ प्रभावात् तस्य बालस्य नताः सर्वेऽपि पार्थिवाः । राजा पद्मरथस्तेन नमिनामाऽस्य निर्ममे ॥ ९२२ ॥ धात्रीणां लालनाद् वृद्धिं गतोऽसौ समये कलाम् । गृह्वानो यौवनस्थोऽभूत् श्वेतपक्षशशाङ्कवत् ।। ९२३ ।। पित्रा सुकुलजातानां रूपेणाऽतिसुरीश्रियाम् । अष्टोत्तरसहस्रस्य कन्यानां ग्राहितः करम् ॥ ९२४ ॥ अथो पद्मरथो योग्यं ज्ञात्वा राज्ये नमि नृपः। न्यस्य स्खं शमसाम्राज्ये क्षीणकर्मा गतः शिवम् ।। ९२५ ॥ नमिर्नमितभूपालमौलिमोलायितक्रमः । उन्नति स तथा पाप यथा शक्रसमोऽभवत् ॥ ९२६ ।। इतश्च यस्यां सोदैर्य रात्रौ मणिरथोऽवधीत् । १ सुरीश्रियं देवीशोभामतिक्रान्तवतीनाम् । २ मालायितौ मालेवाचरितौ। ३ भ्रातरम् । Page #358 -------------------------------------------------------------------------- ________________ ३४६ श्रीपार्श्वनाथचरितेतस्यामेवाऽहिना दष्टो मृत्वा तुर्यावनौ गतः ॥ ९२७ ॥ स्थापितो मन्त्रिसामन्तैयुगबाहुसुतस्ततः । राज्ये चन्द्रयशाश्चन्द्रयशाः पालयते महीम् ॥ ९२८ ।। नमे राज्ञोऽन्यदा राज्यप्रधानो धवलः करी। आलानस्तम्भमुन्मूल्याञ्चालीद् विन्ध्याटवीमभि ।।९२९॥ सुदर्शनपुरस्याऽसौ समीपे च व्रजनिमः। मानुषैश्चन्द्रयशसो दृष्टा राज्ञो निवेदितः ॥ ९३० ॥ राजाऽप्यैरावताभं तमानयत् स्वपुरं बलात् । तज् ज्ञात्वा चारपुरुषैः कथितं नमिभूभुजः ॥ ९३१ ।। नमिना प्रहितो दूतः स गत्वोवाच यद् नमिः । याचते हस्तिनं स्वीयमथ चन्द्रयशा जगौ ॥ ९३२॥ यदेवं याचते दूत ! तव स्वामी निजं गजम् । तत् कथं नाऽशृणोनीतिं यत् तस्यामिदमुच्यते ॥९३३ ।। न श्रीः कुलक्रमायाता शासने लिखिताऽपि वा । खगेनाऽऽक्रम्य भुञ्जीत वीरभोग्या वसुन्धरा ॥ ९३४ ॥ इत्याद्युक्त्वा नृपो दूतमपमान्य व्यसर्जयत् । सोऽपि गत्वा नमेः सर्व सविशेष व्यजिज्ञपत् ।। ९३५ ।। कुपितोऽथ नमिः सर्वबलेन चलितो द्रुतम् । भेरीभाङ्कारनादेन सुदर्शनपुरोपरि ।। ९३६ ॥ सोत्साहं तं नृपश्चन्द्रयशा अप्यभिषेणयन् । शकुनैर्वारितः किन्तु विज्ञप्त इति मन्त्रिभिः ॥ ९३७ ॥ गोपुराणि पिधायाऽत्र पुरे तिष्ठ यथोचितम् । पश्चाज ज्ञात्वा करिष्यामः सोऽपि राजा तथाऽकरोत् ॥९३८॥ नमिरेत्य ततो विष्वग् नगरं तदवेष्टयत् । । एष व्यतिकरो ज्ञातः कथश्चित् सुव्रतार्यया ॥ ९३९ ॥ चिन्तितं चाऽपरिज्ञातपरमार्थावुभाविमौ । १ सेनया अभिक्रामन् । Page #359 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३४७ विधाय जनसम्म मा प्रयातामधोगतिम् ॥ ९४०॥ इति साऽऽपृच्छय गणनीं सुसाध्वीपरिवारिता। सुदर्शनपुरेऽगच्छदार्या नमिनृपान्तिके ॥ ९४१ ।। अभ्युत्थानं विधायाऽथ निवेश्य परमासने । . भक्त्या मदनरेखार्या वन्दिता नमिभूभुजा ॥ ९४२ ॥ राज्ञि भूमौ निविष्टेऽस्मिन्नशेषसुखकारिणीम् । विधाय देशनां साध्वी रहस्यमिदमब्रवीत् ।। ९४३॥ राजन्नसारा राज्यश्री|गा निर्वाहदारुणाः । जीवघातेन दुःखान्ये निवासो नरके ध्रुवम् ॥ ९४४ ।। तदेवं सति सङ्ग्रामानिवर्तस्व दूरं ततः । अन्यच्च कीदृशो ज्येष्ठभ्रात्रा हि सह विग्रहः ? ॥ ९४५ ॥ विस्मयान्नमिराजेन पृष्टं कथमसौ मम । ज्येष्ठभ्राता ततः साध्व्याख्यातं सर्वं यथास्थितम् ? ॥९४६॥ प्रत्ययार्थं च कथिते ते मुद्रा-रत्नकम्बले । दर्शिते च नमस्ते तु पृष्टया पुष्पमालया ॥ ९४७ ।। तथाऽपि विरमेन्नैष यदा मानेन सा तदा । गता चन्द्रयशःपाःभिज्ञाता तेन सत्वरम् ॥ ९४८ ॥ अभ्युत्थायाऽऽसनं दत्त्वा नत्वा च स निविष्टवान् । अन्तःपुरपरीवारजनोऽप्येत्य ननाम ताम् ।। ९४९ ।। आर्ये ! किमेतदित्युग्रं व्रतं ते इति भूभुजा । पृष्टाऽसौ निजवृत्तान्तं यथावस्थितमाख्यत ? ॥ ९५० ॥ राज्ञाऽभाणि पुनः कुत्र सोऽधुना मे सहोदरः । आर्यया गदितं बाह्ये येन त्वं रोधितो नृपः ! ॥ ९५१ ॥ ततो हर्षाकुलश्चन्द्रयशा दाग निर्गतो बहिः। हृष्टो नमिरपि ज्ञात्वा तस्य संमुखमाययौ ॥ ९५२ ॥ पतंश्च पादयोज्येष्ठबन्धुनोत्थाप्य सखजे । १ परिणामभयावहाः। Page #360 -------------------------------------------------------------------------- ________________ ३४८ श्रीपार्श्वनाथचरितेतथा यथैक्यं सौदर्यव्यञ्जनाय तयोरभूत् ॥ ९५३ ॥ यतो लक्षणशास्त्रेऽपि रूपे रूपप्रवेशतः। एकशेषः सरूपाणां भवत्येकत्वसिद्धये ॥ ९५४ ॥ महोत्सवेन नगरं प्रवेश्य नमिमग्रजः।। उल्लसन्निर्मलस्नेहादश्रुपूर्णेक्षणोऽवदत् ॥ ९५५ ।। पितुरेवं मृतिं दृष्ट्वा वत्स ! राज्ये रतिर्न मे । परं राज्धधराभावादियकालमहं स्थितः ।। ९५६ ॥ निजबन्धु विनाऽभीष्टसिद्धिर्भवति नो भुवि । इत्यादिवाक्यैः संबोध्य नमि राज्येऽभ्यषिश्चत ॥९५७।। चन्द्रवत् परलोकस्योद्योताय प्रात्रजत् स्वयम् । प्रतापाक्रान्तभूभृत् तु नमिः सूर्य इवोदितः ॥ ९५८ ॥ तस्य राज्यद्वयं शत्रौ शक्त्या भक्त्या गुरौ जने । द्विधाधर्मप्रवीणस्याऽवतः कालो बहुर्ययौ ॥ ९५९ ॥ पाण्मासिकोऽन्यदा जज्ञे महादाहो नमेस्तनौ । तस्योपशान्तये राज्यः वयं घर्षन्ति चन्दनम् ॥ ९६०॥ तद्बाहुवलयश्रेणिजणत्काररवैर्नमेः । कर्णाघातेन जायेत दाहार्तस्यारतिभृशम् ॥ ९६१ ॥ तदादेशात् ततो राज्यः कङ्कणान्युदतारयन् । क्रमेण यावदेकैकं मङ्गलाय करे दधुः ॥ ९६२ ॥ अथाऽपृच्छन् नृपो देव्यः किं न घर्षन्ति चन्दनम् । यन्नैष श्रूयते शब्दस्ततो मन्त्रिजनोऽब्रवीत् ॥ ९६३ ॥ देव्यः सर्वा अपि स्वामिन् ! घर्षन्त्यः सन्ति चन्दनम् । करे त्वेकैकवलयत्वेन न ज्ञायते ध्वनिः ॥ ९६४ ॥ तत् श्रुत्वा जातसंबोधश्छिन्नमोहो नृपो हृदि । दध्यौ सर्वेऽप्यहो ! भूरिसंयोगा दुःखदायकाः ॥९६५॥ कङ्कणैभूरिभिर्दुःखं स्वल्पैः स्वल्पतरैः सुखम् । १ रक्षत। Page #361 -------------------------------------------------------------------------- ________________ - षष्ठः सर्गः। ३४९ यावदस्यैव दृष्टान्तादेकाकित्वे महासुखम् ॥ ९६६ ॥ उच्यते चयथा यथा महत् तन्त्रं विस्तरश्च यथा यथा । तथा तथा महद् दुःखं सुखं तु न तथा तथा ।। ९६७ ।। क्लेशाय विस्तराः सर्वे संक्षेपास्तु सुखावहाः । परार्थ विस्तराः सर्वे त्यागमात्महितं विदुः ।। ९६८ ॥ ततोऽसौ यदि मे दाहः प्रशाम्यति कथश्चन । सर्वसङ्गं परित्यज्य तदेकाकी भवाम्यहम् ।। ९६९ ॥ चिन्तयन्निति सुप्तोऽसौ निशान्ने मन्दरोपरि । स्वमे श्वेतगजारूढं पश्यत्यात्मानमुच्चकैः ।। ९७० ॥ शङ्खतूर्यरवेणाऽथ प्रतिबुद्धो निरामयः। . हृष्टो दध्यावहो ! स्वमः प्रधानो ददृशे मया ॥ ९७१ ॥ यतःगोषे पर्वताग्रे च प्रासादे सफलद्रुमे । आरोहणं गजेन्द्रे च स्वमशास्त्रे प्रशस्यते ॥ ९७२ ॥ किश्नप्रथमे वार्षिकं यामे द्वितीये मासिकं फलम् । तृतीये वासरैस्तुर्ये सद्य एव फलं भवेत् ॥ ९७३ ।। तथादृष्टः पूर्वो मया काऽपि शैलराजोऽयमीदृशः। इति चिन्तयतस्तस्य स्वजातिस्मृतिरप्यभूत् ॥ ९७४ ॥ पूर्वमर्त्य भवे कृत्वा श्रामण्यं प्राणते सुरः। आसं तत्राईज्जन्मादावागतो दृष्टकानिमम् ।। ९७५ ॥ ततो बुद्धः स्वयं पुत्रं न्यस्य राज्ये नमिपः । देवतादत्तलिङ्गः सन् प्रव्रज्यां प्रतिपन्नवान् ॥ ९७६ ॥ पुर्या निर्यान्तमालोक्य तच्चरित्रेण रञ्जितः । विप्रवेषधरस्तत्राऽऽययौ शक्रः परीक्षितुम् ।। ९७७ ।। Page #362 -------------------------------------------------------------------------- ________________ ३५० श्रीपार्श्वनाथचरिते वदत्येवं च भो राजस्तावज्जीवदयाव्रतम् । त्वद्वतग्रहणे चैषा क्रन्दने दुःखिता पुरी ।। ९७८ ॥ तदयुक्तमिदं पूर्वाऽपरबाधाकरं व्रतम् । ततो ब्रूते मुनिर्दुःखकारणं नो मम व्रतम् ॥ ९७९ ॥ किन्तु लोके स्वस्वकार्यहानिर्दुःखस्य कारणम् । ततोऽहमपि कार्य स्खं कुर्वे किं मेऽन्यचिन्तया ? ॥९८० ॥ प्रज्वलन्त्युपदाऽथ गृहाण्यन्तःपुराणि च ।। हरिराह किमेतत् त्वं दह्यमानमुपेक्षसे ? ॥ ९८१ ।। नमिराह सुखेनाऽस्मि मम यन्नास्ति किश्चन । किश्चिद् मे दह्यमानायां मिथिलायां न दह्यते ॥ ९८२ ॥ पुनराह हरिः पुर्या प्राकारमतिदुर्गमम् । नानायन्त्रयुतं राजन् ! कारयित्वा परिव्रज ॥ ९८३ ॥ राजर्षिः प्राह भो भद्र ! संयमो नगरं मम । शमाख्यो विहितस्तत्र प्राकारो नययन्त्रवान् ॥ ९८४ ।। इन्द्रोऽवोचद् निवासाय लोकानां सुमनोहरान् । प्रासादान् कारयित्वा भोः ! क्षत्रिय ! प्रव्रजेस्ततः ॥९८५॥ मुनिः प्रोचे कुधीरेव कुर्यात् पथिकवद् गृहम् । निश्चलं यत्र संस्थानं युक्तं तत्रैव मन्दिरम् ॥ ९८६ ॥ हरिः प्राह निगृह्याऽऽदौ चौरान् सुस्थं कुरु प्रभो!। व्रत्याह चौरा रागाद्या निगृहीताश्च ते मया ॥९८७ ॥ वासवः प्राह ये केऽपि नमन्ति न तवोद्धताः। पार्थिवास्तान् विनिर्जित्य प्रव्रज्यां कुरु सत्तम ! ॥९८८॥ व्रत्याह लक्षसङ्ख्यान् यः सङ्ग्रामे सुभटान् जयेत् । यश्चात्मानं जयेदेकमेष मे परमो जयः ॥ ९८९ ॥ हरिः प्राह गृहावासपरो धर्मोऽस्ति नाऽपरः। यत्र देदीयते दीना-ऽनायेभ्यो दानमन्वहम् ॥ ९९० ॥ नमिः प्राह गृही धर्म न कुर्याज्जीवघातकृत् । Page #363 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३५१ नैष सर्पपतुल्योऽपि यतिधर्ममहागिरेः ॥ ९९१ ।। हरिः प्राह कुरु स्वर्णमणिमुक्तादिसंचयम् । मा त्वमागामिभोगानां हेतोर्हस्तगतांस्त्यज ॥ ९९२ ॥ व्रत्याह स्वर्णशैलैरप्यसन्तुष्टस्य नो धृतिः । कामाश्च विषशल्याहितुल्यास्तैः शंस किं सुखम् ? ॥९९३॥ न भोगाऽऽशंसया भोगास्त्यक्ता हस्तगता मया । अजीर्णसंभवे दोषे घृतं पिबति कः सुधीः १ ॥ ९९४ ॥ इत्यादिभणितोऽप्येष यदा न चलति व्रतात् । साक्षाद् भूत्वा ततः शक्रो नमि नत्वेदमब्रवीत् ॥ ९९५ ॥ तवैव श्लाघ्यते गोत्रं सत्त्वं यस्याऽसमं मुने !। यश्च त्वं मोहपङ्केन नाकाशमिव लिप्यसे ॥ ९९६ ॥ इत्येवं तं हरिः स्तुत्वा वन्दित्वा त्रिः प्रदक्षिणम् । उत्पपात नभो देदीप्यमानमणिकुण्डलः ॥ ९९७ ॥ अरुष्टतुष्टो निर्वाह्य व्रतं सिद्धिं गतो नमिः । साध्वी मदनरेखाऽपि शुद्धा शुद्धगतिं गता ।। ९९८ ॥ जन्तुचित्तं स्थिरीकर्तुं शीलस्यैवं गुणा-ऽगुणाः । पालना-ऽपालनादुक्ता अधुना तप उच्यते ।। ९९९ ॥ तप एव परं तेजः सर्वेषामपि तेजसाम् । प्रकाशयति यज् ज्ञानात् सहसैव जगत्त्रयम् ॥ १००० ।। तपस्तेजोऽर्कसंपर्काज्जीवसूर्योपलेऽमले । तेजस्तज्जायते येन कमँधो भस्मतां व्रजेत् ।। १००१ ॥ बाह्याऽभ्यन्तरभेदाख्यधाराद्वितयशालिना । तपःखङ्गेन ये मोहं नन्ति ते सुभटा भुवि ॥ १००२ ॥ अनन्तकालनिचितं निकाचितमपि क्षणात् । दह्यते तपसा कर्म दारुग्रन्थिरिवाऽग्निना ॥ १००३ ॥ आत्मा सितपटः सूक्ष्मस्तपस्ताप-शमोदकैः । क्षीणकर्ममलोऽत्यन्तं मुक्तिश्रीमुक्तिभाग भवेत् ॥१००४॥ Page #364 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते अनपेक्षतया न्यस्य निराबाधतयाऽऽत्मनः । मोक्षैकतानमनसा कर्तव्यं सात्त्विकं तपः ।। १००५ ॥ ३५२ ग्रन्थान्तरेऽप्युक्तम् तपश्च त्रिविधं ज्ञेयमफलाकाङ्क्षिभिर्नरैः । श्रद्धया परया तप्तं सात्विकं तप उच्यते । १००६ ॥ सत्कार - मान-पूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। १००७ ॥ मूढग्रहेणात्मनो यत् पीडया क्रियते तपः । परस्योच्छेदनार्थं च तत् तामसमुदाहृतम् ।। १००८ ॥ मन्दा भवन्ति विच्छाया तपसस्तेजसा जिताः । सात्त्विकास्तूज्ज्वला बाढमग्निशौचमिवाऽनलात् ।। १००९ ॥ प्राज्यं राज्यं परित्यज्य कुर्वतः सात्त्विकं तपः । जाताः सनत्कुमारस्य लब्धयः पश्य कीदृशः ।। १०१० ।। तथाहि अस्त्यत्र भरतक्षेत्रे विषये कुरुजाङ्गले । महर्द्धिभर संपूर्ण हस्तिनागपुरं पुरम् ।। १०११ ॥ कुरुवंशाब्धिपूर्णेन्दुरश्वसेनो नराधिपः । तत्राऽऽसीद् विक्रमाक्रान्ताशेषविक्रान्तभूपतिः ।। १०१२ ॥ सहदेवी प्रिया तस्य कामिनी यामिनीषु या । पूर्णशीलेन्दुना रेजे पूर्णिमेव सदोज्ज्वला ॥। १०१३ ॥ चतुर्दशमहास्वमसूचितोऽभूत् तयोः सुतः । श्रीमान् सनत्कुमाराख्यः सर्वलक्षणसंयुतः || १०१४ ॥ सूरराजसुतस्तस्य कालिन्दीकुक्षिसम्भवः । अभूद् महेन्द्रसिंहाख्यः स पांशुक्रीडितः सखा ॥ १०१५॥ समं तेनाऽर्पितो राज्ञा कलाचार्यस्य नन्दनः । तेनाऽप्येष दिनैः स्तोकैग्रहितः सकलाः कलाः ।। १०१६।। कुमारः सहितस्तेन सख्या शिष्टजनोचितान् । Page #365 -------------------------------------------------------------------------- ________________ ३५३ षष्ठः सर्गः। विनोदान् विविधान् कुर्वन् कस्य न प्रीतयेऽजनिः॥१०१७॥ अथाऽस्य यौवनारम्भस्तनौ जनगुत्सवः। पावर्तत वसन्तश्च वने तौ तु श्रिया समौ ॥ १०१८ ॥ यथा हि यौवनारम्भो न वसन्तसमः कथम् । यत्र तस्य मुखं जज्ञे स्मेरचम्पकसन्निभम् ॥ १०१९ ॥ केशा भ्रमरवद् रेजुर्नवं दलमिवाऽधरः । दीर्घिकावद् दृशौ कौँ दोलावत् क्रीडितुं श्रियः॥१०२०॥ तयोः सदृशयोर्योगमिव कर्तुं कुमारराट् ।। महा मकरन्दाख्यमुद्यानं मुदितो ययौ ॥ १०२१ ॥ मित्रेण सहितोऽनेकैनरनाथैश्च नागरैः । नानावसन्तक्रीडाभिश्चिरं चिक्रीड तत्र सः॥ १०२२ ॥ अथाऽश्वपतिना वाही यथार्ह भूभुजां पुरः । ढौकितास्तान समारुह्य तेऽपि वेगादवाहयन् ॥ १०२३ ॥ कुमारोऽप्यब्धिकल्ोलाभिधं वरतुरङ्गमम् । आरुह्य मुमुचेऽश्वोऽपि धावन्नुदपतद् नभः ॥१०२४ ॥ क्षणेनादर्शनीभूते तस्मिन् ज्ञात्वाऽश्वसेनराद् । व्याकुलः सपरीवारः पृष्ठतो गन्तुमुद्यतः ।। १०२५ ॥ अत्रान्तरे महेन्द्रेण विज्ञप्तो नृपतिः प्रभो !। स्वामी तिष्ठतु लब्ध्वा तु कुमारमहमागमम् ।। १०२६ ॥ इति भूपं निवाऽसौ कियदलसमन्वितः । वर्षमेकं महाटव्यां गतो बभ्राम सर्वतः ॥ १०२७॥ अथैकदिवसे भ्राम्यनीषीत् सारसध्वनिम् । आघ्रासीत् पद्मगन्धं च ततस्तत्संमुखं ययौ ॥ १०२८ ॥ दृष्टा सरोवरं तत्र शृण्वन् गीतकलध्वनिम् । हर्षोत्फुल्लमुखो यावत् पुरो गन्तुं प्रवृत्तवान् ।। १०२९ ॥ तावद् युवतिमध्यस्थं कुमारं पश्यति स्म सः । १ अश्वाः .४५ Page #366 -------------------------------------------------------------------------- ________________ ३५४ श्रीपार्श्वनाथचरितेतस्थौ च किमसंभाव्यमिदमित्यतिविस्मितः ॥ १०३०॥ कुरुवंशैकमाणिक्याऽश्वसेननृपनन्दन ! । श्रीमत्सनत्कुमार ! त्वं जय त्रैलोक्यविश्रुत ! ॥ १०३१ ।। पठ्यमानमिति श्रुत्वा महेन्द्रो बन्दिनाऽथ सः । संजातनिश्चयः किञ्चिदपूर्व तोषमासदत् ॥ १०३२ ॥ ततो दृष्टिपथायातः कुमारेणोपलक्ष्य सः । अभ्युत्तस्थे प्रणिपतन्नालिलिङ्गे च सादरम् ॥ १०३३ ।। तावुभावपि हर्षाश्रुपूर्णनेत्रौ सविस्मयौ । निविष्टौ खेचरीदत्तविष्टरौ स्नेहनिर्भरौ ॥ १०३४ ॥ विद्याधरेन्द्रलोकोऽपि सवितर्क तदन्तिके । सर्वोपशान्तगीतादिनादो मृदु निविष्टवान् ॥ १०३५ ॥ परिमृज्य ततो नेत्रे कुमारो मित्रमूचिवान् । कथमत्राऽऽगतोऽसि त्वमिहस्थं मां कुतोऽविदः ॥१०३६॥ मद्वियोगात् कथं मातापितरौ प्राणधारणम् । कुरुतस्त्वं किमेकाकी प्रहितो भद्र ! कथ्यताम् ।।१०३७।। इति पृष्टे यथावृत्तं महेन्द्रः सर्वमाख्यत । ततोऽसौ कारितः स्नान-भोजनादि वधूजनैः ॥ १०३८ ॥ यदि देव ! प्रसन्नोऽसि ममोपरि तदा निजम् ।। अश्वापहारादारभ्याऽद्ययावद् वृत्तमुच्यताम् ॥ १०३९॥ इति पृष्टः पुनस्तेन कुमारोऽचिन्तयद् यथा। उत्तमानां निजं वृत्तं नाख्यातुं युज्यते स्वयम् ॥१०४० ॥ अनुल्लङ्घयो महेन्द्रश्च तदिदं दयितामुखात् । कथयामीति बकुलमती विद्याधरी जगौ ॥ १०४१॥ प्रिये ! विद्याबलाज ज्ञातसद्भावचरितं मम । मित्रस्य पुरतः ख्याहि निद्रा मां बाधतेऽधुना ॥ १०४२ ॥ इत्युदित्वा कुमारेन्द्रः शय्याधाम विवेश सः । भर्तुरादेशतुष्टा सा चख्यौ बकुलमत्यपि ॥ १०४३ ॥ Page #367 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३५५ तदा महेन्द्र ! वस्तावत् पश्यतामेव वाजिना। अपहृत्य कुमारेन्द्रो महाटव्यां प्रवेशितः ॥१०४४॥ द्वितीयेऽपि दिनेऽश्वस्य तथैव बनतो जवात् । मध्याह्नसमयो जज्ञे पान्थानामतिदारुणः ॥१०४५।। क्षुत्-तृश्रमाऽतिरेकेण जिह्वां कृष्ट्वा मुखाद् बहिः । तस्थावूर्ध्वस्थ एवाऽयं श्वासापूर्णगलाकुलः ॥१०४६।। सादिनोत्तीर्य पर्याणं यावदुत्तारितं हयात् । घूर्णित्वा पतितस्तावदसौ पाणैश्च तत्यजे ॥ १०४७ ॥ ततः कुमारो नीरार्थ परिभ्राम्यन्नितस्ततः। . काऽपि नाऽऽप जलं तापादथाऽभूदाकुलो भृशम् ।।१०४८॥ दूरे सप्तच्छदं दृष्ट्वा हृष्टस्तमभिधावितः । कथञ्चित् प्राप्य तस्याऽधः पपात भ्रमितेक्षणः ॥ १०४९।। अथ यक्षेण तत्पुण्यानुभावात् तन्निवासिना। आनीय सलिलं सिक्तः सर्वाङ्गेषु नृपाङ्गजः ।। १०५० ॥ लब्ध्वाऽसौ चेतनां पीत्वा जलं पप्रच्छ को भवान् ? । कुतो वेदमिहाऽऽनिन्ये जलं यक्षोऽप्यथाऽब्रवीत् ।।१०५१॥ यक्षोऽहं निवसाम्यत्र मानसाख्यसरोवरात् । त्वनिमित्तं महाभाग ! समानिन्ये जलं मया ॥१०५२॥ कुमारः प्राह तस्यैव सरसो मन्जनेन चेत् । ... . प्रयाति मम सर्वाङ्गसन्तापो यक्षपुङ्गच ! ॥१०५३॥ पूरयामि तवाऽभीष्टमधुनेति प्रजल्पता। यक्षेणैषोऽञ्जलौ कृत्वा निन्ये सपदि मानसम् ॥१०५४॥ कृतस्नानश्च तत्राऽसौ कुमारः पूर्ववैरिणा । दृष्टोऽसिताख्ययक्षेण युद्धं च समभूत् तयोः ॥१०५५।। अत्रान्तरे महेन्द्रस्तां पप्रच्छ वद खेचरि ! । किं तेन सह यक्षेण स्वामिनो वैरकारणम् ? ॥१०५६॥ Page #368 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसाऽप्यूचे श्रूयतामस्ति श्रीकाञ्चनपुर पुरम् । तत्रासीद् विक्रमयशोनामा नरपतिः पुरा ॥१०५७।। तस्य पञ्चशतान्यन्तःपुरीणां सुतनुश्रियाम् । तत्रेभ्यो नागदत्तोऽभूद् विष्णुश्रीस्तस्य वल्लभा ।। १०५८॥ रूप-लावण्य-सौभाग्यैः सुरस्त्रीभ्योऽपि साऽधिका । कथञ्चिद् ददृशे राज्ञा क्षिप्ता चाऽन्तःपुरे द्रुतम् ॥१०५९।। प्रायः परधन-स्त्रीपु मूढानां हि रतिर्भवेत् । यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ।। १०६०॥ तां विना नागदत्तोऽपि हा ! प्रिये ! कमलानने !। मृणालकोमलभुजे ! रम्भोरु ! मृगलोचने ! ॥ १०६१ ॥ क गताऽसि कथश्चात्मदर्शनं न ददासि मे । प्रलपन्नेवमुन्मत्तीभूतो बभ्राम सर्वतः ? ॥ १०६२ ॥ तदेकासक्तचित्तस्तु नृपः कृत्यपराङ्मुखः । नयत्यगणिताऽश्लोको धन्यंमन्यः स वासरान् ॥१०६३॥ यतःविवेकदीपकस्तावन्नृणां स्फुरति मानसे । ताड्यते चटुलाक्षीणां न यावल्लोचनाञ्चलैः ॥ १०६४ ॥ ईर्ष्यापरिभवार्ताभिः शेषराजीभिरन्यदा । संभूय कार्मणं कृत्वा विष्णुश्रीर्विनिपातिता ॥ १०६५ ॥ ततस्तदवसानेनाऽत्यन्तशोकातुरो नृपः । अश्रुपूर्णाक्षिरुन्मत्तो नागदत्त इवाऽभवत् ।। १०६६ ।। तदङ्गं राज्ञि संस्कर्तुमददानेऽथ मन्त्रीभिः । आलोच्य वञ्चयित्वैनं नीत्वाऽरण्ये समुज्झितम् ॥१०६७॥ अपश्यन्नथ तद् राजा त्यक्तपानाऽशनादिकः । तस्थौ योगीव निश्चेष्टः शून्यं ध्यायन् दिनत्रयम् ॥१०६८॥ १ अश्लोकोऽयशः। Page #369 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । अदृष्टे म्रियते नूनमिति निश्चित्य मन्त्रिभिः । नीतोऽरण्ये नृपोऽद्राक्षीद् वीभत्सं तत्कलेवरम् ॥ १०६९ || चलत्कुमि गलत्पूति वायसाकृष्टलोचनम् । दुर्गन्धमुपरिभ्राम्यद्गृधौघं खण्डितं खगैः ।। १०७० ।। ( युग्मम् ) ३५७ तद् दृष्ट्राऽसौ निनिन्दैवं लज्जा शीलं कुलं यशः । त्यक्तानि यत्कृते जीव ! धिग् दशा तस्य कीदृशी ? १०७१ इत्थं वैराग्यमापन्नः सर्वस्वं तृणवत् क्षणात् । नृपस्त्यक्त्वा प्रवव्राज सुधर्माचार्य सन्निधौ । १०७२ः ।। सन्तोऽन्तेऽपि निवर्तन्ते यत् तदालम्ब्य पापतः । मनास्तत्रैव नश्यन्ति मूढा मत्कोटवत् पुनः ॥ १०७३ ॥ शुद्धचारित्रदुग्धेन प्रक्षाल्यात्मपटे मषीम् । पापरूपां विपद्यन्ते तृतीयं कल्पमाप सः ॥ १०७४ ॥ ततश्च्युत्वा रत्नपुरे जिनधर्माभिधोऽभवत् । इभ्यपुत्रो जिनाख्यातद्वादशवतधारकः ।। १०७५ ।। इतश्च नागदत्तोऽपि प्रियाविरहदुःखितः । महार्तध्यानतो मृत्वा भ्रान्त्वा तिर्यक्ष्वनेकशः ।। १०७६ ॥ पुरे सिंहपुरे सोऽभूदनिशर्माऽभिधो द्विजः । कियत्यपि गते काले त्रिदण्डिव्रतमग्रहीत् ॥ १०७७ ॥ . तप्यमानस्तपस्तीव्रं द्विमाक्षपणादि सः । आगाद् रत्नपुरं तत्र नृपोऽस्ति नरवाहनः ॥ १०७८ ।। तेन त्रिदण्डिभक्तत्वाज् ज्ञात्वा तीव्रतपा इति । श्रद्धयाssमन्त्र्य निन्येऽसौ स्वगृहं पारणादिने ।। १०७९ ॥ जिनधर्मोऽपि तत्राऽऽगात् तदानीं दैवयोगतः । तं दृष्ट्रा स मुनिः प्राच्यवैरात् ताम्रेक्षणोऽजनि ॥१०८० ॥ अब्रवीच्च नृपं राजन् ! पृष्ठेऽस्य श्रेष्ठो यदि । न्यस्य पात्रीं ददास्युष्णपायसं पारये ततः ।। १०८१ ॥ Page #370 -------------------------------------------------------------------------- ________________ ३५८ श्रीपार्श्वनाथचरिते नृपः प्राह महात्माऽयं मान्यों में कोऽपि तन्मुने । अपरोऽस्तु, मुनिः प्राह नान्यथा पारयाम्यहम् ॥१०८२।। ततः तस्यानुरागेण प्रतिपन्नं नृपेण तत् ।। सोऽपि तुष्टमना भोक्तुं तथैवाऽऽरब्धवान् मुनिः॥१०८३॥ श्राद्धोऽपि पूर्वदुष्कर्मफलमेतदुपस्थितम् । मन्वान इति पृष्ठस्थपात्रीदाहं सहत्यलम् ।। १०८४ ॥ भुक्तोर्ध्व पृष्ठतः पात्री त्वग-मांस-रुधिरैः समम् । उत्पपाट ततः श्रेष्ठी धीरः सन् स्वगृहं ययौ ।। १०८५ ।। सन्मान्य क्षमयित्वा च सर्वस्वजन-पूजनान् । पूजां विधाय चैत्येषु महात्मा निर्ययौ पुरात् ।। १०८६ ॥ तुङ्गाद्रिशिखरे गत्वा विहितानशनः क्रमात् । कायोत्सर्गेण तस्थौ स पक्षं पक्षं चतुर्दिशम् ॥ १०८७ ।। पीडां सम्यक् सहन् पृष्ठे खाद्यमानः खगादिभिः । नमस्कारपरो मृत्वा सौधर्मेन्द्रो बभूव सः ॥ १०८८ ॥ त्रिदण्ड्यपि विपन्नस्तेनाऽऽभियोगिककर्मणा । तस्यैव वाहनं जज्ञे गज ऐरावणाऽभिधः ॥ १०८९ ॥ तत ऐरावतश्च्युत्वा भ्रान्तवा तिर्यक्षु नृष्वपि । अज्ञानतपसो यक्षोऽसिताक्षोऽजनि तत्र सः ॥ १०९० ॥ च्युतः शक्रोऽपि सौधर्माद् इस्तिनागपुरेऽभवत् । । चक्री सनत्कुमारोऽयमिति वैरस्य कारणम् ।। १०९१ ॥ तत्रासिताक्षयक्षेण चालयनचलोपलान् । उन्मूलितमहावृक्षः प्रथमं मुमुचेऽनिलः ॥ १०९२ ।। ततो बहुलधूलीभिरन्धकारितमम्बरम् । मुक्ता मुक्ताट्टहासाश्च पिशाचा ज्वलिताननाः ॥ १०९३ ॥ यावत् तथैव न क्षुब्धः कुमारः सोऽमुना ततः। .. मुक्तज्वालास्फुलिङ्गानागपाशैरबध्यत ॥ १०९४ ।। जीर्णरज्जुवदेतेन त्रोटितास्तेऽप्यसौ पुनः । .. Page #371 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३५९ कराभ्यां प्रहरन् बाहुप्रहारेण प्रपातितः ॥ १०९५ ॥ ततो राक्षसरूपेण तेन जातोरुमत्सरात् । कुमारः कर्कशं लोहमुद्गरेण हतो हृदि ॥ १०९६ ॥ तेनाऽप्येकं महावृक्षमुन्मूल्याऽऽच्छोटितोऽसुरः । वृद्धिमूर्ध्वं दधत् छिन्नद्रुमवत् पतितः क्षितौ ।। १०९७ ॥ रक्षसोत्पाट्य तस्याऽथो परिक्षिप्तो गिरिर्महान् । पीडिताङ्गो दृढं तेन सोऽपि निश्चेतनोऽजनि ।।१०९८॥ लब्धसंज्ञः क्षणाद् भूयः कुमारो यक्षराडपि । प्रवृत्तौ बाहुयुद्धेन योद्धमाबद्धमत्सरौ ॥ १०९९ ।। नर्दन्तौ मत्तवृषवत् सिंहनादं च मुञ्चतः । वेतालवच्च कुरुतो महाकिलकिलारवम् ॥११००॥ चक्रवच्च परिभ्राम्योल्ललतस्तौ प्लवङ्गवत् । कुकुटाविव वेगेनाऽपसृत्य मिलतः पुनः ॥ ११०१ ॥ कुमारेण ततो लब्धलक्षेणाऽऽहत्य मुष्टिना। शतखण्डीकृतो यक्षोऽमरत्वान् न मृतः पुनः ॥११०२ ॥ नष्टे तस्मिन्नथाराटीं मुक्त्वा तत्कौतुकाऽऽगतैः।। देव-विद्याधरैयोम्नि कृतो जयजयारवः ॥ ११०३ ॥ अहो ! यक्षः कुमारेण जितोऽयमितिवादिभिः । विहिता पुष्पवृष्टिश्च कुमारोपरि हर्षितैः ॥ ११०४ ॥ आर्यपुत्रस्ततो यावदपराह्ने सरोवरात् । . . प्रतस्थे तावदायासीदग्रतो नन्दनं वनम् ॥ ११०५ ॥ तत्राऽष्टौ भानुवेगस्य विद्याधरपतेः सुताः । अपश्यद् दिव्यरूपेण दिक्कुमारीरिवाऽद्भुताः॥११०६॥ स्निग्धदृष्ट्या स ताभिश्च वीक्ष्यमाणोऽतिविस्मयात् । गत्वा तदन्तिके कन्यामेकामुद्दिश्य पृष्टवान् ॥ ११०७॥ का यूयं किं निमित्तं च शून्यारण्यमलकृतम् । भवतीभिरिदं ता अप्यूचुर्मधुरया गिरा ? ॥ ११०८ ॥ Page #372 -------------------------------------------------------------------------- ________________ ३६० श्रीपार्श्वनाथचरितेमहाभाग ! इतो नातिरेऽस्ति पियसङ्गमा । नाम्नाऽस्माकं पुरी तत्र तावद् विश्रम्यता त्वया ॥११०९॥ किङ्करैर्दर्शिताध्वाऽसौ ततो गन्तुं प्रवृत्तवान् । सायं प्राप्तः पुरी ताभी राजसौधं च नायितैः ॥१११० ॥ दृष्ट्वाऽथाऽभ्युत्थितो भानुवेगराजेन संभ्रमात् । कृत्यं तत्रोचितं कृत्वा कुमारोऽभाणि साञ्जसम् ॥११११॥ भद्र ! कन्या इमा मेऽष्टावेतासां च वरः पुरा । त्वमेव मुनिनाऽऽख्यातोऽसिताक्षजयकारकः ॥ १११२ ।। ततः परिणयवेमा इति भूपालभाषितम् । . तथेति प्रतिपद्यार्यपुत्रोऽसौ क्रिययाऽकरोत् ॥ १११३ ॥ विवाहाऽनन्तरं बद्धकङ्कणो वासमन्दिरे । शयित्वा वरपल्यङ्के सुखं यावदजागरीत् ॥ १११४ ॥ खं तावदीक्षते भूमौ कङ्कणं च करे पुनः । किमेतदिति संचिन्त्य धीरचित्तस्ततोऽचलत् ॥ १११५ ॥ ततोऽरण्ये गिरेः शृङ्गे माणिस्तम्भप्रतिष्ठितम् । दिव्यं भवनमद्राक्षीदिन्द्रजालभ्रमं दधत् ॥ १११६ ॥ तदासन्ने गतो नार्या रुदत्याः करुणखरम् । श्रुत्वा गतभयः सौधं कुमारः प्रविवेश तत् ॥ १११७ ॥ तत्र सप्तमभूमिस्था दृष्टैका दिव्यकन्यका। रुदती करुणं भूयो भणन्तीति च कोमलम् ॥ १११८ ॥ कुरुवंशनभश्चन्द्र ! भूया भर्ता त्वमेव मे । श्रीमन् ! सनत्कुमारेशाऽपरस्मिन्त्रीप जन्मनि ॥ १११९ ॥ भणित्वेदं तया भूयो रुदत्याऽप्यासनेऽर्पिते । उपविश्याऽमुना पृष्टा विस्मिताऽऽहादितेन सा ॥११२०॥ पद्भ्यां , मध्येन, वक्त्रेण पद्म सिंहं सुधाकरम् । जित्वा त्रिजगतः सारं या त्वमुच्चौरह स्थिता ॥११२१॥ १ प्रापितः । २ क्रियापदमेतत् । Page #373 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३६१ नख-केश-तनूकान्ति-दृष्टि-दन्त-स्वरादिभिः। : विशिष्टलक्षणैरेवं लक्षिता या च लक्ष्यसे ॥ ११२२ ।। सा त्वं कथमिमां दीनां दशां प्राप्तासि सुन्दरि ! । किश्व सनत्कुमारः स्यात् तव यं शरणीयसि ? ॥११२३॥ साऽवोचद् भद्र ! मे भर्ता स मनोरथमात्रतः। पित्रा दत्ताऽस्मि यत् तस्मै दुःखहेतुमथो शृणु ।।११२४॥ श्रीसाकेतपुरे राजा सुरभिश्चन्दना प्रिया ।। दुहिताऽहं तयोर्जाता पाणेभ्योऽप्यतिवल्लभा ॥११२५॥ रूपं सनत्कुमारस्य लिखित्वा फलकेऽन्यदा।। आगाद् दूतोऽश्वसेनस्य पित्रा तद् दर्शितं मम ।।११२६।। जाता शून्याऽस्मि तद् वीक्ष्य यन् मे चित्तापहारतः । तत् सजीवमभूचित्रं निर्जीवत्वं पुनर्मम ॥ ११२७ ।। ततः पित्रा विदित्वाऽहं संप्रदानविधानतः । दचा सनत्कुमाराय विवाहोऽयापि नाऽभवत् ।।११२८॥ एको विद्याधरस्तावत् कुट्टिमाद् मामिहाऽनयत् । विद्याविकुर्विते सौधे मुक्त्वा चाऽस्मिन् कुतोऽप्यगात् ११२९ एवं वदति सा यावत् तावद् विद्याधराऽधमः । संहसा स समागत्य कुमारं गगनेक्षिपत् ॥११३०॥ ततो हाहारवं रौद्रं कुर्वाणा साऽपि बालिका । मूछ परवशीभूता पपात धरणीतले ॥११३१ ॥ तावन्मुष्टिप्रहारेण हत्वा तं दुष्टखेचरम् । आर्यपुत्रोऽन्तिके तस्या अक्षताङ्गः समाययौ ॥ ११३२ ॥ तां समाश्वास्य चाऽऽख्यातववृत्तान्तो व्यवाहयत् । सा च स्त्रीरत्नमेतस्य सुनन्दाख्या भविष्यति ॥ ११३३ ॥ तमस्तोमसमं दुष्टखेचरं विनिहत्य तम् । सा बाला पद्मिनी येनाऽऽनन्दिता सूर एव सः ॥११३४॥ १ शरणमिच्छसि । Page #374 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते तस्याऽथ वज्रवेगस्य नाम्ना सन्ध्यावली स्वसा । आगता भ्रातरं तत्र हृतं दृष्ट्वाऽकुपत्तराम् ।। ११३५ ।। वज्रहन्तुरियं भार्या भवितेति मुनेर्वचः । पुनः स्मृत्वा विवाहार्थं सा कुमारमुपस्थिता ।। ११३६ ॥ गन्धर्वविधिना साऽपि कुमारेण विवाहिता । ३६२ सुखेन तस्थुषोऽस्यैवं यज्जातं तन्निशम्यताम् ।। ११३७ ॥ चन्द्रवेग - भानुवेगखेचराभ्यां सुतौ तथा । प्रेषितौ रथ- संनाहौ ताभ्यां चाऽभाणि राजसूः || ११३८ ।। पुत्रस्य मृत्युवृत्तान्तं ज्ञात्वा देव ! तवोपरि | आगच्छत्यशनिवेगो विद्याधरबलैः समम् ।। ११३९ ॥ तदावां प्रेषितौ चन्द्र- हरिचन्द्राऽभिधौ सुतौ । युष्पच्चरणसेवार्थमुत्सुकाः पितरोऽपि नः ।। ११४० ॥ अथागतौ चन्द्रवेग भानुवेगौ सहायके । सन्ध्यावल्याऽपि दत्ताऽस्य विद्या प्रज्ञप्तिसंज्ञिका ।। ११४१ ।। अथाssगादशनिवेगवलं कलकलाकुलम् | प्रलयायेव लोकानां मुक्तसीमाम्बुधैर्जलम् ॥ ११४२ ॥ तदा सैन्यद्वये वीरसन्नाहोत्साहकारिणा । भेरीभाङ्कारनादेन सहसाऽपूर्वताऽम्बरम् ॥ ११४३ ॥ कुमारस्य पुरश्चन्द्र- भानुवेगबलं ततः । सैन्येनाऽशनिवेगस्य सह योद्धुं प्रचक्रमे ।। ११४४ ॥ हस्ती नागं, हयो वाहं, पत्तिः पत्ति, रथो रथम् । सख्यार्थमिव सख्यायाऽन्योऽन्यं समतयाऽमिलत् १९४५ सैन्यमेघे शरासारं नभः प्रच्छाद्य वर्षति । शिरःकमलसंकीर्णा रक्तनद्यस्तदाऽवहन् ।। ११४६ ॥ तयो रणमहोत्साहवशान् मिलितयोः क्रमात् । प्रावर्तत महायुद्धमबद्धबलयोर्द्विधा ॥। ११४७ ॥ १ सङ्ग्रामाय । - Page #375 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३६३ वादितातोद्यनिस्वानस्वानोकर्णपुरन्दरम् । दराऽपेतभटाकीर्ण कीर्णमुण्डकलेवरम् ॥ ११४८ ॥ वरार्थदेवीसङ्घातं घाताऽलक्ष्यनिजाऽपरम् । परस्परोद्गीर्णगोत्रं गोत्राकारपतद्गजम् ।। ११४९ ॥ (त्रिभिर्विशेषकम् ) बलद्वयेऽपि भग्नेऽथ द्वयोरेव परस्परम् । अङ्गाङ्गि समभूद् युद्धं कुमारा-ऽशनिवेगयोः ॥ ११५० ॥ महोरेगास्त्रं मुमुचेऽशनिवेगेन भीषणम् । कुमारो गरुडास्त्रेण सत्वरं तन् न्यपातयत् ॥ ११५१ ।। आग्नेयं वारुणास्त्रेण वायव्यं शैलनामना । चिक्षेप रिपुमुक्तास्त्रं प्रत्यस्त्रेण कुमारराट् ॥ ११५२ ।। ततो गाण्डीवमादाय नाराचाऽप्सारमुल्बणम् । विमुञ्चन्नुत्थितो रोषारुणोऽशनिरिवाऽशनिः ११५३ ।। सगुणोऽपि सुवंशोऽपि हिंसकोऽयमितीव सः । चक्रे तमपि निर्जीवमर्धचन्द्रपाङ्गजः ॥ ११५४ ॥ शतखण्डीकरोम्येनमधुनेति रुषा रिपुः । कोशतः खड्गमाकृष्य दन्तपेषं प्रधावितः ॥ ११५५ ॥ कोशे सत्यप्यसौ बादं गाढमुष्टिर्मलीमसः । इतीवासिः कुमारेण तस्य छिन्नभुजः कृतः ।। ११५६ ॥ ततश्च बाहुयुद्धेन प्रवृत्ते खेचराधिपे । कुमारस्य स्फुरद्रश्मिचक्रं चक्रं करेऽचटत् ॥ ११५७ ।। गुणैरेकोऽप्यसौ तेन द्रुतं दशगुणोऽभवत् । करस्थेन पुरस्थेन बिन्दुनाऽङ्को यथैककः ॥ ११५८ ॥ चक्रे चक्रेण तेनारिं कुमारश्छिन्नमस्तकम् । श्रीरप्यशिरसं दृष्ट्वा मुमोच सहसैव तम् ॥ ११५९ ॥ सर्वाऽप्यशनिवेगस्य राज्यश्रीः सह खचरैः । १ भयरहितः । २ गोत्रो गिरिः। ३ बाणविशेषैः। Page #376 -------------------------------------------------------------------------- ________________ ३६४ श्रीपार्श्वनाथचरितेसंचक्राम कुमारेन्द्रे स्थिरीचक्रे च सोऽपि ताम् ॥११६०॥ एष सनत्कुमाराख्यो जीयाद् भरतभूतले । चतुर्थश्चक्रवर्तीति चक्रे देवैर्जयध्वनिः ॥ ११६१ ॥ ततो लब्धजयाः सर्वे गता वैतान्यपर्वतम् । मङ्गलातोद्यवाद्येन स्वस्वधामानि चाविशन् ॥ ११६२ ॥ तत्र सनत्कुमारस्य संभूयाऽखिलखेचरैः। विद्याधरमहाराज्येऽभिषेको विदधे मुदा ॥ ११६३ ॥ एवं महासुखं तिष्ठन् चक्री विज्ञपितोऽन्यदा । चन्द्रवेगेन यद्यवं पुरा मे मुनिराख्यत ।। ११६४ ॥ तव पुत्रीशतं भानुवेगस्याऽष्टौ च कन्यकाः। चक्री सनत्कुमाराख्यः परिणेष्यत्यहो ! इति ।। ११६५ ॥ तदेतासां विवाहेन प्रसादः क्रियतां विभो !। इत्यभ्यर्थनया ता अप्यार्यपुत्रो व्यवाहयत् ॥ ११६६ ॥ वैताढ्यं साधयामास कारयामास चाहताम् । चैत्येष्वष्टाहिकापूजां सङ्गीतोत्सवपूर्वकम् ॥ ११६७ ॥ अथो विविधलीलाभिः खेचरीभिः सहाऽनिशम् । क्रीडन्नत्राऽऽययौ भर्ता तावत् त्वं मीलितोऽधुना ।।११६८॥ यावद् बकुलमत्येवं महेन्द्रस्य न्यवेदयत् । तावच्चक्री समुत्तस्थौ निद्रान्ते वासमन्दिरात् ।। ११६९ ।। परिस्पन्देन महता वैताढ्यं च गतस्ततः । विज्ञप्तोऽवसरं प्राप्य महेन्द्रसुहृदा नृपः ॥ ११७० ।। पितरौ तव दुःखेन कालं गमयतः प्रभो !। अतस्तदर्शनात् कार्यः प्रसादोऽस्मादृशामपि ॥११७१॥ श्रुत्वा सनत्कुमारस्तदतीवाऽभवदुत्सुकः । यन्नामाऽपि सुधातुल्यं गुरूंस्तान् स्पृहयेन कः?।।११७२॥ अथ व्योमगताऽश्वेभविमानारूढखेचरैः। दिव्यवेषधरैश्चक्री हस्तिनागपुरं ययौ ।।. ११७३ ॥ . Page #377 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३६५ परमानन्दितौ मातापितरौ नागरा अपि । महारत्नानि जातानि चक्राद्यानि चतुर्दश ॥११७४॥ . (युग्मम् ) साधितं भरतं सर्वमुत्पन्ना निधयो नव । जातो विख्याततेजाश्च चक्रवर्ती महानिति ।।११७५।। भोगानुदारांस्तस्यैवं भुञ्जानस्याऽन्यदा दिवि । सौधर्मेन्द्रः सभासीनः प्रेक्षमाणोऽस्ति नाटकम् ॥११७६ ।। अत्राऽन्तरे सङ्गमाख्य ईशानसुरलोकतः। एको देवः समायातः सौधर्मेन्द्रस्य सनिधौ ॥११७७।। तदेहप्रभया तत्र सर्वे देवाः समास्थिताः । अभूवनिष्पभाः सूर्योदये चन्द्रग्रहा इव ॥११७८।। पृष्टोऽथ विस्मितैर्देवैर्देवेन्द्रो यदयं कुतः । कारणाद् द्वादशादित्याधिकतेजाः सुरः प्रभो ! १ ॥११७९।। तत इन्द्रोऽवदद् देवाः ! कृतं प्राच्यभवेऽमुना । आचाम्ल-वर्धमानाख्यं तपस्तेनेदृशोऽजनि ।। ११८० ॥ तथात्माऽनेन हेमेव तपस्तापेन शोधितः । तदाधारोऽस्य देहोऽपि येनाऽयं दीव्यतेतराम् ।।११८१॥ ततः पृष्टं पुनर्देवैर्यथाऽन्योऽपि जगत्रये । अस्ति कोऽपि न वेदृक्षस्तेजोरूपर्द्धिसंयुतः ? ॥११८२ ॥ इन्द्रेण भणितं बाढं हस्तिनागपुरे पुरे । चक्री सनत्कुमारोऽस्ति कुरुवंशविभूषणम् ॥११८३॥ यस्य तेजश्च रूपं च देवेभ्योऽप्यतिरिच्यते ।। तन् निशम्य सुराः प्रापुर्विस्मयादतिविस्मयम् ।।११८४॥ विजयो वैजयन्तश्च सुरौ तद्वचनं पुनः । अश्रद्धाय जरद्विषरूपेण भुवमागतौ ॥ ११८५ ॥ .. नरेन्द्रभवने वेत्रिमुक्तद्वारौ प्रविश्य तौ। गत्वा राज्ञोऽन्तिकं तस्य निरवर्णयतां तनुम् ।।११८६॥ Page #378 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेदृष्टस्ताभ्यां तदा कुर्वन् तैलाभ्यङ्गविधि नृपः । विस्मितौ चाऽधिकां दृष्ट्वा शक्रोक्ताद् रूपसंपदम् ॥११८७।। पृष्टौ च चक्रिणा किं भो इहाऽऽगमनकारणम् ? | केवलं तौ धुनीतः स्म शिरोन्युञ्छनकं किल ॥११८८॥ उक्तं ताभ्यां यथारूपं वर्णितं ते जगत्त्रये । तद् द्रष्टुं कौतुकेनाऽऽवां चक्रवर्तिन्निहाऽऽगतौ ॥११८९।। अहो ! धन्योऽहमेवैको यद्रूपं वर्ण्यते सुरैः। इत्यलंगवितेनोक्तौ तौ भूयोऽपि महीभुना ॥ ११९० ॥ अहो ! विप्रो ! मदीयं किं रूपं लोकेन वर्ण्यते । युवाभ्यां ददृशे किंवा स्तोकवेला प्रतीक्ष्यताम् ॥११९१।। विधाय मज्जनं यावत् पुनर्मण्डनभूषणैः । शरीरसंस्थितिं कृत्वाऽलङ्करोमि सभामहम् ॥ ११९२ ॥ तदा सिंहासनस्थस्य युवां मे रूप-तेजसोः । प्रेक्षेथां श्रियमित्युक्तौ तौ द्विजौ निर्गतौ ततः ॥ ११९३ ।। जीयते मत्तमातङ्गघटाऽपि सुभटैः कलौ । गर्वः सर्वकषस्त्वेष महतामपि दुर्जयः ॥ ११९४ ।। अथ शीघ्रं नृपः स्नात्वा कृत्वाऽङ्गे मण्डनादिकम् । . मध्येराजसमं सिंहासनस्थोऽजूहवद् द्विजौ ॥ ११९५ ॥ ताभ्यां चाऽऽगत्य दृष्ट्वा तदेहशोभामनीदृशीम् । समुत्पन्नविषादाभ्यां भणितो भूपतिर्यथा ॥ ११९६ ॥ मनुष्याणामहो ! रूप-तेजो-यौवनसंपदः । अनित्याः क्षणमात्रेण यदेता नाशमागताः ॥ ११९७ ॥ चक्रवर्ती ततोऽपृच्छत् संभ्रान्तौ भो द्विजौ ! कथम् ? । सविषादाविव ब्रूथस्तावप्यभणतां पुनः ॥ ११९८ ।। भो महाराज ! देवानां रूप-तेजो-बल-श्रियः। आरभ्योत्पत्तितः शेषषण्मासान् यावदासते ॥ ११९९ ॥ ततः परं तु हीयन्ते, मनुष्याणामिमाः पुनः । Page #379 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । ३६७ आरभ्य जन्मतो यावद् वर्धन्ते मध्यजीवितम् || १२००॥ ततः परं हीयमाना यान्ति, यावदसुव्ययः । दृष्टमस्माभिराश्वर्यं तत्र रूपश्रियः पुनः ।। १२०१ ॥ येयं दुर्जनमैत्रीव सन्ध्याश्रीरिव सम्प्रति । परिवृत्य क्षणेनैव ययौ विच्छायतामिति ।। १२०२ ॥ चक्री प्राह कथं त्वेतद् यूयं जानीत तावपि । प्रकटीभूय भूपाय परमार्थ शशसतुः || १२०३ ॥ आवामश्रदधानौ ते रूपमिन्द्रेण वर्णितम् । आगतौ तद्यथायुक्तं कुर्या उक्तवेति तौ गतौ ।। १२०४ ॥ नृपोऽथ विस्मितो दिव्यकटकाङ्गदभूषितम् । सम्यगालोकयन् बाहुयुग्मं विच्छायमैक्षत ।। १२०५ ॥ अपि वक्षस्थलं हारार्द्धहाराद्यैर्विभूषितम् । निःश्रीकमित्र सोऽपश्यद् रजश्छन्ना कविम्बवत् ।। १२०६॥ ततो दध्यावहो ! लोके काऽपि जागर्त्यनित्यता । रूपयौवन जांसि यत् क्षणादेव मेऽनशन् ॥ १२०७ ॥ संपन्नरतये रम्याऽप्यनित्यत्वप्रदूषिता । नेष्टा रसवती स्वादुरपि यद् विषमिश्रिता ।। १२०८ ॥ अत एव महात्मानः सदस्यसदिवाऽखिलम् | हृदि मत्वा परिव्रज्य प्रागेव वनमाश्रिताः ॥ १२०९ ॥ ध्यात्वेति सहसा राजपट्टं बद्ध्वात्मजन्मनः । विनयन्धरगुर्वन्ते निःसङ्गः प्रात्रजन् नृपः || १२१० ॥ ततः श्रीरत्नमुख्यानि रत्नान्यपरयोषितः । आभियोगिकदेवाश्च नरेन्द्रा निधयस्तथा ।। १२११ ॥ किं वाऽथ बहुना सर्वे स्कन्धावारजना अपि । तस्य मार्गानु लग्नाः षण्मासान् यावदवम्भ्रमन् ।। १२१२ ॥ ( युग्मम् ) सिंहावलोकितेनाऽपि न च ते तेन वीक्षिताः । Page #380 -------------------------------------------------------------------------- ________________ ३६८ श्रीपार्श्वनाथचरितेअगन्धनकुले नागा वान्तमिच्छन्ति किं पुनः ? ॥१२१३ ॥ नैवं तैः प्रतिबद्धुं स शेके दीनै तैरपि । घनैरपि घनै रोढुं शक्यते किं विजन् ? ॥ १२१४॥ अथाऽसौ षष्ठभक्ताऽन्ते भ्रमन् गोचरचर्यया । चीनकूरमजातक्रसहितं लब्धवान् मुनिः ॥ १२१५ ॥ तच्च भुक्त्वा पुनः षष्ठोपवासं विदधे महान् । आरभ्य तदिनात् तेन दोषेण व्याधयोऽभवन् ॥१२१६।। शुष्ककच्चवरः कासः श्वासश्चान्नाऽरुचिस्तथा । अक्षिदुःखं तुन्ददुःखं सप्तैतेऽत्यन्तदारुणाः ।। १२१७ ॥ सप्तवर्षशतानीत्थं सम्यक् तस्याऽधिसह्य तान् । दीप्तोग्रतप्तघोरादिभेदेन चरतस्तपः ।। १२१८ ।। कफ-विप्रुण-मला-मर्श सौंषधिमहर्द्धयः । संभिन्नश्रोतोलब्धिश्च सप्तैवं लब्धयोऽभवन् ॥ १२१९ । - (युग्मम् ) तथाप्यङ्गप्रतीकारं न चक्रे स महामुनिः। सतामारब्धनिर्वाहसारा एव प्रवृत्तयः ॥ १२२० ॥ अथ भूयोऽपि सौधर्मसभायामृषिवर्णनम् । कुर्वन् सनत्कुमारस्य प्रशंसामकरोद्धरिः ॥ १२२१ ॥ अहो ! सनत्कुमारस्य परीषहसहिष्णुता । काष्ठा च परमा काऽपि तपसोऽस्य महामुनेः ॥ १२२२ ।। निशम्य तत्परीक्षायै तावेव त्रिदशौ पुनः । कृत्वा शबरवैद्यस्य रूपं मुनिमुपागतौ ॥ १२२३ ॥ अवोचतां च भगवन्ननुजानीहि येन ते । धर्मवैद्याविमावावां कुर्बो व्याधिप्रतिक्रियाम् ॥ १२२४ ।। निरपेक्षोऽसि किन्तु स्यान् न धर्मोऽपि तनुं विना । कृतमौने मुनावेवं भणंतस्तौ पुनः पुनः ॥ १२२५ ॥ Page #381 -------------------------------------------------------------------------- ________________ पष्ठः सर्गः। ३६९ ततोऽसौ श्लेष्मणा लिप्त्वा स्वर्णवर्णा निजाऽङ्गुलिम् । । विधाय दर्शयामास तयोरिति बभाण च ।। १२२६ ॥ अहो ! यदि युवां वैद्यौ सत्यौ तदिह सत्वरम् । संसारनामकं भावव्याधि स्फेटयतं मम ॥ १२२७ ॥ ऊचतुस्तौ पुनः स्वामिन् ! संसारव्याधिरुल्वणः । नावाभ्यां स्फेट्यते, शक्तो गुरुवैद्यस्त्वमेव हि ॥१२२८॥ इति प्रशंसापरमौ खं स्वरूपं प्रकाश्य तौ।। क्षमयित्वा मुनि भूयो जग्मतुः स्वास्पदं सुरौ ॥ १२२९ ॥ श्रीमान् सनत्कुमारोऽपि परिपूर्यायुरुत्तमम् । कल्पं सनत्कुमाराख्यं सौख्यधाम जगाम सः ॥ १२३० ।। ज्ञात्वेति गुरुमाहात्म्यं सेवितं च महात्मभिः । तपः कार्य यथाशक्ति कर्मनिर्मूलनोद्यतैः ॥ १२३१ ॥ उक्तान्यङ्गानि दानादीन्येवं धर्मनरेशितुः । तस्य तेष्वधुना जीवो भावनामा प्रतन्यते ॥ १२३२ ।। भावो धर्मस्य हन्मित्रं भावः कर्मेन्धनाऽनलः । सत्कृत्याऽने घृतं भावो भावो वेत्री शिवश्रियः ॥१२३३॥ घर्षे सुकाव्यनाट्यादावपि भावः प्रशस्यते । नाङ्गस्य तं विना भुक्तं घृतानमपि पुष्टये ।। १२३४ ॥ मावस्यैकाङ्गवीरस्य सांनिध्याद् बहवः शिवम् । ययुकोऽपि दानाद्यैर्भावहीनैर्घनैरपि ॥ १२३५ ।। चिरादेकेन दानादिक्लेशैः पुण्यं यदर्जितम् । तस्याऽनुमोदनाभावात् क्षणादन्यस्तदर्जयेत् ॥ १२३६ ॥ भावात् सुकृतलेशोऽपि नृणां सर्वार्थसिद्धिदः । भ्रष्टानां तु ततो नूनं सर्वतो भ्रष्टता भवेत् ॥ १२३७ ॥ तथाहि जम्बूद्वीपेऽत्र क्षेत्रे विदेहनामनि । विजये पुष्कलावत्यां पुरी श्रीपुण्डरीकिणी ॥ १२३८ ।। महापद्माभिधो राजा तत्र पात्रं नयश्रियः । Page #382 -------------------------------------------------------------------------- ________________ ३७० श्रीपार्श्वनाथचरितेभूषितैर्भूषणं यस्य गुणरासीन दृषितैः ॥ १२३९ ॥ कुलं शीलेन, रूपेण शीलं, रूपं च विद्यया। विद्या शौर्येण, शौर्य च दानेनाऽस्य विभूषितम् ॥१२४०॥ प्रिया पद्मावती तस्य स्त्रीषु रेखोपमा प्रिया । लीला-विनय-लज्जाभिर्नम्रत्वाद् गुरुतां दधौ ॥१२४१॥ सनयौ तनयौ तस्य शस्त्र-शास्त्रविशारदौ । बभूवतुः पुण्डरीक-कण्डरीकाभिधावुभौ ॥ १२४२ ।। अन्यदा बहिरुद्याने नलिनीवननामनि। आययौ सुव्रताचार्यों बहुसाधुर्बहुश्रुतः ॥ १२४३ ॥ महापद्मनृपो ज्ञात्वा गतस्तत्र गुरुं मुदा । नत्वोपविष्टो भूयागे गुरुर्धर्ममथाऽऽदिशत् ॥ १२४४ ॥ धर्मो निष्कृत्रिमस्नेहबन्धुरा जननी नृणाम् । धर्मश्चातुल्यवात्सल्यसंपूर्णहृदयः पिता ॥ १२४५ ॥ धर्म एवाभिन्नचित्तो भ्राता यामिर्हितैषिणी । धर्मोऽखिलसुखाधाराऽनुरक्ता सगुणा प्रिया ॥ १२४६ ॥ धर्मः कुलधुराधुर्यो दृक्-चित्तालादकः सुतः। धर्मः सुशीलसौन्दर्या कुलोन्नतिकरी सुता ।। १२४७ ॥ धर्मः कलावान् विश्वासस्थानमेकरसः सखा । किं वाऽथ बहुना सर्व यत् शुभं धर्म एव सः ॥ १२४८॥ देश-सर्वविरत्याख्यः स च धर्मो द्विधा भवेत् । गृहस्थ-यतिभेदेन यदिष्ट तत् समाचर ॥ १२४९ ।। अतीवसमयोपात्तं पुण्यं भुञ्जन्ति येऽखिलम् । न बीजमपि रक्षन्ति कुतस्तेषां पुनः सुखम् ॥ १२५० ॥ इत्यादिदेशनां श्रुत्वा जातश्रद्धो महीपतिः । योग्यं ज्ञात्वा श्रियं न्यस्य पुण्डरीकेऽग्रहीद् व्रतम् ॥१२५१॥ गतस्नेहपरित्यक्ताऽखिलसङ्गमलक्षणात् । स्नानादिव व्रतात् तस्मात् स राजा शुशुभेतराम् ॥१२५२॥ Page #383 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। स चतुर्दशपूर्वाणि समधीत्य समाहितः । चिरं तपोभिर्विविधैः श्रामण्यं पर्यपालयत् ॥ १२५३ ॥ मासं संलेखनां कृत्वा प्रान्ते हित्वा कलेवरम् । सर्वदुःखपरिक्षीणो निर्वाणपदमासदत् ॥ १२५४ ।। अथ कालेन तत्रेयुस्त एव स्थविराः पुनः । पुण्डरीको गतो नन्तुं सानुजः सपरिच्छदः ॥ १२५५ ॥ ववन्दे च गुरुं भक्त्या गुरुणाऽपि सविस्तरम् । चतुर्गतिप्रबन्धात्या विहिता धर्मदेशना ॥ १२५६ ॥ पुण्डरीकोऽपि तत् सर्वं हृदि सम्यग् विभावयन् । लघुकर्मतया जातसंवेगः प्राविशत् पुरीम् ॥ १२५७ ॥ आकार्य च निजामात्यप्रधानान् स महामनाः । कण्डरीकं पुरस्कृत्य सहर्षमिदमब्रवीत् ॥ १२५८ ॥ वत्स ! भुक्ता मया भोगाः पालितं राज्यमक्षतम् । वशीकृताश्च राजानः साधितं क्षोणिमण्डलम् ॥ १२५९ ॥ दिगन्तरेभ्य आनीता बहुव्ययसहाः श्रियः। पूजिता देवगुरवो गृहिधर्मो निषेवितः ॥ १२६० ॥ सत्कृताः स्वजनाः सर्वेऽप्यर्थिनः सफलीकृताः । जनाऽनुरागतः कुन्दसुन्दरं च यशोऽर्जितम् ॥ १२६१ ॥ तारुण्यमधुना याति शनकैढौंकते जरा। मृत्युरासन्नतामेति क्षीयते. बलमैन्द्रियम् ॥ १२६२ ॥ भावितो जिनधर्मोज्तश्चिरं ज्ञाता भवस्थितिः। प्रनष्टा भवसौख्येच्छा सिद्धावुत्कण्ठते मनः ॥ १२६३ ॥ पुनर्जन्म पुनर्मृत्युः पुनर्घस्रः पुनर्निशा । एवंविडम्बनापायात् पुनश्चर्वितचर्वणात् ॥ १२६४ ।। विरक्तोऽस्म्यहमग्रेऽपि श्रुतं गुरुवचोऽधुना । तद् गन्तुमुत्सुकस्येदं शकुनप्रेरणोपमम् ॥ १२६५ ॥ गृहाण तदिदं राज्यं सन्नीत्या पालय प्रजाः । Page #384 -------------------------------------------------------------------------- ________________ ३७२ श्रीपार्श्वनाथचरितेगृह्णामि सुगुरोरन्ते गत्वा दीक्षामहं यथा ॥ १२६६ ॥ कण्डरीको जगौ भ्रातः ! किं मां पातयसे भवम् । चतुर्गतिभवं दुःखं म्याऽपि गुरुतः श्रुतम् ॥ १२६७ ॥ प्रवज्यां तद् ग्रहीष्येऽहमपि नावं भवोदधौ । यदभीष्टं हि तद् देव ! दीयते लघुवन्धवे ॥ १२६८ ॥ अथाह नृपतिर्वन्स ! व्रतमेव महापियाम् । मर्त्यत्वे चारु किन्त्वेतन् नवे वयसि दुष्करम् ॥ १२६९ ॥ अहिंसा सर्वभूतेषु पाल्या समतया यतः । भाषितव्यं हितं सत्यं नित्याऽवहितचेतसा ।। १२७० ॥ परेण तृणमात्रस्याऽप्यदत्तस्य विवर्जनम् । धार्य ब्रह्मव्रतं भोगिन् ! यावज्जीवं सुदुष्करम् ॥१२७१।। धनादौ प्रेष्यवर्गे च सर्वथाऽप्यपरिग्रहः । रात्रौ चतुर्विधस्याऽपि सदाऽऽहारस्य वर्जनम् ॥१२७२।। संनिधेः सञ्चयस्त्याज्यो न कार्यो गृहिसंस्तवः । इतीदमुच्यते खड्गधाराचमणोपमम् ॥१२७३।। किश्चइन्द्रियाणि चलानीह दुष्टा रागादयोऽरयः। प्रमादबहुलो जीवो यौवनं च विकारभूः ॥१२७४॥ अनवस्थं मनः सोढुं न शक्याश्च परीषहाः। ततो वत्स ! व्रतं वार्द्धिभुजातरणसंनिभम् ॥१२७५।। अज्ञातपरमार्थोऽसि तद् विदित्वा जिनागमम् । कृत्वाऽऽत्मतुलनां भुक्त्वा राज्यं श्रितगृहिव्रतः ॥१२७६।। निर्वतितान्यकर्तव्यः समतिक्रान्तयौवनः । पद्यारोहक्रमेणैव परिव्रज्यां त्वमाश्रयेः ॥ १२७७ ।। (युग्मम् ) उक्तोऽपि युक्तिभिर्भूयो भूय एवं नृपेण सः। अमुश्चन्नाग्रहं प्राह राजन् ! युक्तं त्वयोदितम् ॥ १२७८ ॥ Page #385 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। ३७३ किन्तु हृद्युषितं देव ! जल्पितं पुरतश्च ते । परिव्रज्याविधानं तत् कृत्यमेव मया ध्रुवम् ॥ १२७९॥ किश्चाऽशक्तिमतः पुंसो बिलमप्यर्णवायते । साहसोद्यतचित्तस्य सागरोऽपि हि गोष्पदम् ॥ १२८०।। अथाऽसौ वार्यमाणोऽपि प्रधानैर्ऋतमग्रहीत् ।। राज्ञापि कारितो भ्रातुर्महान् निष्क्रमणोत्सवः ॥१२८१॥ यावद् राज्यधरः कोऽपि स्यात् तावत् स्थीयतां विभो !। इत्युक्तो मन्त्रिभिस्तस्थौ राजा भावयतित्वभृत् ॥१२८२।। कण्डरीकोऽपि सत्सामाचारी तां पालयन् भृशम् । जज्ञे बहुमतः सर्वसाधूनामपि मानसे ॥१२८३।। तस्याऽपि तस्थुषो भावात् स्वाध्याय-नियमादिषु । सुखं जज्ञेऽधिकं स्वर्गादेवं कालो बहुर्ययौ ॥१२८४।। अन्यदा मधुरारावभृङ्गालिमणिनूपुरैः। अलङ्कृतमृदुस्वच्छपाटलांहिमनोहरा ॥१२८५॥ प्रत्यग्रलसिताऽशोकप्रवालकरपल्लवा । स्मेराम्बुजमुखी फुल्लमल्लिकादशनोज्ज्वला ॥१२८६॥ चारुचम्पकपुष्पाङ्गी कोकिलारवबन्धुरा । तिलकालङ्कृता श्वेतकेतकीपत्रशालिनी ॥१२८७।। स्फीतयाऽतीव सुभगम्भविष्णुबकुलश्रिया । दक्षिणाऽनिलसद्गन्धमुखश्वासैकजीविता ॥ १२८८ ॥ सुवर्णमञ्जरीरम्यै राजितोपरिवर्तिभिः। सान्द्रसच्छायमाकन्दमायूरातपवारणैः ॥ १२८९ ॥ प्रफुल्लकिंशुकव्यूहकौसुम्भाऽम्बरधारिणी । पावर्तत वसन्तश्रीमूर्तेव वनदेवता ॥ १२९० ॥ .. (षभिः कुलकम् ) श्रीखण्डपुष्पधवलास्ताम्बूलालक्तकद्रवैः। जातसिन्दूररेखाढ्या कस्तूरीस्तबकाङ्किता ॥ १२९१ ॥ Page #386 -------------------------------------------------------------------------- ________________ ३७४ श्रीपार्श्वनाथचरितेनर-नारीगणा यत्र सङ्गीतकमनोहराः। राजन्ति जङ्गमाः क्रीडासौधा इव मधुश्रियः ।।१२९२ ॥ (युग्मम् ) चिरं स्थित्वा जला-ऽऽन्दोल-पुष्पावचयकेलिभिः । निषीदन्ति वने लोका माधवीमण्डपादिषु ॥ १२९३ ॥ प्रसूता चर्चरी दिक्षु चक्षुराक्षेपकारणम् । मुनेरपि किमन्येषां कौतुकाकुलचेतसाम् ? ॥ १२९४ ॥ वसन्ते विलसत्येवं पापकर्मोदयान्मनः । चलितं स्मृतराज्यस्य कण्डरीकस्य संयमात् ॥ १२९५ ॥ कर्मवैचिच्यतोऽनादिभवाभ्यासक्शेन च । तारुण्यस्य विकारित्वात् काम्यत्वात् काननस्य च १२९६ तादृग्वंशोद्भवस्याऽपि तस्य व्रतविघातकृत् । . चारित्रावरणीयाख्यमुदीर्ण कर्म कर्कशम् ॥ १२९७ ॥ अत उच्यतेनैवाऽस्ति नाऽप्यसौ भावी विततेऽपि जगत्त्रये । यो यौवनमनुप्राप्तो निर्विकारः सदा भवेत् ।। १२९८ ।। सा श्रद्धा सा च गुर्वाज्ञा तत् प्रतिज्ञातमुच्चकैः । सकुलस्याऽपि मानश्च सर्वमेकपदे गतम् ॥ १२९९ ॥ अलं प्रव्रज्यया दुःखदायिन्या राज्यमेव तत् । श्रयामीति धिया सोऽभूद् बाह्यकृत्येऽप्यनादरः १३०० ॥ यतः सद्रव्यलाभलोभेन यथा क्लेशो न दुःसहः । तथा धर्माशयानिष्टचेष्टा कष्टं पुनर्भृशम् ॥ १३०१॥ उच्यते चदेवलोकसमानो हि पर्यायो यतिनां व्रते । रतानामरतानां च महानरकसनिमः ॥ १३०२ ॥ धर्मे भग्ने गुणे भ्रष्टे स लब्धाऽवसरैस्ततः । Page #387 -------------------------------------------------------------------------- ________________ ३७५ षष्ठः सर्गः। रागादिरिपुभिर्याप्तश्छलैक्षिभिरिवाऽभितः ॥ १३०३ ॥ परीषहैरपि जितः सहसा स क्षुधादिभिः।। कैराक्रम्येत निःसन्चो न मन्दाग्निरिवाऽऽमयैः १ ॥१३०४॥ भावभ्रष्टमिति ज्ञात्वा तत्यजुः साधवोऽपि तम् । वाताण्डमिव भारुण्डा गुरुणा चाऽप्युपेक्षितः ॥ १३०५ ॥ स च तुष्टस्तदा बाधामुक्तोऽपथ्यक्षणेच्छया । वैद्य-शुश्रूषकाऽभावे यथा रोगी मुमूर्षकः ॥ १३०६ ॥ .. अन्यदाऽवसरे द्रव्यलिङ्गोपकरणान्वितः । गत्वा वनगरी तस्थौ बहिरुद्यानसीमनि ॥१३०७॥ पालम्ब्य तरुशाखायां पात्रकं हरिताऽवनौ । निविश्याऽऽकारयमास भूपमुद्यानपालकान् ॥ १३०८ ॥ कण्डरीक इहायातः किमेकाकीति चिन्तयन् । वृतः कतिपयैस्तत्र प्रधानैर्भूपतिर्ययौ ॥ १३०९ ॥ दृष्ट्वा भग्नपरीणामं वन्दित्वा तं नृपोऽब्रवीत् । कुशलं ते सोऽपि प्राह यादृगस्ति त्वमीक्षसे ॥१३१०॥ संभ्रान्तः पुनरप्याह भूपः कूपसमे भवे ।। संयमं मेरुमारुह्य किमात्मानं प्रपातयः ? ॥ १३११ ।। कुलस्याऽतिकलङ्कोऽयं दीक्षां सन्धां च येत्र भोः । आदाय समितेर्भग्ना वलन्ति सुखलम्पटाः ॥१३१२॥ सुलभं सुमहद् राज्यं सुलभा गुणसम्पदः । सुलभं सर्वमप्यन्यजिनधर्मस्तु दुर्लभः ॥१३१३॥ कण्डरीकोऽथ तं प्राह यदिष्टं तत् प्रयच्छ मे । किं वचोभिः क्षुधार्तस्य जलपानसमैरिमैः ॥१३१४।। औषधं जीवनिर्मुक्ते शुष्कमूले जलोक्षणम् । भावभ्रष्टे हिताख्यानं किं करोतीति चिन्तयन् ॥१३१५॥ नृपः प्राह गृहाणेदं राज्यं येनाऽस्य रक्षकः । चिरान् मे वाञ्छितोऽभ्यागाद् हितायैतत्तु भाषणम् १३१६ Page #388 -------------------------------------------------------------------------- ________________ ३७६ श्रीपार्श्वनाथचरितेअमात्या भो नरेन्द्राश्च पूर्वमेव निषिध्यतः। ममाऽयं जगृहे दीक्षां राज्यं गृह्णातु सम्प्रति ॥१३१७॥ ब्रुवाणस्यैवमादाय राजचिह्नानि भूपतेः । निजानि साधुलिङ्गानि कण्डरीकः समर्पयत् ॥१३१८॥ अमृतेन विषं ह्येको जगृहेऽन्यः सुधां विषात् । व्रतराज्यविपर्यासाच्चित्रं चित्रा मनोगतिः ॥१३१९॥ कण्डरीकोऽथ कृष्णास्यैः पौरामात्यादिभिः सह । पुरीं प्रविश्य सौधान्तर्गत्वा स तमुपाविशत् ॥१३२०॥ धिक् सिंह इव निष्क्रम्य जातोऽसौ जम्बुकोऽधुना । इति सामन्तमुख्यास्ते नाद्रियन्ते हसन्ति च ॥१३२१॥ इन्द्रकेतुमिव ध्वस्तं विध्यातमिव पावकम् । धर्मभ्रष्टं श्रियाऽपेतं को न हीलयते नरम् ? ॥१३२२॥ ततः कोपान् नृपो दध्यौ तावत् कुर्वेऽत्र भोजनम् । पश्चादेषां करिष्यामि दुष्टानां सुष्ठु निग्रहम् ॥१३२३॥ क्षुधातः स चिरात् पाकं सर्वाऽनानामकारयत् । प्रेक्षणीयस्य दृष्टान्तं चिन्तयामास चेत्यसौ ॥१३२४॥ रङ्गे स्यादुपविष्टेषु ग्राम्येषु महतां स्थितिः । तथा कदने भुक्ते प्रागुत्तमानं हि रोचते ॥१३२५।। क्रमेणाऽनेन सर्वान्नैर्भोजनं स तथाऽकरोत् । कथश्चिद् भुजयोधृत्वा शय्यानीतो यथेतरैः ॥१३२६॥ जज्ञे विसूचिका शूलं प्रवृत्तं प्रस्ताऽरतिः । बभूवाऽऽपूर्णमुदरं रुद्धः पवननिर्गमः ॥१३२७॥ तीव्रवेदनया सोऽथ प्रलापं कर्तुमुद्यतः । भ्रष्ट इत्यस्य नो चक्रे राजवग्यः प्रतिक्रिया ॥१३२८॥ यदि रात्रिर्विभात्येषा कथञ्चन ततो ध्रुवम् । मदुपेक्षाकरान् मन्त्रिवैद्यादीन् संहराम्यहम् ॥१३२९॥ इति स्फूर्जन्महारौद्रध्यानतन्मयमानसः। Page #389 -------------------------------------------------------------------------- ________________ पष्ठः सर्गः ।। मृत्वा सोऽशरणो जज्ञे नारकः सप्तमावनौ ॥ १३३० ॥ (युग्मम् ) अहो ! मोहो, महारत्नं मुक्या काचमणीच्छया । यदेष सहसा धावन्नन्धकूपेऽन्तराऽपतत् ॥१३३१॥ राजर्षिः पुण्डरीकस्तु धन्योऽहं येन दुर्लभः । प्राप्तोऽयं साधुधर्मस्तत् कुर्वे तं गुरुसाक्षिणम् ॥१३३२॥ चिन्तयन्निति शुद्धात्मा प्रतस्थे गुरुसन्निधौ । क्षुत् तृट्-तापादिदुःखेऽपि भावादचलमानसः ॥ १३३३॥ (युग्मम् ) मार्गातिगमनादेष गलद्रक्तपदः श्रमात् । वासाय ग्राम एकस्मिन्नुपश्रयमयाचत ॥ १३३४ ॥ तृणस्तरके तत्र शस्यलेश्यो निविश्य सः । धर्मध्यानमिदं साधुर्भावयामास चेतसि ॥ १३३५॥ कदाऽहं सुगुरोरन्ते परिव्रज्यां यथोदिताम् । करिष्यामि गताशेषकर्मनिर्मूलनक्षमाम् ॥१३३६ ॥ मस्तके चाऽञ्जलिं न्यस्य बभाण विशदाक्षरम् । नमोऽर्हद्भयो भगवद्भ्यो नमो मे धर्मसूरये ॥ १३३७ ॥ अधुनाऽपि तत्पादान्ते प्रत्याख्यामि समन्ततः । हिंसामलीकं चाऽदत्तं मैथुनं च परिग्रहम् ।। १३३८ ॥ निशाभक्तं क्रुधं मानं मायां लोभं सरागताम् । द्वेषं कलहा-ऽभ्याख्याने पैशुन्यं परनिन्दनम् ॥ १३३९ ॥ मायामृषा तथा मिथ्यादर्शनं शल्यनामकम् । त्यजाम्यष्टादशेमानि पापस्थानानि सर्वथा ।। १३४० ॥ यदपीष्टं प्रियं कान्तं चिरकालं च लालितम् । शरीरमन्तिमोच्छासे तदपि व्युत्सृजाम्यहम् ।।१३४१ ॥ इति भावाम्बुना धौतकल्मषात्मा-विपद्य सः । गत्वा सर्वार्थसिद्धाख्ये विमानेऽभूत् सुरोत्तमः ॥१३२२॥ --४८. Page #390 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते इत्थं भावस्य माहात्म्यं विदित्वा विदुषा सदा । भाव्यं भावप्रधानेन धर्मकृत्येषु सर्वतः ।। १३४३ ।। अपि भावैकपाद् धर्मो जात्यश्व इव सद्गृहम् । कलौ नरं नयत्येव बहिर्भवरणाङ्गणात् ।। १३४४ ॥ दानादिचतुरीमध्ये चतुर्ज्ञानेटकोपरि । केवलज्योतिराश्रित्य मुक्तिस्त्रीमुद्वहेद् वरः ।। १३४५ ।। इत्यादिदेशनां श्रुत्वा प्रभोर्वदनपङ्कजात् । बहवः सर्वसावद्यविरतिं जगृहुर्जनाः ।। १३४६ ।। केsपि भव्याः पुनर्देशविरतिं प्रतिपेदिरे । प्रपन्नाः केऽपि सम्यक्त्वं केऽपि भद्रकतां ययुः || १३४७ || प्राप्याऽपि जिनरत्नाद्रिं निजभाग्यानुमानतः । किञ्चिचति कस्यापि धर्मरत्नं नृणां करे ।। १३४८ ॥ अश्वसेननृपस्याsपि धर्मः श्रीपार्श्वभाषितः । शर्करादुग्धसंयोग इवातीव स्म रोचते ।। १३४९ ॥ राज्यं दत्वा च तत्रैव हस्तिसेनाय सूनवे । भवाऽम्बुधितरीं दीक्षां मुमुक्षुर्जगृहे नृपः ॥ १३५० ॥ वामादेवी प्रभावत्यावपि माव्रजतां तदा । यद् विश्वस्याऽपि सामान्या जिनर्द्धिः किमु बन्धुषु ११३५१ आर्यदत्त आर्यघोषो वशिष्ठो ब्रह्मनामकः । ३७८ सोमव श्रीधरो वारिसेनो भद्रयशा जयः ।। १३५२ ।। विजयश्चेति गणभृन्नामकर्मभृतो दश । बभूवुर्व्रतिनस्तत्र प्रज्ञा-रूप- कुलोज्ज्वलाः ।। १३५३ ॥ ( युग्मम् ) तेषामुत्पादविगम-धौव्यरूपां पदत्रयीम् । स्वाम्याख्यत्, ते तया सद्यो द्वादशाङ्गीमसूत्रयन् ॥ १३५४ ॥ अथोत्थाय विभुस्तेषां स्वयं शक्रोपढौकितान् | १ पाणिग्रहणमण्डपः ' चोरी ' इति भाषायाम् । Page #391 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३७९ । रत्नस्थालस्थितान दिव्यवासान् मौलिषुन्यक्षिपत् ॥१३५५।। सद्व्य-गुण-पर्यायैरनुयोगं तथा गणम् । अन्वजानात् तथेत्युक्त्वा प्रतीषुस्तेऽपि तं नराः ॥१३५६॥ (युग्मम् ) दुन्दुभिध्वानपूर्वं तु तेषामुपरि चिक्षिपुः। वासान् सुरादयोऽप्येवं तीर्थमासीचतुर्विधम् ॥१३५७॥ उपविश्य पुनस्तेषामनुशिष्टिं विभुर्व्यधात् । पूर्णप्रथमपौरुष्यां देशनां विससर्ज च ॥ १३५८ ॥ अथोत्थायोत्तरद्वारान्निर्गत्येशानदिस्थिते । देवच्छन्दे विभुर्गत्वा विश्रामसुखमन्वभूत् ॥१३५९॥ कर्माभ्रजालविगमाद् भविनां सुदृश्यो दृष्टिप्रसादजनने विततप्रभावः । दन्तांशुमांसलरुचाऽस्ततमा मुदं वः पाचप्रभोः प्रथयतां मुखशारदेन्दुः ॥१३६० ॥ इति श्रीकालिकाचार्यसन्तानीय-श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरिते महाकाव्येऽष्टसर्गे भावाङ्के भगवद्विवाह-दीक्षा-केवल. ज्ञान-समवसरण-देशनावर्णनो नाम षष्ठः सर्गः ॥ ६॥ अहम् । अथ सप्तमः सर्गः। अथ पार्थप्रभोः पादपीठस्थो गणभृद् नृणाम् । आर्यदत्तो जिने भक्तिस्थैर्यार्थ देशनां व्यधात् ॥ १॥ इह सर्वोत्तमस्तावद् यतिधर्मो मनीषिणाम् । तत्राऽशक्ताः पुनर्भव्या गृहिधमं प्रकुर्वते ।। २ ॥ Page #392 -------------------------------------------------------------------------- ________________ ३८० श्रीपार्श्वनाथचरिते तत्राऽपि कृतिनः पूजां विधाय विधिनाऽर्हताम् । कुर्वते सफलं सद्यो गृहमेधिभवद्रुमम् ॥ ३ ॥ सा च पुष्पा-ऽक्षत-स्तोत्ररूपा सामान्यतस्त्रिधा। श्रुते प्रोक्ता प्रभोरङ्गपट्टसद्भावगोचरा ॥ ४ ॥ आसामेकतमाऽप्यासीद् विशिष्टफलहेतवे । । यथा किल तथा सम्यग् दृष्टान्तः श्रूयतां क्रमात् ॥ ५ ॥ लवोऽपि जिनधर्मस्य सुधाबिन्दुरिव ध्रुवम् । करोत्येवाऽपरीभावं सम्यगासेवितो नृणाम् ॥ ६ ॥ तत्रादौ पुष्पपूजायां कथ्यते तावदद्भुतम् । वरसेन कुमारस्य चरित्रमिह तद्यथा ।। ७ ॥ अस्त्यत्र भरते ख्यातमृषभाख्यं पुरं वरम् । ईश्वराऽवस्थितेर्नित्यं यस्याऽभूद् नाम साऽन्वयम् ॥ ८॥ तस्याऽधीशः कुशो राजा नाम यस्य दृढं गुणैः। बद्धोऽपि मण्डले प्रीतिमवाप परमां जनः ॥ ९॥ तत्राऽभयङ्करः श्रेष्ठी श्रेष्ठाचार-विचारवान् । प्रिया कुशलमत्याख्या तस्य सार्थाऽन्धयाऽभवत् ॥ १० ॥ भद्रकप्रकृती तस्याऽभूतां कर्मकरावुभौ । गृहकर्म करोत्येकश्चास्यत्यपरस्तु गाः ॥ ११ ॥ अन्यदा तो मिथो वार्ता चक्राते विजनस्थितौ । धन्य एको हि नः स्वामी यस्य शुद्धा भवत्रयी ॥ १२ ॥ प्राचीनसुकृतात् तावदिदानीं पुण्यभोगभूः । बभूव, भविता भाविभवे सुगतिसौख्यभाक् ॥ १३॥ आवां तु हतको सर्वपुरुषार्थवाहिष्कृतौ । भवं निर्गमयावः स्वमफलं स्नुहिवृक्षवत् ॥ १४ ॥ चिन्तयन्ताविति ज्ञात्वा धर्मयोग्याविमावथ । चातुर्मासदिने श्रेष्ठी सह निन्ये जिनौकसि ।। १५ ।। चारुकारितशृङ्गारौ जगाद यदहो ! सुतौ ।। Page #393 -------------------------------------------------------------------------- ________________ ३८१ सप्तमः सर्गः। युवां पुष्पाणि गृह्णीतं पूजनाय जिनेशितुः ॥ १६ ॥ ऊचतुस्तौ च पुष्पाणि यस्य तस्य फलं भवेत् । अस्माकं चेष्टिरेवाऽत्र गृह्णीवस्तदिमानि न ॥ १७ ॥ अमन्यमानौ सुतरां श्रेष्ठिना बोधितावपि । नीतौ गुर्वन्तिके भावं ज्ञात्वा च गुरुणोदितौ ॥ १८ ॥ भद्रौ ! भावेन देवार्चा पुष्पेणाऽपि महाफला । तदहो ! युवयोः स्वल्पमपि किं नास्ति वेतनम् ? ॥ १९ ॥ तयोर्जगाद गोपालो विंशतिर्म कपर्दकाः । सन्ति पश्च च किन्त्वेतदस्ति स्तोकं मुनीश्वर ! ॥२०॥ अनिगृहन्नात्मशक्तिं तपो-दानादि तन्वपि । कुर्वाणः शुद्धभावेन लभते विपुलं फलम् ॥ २१ ॥ मुनिनेत्युदितो हृष्टः क्रीत्वा पुष्पाण्यपूजयत् । जिनं श्रेष्ठियुतो यावद् द्वितीयस्तावदुन्मनाः ॥ २२ ॥ एतावन्मात्रमप्यासीदस्य किञ्चित् पुनर्न मे ।। चिन्तयनिदमद्राक्षीत् प्रत्याख्यानकरं नरम् ॥ २३ ॥ पप्रच्छ च गुरोः पार्थे किमेतेन कृतं विभो ! । गुरुरप्याह भो भद्र ! कृतमद्याऽमुना तपः ॥ २४ ॥ अयं च तस्याऽङ्गीकारे विधिः, पुण्यं च पुष्कलम् । स्यादित्याकर्ण्य भव्यत्वादुपवासं चकार सः ॥ २५ ॥ ततो भोजनवेलायां सहार्येण गतो गृहम् । परिवेषय्य भक्तं च निदध्यौ द्वारि संस्थितः ॥ २६ ॥ यदि कोऽप्येति मत्पुण्यैर्मुनीन्द्रस्तद् ददाम्यदः । भक्तं श्रेष्ठिगृहे येन कर्म कृत्वा मयाऽर्जितम् ॥ २७ ॥ अथ ग्लानादिकार्येण येनाऽभक्तं कृतं नहि । स मुनिदैवयोगेन तत्र भिक्षार्थमाययौ ॥ २८ ॥ तं दृष्ट्वा कर्मकृद् दध्यौ कुतोऽहं रङ्कमात्रकः । ईदृशा मुनयः कुत्र केदं द्रव्यं मयार्जितम् ? ॥ २९ ॥ Page #394 -------------------------------------------------------------------------- ________________ ३८२ श्रीपार्श्वनाथचरितेतन्नूनं काऽपि संपत्तिर्ममाऽपि भविताऽद्भुता। भवे भाविनि सामग्री स्यादेवं कथमन्यथा ? ॥३०॥ इति तोषादसौ सर्वं तद् भोज्यं मुनये ददौ । तद् वीक्ष्य मुदितः श्रेष्ठी तस्याऽन्यत् पर्यवेषयत् ॥३१॥ तच्च कर्मकरोनिच्छन्नूचेऽद्याऽहमुपोषितः ।। श्राद्धोऽप्युवाच यद्येवं गृहीतं किं त्वया पुरा ? ॥ ३२ ॥ सोऽब्रवीत् तात ! के हेतुं त्यजामि निजभोजनम् ? । ततस्तुष्टोऽधिकं श्रेष्ठी वात्सल्यं कुरुते तयोः ॥ ३३ ॥ इतश्च सूरसेनाऽऽख्यः कलिङ्गाधिपतिनृपः । दायादहतराज्यश्रीः कुरुदेशं गतः क्रमात् ॥ ३४ ॥ नृपं गजपुराधीशं तत्रावलगता ततः । समृद्धिबन्धुरा ग्रामाश्चत्वारस्तेन लेभिरे ॥ ३५ ॥ तत्राऽस्य सुकराभिख्ये ग्रामे निवसतः सुखम् । प्रियाऽस्ति विजयादेवी तस्याः कुक्षावातरत् ॥ ३६ ॥ पूर्व दानकृतो जीवो मृत्वा पश्चाजिनाऽर्चकः । ज्यायानमरसेनाख्यो वरसेनाभिधोऽनुजः ॥३७॥(युग्मम् ) प्राच्यपुण्यानुभावेन रूप-विद्यादिकस्तयोः । गुणौघः सह देहेन वधे स्तोकवासरैः ॥ ३८ ॥ कला-तेजोनिधी विश्वपूरिताशौ नवोदयौ । तौ राजहंसौ नो केषामनुरागं वितेनतुः १ ॥ ३९ ॥ गृहर्कायधुरामारधुर्यो सुतवृषाविमौ । मनोरथशतं पित्रोः प्रमाणभुवि निन्यतुः ॥ ४०॥ इतस्ततश्च तौ दृष्ट्वा विलसन्तौ महर्दिभिः । सापल्यजननी द्वेषं जयाख्या वहते हृदि ॥ ४१ ॥ अन्याः सा गते राज्ञोऽवलगायां स्वभर्तरि । आगते च मृषा कोपं कृत्वा कोपगृहेऽविशत् ॥ ४२ ॥ १ सेवमानने । Page #395 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३८३ राज्ञोऽतिक्लभत्वेन साऽथ पृष्टा पुनः पुनः । कोपस्य कारणं कष्टादिवाऽऽचख्यौ सबाष्पदृक् ॥ ४३ ॥ यूयं यदिवसाद् देव ! गता ग्रामान्तरं तदा । आरभ्य तव पुत्राभ्यामहं संक्षोभिता भृशम् ॥ ४४ ॥ पतिभक्त्या च शक्त्या च किन्तु शीलं मया दधे । विचार्याऽतः परं नाथ ! क्रियतां यत् कुलोचितम् ॥४५॥ अलीकवचएधोभिरिति संधुक्षितस्तथा । कोपवहिस्तयो राज्ञो यथाऽन्तर्वलितो भृशम् ॥ ४६ ॥ चण्डमाकार्य मातङ्गमादिदेशाऽथ भूपतिः । अरे ! ग्रामाद् बहिर्वाहक्रीडया स्तः कुमारको ॥ ४७ ।। तत्रात्मपरिवारेण सह गत्वा तयोर्दुतम् । शीर्षे छित्त्वा समानीय दर्शयेर्मम कर्मठ !॥ ४८ ॥ अचिन्तयच्च मातङ्गः किमिदं हन्त ! वैशसम् ? । यदेवंगुणिनोभक्तिशालिनोः कुपितः पिता ॥ ४९ ॥ अस्तु सर्व भविष्येऽस्याऽधुना कालोचितं ब्रुवे । देव ! प्रमाणमादेश इत्युक्त्वाऽगात् तदन्तिके ॥ ५० ॥ रुदंश्च कथयामास तत्स्वरूपं कुमारयोः । ताभ्यां चाऽभाणि भोः ! शीघ्रं कुरु तातसमीहितम् ॥५१॥ गरीयान् कश्चिदावाभ्यामपराधः कृतो ध्रुवम् । अन्यथा कथमत्युग्रमिदं भणति नः पिता ? ॥ ५२ ॥ ततो भूयो निषादेन प्रार्थितौ तौ सगद्गदम् । प्रसद्य मयि वेगेन यातं देशान्तरं युवाम् ॥ ५३ ॥ कुमारावूचतुस्त्वं भोः ! सकुटुम्बो हनिष्यसे । अस्मत्कृते नरेन्द्रेण न कुर्मस्तदिदं वयम् ॥ ५४ ॥ खं रक्षिष्याम्युपायेन विलम्बेथां तु मा युवाम् । तेनेत्युक्तौ च तौ पादचारेणैकां दिशं गतौ ॥ ५५ ॥ १ अदन्तोऽयं भविष्यत्कालवाचकः । Page #396 -------------------------------------------------------------------------- ________________ ३८४ श्रीपार्श्वनाथचरितेआदायाऽश्वौ निषादोऽपि शीर्षे काराप्य मृण्मये । चित्रेण जाततद्रूपे सायं सज्ञः पुरो गतः ॥ ५६ ॥ समर्प्य तुरगौ द्वारे दर्शयित्वा च मस्तके । स जगाद नृपादेशः कृतोऽयमवधार्यताम् ॥ ५७ ।। नृपोऽप्याह बहियामादिमे गर्ताऽऽहिते कुरु । आदेश इति विज्ञप्य मातङ्गो गतवांस्ततः ॥ ५८ ॥ तुष्टा राज्ञी च सा दुष्टा, हृष्टाः कण्टकिनो यतः। परतापेन जायन्ते ग्रीष्मेणेव यवासकाः ॥ ५९॥ राजपुत्रौ च तो यान्तावविच्छिन्नप्रयाणकैः । क्रमेण तत्र संप्राप्तौ यत्रैकाऽस्ति महाटवी ॥ ६० ॥ विविधप्रोल्लसत्सान्द्रद्रुमच्छायाऽन्धकारिते । यत्र क्षिपति शूरोऽपि भियेव न करं वने ॥ ६१ ।। एकतः शाल-हिन्ताल-प्रियाल-सरला-ऽर्जुनाः ।। अन्यतो नाग-पुन्नाग-लवङ्गा-गुरु-चन्दनाः ॥ ६२ ॥ कचिच्चिश्चा-ऽऽम्र-जम्बीर-कपित्था-ऽश्वत्थ-जम्बवः । कचिद् बकुल-कङ्कोल-पाटला-ऽशोक-चम्पकाः ॥ ६३ ॥. कचिद् न्यग्रोध-मन्दार-पिचुमन्द-हरीतकाः। कर्णिकार-काश्चनार-कृतमाल-धवा-ऽञ्जनाः॥६४॥ कचित ताल-नक्तमाल-तमाल-मदनाशनाः। लकुचा-ऽङ्कल्लबिल्वाद्या विचित्रा यत्र शाखिनः ॥ ६५ ।। कर्तुं पुष्पफलाऽऽतिथ्यं यत्र वातेरिता द्रुमाः। .. पथिकानाहयन्तीव सुताम्रकरपल्लवैः ॥ ६६ ॥ शाखाऽऽकर्षणभङ्गाद्यं जनाद् दुःखं सहिष्णवः। : व्यञ्जयन्ति कुलीनत्वं यत्र सर्वसहारुहाँः ॥ ६७॥ यत्रेभ-महिष व्याघ्र-चित्रकादिभयाज्जनान् । रक्षन्तीव महावृक्षाः शाखोर्वीकृतबाहुभिः ॥ ६८ ॥ १ वृक्षविशेष । २ भानुर्वीरश्च । ३ वृक्षाः । Page #397 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३८५ अथ तौ स्वजनस्येव समग्रगुणशालिनः। विशश्रमतुराम्रस्य तले संतापहारिणि ॥ ६९ ॥ सत्फलैः सहकारस्याऽमलैगिरिनदीजलैः। पितृमातृसुखं ताभ्यां प्रापि तत्रापि धर्मतः ॥ ७० ॥ तयोस्तत्रस्थयोर्भानुरस्तमाप गलद्युतिः । दिनान्ते का कथाऽन्यस्य शूरस्याऽपीदृशी दशा ? ॥७१॥ मन्दतेजा बजनीचैः करदण्डोपलक्षितः। वृद्धत्वेन ध्रुवं सूर्योऽप्यासन्त्रास्तो विडम्ब्यते ॥ ७२ ॥ सन्ध्याऽपि पक्षिणां रावैः ऋन्दित्वेनाऽत्यये क्षणात् । रक्ताऽम्बरवती सद्यो ममज्जेवाऽपराऽम्बुधौ ॥ ७३ ॥ कृता पद्मापणश्रेणिरनुद्धाटा सरोवरैः । मित्रनाशे यतो दुःखं जायते विमलात्मनाम् ॥ ७४ ॥ छिद्रेक्षिभिरिवाऽऽक्रान्तमकस्मात् तारकैर्नभः । येन दोषोदये क्षुद्राः प्रकटाः स्युः कुतोऽपि हि ॥ ७५ ॥ गते तमोरिपावस्तमभितः प्रसरत् तमः । सर्वमेव समीचक्रे निर्विवेक इव प्रभुः ॥ ७६ ॥ आकाशफलके ध्वान्तमषीलेपिन्युडुच्छलात् ।। कालो बाल इवाऽद्यापि लिखत्यक्षरमालिकाम् ॥ ७७ ॥ अथैतत् समयेऽपृच्छद् वरसेनः सहोदरम् । किं किश्चिज् ज्ञायते भ्रातः ! तातरोषस्य कारणम् ? ॥७८॥ ज्येष्ठोऽवादीन्न जानामि वत्स ! किश्चित् तथाविधम् । इङ्गितैः किन्त्विदं मन्येऽपरमातुविजृम्भितम् ॥ ७९ ॥ लघुर्बभाण तातोऽपि प्रत्येति किमलीकके ? । सोऽप्यूचे वत्स ! मुग्धस्त्वं महिला कूटमन्दिरम् ॥ ८॥ अलीकमपि जल्पन्ति तथैव कथमप्यमूः। मन्यन्ते सत्यमेवेति यथा रागान्धबुदयः ॥ ८१ ॥ १ इनः सूर्यः । २ रजन्युदयेऽपि । Page #398 -------------------------------------------------------------------------- ________________ ३८६ श्रीपार्श्वनाथचरितेगङ्गाया वालुकां वार्जलं मानं महागिरेः। । मतिमन्तो विजानन्ति महिलाया मनस्तु न ॥ ८२ ॥ अथवा किमनेनैषा जाताऽतीवोपकारिणी। . तयैव दर्शिताऽस्माकं सकलेयं मही यतः॥ ८३ ॥ धन्या गुणार्थिनो येषां दोषेऽपि हि गुणग्रहः। पश्यन्ति तु सदाभ्यासाद् दुष्टा दोषं गुणेष्वपि ॥ ८४ ॥ तत्तद्वार्ताः प्रकुर्वाणोऽमरसेनोऽथ निद्रया। दुःखितोऽयं महात्मेति सुखं कर्तुमिवाऽऽश्रितः ॥ ८५॥ वरसेनः पुनः कुर्वन् वाम-दक्षिणवीक्षणम् । नास्त्येव जाग्रतो भीतिमत्वेत्यवहितः स्थितः ॥ ८६ ॥ अत्रान्तरे कीर एकस्तत्राम्रविटपे स्थितः। कृपयाऽऽमनाः स्पष्टं भणति स्म निजां प्रियाम् ॥ ८७ ॥ अये ! योग्याविमौ कौचित् स्वागतस्य नरावुभौ । किन्तु नो विद्यते किञ्चिदनयोरुपयोगि यत् ॥ ८८ ॥ कान्तया भणितं नाथ ! मैवं वद सदाशय !। सुकूटपर्वते यस्मादतिगूडैकगहरे ॥ ८९॥ रोपितौ निजविद्याऽभिषिक्तबीजी नभश्चरैः। सहकारावधाऽस्माकं शृण्वतां कथितं च तैः ॥ ९०॥ तयोर्माहात्म्यमन्योऽन्यं यथैकस्य तरोः फलम् । यो भक्षयति तस्येह राज्यं स्यात् सप्तमे दिने ॥ ९१ ॥. द्वितीयस्य फलं यस्योदरे तिष्ठति तन्मुखात् । प्रातः पतति गण्डूष दीनारशतपञ्चकम् ॥ ९२ ॥ भण्यमानं च तत् कान्त ! त्वयाऽप्याकर्णितं ततः। - आनीय फलमेकैकं तदीयं दीयतेऽनयोः ॥ ९३ ॥ धन्यस्त्वं जीवितं श्लाघ्यं तव यस्येदृशी स्पृहा । परस्योपकृति कर्तुं दुर्लभोऽवसरो यतः ॥ ९४ ॥ १ सावधानः । Page #399 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । : 1 त एव दिवसाः श्लाध्या यत्रोपक्रियते परे । शेषास्तु दयित ! ज्ञेया ध्रुवं द्यूतेन हारिताः ।। ९५ ।। नतिरेवोन्नतिलके दानमेव महाधनम् । परार्थ एव हि स्वार्थो महतां येन कथ्यते ॥ ९६ ॥ आदित्याय नमः सृष्टं, मेघाय ग्रीष्मशोषणम् । मार्गश्रमस्तु वृक्षाय, दुःखिनस्तूपकारिणे ॥ ९७ ॥ अन्यथा कथमेतेषां ज्ञायते महिमा महान् । aaat भवतो भाग्यादायातौ मा विलम्ब्यताम् ॥ ९८ ॥ कीरोऽप्याह प्रिये ! युक्तं स्मारितं मे त्वयाऽधुना । इत्युदित्वा झगित्येव सुकूटाद्रिं गताविमौ ॥ ९९॥ वरसेनस्तदश्रौषीत् सर्वं यावत् क्षणार्धतः । सहकारफले भूमावीक्षिते पतिते पुरः ।। १०० ॥ ज्ञात्वा तद्वचनाद् भेदं गृहीत्वा ते न्यधात् कटौ । दध्यौ च किमिदं सत्यमासन्नप्रत्ययोऽथषा ।। १०१ ।। अथ ज्येष्ठो जागरित्वा बन्धुमहरके स्थितः । वरसेनः क्षणं तत्र निद्रायाः सुखमन्वभूत् ।। १०२ ॥ सूरोदधे ततः स्थानात् पुरतः प्रस्थितावुभौ । आसाद्यैकं सरस्तत्र देहशौचादि चक्रतुः ॥ १०३ ॥ तत्त्वं चाऽकथयन्नाम्रफलं, राज्यकरं ददौ । ज्येष्ठभ्रातुः, स्वयं प्राश वरसेनोऽपरं पुनः ।। १०४ ॥ प्रच्छन्नीभूय गण्डूषं यावत् तत्र करोत्यसौ । पतति स्म पुरस्तावद् दीनारशतपञ्चकम् ।। १०५ ॥ वस्त्र- भोजन ताम्बूलादिना प्रतिपुरं ततः । कुमारो विलसत्युच्चैः सह ज्येष्ठेन बन्धुना ॥ १०६ ॥ तेनाऽयमन्यदा पृष्टः कुतो द्रव्यं तवेति सः । ऊचे कौटुम्बिकैर्दान्यासुवर्ण मे प्रवेशितम् ॥ भाण्डागारे तदद्यापि नाऽऽसीदर्पितमित्यदः । १०७ ॥ ३८७ 3 Page #400 -------------------------------------------------------------------------- ________________ ३८८ श्रीपार्श्वनाथचरितेक्रमाच सप्तमदिने तौ काश्चनपुरं गतौ ॥ १०८ ॥ तत्रैकस्य तरोर्मूले सुध्वाप बहिरग्रजः । श्रान्तानामलसानां च निद्रा हि सुलभागमा ॥ १०९ ॥ पुरान्तर्भोजनाद्यर्थ वरसेनः पुनर्ययौ । तमिश्च समये तत्र पुरे राजा मृतोऽसुतः ॥ ११० ॥ ततो हस्त्य-ऽश्व-कलश-च्छत्र-चामरलक्षणम् । बम्भ्रमीति पुरे देवाऽधिष्ठितं वस्तुपञ्चकम् ॥ १११ ॥ नरं राज्यधरं कश्चित् तेनाऽन्वेषयता बहिः। गत्वा सोऽमरसेनाख्यः कुमारः सहसाऽऽश्रितः ।। ११२॥ आरूढोऽथ गजस्कन्धं दिव्यवेषधरो नृपः। प्रणम्य मन्त्रि-सामन्त-नागरैरभिनन्दितः ॥ ११३ ॥ उपरिष्टाद् धृतच्छत्रः श्वेतचामरवीजितः। पुरः कौतुकिभिर्लोकैः कृतसङ्गीतमङ्गलः ॥ ११४ ॥ शृण्वन् जयजयारावं जनादीक्षितुमागतात् । पुरे प्रविश्य शोभाट्ये नीत्या राज्यं करोति सः ॥ ११५।। (विशेषकम् ) वरसेनोऽपि तां शुद्धि लब्ध्वा मानधनोऽधिकम् । दध्यौ किं याम्यहं तत्र सकाशे भ्रातुरात्मनः १ ॥ ११६॥ अथवा धिगिदं चित्तं यदेषोऽभूद् नृपो नवः । गत्वाऽहमपि किं तत्र तद् वक्ष्ये दीनमीदृशम् ॥ ११७ ॥ तवाऽहं सोदरस्तेन देशग्रामादि किश्चन । ममापि दीयतामित्थं युगान्तेऽपि न वच्म्यहम् ॥११८॥ दिवसो रजनी वापि क्षयं यातावुभाविमौ । व्यवसायं परित्यज्य परीस्यं यत्र वीक्ष्यते ॥ ११९ ॥ पौरुषाकृतियुक्तस्य नीचवृत्तौ कुतो रतिः । मत्तेभकुम्भनिर्भेदी केसरी तृणमत्ति किम् ? ॥ १२० ॥ १ परमुखम् । Page #401 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३८९ यतन्ते हि धने नीचा निजदेहे तु मध्यमाः। उत्तमास्तेजसि न्याय्ये भुवनव्यापिनि ध्रुवे ॥ १२१ ॥ दीनमुक्त्वा परं नत्वा लल्ली कृत्वा यदय॑ते । । जीव्यते ननु किं तेन युगानि दश पञ्च वा ? ॥ १२२ ॥ यच्चापकर्षणे वामबाहुं निजमपीक्षते । सहायं दक्षिणो बाहुर्वीरस्तेनापि लज्जते ।। १२३ ॥ यत्करौ योजयेल्लोकांस्तद्वरं शलिकातृणम् । नरोऽपि न स योऽन्यस्य पुरतः कुरुतेऽञ्जलिम् ॥१२४॥ ये प्रणामाञ्जलिं नीचैः कुर्वन्ति कृपणाः प्रभोः। ते श्रियः प्रियपद्मायाः दर्शयन्तेऽम्बुजं ध्रुवम् ॥ १२५ ॥ चिन्तयित्वेति तत्रैव धनेन विलसत्यसौ। गृहे च वसति प्रौढमगधाख्यपणश्रियः ॥ १२६ ॥ भृशमेष नृपेणाऽथ नगरेऽन्वेषितः परम् । नैव दृष्टस्ततो राजा व्यग्रोऽभूद् राज्यचिन्तया ॥ १२७ ॥ नव्यर्द्धिसङ्गमे सद्यस्तन्मयीभूतचेतसः । सर्व हि पूर्वसम्बन्धि याति प्रायेण विस्मृतिम् ॥ १२८ ॥ । खेच्छया वरसेनोऽपि त्याग-भोगपरायणः । गीत-छूते-टगोष्ठ्यादिविनोदैन॑यते दिनान् ।। १२९ ॥ अन्यदा कुट्टिनी प्रोचे मगधां पुत्रि ! ते प्रियः । महादानेश्वरो भोगी नाऽन्यः कोऽपि भुवीदृशः ॥ १३० ॥ राजसेवादिकं किश्चिन्न करोति कदाऽप्यसौ । भूयानर्थव्ययश्चैष पृच्छयतां कारणं ततः ॥ १३१ ॥ मगधाऽप्याह हे ! मातः ! प्रश्नेनाऽनेन किं वृथा । तद् भूरि पूरयत्येष वित्तं कार्य हि येन वः ॥ १३२ ।। अत्याग्रहेण चाँऽकायाः प्रेरिता मगधाऽन्यदा । पप्रच्छ वरसेनं ते कुतो देव ! धनागमः ? ॥ १३३ ॥ १ चाटूनि । २ पणश्रीर्वेश्या । ३ अक्का माता । Page #402 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेसहकारफलस्याऽस्यै प्रभावं सोऽप्यचीकथत् । । प्रायः प्राञ्जलचित्तानामकथ्यं नास्ति किञ्चन ॥ १३४॥ तज् ज्ञात्वा कुट्टिनी चूतफलस्याऽऽशु जिघृक्षया । संयोजितसुरादानाद् वमनं तमकारयत् ।। १३५ ।। धृत्वा तद् भाजने मध्याद् गृहीत्वाऽऽम्रफलं तया । . भक्षितं लुब्धया किन्तु वृथाऽभूत तन्मुखे गतम् ॥१३६॥ देवीपूजां करिष्यामो देवाऽद्य तद् बहिस्त्वया । स्थेयमित्यधनत्वात् स मिषेण प्रेषितो गृहात ।। १३७ ।। सत्कृता बहुधाऽप्यत्र सक्रियन्ते यदापि न । तदाऽपि विक्रियां यान्ति खल-देह-पणश्रियः ॥१३८॥ पराभूत इव स्वान्ते वीक्ष्य तासामनादरम् । दध्याविति किमेताभिः सर्व द्रव्येण मे जगत् ? ॥ १३९ ॥ स द्वितीयदिने यावद् गण्डूषं कुरुते मुखात् । तावनिष्ठीवनं मुक्त्वा नाऽन्यत् पतति किश्चन ॥ १४० ॥ ततोऽत्याकुलितश्चित्ते चिन्तयामास राजसूः । अस्मादशामिति स्तोकं रागान्धलधियामिदम् ।। १४१ ॥ एवमेव दिनं नीत्वा विलक्षवदनो भ्रमन् । सन्ध्यायां शून्यभावेन निर्गतो नगराद् बहिः ।। १४२ ॥ प्रतोली पिहिता तावत् ततस्तत्रैव शर्वरीम् । सन्निधाने श्मशानस्य शून्यदेवकुलेऽवसत् ।। १४३ ॥ यत्र कुर्वन्ति घूत्कारं घूकाः फेत्कुर्वते शिवाः । भ्रमन्ति श्वापदा विष्वक् क्रन्दन्ति मृगधूर्तकाः ॥ १४४ ॥ राक्षसास्तन्वते क्षोभं प्रेताः किलकिलायितम् । अट्टहासं तु वेताला रौद्रोद्योतं विभीषिकाः ॥ १४५ ॥ यदेवंविधरूपेण यमस्याऽपि भयङ्करम् । तत्रापि निर्भयः सोऽस्थात् किं वजं भिद्यते धनैः १ ॥ १ अन्धलोऽन्धः । Page #403 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३९.१ अथो निशीथसमये चौराश्चत्वार आगताः । सुष्टुवस्तुकृते तेऽपि विवदन्ते परस्परम् ॥ १४७ ॥ कुमारेण कृतां चौरसंज्ञां विज्ञाय तस्करैः। चौरोऽयमित्यथाऽऽहूय पुरस्तादुपवेशितः ॥ १४८ ॥ कुमारः स्माऽऽह भो यूयं कथं युध्यत बान्धवाः ! ? | दस्युभिः कथितं मित्र ! विवादे कारणं शृणु ॥ १४९ ॥ पादुके लकुटः कन्था मोषवस्तुत्रयं, वयम् । चत्वारस्तेन नो कर्तुं विभागोऽमुष्य शक्यते ॥ १५० ॥ कुमारोऽप्याह को वादः कृतेऽस्याऽसारवस्तुनः । तैरूचे मुग्ध ! नो वेत्सि महिमामस्य तत्त्वतः॥ १५१ ॥ कथ्यतां यदि कथ्यं स्यात् कुमारेणेति भाषिते । एकीभूय स्म ते प्राहुर्ययेवं तन्निशम्यताम् ।। १५२ ॥ अत्र प्रेतवने सिद्धेनैकेनाऽऽराध्य तोषिता । षभिर्मासैमहाविद्या वस्तून्येतानि सा ददौ ॥ १५३ ॥ हेरयित्वा च षण्मासान् सिद्धं व्यापाद्य संप्रति । वस्तून्यादाय संप्राप्ता अत्र देवकुले वयम् ॥ १५४ ॥ अस्याः प्रस्फोव्यमानायाः कन्थाया दिवसोदये। शतानि पञ्च रत्नानां पतन्ति प्रतिवासरम् ।। १५५ ॥ शस्त्रं तु लकुटेनोचैर्धाम्यमाणेन नो लगेत् । पादुके पादयोय॑स्य गम्यते चिन्तिताऽऽस्पदम् ॥ १५६॥ तत् श्रुत्वा हृदये तुष्टः कुमारः स्माऽऽह, नाऽधृतिः। कार्या निर्धारयिष्यामि विवादमधुनैव वः ॥ १५७ ॥ चतसृषु क्षणं दिक्षु गत्वा दूरेऽवतिष्ठत । विचार्याऽऽकारयिष्येऽहमागच्छेत तदा द्रुतम् ॥ १५८ ॥ तैस्तथा विहिते कन्यां स स्कन्धे लकुटं करे। पादुके पादयोन्य॑स्योत्पत्याऽन्तनगरं ययौ ।। १५९ ॥ विलक्षवदनाचौरा ययुर्निजनिजाऽऽस्पदम् । Page #404 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते पुनर्भाग्यवतां संपद्, विपदायाति पापिनाम् ॥ १६० ॥ वरसेनोऽथ मित्रस्यैकस्य विश्वाससद्मनः । गृहे संगोप्य वस्तूनि स्वयं भ्रमति लीलया || १६१ ।। कन्थामस्फोटनोद्भूतरत्नानां पञ्चभिः शतैः । दिव्य वस्त्रादिसामग्रीं कृत्वा चेटैः समन्वितः ।। १६२ ।। गीतसूक्तादिलीनात्मा प्रशस्ये देवमन्दिरे | उपविष्टः सुखेनाsस्ते दोगुन्दुग इवामरः ।। १६३ ॥ ( युग्मम् ) अथ तत् तादृशं तस्य स्वरूपं चेटिकामुखात् । निशम्य धनमादातुमुत्सुकाऽतीव कुट्टिनी ।। १६४ ॥ कारयित्वा सितं वेषं वेणीबन्धं च पुत्रिकाम् । मगधाख्यां कुमारस्याऽन्तिकं गत्वेदमब्रवीत् ॥ १६५ ॥ ( युग्मम् ) अत्यासङ्गवशाद् वत्स ! तदा त्वं प्रहितो बहिः तत्रैवाऽवस्थितः कस्माद् नागतो निजमन्दिरम् ॥ १६६॥ तद्दिनान्मगधा रुष्टा न मया सह जल्पति । जीवत्यपि महाकष्टं श्वेतवेषाद्यवस्थया ।। १६७ ॥ त्वदेकजीविता सैवं त्वमेवंविधलीलया । ३९२ " वर्तसे कथितं कथ्यं मया, कुरु कुलोचितम् ॥ १६८ ॥ इति मायावचस्तस्याः श्रुत्वा दध्यौ नृषाङ्गजः । रण्डया मण्डितं कूटमिदं भूयो ममोपरि ।। १६९ ॥ किन्त्विदानीं भलिष्येऽहमपि नत्वा ततोऽवदत् । मातर्युक्तमिदं सर्वं घटते दुहितुस्तव ।। १७० । किं करोम्यधुना शीघ्रं निरोपं देहि सा जगौ । गृहमागम्यतां सोऽपि तथैवाऽस्या गृहे स्थितः ।। १७१ ।। पुनर्वित्तागमने प्रेरिता मगधाऽभ्यधात् । अतिलुब्धासि हे ! पापे ! पृच्छ त्वं स्वयमेव तम् ॥ १७२ ॥ Page #405 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३९३ वृद्धयाऽथ स्वयं पृष्टो व्याजहार नृपाङ्गजः ।। अप्रकाश्यमिदं किन्तु कथ्यतेऽम्ब ! तवाग्रतः ॥ १७३ ॥ विद्ययाऽधिष्ठितं दिव्यमस्ति मे पादुकाद्वयम् । तदारूढः खमुत्पत्य वाञ्छितार्थ समानये ॥ १७४ ॥ पापा श्रुत्वेति सा दध्यौ तावनाऽद्यापि किश्चन । यावच्चटति नो हस्ते ममेदं पादुकाद्वयम् ॥ १७५ ॥ अन्येार्मायया मन्दीभूय सा जीर्णमञ्चके । पतिता कुरुते शूलपीडितेवाऽतिकूजितम् ॥ १७६ ॥ पृष्टा वृद्धा कुमारेण मान्यहेतुमुवाच सा । तव किं कथ्यते वत्स ! निजाङ्गेनैव सह्यते ॥ १७७ ॥ मया हि कथिते दुःखे स्वच्छप्रकृतिवत् तथा । तवाऽपि प्रतिबिम्ब्येत मौनमेव ततो वरम् ॥ १७८ ॥ निर्बन्धेन पुनः पृष्टाऽनिच्छन्तीव जगाद सा । श्रूयतां तर्हि हे ! वत्स ! परदुःखेन दुःखिता ॥ १७९ ॥ तदा त्वयि गते दुःखादौपयाचितकं मया । विदधे कामदेवस्य वार्धिमध्यगतौकसः ॥ १८० ॥ दुष्करं तच्च तेनादौ तवाग्रे न प्रकाशितम् ।। क्षिपामि जलधौ पापामिति संचिन्त्य सोऽवदत् ॥१८१॥ नाहि मे दुष्करं शीघ्रं चल्यतामिति तद्गिरा । सद्यः सज्जतरीभूता साधु साध्विति भाषिणी ॥ १८२॥ स्कन्धमारोप्य तां हृष्टः पादयोः क्षिप्तपादुकः । उत्पत्य सहसाऽम्भोधिमध्यदेवकुलेऽपतत् ॥ १८३ ॥ अथोचे कुट्टिनी वत्स ! त्वमादौ काममर्चय । इत्यसौ पादुके मुक्त्वा बहिर्मध्ये प्रविष्टवान् ॥ १८४ ॥ गृहीत्वा तत् तु सा शीघ्रं स्वस्थानं कुट्टिनी ययौ । वरसेनोऽपि तज् ज्ञात्वा दुःखित्तो हृयचिन्तयत् ॥ १८५॥ धृर्तोऽपि वश्चितोऽस्म्येष करोमि किमु सम्प्रति । Page #406 -------------------------------------------------------------------------- ________________ ३९४ श्रीपार्श्वनाथचरितेअन्यथा चिन्तितं कार्य दैवतो जायतेऽन्यथा ॥ १८६ ॥ भ्रमन्तमिति तं गच्छन्नुपर्येको नभश्वरः । विलोक्य निकटीभूय सदयः पृष्टवानिदम् ॥ १८७॥ कस्त्वं भोः ! कथमत्राऽऽगाः कुमारोऽपि यथातथम् ? । आचख्यौ खचरोऽप्येनं धीरयामास दुःखितम् ॥१८८।। यावदायामि गत्वाऽग्रे मासाधू तावदत्र भोः !। स्थातव्यं ते ततः स्थानं नेष्यामि त्वां समीहितम् ॥१८९॥ देवतां पूजयेरस्यायतनस्य च पृष्ठतः । अस्ति सर्वर्तुकोद्यानं क्रीडार्थ निर्मितं सुरैः ॥ १९०॥ तत्र गच्छेविनोदाथै किन्तु चैत्यपुरस्तरू । तिष्ठतो यौ तदासन्नमपि गम्यं त्वया नहि ॥ १९१ ॥ प्रतिपन्नं कुमारेण मोदकादि च शम्बलम् । दत्त्वा विद्याधरोऽप्यस्मै जगामाकाशमण्डलीम् ।।१९२।। अर्चन् कामं कुमारस्तु कौतुकाद् द्रष्टुमन्यदा । तदुद्यानं गतस्तावत् तत्रैकत्र प्रवर्तते ॥ १९३॥ वसन्तसमयश्चूतमञ्जरीपुञ्जपिञ्जरः । कोकिलाकण्ठनिर्यातपञ्चमोद्गारबन्धुरः ॥ १९४ ॥ प्रफुल्लमल्लिकामोदमेदुरः स्मितचम्पकः। उद्भिद्यमानकिसलो विकसनवमालिकः ॥ १९५॥ (विशेषकम्) एकतो जयति ग्रीष्मः पाटला-बकुलाश्चितः। जनिताऽम्भोऽवगाहेच्छदीर्घिकासुभगीकृतः १९६॥ एकतः केकिकेकाट्यो विकसज्जातियूथिकः । कदम्बकेतकोद्भेदसुन्दरः प्राडागमः ॥ १९७ ॥ एकतः कमलोल्लासी स्वस्थीकृतसरोवरः। रम्यहंसरवः सप्तच्छदोन्मेषी शरत्क्षणः ॥ १९८ ।। हेमन्त ऋतुरेकत्र यत्र पत्रेऽपि सौरभम् । Page #407 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३९५ धत्ते मरुबकः कुन्द-मचकुन्दादि चाऽर्हति ॥ १९९ ॥ एकतः शिशिरो यत्र करणी-शतपत्रिकाः। श्रव्यभ्रमरझङ्काराः सौभाग्यं दधतेऽद्भुतम् ॥ २००॥ तत्राऽसौ कुसुमामोदैर्दाधिकाऽम्भोऽवगाहनैः। सत्फलप्राशनैः प्रीतो गमयामास वासरान् ॥ २०१॥ प्रायो वारितवामत्वाजनस्य दिवसेऽन्यदा । पुष्पं निषिद्धवृक्षस्य जिघ्रति स्म स राजसः ।। २०२॥ अथैष सहसादेव गरीयान् रासभोऽजनि । भूत्कुर्वन्नीक्षितः पक्षायातेन खचरेण च ॥ २०३ ॥ बहु निर्भय॑ सोऽन्यस्याऽऽघ्रापितः कुसुमं तरोः । भूयो मर्त्यत्वमासाद्य क्षमयामास खेचरम् ॥ २०४॥ अतीव महदाश्चर्य किमेतदिति शंस मे। कृत्यं चादिश तेनेति प्रेरितः खेचरोऽब्रवीत् ॥ २०५ ॥ विद्यया खरमानब्याऽऽवासितौ कारणादिमौ । मया वृक्षौ पुनश्चात्र भवता पञ्च वासरान् ॥२०६॥ स्थातव्यमिति संभाष्य खेचरः पुनरप्यगात् । बरसेनस्तु तवृक्षपुष्पे द्वे अपि सोऽग्रहीत् ॥ २०७॥ पञ्चमे च दिनेऽभ्येत्य नीतो विद्याधरेण सः। काश्चनाख्यं पुरं तत्र तथैव विलसत्यलम् ॥ २०८॥ अक्का च तं पुनर्वीक्ष्य विस्मिता चकिता भृशम् । जानु-कूपरयोः पट्टान बद्ध्वा तस्याऽन्तिकं ययौ ॥२०९॥ स गाढाऽमर्षयुक्तोऽपि विहिताकारसंवरः । जगाद किमिदं मातः ! सा रुदतीदमब्रवीत् ॥२१०॥ त्वं ज्ञास्यसि कथं वत्स ! त्वनिमित्तमिदं मया । सर्वमासादितं किं वा सर्व भव्यं तवाऽऽगमात् ? ॥२१॥ स्वरूपं कथ्यते किन्तु कामस्य भवने यदा । पूजां कर्तुं प्रविष्टोऽसि तदा विद्याधरो बहिः ॥ २१२ ॥ Page #408 -------------------------------------------------------------------------- ________________ ३९६ श्री पार्श्वनाथचरिते कोsपि दुष्टः समागत्य गृहीत्वा तत्र पादुके । प्रस्थितोऽहं च तस्याशु विलग्ना निविडग्रहम् ॥ २१३|| दैवादत्राऽऽगतेनाऽहं तेनोल्लाल्य प्रपातिता । अङ्गोपाङ्गानि भग्नानि पश्य कस्येह कथ्यते ।। २१४ ॥ इत्युक्त्वा गृहमानीतः स गृहीत्वा तया भुजे । पृष्टश्च ते कुतो वित्तं कथं चात्र समागमः ? ।। २१५ ।। तत्राssराद्धो मया कामस्तेन तोषाद् धनं बहु | दत्त्वाऽऽनीतोऽहमत्रेति तेनोक्ते सा पुनर्जगौ ॥ २१६ ॥ तेनाsन्यदपि ते दत्तं विशिष्टं वस्तु किञ्चन । स ऊचे दत्तमाश्चर्यकारकं दिव्यमौषधम् ।। २१७ ॥ येनाऽऽघातेन सद्यः स्यात् सुदृद्धस्याऽपि यौवनम् | अथोत्सुकमनाः साऽभूत् वार्तयाऽपि तया भृशम् ॥२१८॥ आख्यच्च वत्स ! यद्येवं तन्नवं कुरु मे वपुः । यतस्ते किमु कोऽप्यस्ति गौरव्यो भुवि मां विना १ ॥ २१९ ॥ कुमारोऽभिदधे सर्व करिष्ये सुन्दरं यतः । युष्मनिमित्तमेवेदं मयाऽऽनीतमिहौषधम् ॥ २२० ॥ आनीय लकुटं कन्यामथासौ कुसुमं दधौ । तस्या नासाग्रतः सा च रासभी सहसाऽभवत् ।। २२१ ।। कन्यामारोप्य तत्पृष्ठे चटितो लकुटं करे । धृत्वा तां कुट्टयंस्तेन पुरमध्येन निर्ययौ ॥ २२२ ॥ सुन्दरं कृतमेतेन यदस्या अतिलोभजम् । दर्शित फलमित्युक्त्वा मगधा स्वगृहे स्थिता ।। २२३ ॥ शेषस्तु गणिकावर्गः पूत्कुर्वन् नृपमन्दिरे । गत्वा न्यवेदयन्नाथ ! विप्लवो वर्तते महान् ॥ २२४ ॥ यदद्य धूर्तेनैकेन कुतोऽप्यौषधयोगतः । अस्मत्कुटुम्बवृद्धा स्त्री सहसा रासभी कृता ।। २२५ ॥ राज्ञाऽपि हसितं पूर्व वेश्या कस्य न हास्यभू: ? । Page #409 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ३९७ ततः शीघ्रं तलारक्षः प्रेषितोऽगात तदन्तिके ॥२२६॥ अरेऽस्माकं पुरे कर्तुं लभ्यते नाऽसमञ्जसम् । तेनेत्युक्तो कुमारोऽपि कुपितो गाढमब्रवीत् ॥ २२७ ।। रे ! यस्य बलमत्राऽस्ति गत्वा तस्याशु कथ्यताम् । ततो रुष्टस्तलारक्षः प्रजहार शरादिभिः ॥ २२८ ।। भल्ली-वावल्लशल्यानां वरसेनः शतानपि । लकुटेनैव चिक्षेप योगी ध्यानेन दोषवत् ॥ २२९ ॥ स भूपपहितानेकभटक्षिप्तशरबजे । परितस्थे बभौ कामं परिवेष इवार्यमा ॥ २३० ॥ यो यस्तीव्रतराटोपो युद्धाय तमुपस्थितः । अपवाद इवोत्सर्ग तं तमेष निषिद्धवान् ।। २३१ ।। अन्येऽपि मन्त्रि-सामन्ता नाकामंस्तं कथञ्चन । दण्डेन भ्राम्यता जातचक्रभ्रमभयादिव ।। २३२ ॥ कौतुकादथ भूपालस्तत्रागात् सपरिच्छदः । प्रवेशोऽस्ति तिलस्याऽपि न यत्र प्रेक्षकैर्जनः ॥२३३ ॥ नृपं दृष्ट्वा विशेषेण लकुटं भ्रमयंस्तथा । स खरी ताडयामास रारटीति स्म सा यथा ।। २३४॥ तदा लोकोऽब्रवीदेवं अहो ! साम्यं बलद्वये । राजैकत्रेभमारूढः खरीमेको नरोऽन्यतः ।। २३५ ।। संमुखं च चलनेष पार्थिवेनोपलक्षितः। गजाच्च सहसोत्तीर्याऽऽलिङ्गितः स्नेहनिर्भरम् ।। २३६ ॥ कुमारेणोदितं भ्रातः ! प्रतीक्षस्व क्षणं यथा । कौतुकं पूरये बाह्वोः खरीमाहत्य कर्कशम् ॥ २३७ ॥ बभाष भूपतिर्वत्स ! किमेतदिति सोऽपि तम् । वृत्तान्तं कथयित्वा तां पथि स्थाणावबन्धयत् ॥ २३८ ॥ स्वयं च द्विरदारूढः समं राज्ञाऽविशत् पुरम् । . १ मण्डले। २ कीलके। Page #410 -------------------------------------------------------------------------- ________________ ३९८ श्रीपार्श्वनाथचरितेअथ लोकस्तथा दृष्ट्वा कुट्टिनी पापठीत्यदः ॥ २३९ ॥ अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा कुट्टिनी रासभी भवेत् ॥२४०॥ निर्बन्धाच नृपस्याऽन्यत् पुष्पमाघ्राप्य तां पुनः । कुमारो मानुषीं कृत्वाऽमुश्चदादाय पादुके ॥ २४१ ॥ यौवराज्येऽभिषिक्तोऽथ वरसेनो महीभुजा । तेन युक्तो नृपः शब्दोऽर्थेनेव शुशुभेतराम् ॥ २४२ ॥ तौ महौजःश्रिया राज-युवराजौ विरेजतुः । अवर्तीणौ भुवं स्वर्गादिन्द्रो-पेन्द्राविव स्वयम् ॥ २४३ ।। अथाऽऽनाय्य निजं तत्र भक्त्या जनकमूचतुः। भुक्ष्व राज्यमिदं तात ! कृत्यं चाऽस्माकमादिश ॥२४४॥ त्वत्प्रसादादिदं राज्यं मातरस्माभिरर्जितम् । इत्युक्त्वाऽपरमाताऽपि त्याजिता चित्तकश्मलम् ॥ २४५॥ स मातङ्गोऽपि सर्वत्र स्खजातावधिपः कृतः । भ्रश्यन्ति कथमौचित्यान्महात्मानः कदापि हि ? ॥२४६॥ अन्यदा तो गवाक्षस्थौ वीक्षमाणौ पुरश्रियम् । भ्रमन्तं भिक्षया मार्गे मुनिमेकमपश्यताम् ।। २४७ ।। युगमात्रान्तरे दत्तदृष्टिमव्यग्रमानसम् ।। शनैःकृतपदन्यासं भूमिभारभयादिव ॥ २४८ ॥ (युग्मम्) स्नेहेन नियतं कापि पुराऽपि मुनिरीदृशः। दृष्टोऽस्माकं दृशौ तेन सहर्षमिव धावतः ॥ २४९ ।। ध्यायन्ताविति तौ सद्यो जातजातस्मृती मुनिम् । यथास्थानगतं भूरिविभूत्या वन्दितुं गतौ ॥ २५० ॥ अथ पप्रच्छ तं नत्वा नृपो वद मुनीश्वर !। त्वयि दृष्टे मनोऽस्माकमतीव मुमुदे कथम् ? ॥२५१॥ Page #411 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । मुनीन्द्रोऽपि विशिष्टेनाऽवधिना प्राग्भवं तयोः । ज्ञात्वा तथैव चाख्याय विशेषादिदमब्रवीत् ॥ २५२ ॥ रोपितो यस्त्वया राजन् ! साधुदानमहातरुः । तस्य पुष्पमिदं राज्यं भविताऽतः परं फलम् ॥ २५३ ॥ वरसेनः कपर्दानां पञ्चकैः पञ्चभिः पुनः । क्रीत्वा पुष्पाणि यत् पूजां जिनस्य कृतवान् पुरा ।। २५४ ॥ तत्प्रभावेन संपन्ना लब्धिः पञ्चशतादिका | भोगाश्च विपुला दिव्यरूपादिगुणशालिनः ॥ २५५ ॥ निर्वाहे पुनरत्यन्ताऽनन्तसौख्यविधायिनी । निश्चिता भविता सिद्धिर्युवयोरुभयोरपि ।। २५६ ॥ देवत्व - मनुजत्वेन सुभोगान् भवपञ्चकम् । यावद् भुक्त्वा भवे षष्ठे विदेहे पूर्वदिस्थिते ।। २५७ ॥ उत्पद्य प्राज्यसाम्राज्य सुखं निर्वाह्य निस्तुषम् । तपः कृत्वा च पर्यन्ते युवां सिद्धिं समेष्यथः ॥ २५८ ॥ इति श्रुत्वा मुनेर्वाक्यं बहुलोकः प्रबुद्धवान् | पृष्ट्वा भूयोऽपि तौ जैनधर्मे स्वं चक्रतुर्मुदा ।। २५९ ॥ ततो वाचंयमं नत्वा गत्वा च निजमन्दिरे । सद्धर्मरथधौरेयावभूतां भ्रातरावुभौ ।। २६० ।। कारयित्वा महीं नव्यजिनमन्दिरमण्डिताम् । रथयात्रोत्सवं देवपूजां नवनवर्द्धिभिः ।। २६१ ॥ साधूनां प्रणतिं तेषु प्रतिकूलनिवारणम् । प्रतिग्रामपुरं दानशालां दीनादिहेतवे ।। २६२ ।। धार्मिकाणां च वात्सल्यं लोकं धर्मप्रवर्तितम् । नित्यं विदधतोरेवं निर्व्यूढं जीवितं तयोः ।। २६३ ॥ पर्यन्ते व्रतमादाय ब्रह्मलोकं गतौ ततः । पूर्वाख्यातक्रमात् सिद्धौ विदेहे तावुभावपि ।। २६४ ॥ आख्यातं वरसेनस्य पुष्पार्चाविषयं गतम् । ३९९ Page #412 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेअधुनाऽक्षतपूजायां शुकराजस्य कथ्यते ॥ २६५ ॥ अस्त्यत्र भरतक्षेत्रे विलसत्पुरुषोत्तमम् । नानारामाभिरामं च नगरं श्रीपुराऽभिधम् ॥ २६६ ॥ तत्राऽस्ति बहिरुद्याने नन्दनोद्यानसंनिभे । देवराजविमानाभं युगादिजिनमन्दिरम् ।। २६७ ॥ सर्वसौख्यनिधानेषु स्थानदानाय यत् सदा । चलद्ध्वजाञ्चलव्याजाजनमाह्वयति ध्रुवम् ॥ २६८ ॥ दृढं दण्डमिवाऽऽलम्ब्य यं दूरे दुर्गमामपि । धर्मद्धाः सुखेनैव गच्छन्ति परमां गतिम् ॥ २६९ ॥ एकोऽयमेव सर्वज्ञः स्वामी संसारतारकः । येनाऽऽख्यातुमितीवोर्चाङ्गुलिश्चक्रे ध्वजच्छलात् ॥२७०॥ स्फटिकाङ्गणसंक्रान्तप्रतिबिम्बन तारकाः । यस्मै तारकराजत्वात् प्रणाममिव कुर्वते ॥ २७१ ॥ अन्तर्जिनजुषो यस्माद् ध्वजासितपटोच्छ्रितात् । यानपात्रसमा जीवास्तरन्ति भवसागरम् ॥ २७२ ॥ यस्योज्ज्वलप्रभाजालच्छलेन निशि लक्ष्यते । जिनेन्दोर्बन्धुबुद्ध्येव मिलनायाऽऽगतः शशी ।। २७३ ॥ स्थिता उच्चस्तरे यस्मिन् मन्यन्ते भुवि धार्मिकाः । करग्राह्यमिवाऽमर्त्य भवनं संशयं विना ।। २७४ ॥ पुरतस्तस्य चैत्यस्य सहकारमहाद्रुमे । स्नेहानुविद्धमन्योऽन्यं युग्मं वसति कीरयोः ।। २७५ ॥ अन्यदा भणितो भर्ता कीर्या यन्मेऽस्ति दोहदः । क्षेत्रादानीयतां नाथ ! त्वयैकं शालिशीर्षकम् ॥ २७६ ।। सा तेन भणिता कान्ते ! क्षेत्रं श्रीकान्तभूपतेः । अत्र गृह्णाति यः शीर्ष तस्य शीर्ष ध्रुवं व्रजेत् ।। २७७ ॥ तयोचे प्रिय ! कोऽप्यन्यस्त्वत्तुल्यो नैव कातरः। यः प्रियां प्राणलोभेन म्रियमाणामुपेक्षसे ॥ २७८ ॥ Page #413 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। श्रुत्वेनि लज्जितो बाढं भूत्वा जीवितनिस्पृहः । शालिक्षेत्रे च गत्वाऽयमानिन्ये शालिशीर्षकम् ॥ २७९ ॥ एवं प्रतिदिनं राजनराणां रक्षतामपि । मञ्जरीरानयत्येष भार्यादेशेन सोधमः ॥ २८० ॥ अन्यदा नृपतिस्तत्र शालिक्षेत्रे समागतः। विध्वस्तं प्रेक्षते तस्यैकदेशं पक्षिभिभृशम् ॥ २८१ ॥ पृष्टोऽथ भूभुजा शालिरक्षको वद केन भोः । विनाशितमिदं क्षेत्रं सोऽप्युवाच ससंभ्रमम् ? ॥ २८२ ॥ स्वामिन्नेकशुको नित्यं गृहीत्वा शालिमञ्जरीम् । प्रयाति रक्ष्यमाणोऽपि नष्टा झगिति चौरवत् ॥ २८३ ।। अरे ! धृत्वाशु पाशेन तमानय ममान्तिकम् । निगृह्णामि यथा चौरमिवेत्युक्त्वा गतो नृपः ।। २८४ ॥ अथाऽन्यदिवसे तेन पुरुषेण नृपान्तिकम् । नीयते पाशबद्धोऽसौ पश्यन्त्यां कीरयोषिति ॥ २८५ ॥ पृष्ठलग्ना ततो धावत्यश्रुपूर्णाऽम्बका शुकी । दयितेन समं प्राप्ता सुदुःखा नृपमन्दिरम् ।। २८६ ॥ विज्ञप्तः शालिपालेन तत्राऽऽस्थानस्थितो नृपः । देव ! सैष शुको बद्ध्वाऽऽनिन्ये शालिमलिम्लुचः॥२८७॥ तं दृष्ट्रा कुपितो राजा हन्ति यावनिजासिना । सहसैव शुकी तावत् पतिता पत्युरन्तरे ॥ २८८ ॥ अब्रवीच ममैवाऽद्य देहे प्रहर सत्वरम् । मुञ्चेमं दयितं देव ! मम जीवितदायिनम् ।। २८९ ॥ येन मे दोहदो जज्ञे शालिशीर्षोपरि प्रभो ! । सोऽनेन पूरितो मत्वा तृणतुल्यं स्खजीवितम् ।। २९० ॥ हसित्वाऽऽह नृपः कीर ! पाण्डित्यं लोकविश्रुतम् । कथं ते, यः स्त्रियः कार्ये त्यजस्येवं स्वजीवितम् ? ॥२९॥ १ अम्बकं नेत्रम् । १ चौरः । Page #414 -------------------------------------------------------------------------- ________________ ४०२ श्रीपार्श्वनाथचरिते शुकी जगाद दूरेऽस्तु पितृ-मातृ-धनादिकम् । देव ! कान्तानुरागेण नरः प्राणानपि त्यजेत् ।। २९२॥ स्वं श्रीदेव्याः कृते त्यक्तं जीवितव्यं यथा त्वया । तथाऽन्योऽपि त्यजत्यत्र दोषः कीरस्य कः प्रभो ! १ ॥ २९३ ॥ सगर्भवचनेनास्या विस्मितो रोडचिन्तयत् । जानाति कथमेषा मे वृत्तान्तं हन्त ! पक्षिणी ! ॥ २९४ ॥ अमाक्षीच नृपो भद्रे ! दृष्टान्तोऽस्मि कथं त्वया । कृतः, कथय तत् सर्वे येन मे गुरुकौतुकम् ? ।। २९५ ॥ शुकी प्रोवाच दृष्टान्तो ज्ञातो येनाऽसि तच्छृणु । पुरा परिव्राजिकैका राज्ये देव ! बभूव ते ।। २९६ ॥ महामायाविनी क्षुद्रप्रयोगनिपुणाऽथ सा । उपचर्य चिरं प्रोक्ता श्रीदेव्या तव भार्यया ।। २९७ ॥ अम्ब ! पत्नी नृपस्याsहं बहुभार्यो मम प्रियः । जाता कर्मवशेनाऽहं सर्वासामपि दुर्भगा ।। २९८ ॥ तत् प्रसीद तथा येन भवामि पतिवल्लभा । मयि जीवति जीवन्त्यां मृतायां म्रियते च सः ॥ २९९ ॥ सा तया भणिता वत्से ! स्त्रीणां राजावरोधतः । अन्यन्नास्तीदृशं दुःखं यदुक्तं पण्डितैरिदम् ॥ ३०० ॥ सपत्नीनां शते वासः पुत्रस्याऽपि न दर्शनम् । कार्ये न्याय्येऽपि न स्वेच्छा धिग् जन्म नृपयोषिताम् ॥ ३०९ ॥ प्राणिस्वेच्छाच्छिदः क्रूराः कारागारनियोगिनः । मृत्वा सत्पात्रदानेन जायन्ते नृपयोषितः ॥ ३०२ ॥ गृहाण तदिमां सद्यःप्रत्ययामौषधीं सुते ! | पाने दद्याच येनाशु तव भर्ता वशीभवेत् ॥ ३०३ ॥ प्रवेशोऽपि गृहे तस्य नास्ति मे, दर्शनं कृतः १ । पाने च भगवत्यस्य यच्छामि कथमौषधीम् ? ॥ ३०४ ॥ १ नृपः । Page #415 -------------------------------------------------------------------------- ________________ ४०३ सप्तमः सर्गः। यद्येवं तर्हि भद्रे ! त्वं गृहीत्वाऽद्य मदन्तिकात् । साधयैकमना मन्त्रं सौभाग्यजननं परम् ॥ ३०५ ॥ इत्युदित्वा तपस्विन्या दत्तो मन्त्रः शुभक्षणे । पूजां विधाय राज्याऽपि गृहीतो विधिपूर्वकम् ।। ३०६ ॥ यावद् ध्यायति सा देवी सततं मन्त्रमादरात् । . तावत् तत्र प्रतीहारी नृपेण प्रहिताऽवदत् ॥ ३०७ ॥ आज्ञापयति देवि ! त्वां देवो यद् वासमन्दिरे । आगन्तव्यं विमुच्यांऽय कुविकल्पं त्वया ध्रुवम् ॥३०८॥ अद्याऽसौ कृतशृङ्गारा राजलोकसमन्विता । करिणीस्कन्धमारुह्य नृपधाम समाययौ ॥ ३०९ ॥ राज्ञा च कृतसन्माना दौर्भाग्यं शेषयोषिताम् । दत्त्वा सौभाग्यमादाय महादेवी बभूव सा ॥ ३१० ।। राज्ये यत् कृत्तिकासौख्यं भुञ्जाना सा मनोमतम् । तुष्टाऽभीष्टपदं दत्ते रुष्टा मूलं निकृन्तति ।। ३११ ॥ नारी स्वयंप्रभा पत्युः प्रसादात् स्यान्नरो न तु । रात्रिरिन्दु विनाऽपि स्याद् दिवसो न रविं विना ॥३१२॥ अथाऽन्यदिवसे देवी परिवाजिकया तया । पृच्छयते स्म यथा वत्से ! संपूर्णास्ते मनोरथाः ॥३१३।। स्वामिनि ! त्वत्प्रसादेन तन्न यन्न भवेदिह । तथाऽज्यद्याऽपि हृदयं मम दोलायतेतराम् ।। ३१४ ॥ यदि जीवति जीवन्त्यां मृतायां म्रियते मयि । ज्ञायते निबिडस्नेहस्तदा राजा ममोपरि ।। ३१५ ॥ यद्येवं तर्हि गृह्णीष्व नस्यं मूलिकयाऽनया । येन त्वं गतजीवेव जीवन्त्यपि हि लक्ष्यसे ॥ ३१६ ।। - द्वितीयमूलिकायास्तु नस्यं दत्त्वा वपुस्तव । पुनर्नवं करिष्यामि मा भैषीमऽन्तिके स्थिता ॥ ३१७॥ मातरेवं करिष्यामीत्युक्तवत्या नृपस्त्रिया। Page #416 -------------------------------------------------------------------------- ________________ ४०४ श्रीपार्श्वनाथचरिते समर्प्य मूलिकां दिव्यां सा जगाम यथाऽऽस्पदम् ॥३१८॥ अथाऽसौ मूलिकानस्यमादाय शयिताऽन्तिके । निश्चेष्टा ददृशे राज्ञी गतजीवेव भूभुजा ॥ ३१९ ॥ ततो देवी मृतेत्युच्चैः सहसा नृपमन्दिरे । अत्याक्रन्दरवो राजलोकवक्त्रादुदच्छलत् ॥ ३२० ।। नृपादेशेन मिलिता बहवो वैद्य-मान्त्रिकाः। त्यक्ता मृतेति सा तैरप्यभव्य इव साधुभिः ॥३२१ ॥ युक्तोऽस्या वह्निसंस्कारो देवेति सचिवोदिते । राज्ञाऽभाणि ममाऽप्येष क्रियतामनया सह ॥ ३२२ ॥ लगित्वा पादयोर्लोकः शोकश्याममुखोऽब्रवीत् । विश्वाधारस्य ते देव ! न युक्तं कर्तुपीदृशम् ।। ३२३ ॥ सदुःखं पार्थिवोऽप्याह न स्नेहस्य द्वयी गतिः । तन्मा विलम्ब्यतां यन्मे क्षणोऽप्यब्दसमोऽधुना ॥ ३२४ ॥ द्रुतं चन्दनकाष्ठानि कृष्यन्तां रच्यतां चिता। भणित्वेति समं राझ्या निर्ययौ स स्वमन्दिरात् ॥ ३२५ ॥ दीप्ततूर्यरवेणोच्चै रुदन् नारीनरवजैः । पूरयन्नम्बराऽऽभोगं प्राप्तः प्रेतवनं नृपः ॥ ३२६ ॥ आरोहति चितां यावदसौ प्रियतमायुतः। वजन्ती दूरतस्तावत् तत्राऽऽयाता तपस्विनी ॥ ३२७ ॥ अभाणि च तया देव ! मा साहसमिदं कुरु । राज्ञाऽपि गदितं पूज्ये ! जीवितं मे सहाऽनया ॥३२८॥ यद्येवं तद् विलम्बस्व क्षणं भूर्मा स्म कातरः। जीवयामि यथा लोकसमक्षं खलु ते प्रियाम् ॥ ३२९ ॥ निशम्य तद्वचः कामं नृपस्योच्छूसितं मनः । जीवितादधिकं कान्तालाभसम्भावनं दधत् ॥ ३३० ॥ प्रसीद भगवत्यद्याऽमोघं भूयात् तवोदितम् । दयितानीवदानेन जीवितोऽहमपि त्वया ॥ ३३१ ॥ Page #417 -------------------------------------------------------------------------- ________________ - सप्तमः सर्गः। राज्ञेति कथिते संजीवनीनस्यस्तया ददे। जीविता तत्पभावेन देवी सह नृपाशया ॥ ३३२ ॥ तन्निरीक्ष्य जनो हर्षजलप्लावितलोचनः । नरीनर्ति भुजामू/कृत्य तूर्यमहारवैः॥ ३३३ ॥ सर्वाङ्गाभरणैः पादौ पूजयित्वा नृपोऽवदत् । तां परित्राजिकामायें ! ददाम्यद्य यदीहसे ॥ ३३४ ॥ तयाऽभाणि महाभाग ! कार्य केनाऽपि नास्ति मे । संतुष्टा त्वत्पुरे भिक्षाग्रहणेनैव केवलम् ॥ ३३५ ॥ ततः करिवरस्कन्धमारुह्य सह कान्तया । गतः स्वभवनं राजा हर्षोत्सवमकारयत् ॥ ३३६ ॥ काश्चनस्तम्भसोपानां स्फटिकोपलनिर्मिताम् । आर्यायै मठिकां राजा कारयामास तोषतः ॥ ३३७ ।। सा परिव्राजिका देव ! मृत्वार्तध्यानदोषतः।। शुकी जाता पुनः साऽहं समायाता तवाऽन्तिके ।।३३८॥ तव त्वदीयराज्याश्च दर्शनेन ममाऽधुना । जातिस्मृतिरभूत् तेन चरितं ते मयोदितम् ॥ ३३९ ।। निशम्य वचनं तस्या रुदती राज्यवोचत । पूज्ये ! तत् तादृशी मृत्ला कथं जाताऽसि पक्षिणी?॥३४०॥ मा कृशोदरि ! खिद्यस्व दुःखार्ता मम जन्मनः । यतः कर्मवशाजन्तोस्तन्नास्ति यन्न संभवेत् ॥ ३४१ ॥ त्वं नारीविषये राजन् ! तेनोदाहरणं कृतः । तदाकये हृदि प्रीतो व्याजहार शुकीं नृपः ।। ३४२ ॥ सत्य एव त्वया भद्रे ! दृष्टान्तोऽहमिहोदितः । अतस्तुष्टोऽस्मि याचस्व यदिष्टं तद् ददामि ते ॥ ३४३॥ शुकी प्राह नराधीश ! ममाऽभीष्टो निजप्रियः । तदस्मै जीवितं देहि कार्य नाऽन्येन केनचित् ॥ ३४४ ॥ १ लघुमठम् । Page #418 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेहसित्वाऽऽह महादेवी देव ! की प्रदीयताम् । भर्ता भोजनदानं च क्रियतां नित्यमेतयोः ॥ ३४५ ॥ नृपेण भणितं भद्रे ! यथास्थानं शुकि ! बज । त्वद्वचोजातसंतोषान्मुक्त एष पतिस्तव ॥ ३४६ ॥ आदिष्टः शालिपालश्च तदहो ! क्षेत्रभूतले । पुञ्जीकृत्याऽनयोर्नित्यं दातव्याः शालितन्दुलाः ॥ ३४७ ।। प्रसादोऽयं कृतो ज्यायानस्माकमुपरि प्रभो ! । कीरयुग्मं गदित्वेति झगित्युड्डीनमम्बरे ।। ३४८ ॥ चूतशाखिनि पूर्वोक्ते गत्वा संपूर्णदोहदा । निजनीडे शुकी रम्यं प्रसूते स्माऽण्डकद्वयम् ॥ ३४९ ॥ तस्मिंश्च समये तस्याः सपत्नी तत्र शाखिनि । पृथग्नीडस्थिता याऽस्ति सा प्रसूतैकमण्डकम् ॥ ३५० ॥ चूणिहेतोगता काऽपि द्रुमं मुक्त्वाऽथ साऽन्यदा। मत्सरेण तदीयाऽण्डं निन्ये प्रथमया ततः ॥३५१॥ अपराऽप्यागता यावनिजाण्डं तत्र नेक्षते ।। शफरीव ततो दुःखतप्ता स्म लुठति क्षितौ ॥ ३५२ ।। विलपन्ती च तां दृष्ट्वा पश्चात्तापेन नोदिता। तदण्डं प्रथमा नीत्वा तत्रैव मुमुचे पुनः ॥ ३५३ ॥ लुठित्वा भूतले यावत् किरी साऽऽरोहति द्रुमम् । खनीडेऽण्डं निजं तावत् सुधासिक्तेव पश्यति ॥ ३५४ ॥ आद्यकीर्या तन्निमित्तं कर्मबद्धं सुदारुणम् । पश्चात्तापहतं तस्थौ योग्यमेकभवस्य तु ।। ३५५॥ शुकी शुकश्च संजातं तत्राऽण्डयुगले द्वयम् । पितृभ्यां संयुतं क्रीडां करोति वनगहरे ॥ ३५६ ॥ शालिक्षेत्रे नृपादेशरचितात् तण्डुलोत्करात् । चञ्च्वाऽऽदाय कणान् नित्यं तत् कीरमिथुनं व्रजेत् ॥३५७।। आगतो ज्ञानवांस्तत्र चारणश्रमणोऽन्यदा । Page #419 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । ४०७ जिनेन्द्रभवने देवं वन्दित्वैवं तमस्तवीत् ॥ ३५८ ॥ देवः स वः शिवमसौ तनुतां युगायो यस्यांसपीठलुठितासितिकुन्तलाली । दोस्तम्भयोरुपरि मन्मथ-मोहदर्प जैत्रप्रशस्तिफलकाश्रयमाश्रयेताम् ॥ ३५९ ।। आदिप्रभोरनिशमंसतटीनिषण्णकेशच्छलेन परितो वदनारविन्दे । किं नालिकादलमिदं तदुपेयुषी वा सद्गन्धलुब्धमधुपावलिराविभाति ॥ ३६० ॥ निष्कासिताऽविरतियोषिति बाहुदम्भ स्तम्भोपरिस्थकिशलोपमकेशकान्तिः । श्रीनाभिजस्य हृदयावसथे विशन्त्या दीक्षाश्रियः स्फुरति वन्दनमालिकेव ॥ ३६१ ॥ एषा यदादिमजिनस्य शिरोरुहश्री__ रुद्भूतधूमलहरीव विभोर्विभाति । सद्ब्रह्मरूपमनुमेयमन्धनेद्ध मन्तःस्फुरत् तदिह नूनमनूनमर्चिः ॥ ३६२ ॥ शङ्के पुरः स्फुरति कोमलकुन्तलश्री दम्भादमुष्य वृषभस्य विभोरभीक्ष्णम् । स्कन्धाधिरूढदृढसंयमभूरिभार व्यक्तीभवकिणगणोल्वणकालिकेयम् ॥ ३६३ ॥ सैष प्रभुः कनकभङ्गनिभाऽङ्गयष्टि लॊकम्पृणो न कथमस्तु यदंसदेशे । मेरोरुपानविलसद्वनराजगर्व सर्वकषा स्फुरति पेशलकेशलक्ष्मीः ॥ ३६४ ॥ मन्ये विशोध्य विधिरैन्दवमेव बिम्ब १ द्विवचनम् । २ किणो घर्षणचिह्नम् । Page #420 -------------------------------------------------------------------------- ________________ ४०८ श्रीपार्श्वनाथचरिते- श्रीनाभिपार्थिवभुवो मुखमुच्चकार । तस्य ध्रुवं तदियमंसनिवेशकेश___ च्छायाच्छलादपतदङ्ककलङ्कलेखा ॥ ३६५ ॥ अंसस्थली चिकुरकञ्चुकिता युगादि देवस्य विग्रहगृहे विहिताश्रयायाः । क्रीडाकृते मरकतोपलबद्धभूमि शोभां दधाति गुरुसंयमराजलक्ष्म्याः ॥ ३६६ ॥ इत्युदारस्तवं कृत्वा वन्दित्वा च जिनं मुनिः । निविष्टः शुद्धभूभागे वन्दारुजनवेष्टितः ॥ ३६७ ॥ पूजयित्वा नरेन्द्रोऽथ तत्र पुष्पाक्षतैर्जिनम् । फलमक्षतपूजाया मुनि पप्रच्छ सोऽब्रवीत् ॥ ३६८ ।। ध्रुवं रत्नत्रयोपास्तिमनो-वाक्-कायशोधनम् । त्रिशल्योन्मूलने हेतुर्यजन्मत्रयपावनम् ॥ ३६९ ॥ अखण्डस्फुटितैश्चोक्षाऽक्षतैः पुञ्जत्रयं नराः । पुरो जिनस्य कुर्वाणाः प्राप्नुवन्त्यक्षतं सुखम् ॥ ३७० ॥ (युग्मम् ) इत्थं गुरुवचः श्रुत्वाऽक्षतपूजासमुद्यतम् । दृष्टा लोकं शुकी कान्तं निजमेवमवोंचत ॥ ३७१ ॥ अक्षतानां जिनं पुञ्जत्रयेणावामपि प्रिय !। पूजयावोचिरेणैव यथा सिद्धिसुखं भवेत् ॥ ३७२ ।। एवमित्युदिते चञ्चुपुटेनाऽऽदाय तन्दुलान् । जिनस्य पुरतस्ताभ्यां पुञ्जत्रयमरच्यत ॥ ३७३ ॥ अपत्ययुगलं चाभ्यां शिक्षितं यज्जिनेशितुः । मुश्चताग्रेऽक्षतान् सौख्यं येनाऽऽसादयताऽक्षयम् ॥३७४॥ इति प्रतिदिनं कृत्वा जिनस्याऽक्षतपूजनम् । गतान्यायुःक्षये तानि चत्वार्यपि सुरालयम् ॥ ३७५ ॥ १ शरीरगृहे। २ वन्दनशीलाः । Page #421 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। भुक्त्वा स्वर्गसुखं च्युत्वा कीरजीवस्ततोऽजनि । राजा हेमप्रभो नाम पुरे हेमपुराभिधे ॥ ३७६ ।। शुकीजीवः पुनश्च्युत्वा देवलोकादजायत । तस्यैव भूभुजो भार्या नाम्ना च जयसुन्दरी ॥ ३७७ ॥ द्वितीयाऽपि शुकी भ्रान्त्वा संसारमुदपद्यत । राज्ञो हेमप्रभस्यैव रतिसंज्ञाऽपरा प्रिया ।। ३७८ ।। राज्यो बभूवुरस्याऽन्या अपि पश्चशतीमिताः । प्रसादसदनं किन्तु प्रथमे द्वे अपि प्रिये ॥ ३७९ ॥ अथाऽन्यदा महादाहज्वरार्तोऽभूत् तथा नृपः । चन्दनैः सिच्यमानोऽपि यथा भुवि लुठत्यलम् ॥३८०॥ अङ्गभङ्गिभ्रमिः स्फोटिः शोफः श्वासः शिरोव्यथा । दाहश्च ज्वरवक्त्राणि सप्ताऽपि स्फुटतामगुः ।। ३८१ ॥ आययुर्विविधा वैद्या आयुर्वेदविशारदाः। इत्यहाञ्चक्रिरेऽन्योऽन्यं नृपचेष्टां विलोक्य ते ॥३८२ ॥ अत्यम्बुपानतो घस्रशयनानिशि जागरात् । विण-मूत्रादिनिरोधाच विषमासनतस्तथा ॥ ३८३ ॥ शोक-क्रोधादिचिन्ताभ्यो वनिताऽत्यन्तसङ्गतः । अजीर्णाच भवेद् रोगो धातुतुल्याशनेन च ।। ३८४ ॥ तत्र ज्वरा दश द्वौ च मलाजीर्णत्रिदोषजाः । खेदजो रक्तकालोत्थो दृष्ट्येको द्विव्यहान्तराः ॥ ३८५ ॥ तथाज्वरस्य प्रथमोत्थाने भेषजर्दिनत्रयम् । न देयं कथितं तोयं भेषजं च न रोगिणाम् ॥ ३८६ ॥ प्रवातं नातिनिर्वातं न पथ्यं नैव लवनम् । क्रिया साधारणा कार्या मानुषे ज्वरसंस्थिते ॥ ३८७ ॥ भूत-ताप-श्रमा-ऽनङ्ग-शोक-शङ्कादिसम्भवे । ज्वरे पित्ताधिके चाऽपि न लङ्घनविधिर्मतः ॥ ३८८ ॥ ५२ Page #422 -------------------------------------------------------------------------- ________________ ४१० श्रीपार्श्वनाथचरिते अन्यः प्राहवात-पित्त-कफोद्भूतो रोगः शाम्यति भेषजैः । मानसो ज्ञान-विज्ञान-स्मृति-धैर्य-समाधिभिः ॥ ३८९ ॥ पित्तं राजा शरत्काले वैशाख-ज्येष्ठयोरपि । चैत्र-फाल्गुनयोः श्लेष्मा शेषेषु पवनः पुनः ॥ ३९० ॥ कहा-ऽऽम्ल-लवणैर्वायुः, कषाय-स्वादु-तिक्तकैः। पित्तमेति शर्म, तिक्त-कषाय-कटुभिः कफः ॥ ३९१ ॥ अपरस्त्वाहअजीर्णप्रभवा रोगास्तच्चाऽजीर्ण चतुर्विधम् । आमं विदग्धं विष्टब्धं रसशेषं तथाऽपरम् ॥ ३९२ ॥ आमे सदृशगन्धः स्याद् विदग्धे धूमगन्धता । गात्रभङ्गश्च विष्टब्धे रसशेषे च जाड्यता ॥ ३९३ ॥ आमे च वमनं प्रोक्तं विदग्धे तूष्णमापिवेत् । विष्टब्धे स्वेदनं कुर्याद् रसशेषे पुनः स्वपेत् ।। ३९४ ॥ इति संलप्य तैर्यः कोऽप्युपचारः कृतोत्र सः । अलक्ष्यभेदान्मोघोऽभूद् धानुष्कस्येव सायकः ॥ ३९५ ॥ एवमन्नविहीनोऽस्थानरेन्द्रः सप्त वासरान् । मन्त्र-यन्त्र-कलादक्षाः सर्वे जाताः पराङ्मुखाः ॥ ३९६ ॥ शान्तिरुद्धोष्यते दानं विविधं च प्रदीयते । देवस्थाने पुनः पूजा-ऽभिग्रहादि विधीयते ॥ ३९७ ॥ अथ केलीकिलः कोऽपि प्रकटीभूय राक्षसः । उवाच निशि भूपालं किं तेऽलीककृतैरिमैः ? ।। ३९८ ॥ अद्याऽवतारणीकृत्य यद्यात्मानं तव प्रिया । नृप ! क्षिपत्याग्निकुण्डे तज् जीवस्यन्यथा नहि ॥ ३९९ ॥ भणित्वेति गतं रक्षो दध्यौ राजा च विस्मितः । इन्द्रजालमिदं किन्तु वमो वा रक्ष एव वा ? ॥४००॥ विकल्पसहितस्यैवं व्यतीता भूपतेनिशा । Page #423 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४११ उदयाचलचूलायामाययौ सविता पुनः ॥ ४०१॥ राज्ञा रजनिवृत्तान्तः कथितो मन्त्रिणः पुरः। तेनोक्तं जीवितस्याऽर्थे देवेत्यपि विधीयते ॥ ४०२ ॥ परमाणैर्निजप्राणरक्षां कुर्वन्ति नोत्तमाः । तन्मे भवतु यद् भाव्यं राज्ञा मन्त्रीति जल्पितः॥४०३॥ आकार्य नृपतेर्भार्याः समस्ता अपि मन्त्रिणा । तत्पुरः कथितः सर्वो वृत्तान्तो राक्षसोदितः ॥ ४०४ ॥ तत् श्रुत्वा पाणलोभन सर्वोऽप्यन्तःपुरीजनः । तस्थावधोमुखीभूय दधौ प्रतिवचो न च ॥ ४०५ ।। विकाशवदनोत्थाय रतिराजी वदत्यदः। मज्जीवितेन चेन्जीवेत प्रियो लोभेन किं मया?॥४०६॥ श्रुत्वेति सचिवः सौधं गवाक्षस्याऽवनावधः। विधाप्य कुण्डमगरुदारुभिः पर्यपूरयत् ॥ ४०७॥ अथ सा कृतशृङ्गारा नत्वा वक्ति निजप्रियम् । जीव मे जीवितेन त्वं नाथ ! कुण्डे पताम्यसौ ॥४०८॥ सदुःखं भाषते राजा मत्कृते जीवितं प्रिये !। मा त्याक्षीर्यन्मया कर्म वेदनीयं पुरा कृतम् ॥ ४०९ ॥ विलग्य पादयोः साह मा स्वामिन्नीदृशं वद । यद् याति तव कार्ये तत् सफलं जीवितं मम ॥ ४१० ॥ राज्ञोऽवतारणीकृत्यात्मानं राज्ञी बलादपि । स्थित्वा वातायने तस्मात् कुण्डे दीपानलेऽक्षिपत् ॥४११॥ अथाऽसौ राक्षसस्तस्यास्तुष्टः सत्वेन तत्क्षणात् । अप्राप्तामेव तां कुण्डं दो- दूरमुदक्षिपत् ॥ ४१२ ॥ अब्रवीच रतिं देवि ! तुष्टः सत्त्वेन तेऽधुना । मनोऽभीष्टं वरं ब्रूहि ददाम्येष न संशयः ॥ ४१३ ॥ किमनेन पितृभ्यां मे दत्त एष वरः पुरा। भद्रे ! तथापि याचस्व न मोघं देवदर्शनम् ॥ ४१४ ।। Page #424 -------------------------------------------------------------------------- ________________ ४१२ श्रीपार्श्वनाथचरितेयद्येवं तर्हि मे भर्ता प्रसादात् तव जीवतु । चिरकालमयं व्याधिवैधुर्यरहितः सदा ॥ ४१५ ॥ एवमस्त्विति तामुक्त्वा दिव्याऽलङ्कारभूषिताम् । कृत्वा स्वर्णाम्बुजे न्यस्य ययौ रक्षो यथाऽऽस्पदम् ॥४१६॥ जीवेत्याह जनस्तस्याः शीर्षे पुष्पा-ऽक्षतान् क्षिपन् । निजजीवितदानेन जीवितो दयितो यया ॥४१७ ॥ तुष्टोऽहं तव सत्त्वेन प्रियेऽभीष्टं वरं वृणु। . राज्ञेति भणिता साऽऽह वरोऽभीष्टस्त्वमेव मे ॥ ४१८ ॥ अहं जीवितपुण्येन त्वया देवि ! वशीकृतः।। तत् किश्चिदन्यद् याचस्व सा हसित्वा ततोऽवदत् ॥४१९॥ यद्येवं तर्हि ते चित्तनिधौ तिष्ठत्वयं वरः। प्रस्तावे प्रार्थयिष्येऽहं पुनरेनं तवान्तिकात् ॥ ४२० ॥ अन्यदा प्रार्थिता रत्या पुत्राऽर्थे कुलदेवता । सुतेन जयसुन्दर्या बलिं दास्येऽस्तु मे सुतः ॥ ४२१॥ भवितव्यनियोगेन द्वयोरपि तयोः सुतौ । बहुलक्षणसंपूर्णौ विश्वहृद्यावजायताम् ॥ ४२२ ॥ रतिश्चिन्तयते तुष्टा दत्तो देव्यैष मे सुतः। पुत्रेण जयसुन्दर्या दास्ये त्वस्यै कथं बलिम् ? ॥ ४२३ ॥ चिन्तयन्त्या तयोपायो लब्धः पत्युवरेण यत् । राज्यं कृत्वा वशे सर्व करिष्यामि समीहितम् ॥ ४२४ ॥ इति निश्चित्य भूपालः प्रस्तावे भणितस्तया । नाथ ! प्राक् प्रतिपन्नो यस्तं वरं देहि मेऽधुना ॥ ४२५ ॥ यदिष्टं देवि ! याचख ददे जीवितमप्यहम् । यद्येवं दीयतां तर्हि राज्यं मे पञ्च वासरान् ॥ ४२६ ॥ एवमस्तु मया राज्यं दत्तं तुभ्यमितीरिते । महाप्रसाद इत्युक्त्वा तत् तया प्रत्यपद्यत ॥ ४२७ ॥ पालयन्तीति सा राज्यं अथो यामेऽन्तिमे निशि । Page #425 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४१३ रुदत्या जयसुन्दर्याः पुत्रमानाययद् बलात् ॥ ४२८ ।। स्नपयित्वा चर्चयित्वा श्रीखण्ड-कुसुमा-ऽक्षतैः । पटल्यां न्यस्य तं बालं दासीमूर्धन्यतिष्ठिपत् ।। ४२१ ॥ उच्छलत्तूर्यनादेन नृत्यनारीजनेन च । परिवारयुताऽगच्छदुद्याने देवतागृहम् ।। ४३०॥ अथ काश्चनपूःस्वामी मूरो विद्याधराऽधिपः । वजन्नाकाशमार्गेण तं दारकमवक्षत ।। ४३१ ॥ वियदुद्द्योतयन्नात्मतेजसा भानुमानिव । गृहीतस्तेन सोऽलक्षं मुक्त्वाऽन्यं मृतबालकम् ॥ ४३२ ॥ विमानान्तःशयानाया निजाया हरिणीदृशः। स्थापयित्वाऽन्तिके बालं बभाषे स मृदुस्वरम् ।।४३३॥ कृशोदरि ! लघूत्तिष्ठ पश्य जातं वदारकम् । जागरित्वा च सा सद्यः सखेदमिदमब्रवीत् ॥ ४३४ ॥ किं त्वं हससि देवेन हसिताऽहं दुरात्मना । किं कदापि सुतं वन्ध्या प्रसूते जीवितेश्वर ! ॥४३५॥ सोऽप्याह हसिताऽऽस्यो मे श्रद्धानं वाचि नो यदि । ततः खं स्वयमीक्षख रत्नराशिसमं सुतम् ॥ ४३६ ॥ इति विभ्रान्तचित्तायास्तस्याः सत्यमचीकथत् । वपुत्ररहितायास्ते पुत्र एष सुलोचने ! ॥ ४३७ ॥ प्रतिपद्येति नीतोऽसौ स्वपुरं प्रतिवासरम् । कलाभिर्वर्धते चन्द्रः श्वेतपक्षगतो यथा ॥ ४३८ ॥ राज्ञी रतिरपि प्रीतचित्ता तं मृतबालकम् । देव्याः शीर्षोपरि परिभ्रमय्यास्फालयत् पुरः ॥ ४३९ ।। ततो गत्वा वसत्येषा गृहे पूर्णमनोरथा। वजन्ति जयसुन्दर्याः सुदुःखेन पुनर्दिनाः ॥ ४४० ॥ राज्येका पूर्णिमा तोषादमावास्याऽपरा शुचा । ताभ्यां राजा तदा प्राप पोष-शोषविडम्बनाम् ॥ ४४१।। Page #426 -------------------------------------------------------------------------- ________________ ४१४ श्रीपार्श्वनाथचरितेमदनाङ्कुर इत्याख्यां कुमारस्याऽपि खेचरैः । विधाय विविधा विद्याः शिक्षितः शिक्षणे पटुः ॥ ४४२ ॥ अन्यदाऽसौ वजन् व्योम्नि सौधवातायनस्थिताम् । अपश्यजननी पुत्रशोकजाश्रुजलप्लुताम् ।। ४४३ ।। अर्थता दर्शनोत्पन्नस्नेहपाशस्खलद्गतिः । उत्क्षिप्याऽऽरोपयामास विमानं मदनाङ्कुरः ॥ ४४४ ॥ 'साऽपि दृष्ट्वा कुमारं तं हर्षजाताश्रुवारिणा । सिञ्चन्ती वीक्षते भूयो भूयः स्नेहलया दृशा ॥ ४४५ ॥ ऊर्ध्वबाहुः पुरीमध्ये जनो व्याहरतेऽखिलः । एषैषा हियते राज्ञो गृहिणीति महास्वरम् ॥ ४४६ ॥ नृपः सूरोऽपि भूस्थत्वान्नाऽत्र किञ्चित्करोऽभवत् । कुब्जः करोति किं दृष्ट्वा तरूच्चशिखरे फलम् ? ॥ ४४७॥ दध्यौ हेमप्रभो राजा क्षारक्षेपः क्षते कृतः । सुतस्य मरणे भार्याहरणं यन्ममाऽजनि ॥ ४४८ ॥ एवमस्ति महादुःखपूरितः स्वपुरे नृपः । गृहिणीहरणाद् दुःखं कस्य न स्याजगत्रये ? ॥४४९॥ इदं चाऽवधिनाऽज्ञासीत् तदाऽपत्यशुकी दिवि । हरते गृहिणीबुद्ध्या मम भ्राता स्वमातरम् ॥ ४५०॥ गत्वाऽथ वपुरासन्नसरस्तीरे कुमारराट् । जनन्या सहितो यावदास्ते चूततरोस्तले ।। ४५१ ॥ तावद् वानर-वानों रूपं देवी विधाय सा। अतिष्ठच्चूतशाखायां तत्रेदं वानरोऽवदत् ॥ ४५२ ॥ प्रियेऽदः कामुकं तीर्थ तिर्यश्चः पतिता इह । लभन्ते खलु मानुष्यं मां देवत्वमुत्तमम् ॥ ४५३ ॥ प्रेक्षस्व द्वाविमौ मत्यौं दिव्यरूपौ सुराविव । आवां मनसिकृत्यैतावस्मिन् तीर्थे पताव तत् ॥ ४५४ ॥ यथा त्वमीदृशी स्त्री स्यान्नरोऽहं पुनरीदृशः । Page #427 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४१५ वानर्या भणितं कान्त ! नामाऽप्यस्य न गृह्यते ॥ ४५५ ।। य इमां जननीं स्वीयां हरते गृहिणीधिया । अहं तस्याऽपि पापस्य रूपमिच्छामि किं प्रिय ! ? ॥४५६॥ वानर्या वचनं श्रुत्वा विस्मितौ तावुभावपि । कुमारोऽचिन्तयद् हन्त ! जनन्येषा कथं मम ? ॥ ४५७ ॥ स्नेहेनाऽपहृता मातृबुद्धिं मे जनयत्यलम् । राज्ञी साऽपीदृशं दध्यौ कथमेष सुतो मम ? ॥ ४५८ ।। दृष्टमात्रेऽपि चैतस्मिन् निजाऽङ्गज इवाऽधिकम् । उल्लसत्पुत्रवात्सल्यमिदं धावति मे मनः ॥ ४५९ ॥ कुमारो वानरी शङ्काऽऽकुलः पप्रच्छ सादरम् । किं नु सत्यमिदं भद्रे ! यत् त्वया भाषितं वचः ? ॥४६०॥ तयोचे सत्यमेवेदं संदेहोऽद्यापि ते यदि । ततो वननिकुञ्जेऽस्मिन् पृच्छ ज्ञानधरं मुनिम् ॥ ४६१ ॥ उक्त्वेत्यदर्शनीभूतं तद् वानरयुगं क्षणात् । सुविस्मितः कुमारोऽपि गत्वा पप्रच्छ तं मुनिम् ॥ ४६२ ॥ भगवंस्तत् कथं सत्यं वानर्या यदभाणि मे । मुनिरप्याह भो भद्र ! सत्यमेवेति नाऽन्यथा ॥ ४६३ ॥ स्थितोऽस्मि सततं ध्याने कर्मणां क्षयकारणे। तत् ते हेमपुरे व्यक्तं सर्व वक्ष्यति केवली ।। ४६४ ॥ ततो नत्वा मुनि मातृसहितः स गतो गृहम् । पितृभ्यामतिहृष्टाभ्यां ददृशे विमना भृशम् ॥ ४६५ ॥ तेन विद्याधरीमाता लगित्वा पादयो रहः । पृष्टा ब्रूहि स्फुटं मातः! का मे माता पिता च कः १ ॥४६६॥ पृच्छत्येवं किमेषोऽद्य सवितर्केति साऽवदत् । . वत्स ! नो वेत्सि किं माता तवाऽहं जनकस्त्वयम् ॥४६७॥ अस्त्येवं किन्तु पृच्छामि पितरौ जन्मदायकौ । परमार्थ पिता तर्हि तव ज्ञास्यति पुत्रक ! ॥ ४६८ ॥ Page #428 -------------------------------------------------------------------------- ________________ ४१६ श्रीपार्श्वनाथचरिते पित्राऽपि परितुष्टेन पटलीप्रमुखोऽखिलः। उक्तो व्यतिकरस्तस्य न पुनर्जनकादिकः ॥ ४६९ ॥ कुमारः प्राह यैषाऽद्याऽऽनिन्ये नारी मया पितः !। वानर्या बहिराख्याता सा जन्मजननी मम ॥ ४७० ॥ पृष्टेन मुनिनाऽप्येवमाख्यायाऽभागि यत् तव । सविशेषमिदं हेमपुरे ख्यास्यति केवली ॥ ४७१ ॥ भगवन्तं ततो गत्वा पृच्छामस्तात ! तत्र तम् । यथा त्रुटति संदेहो जीर्णतन्तुरिव क्षणात् ।। ४७२ ।। इत्युक्त्वा जननी-तातसहितः प्रस्थितस्ततः । असौ हेमपुरे पादमूले केवलिनो ययौ ॥ ४७३ ॥ . नत्वा तस्य मुनेः पादौ मूरो विद्याधरेश्वरः। निविष्टः सपरीवारः कुमारश्वाऽवनीतले ॥ ४७४ ॥ नारीसहस्रमध्यस्था राज्ञी च जयसुन्दरी । सहिता निजपुत्रेण शृणोति गुरुभाषितम् ॥ ४७५ ॥ तथा हेमपुराधीशो राजा हेमप्रभोऽपि हि । तत्र पौरजनैः सार्धमुपविष्टो गुरोः पुरः ॥ ४७६ ॥ लब्ध्वाऽवसरमप्राक्षीद् नत्वा केवलिनं नृपः। मम भार्या विभो ! केनाऽपहृता जयसुन्दरी ? ॥ ४७७ ॥ केवली प्राह राजेन्द्र ! निजपुत्रेण सा हृता । राजाऽपि विस्मितः स्माऽऽह प्रभो ! तस्याः कुतः सुतः?॥ य आसीत् तनयस्तस्या बाल एव स पापिना । दैवेन कवलीचक्रे द्वितीयो नास्ति तत्सुतः ॥ ४७९ ॥ तवाऽलीकं वचो नैव नास्ति तस्याः पुनः सुतः । संशयो मामयं शत्रुरिव सन्तापयत्यलम् ॥ ४८० ॥ मुनिर्वदति सत्येऽस्मिन् वाक्ये मा संशयं कृथाः। नृपोऽवादीद् मुने ! तर्हि परमार्थो निवेद्यताम् ॥ ४८१ ॥ कुलदेव्यादिवृत्तान्तः सर्वोऽपि मुनिनोदितः । Page #429 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । ४१७ स वैताढ्यपुराद् यावत् तत्रोद्याने समागतः ।। ४८२ ।। राजा विस्फारिताक्षोऽथ यावदुद्यानमीक्षते । तावद् विध्वस्तसंदेहः कुमारस्तातमानमत् ॥ ४८३ ॥ सुतमालिङ्गय सन्तापनिर्वापणसुधाकरम् । रुदन्नतीव दुःखेन गुरुणा बोधितो नृपः || ४८४ ॥ विलग्य पादयोः पत्युर्मुमोच जयसुन्दरी । अश्रुपूरं तथा येनाऽखिलोऽभूदाकुलो जनः ।। ४८५ ।। पप्रच्छ च मुनिं नाथ ! मम केनैष कर्मणा । दुःसहः सुतविश्लेषो जज्ञे वर्षाणि षोडश १ ।। ४८६ ॥ मुनिराह मुहूर्तानि षोडश स्थापिता त्वया । यत् सपत्नी शुकी दुःखे हृत्वाऽण्डं तत्फलं हृदः ||४८७|| सुखं दुःखं च यो यस्य तिलाल्पमपि यच्छति । सुक्षेत्रे बीजवद् भूरि लभतेऽमुत्र तत्फलम् ॥ ४८८ ॥ इत्थं गुरुवचः श्रुत्वा पश्चात्तापाऽऽकुलात्मना । प्राचीन दुष्कृतं राज्ञी तयाऽऽशु क्षमिता रतिः ।। ४८९ ।। रत्याप्युत्थाय भणिता प्रणम्य जयसुन्दरी | क्षमस्व जनितं यत् ते सुतदुःखं मया सति ! ।। ४९० ॥ गुरुस्ते इत्युपाद् युवाभ्यां मत्सरेण यत् । बद्धं गुरुतरं कर्म ध्वस्तं क्षमणयाऽद्य तत् ॥ ४९१ ।। यथा हि मलिनैः स्पृष्टो जलस्पर्शेन शुद्ध्यति । दुष्कृतैर्मलिनोऽप्यात्मा क्षमणात् स्यात् तथा शुचिः ॥ ४९२ ॥ तावद् धन्यतमास्तेऽत्र दुष्कृतं ये न कुर्वते । धन्यास्तेभ्योऽपि ते ये स्वं क्षिपन्ति क्षामणादयम् ||४९३ ॥ नृपः पप्रच्छ किं नाथ ! प्राक् कृतं सुकृतं यतः । राज्यं मे जयसुन्दर्याः कुमारस्याऽप्यजायत ।। ४९४ ॥ यथा शुक्रभवे क्षिप्त्वा जिनस्य पुरतोऽक्षतान् । १ ला खोऽपि कृत्वाऽपि पापं योऽस्मान्निवर्तते इत्यपि । ५३ Page #430 -------------------------------------------------------------------------- ________________ ४१८ श्रीपार्श्वनाथचरितेदेवत्वमपि राज्यं च तत् सर्वं मुनिराख्यत ॥ ४९५ ॥ यच्चक्रे जिनबिम्बस्याक्षतपुञ्जत्रयं पुरः। तत् तृतीयभवे राजन्नक्षयं स्थानमेष्यति ॥ ४९६ ॥ अथाऽसौ रतिपुत्रस्य राज्यं दत्वाऽग्रहीद् व्रतम् । सहितो जयसुन्दर्या कुमारेण च भूपतिः ॥ ४९७ ॥ पालयित्वा परिव्रज्यामन्तं कृत्वा च सोऽभवत् । समं पुत्र-कलत्राभ्यां शुक्रकल्पे सुराधिपः ॥४९८॥ ततश्च्युत्वा मनुष्यत्वं प्राप्य सर्वजनोत्तमम् । जगाम कर्म निर्मूल्य स राजा मोक्षमक्षयम् ॥४९९॥ एवं राज्ञी कुमारश्च स्थिता देवी च या दिवि । चत्वार्यपि ययुर्मोक्षमक्षता प्रभावतः ॥५००॥ पुष्पा-ऽक्षतगता द्रव्यपूजेत्थं कथिताऽधुना । भावरूपस्तथाऽर्चायां वनराजकथोच्यते ॥ ५०१॥ अस्त्यत्र भरतक्षेत्रे नरेन्द्रैः सुप्रतिष्ठितम् । क्षितिप्रतिष्ठितं नाम पुरं सुरपुरोपमम् ।।.५०२॥ नर-नारीजना यत्र सुरसारूप्यधारिणः । लक्ष्यन्तेऽक्षिनिमेषेण पादस्पर्शेन च क्षितौ ॥ ५०३ ॥ तत्र चण्डभुजादण्डक्षपिताऽरातिगोषः । रक्षिता लोकसस्यानां सुस्थितो नाम पार्थिवः॥ ५०४ ॥ अथोच्छिन्नकुलस्तत्र धन-खजनवर्जितः । आर्तध्यानपरो नित्यमेकोऽस्ति कुलपुत्रकः ॥ ५०५॥ पात्रपाणिः स भक्ष्यार्थ प्रतिगेहं परिभ्रमन् । समाख्यातीव लोकानामदातुः फलमीदृशम् ॥ ५०६ ॥ प्रायेण तद् गृहं नास्ति यत्र लौल्याद् गतो नहि । परं दौस्थ्यतमश्छन्नमिव तं कोऽपि नेक्षते ॥ ५०७ ॥ वित्तादुत्तानतामेति निःस्वान्नीचमुखो भवेत् । अरघट्टघटीत्यर्थे स्पष्टमेव निदर्शनम् ॥ ५०८ ॥ Page #431 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । मातङ्गादपि दारिद्र्य संभवं भुवि निश्चितम् । मालिन्यमधिकं येन स्पृशति स्वजनोऽपि न ॥ ५०९ ॥ न रात्रिर्न दिनं नोंचं न नीचं खो न नाऽपरः । दारिद्र्यतमसा तस्य सर्वमेव समीकृतम् ॥ ५१० ॥ अतो दत्ते स्वयं धीमानन्यं च न निवारयेत् । महादौस्थ्यमयं ज्ञात्वा दानद्वेषतः फलम् ।। ५११ ॥ निषिध्यमानो लोकेन चिन्तयत्येष हन्त ! भोः ! | काकोsपि लभते पिण्डी नाऽहं सिक्त्थमपि कचित् ॥ ५१२ ॥ जीवन्नेवं महाकष्टादन्यदा स पुराद् बहिः । भवितव्यनियोगेन भ्रमन्नुपवनं ययौ ।। ५१३ ॥ तत्र शान्तिमयं कान्तं विश्वस्याऽपि हितैषिणम् । असौ धर्ममिवाऽध्यक्षं मुनिमेकमलोकत ।। ५१४ ॥ उपतस्थे च तं पश्यन्नानन्दोज्ज्वलया दृशा । संसारदुःखनिर्विण्णः पथि खिन्न इव द्रुमम् ।। ५१५ ।। नमयित्वा शिरस्तस्मै दत्तदृष्टिर्मुखे मुनेः । उपविष्टः पुरो भागे तद्ध्यानाऽऽहितमानसः । ५१६ ॥ मुनीन्द्रोऽपि तरुः शुष्यन् सेचनीयो विशेषतः । इत्यार्द्रमानसस्तस्मै धर्मतत्त्वं समादिशत् ।। ५१७ ॥ परस्याssपदि जायन्ते साधवोऽतीव वत्सलाः । महावृक्षा विशेषेण ग्रीष्मकाले हि शाड्वलाः ५१८ ।। अहो ! जीवाः समृद्धेऽपि भ्रमन्ति भुवनत्रये । धर्माऽभिज्ञानहीनास्तु लभन्ते नैव किञ्चन ।। ५१९ ॥ धर्मकर्मक्षमं न स्याद् धनं देहव यद्यपि । औचित्येन तथाऽप्येष कार्य एव विपश्चिता ॥ ५२० ॥ बीजमुप्तं विना न स्याद् यथा सस्याऽऽगमो नृणाम् । चिरेणाऽपि तथा धर्मं विना नैवेष्टसंपदः ।। ५२१ ॥ न शक्नोमीति नास्तीति जल्पतामिह देहिनाम् । ४१९ Page #432 -------------------------------------------------------------------------- ________________ ४२० श्रीपार्श्वनाथचरितेविधाय करुणां दैवः कथं दास्यति किञ्चन ? ॥ ५२२ ॥ तस्माद् बाल्येऽपि दुःखेऽपि निर्धनत्वेऽपि सद्धिया । देवदर्शनमात्रोऽपि धर्मः कार्यो निरन्तरम् ॥ ५२३ ॥ इति श्रुत्वा लसद्धर्षप्रकर्षेण सगद्गदम् । योजयित्वा करी सास्रमुवाच कुलपुत्रकः ।। ५२४ ॥ अनाथो बन्धुरहितस्तथा शरणवर्जितः। एतावन्ति दिनान्येष भ्रान्तोऽहं नाथ ! भूतले ॥ ५२५ ॥ नाथो बन्धुः शरण्यं च सर्वमेकपदेऽधुना। मुनीश्वर ! मयाऽवापि त्वयि दृष्टे कृपानिधौ ॥ ५२६ ।। अद्य यावन्न केनाऽपि सुधामधुरया गिरा । त्वयेवाऽऽलापितः स्वामिन्नहमाक्रोशदुःखितः॥ ५२७ ॥ मया दुःखार्णवास्यान्तरितश्चेतश्च गाहनात् । निराधारेण लब्धोऽद्य यानपात्रसमो भवान् ।। ५२८ ।। तद् विधाय प्रसादं मे को देवः किमु वा मुने!। दर्शने तस्य भण्येत कथ्यतां प्रमिताक्षरैः ? ॥ ५२९ ॥ इत्थमुद्घाटयामास दुःखमेष मुनेः पुरः । दुःखदग्धो यथा दग्धोपलस्तापं जलाग्रतः॥ ५३०॥ मुनिरप्याह भो भद्र ! स्त्री-शस्त्रोपाधिवर्जितः । देवः पद्मासनाऽऽसीनः शान्तमूर्तिर्जिनेश्वरः ॥ ५३१॥ गत्वाऽस्य भवने कृत्वा भूतलन्यस्तमस्तकम् । प्रणामाञ्जलिं बद्ध्वा च पुरः स्थित्वेदमुच्यते ।। ५३२ ।। जितसंमोह ! सर्वज्ञ ! यथाऽवस्थितदेशक !। त्रैलोक्यमहित ! स्वामिन् ! वीतराग! नमोऽस्तु ते ॥५३३॥ तथेति प्रतिपद्याऽसौ गत्वा तत्रैव संस्थिते । अर्हच्चैत्ये जिनं दृष्ट्वा नमस्कारं पठत्यमुम् ॥ ५३४ ॥ तत्राऽन्यत्रापि सर्वज्ञभवने तस्य नैत्यकम् । कुर्वाणस्येति तद्ध्यानचित्तस्यार्तिः क्षयं गता ।। ५३५ ।। Page #433 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४२१ संतोषश्च यथालब्धे लब्धिश्च प्रायशो जनात् । जज्ञे किन्त्वस्य निःसत्त्वात् क्षणमेवं मनस्यभूत् ॥ ५३६ ॥ किं नमस्कारमात्रेण भविताऽनेन मे फलम् । अथवा धिगिदं ध्यातं सर्वसिद्धिरतो ध्रुवम् ॥ ५३७ ।। चलदित्यन्तरा चित्तं तस्य स्थिर यतो भृशम् । आयुर्निर्वाह्य कालेन पर्यन्तसमयोऽभवत् ॥ ५३८ ।। या पूर्व रङ्कमात्रस्य दृष्टा सुस्थितभूपतिम् । इच्छा बभूव राज्यस्य सा तदा हृदयेऽवसत् ।। ५३९ ॥ एवं च चिन्तयामास किमुत्तमकुलैनेरैः । कुले नीचेऽपि जातस्य भाग्यमेकं प्रशस्यते ॥ ५४० ॥ इति ध्यानपरः स्मृत्वा भणित्वा च मुहुर्मुहुः । वीतरागस्तुतिश्लोकं कालं कृत्वा समाहितः ।। ५४१ ॥ तत्रैव नगरे सोमनाम्नो राजपुरोधसः । गृहकर्मकरीकुक्षौ पुत्रत्वेनोदपद्यत ॥ ५४२ ॥ (युग्मम् ) तस्य जन्म द्रुतं गत्वा पुरुषेण निवेदितम् । सभाऽऽसीननृपाऽऽसनोपविष्टस्य पुरोधसः ।। ५४३ ॥ लग्नं तत्र क्षणे स्वामियुतमुच्चाऽखिलग्रहम् । शुभयोगबलोपेतं मुहूर्तमपि सुन्दरम् ॥ ५४४ ॥ विचार्य हृदये जातचमत्कारः पुरोहितः । विस्मितास्यः शिरो धुन्वन् स नखाच्छोटनं ददौ ॥५४५॥ तद् दृष्ट्वा तं नृपोऽपृच्छत् किमेतदिति सादरम् ? । पुरोधाः स्माऽऽह निगूढं तत्त्वं देव ! निशम्यताम् ।।५४६॥ मद्गृहे चेटिकाया यस्तनयोऽजनि सम्प्रति । सुमुहूर्तप्रमाणेन तव पट्टे निवेक्ष्यते ॥ ५४७ ॥ तत् श्रुत्वा सहसा व्योम-तमाल-यमुनाजलैः । समानमाननं जज्ञे राज्ञः साशङ्कचेतसः ॥ ५४८ ॥ Page #434 -------------------------------------------------------------------------- ________________ ४२२ श्रीपार्श्वनाथचरितेविसृज्याऽथ सभालोकं द्रुतमुत्थाय चाऽऽसनात् ।। प्रविश्य चिन्तया सौधं हृदि चिन्तितवानिदम् ॥ ५४९ ॥ आः ! किमेतदसंभाव्यं यदेष वृषलीसुतः ।। मयि तिष्ठति सत्पुत्रे मम राज्यं ग्रहीष्यति ॥ ५५० ॥ अथवा किमसंभाव्यं दैवस्याऽघटकारिणः । भवतु च्छिद्यते व्याधिर्यावदस्ति सुकोमलः ॥ ५५१ ॥ इति निश्चित्य चण्डाऽऽख्यं भृत्यमाकार्य सत्वरम् । आदिदेश नृपो यत् त्वमहो ! मे कार्यकर्मठः ॥ ५५२ ।। तत्पुरोधोगृहासन्ने चेट्या जातोऽस्ति यः सुतः । गुप्तवृत्त्या गृहीत्वाऽसौ बहिर्नीत्वा निगृह्यताम् ॥ ५५३।। स आदेशः प्रमाणं मे इत्युदित्वा गतस्ततः । चण्डश्चण्डः प्रकृत्यैव विशेषात् तन्नियोगतः ।। ५५४ ॥ कृतान्तेनेव तेनाऽथ भ्रमताऽस्या गृहान्तिकम् । प्रस्तावं वीक्षमाणेन सन्ध्यायाः समयेऽन्यदा ॥ ५५५ ॥ निवृत्ते सूतके दास्यां गतायामन्यतो गृहे । एकाकी बालको दृष्टो गृहीतश्च सपोतकः ॥ ५५६ ॥ ततः शीघ्रं बहिर्गत्वा नगरान्नाऽतिदूरतः। जीर्णशुष्कमहाऽऽराममध्ये कूपस्य सन्निधौ ॥ ५५७ ॥ आम्रवृक्षादधः स्थित्वा यावदुत्सार्य चीवरम् । बालमालोकते तावत् तन्मुखेन्दुप्रभाभरैः ॥ ५५८ ॥ तमस्तोमं तिरस्कृत्य सहसोयोतितं वनम् । चण्डोऽपि मुदितश्चित्ते विस्मयं च परं गतः ५५९ ॥ अचिन्तयच्च धिगिदं पारवश्यं नृणामिह । यदेवंविधवालानां क्रियते कर्म निघृणम् ॥ ५६० ॥ एष भाग्याधिकः कोऽपि राजाऽऽदेशश्च दारुणः। तथापि न हनिष्यामि बालमेनं सुरोपमम् ॥ ५६१॥ सौम्यस्य दर्शने नूनमाः स्यात् कठिनोऽपि हि । Page #435 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४२३ चन्द्राऽऽलोकेन किं न स्यात् पाषाणस्य जलद्रवः ? ॥५६२॥ अस्य कुर्वन्तु सानिध्यमधुना वनदेवताः। इत्युक्त्वा मुमुचे बालं स तस्यैव तरोस्तले ॥ ५६३ ॥ चलितश्च ततः स्थानाच्चण्डभृत्यः पुरं प्रति । तदीयप्रतिबन्धेन बन्धेनेव स्खलद्गतिः ॥ ५६४ ॥ पश्चाच्च वलितग्रीवं वीक्षमाणो मुहुर्मुहुः । कान्तिरश्मिभिरतस्याऽऽकुञ्च्यमान इवाधिकम् ॥५६५॥ . (युग्मम् ) गत्वा न्यवेदयद् राज्ञो यथाऽऽदेशः कृतः प्रभो!। तच्छ्रुत्वा सुतरामस्मै नृपः प्रासादिकं ददौ । ५६६ ॥ अथाऽऽसन्नाऽऽगते सूरे पद्मबन्धौ भयादिव । नष्टा श्रस्ततम केशी पद्मश्रीहारिणी निशा ॥ ५६७ ॥ मुखेन दिनसिंहस्य भिन्नध्वान्तेभकुम्भतः। . मुक्ता इव गलन्ति स्म दिक्षु सर्वासु तारकाः ॥५६८ ॥ रविरद्याऽपि दूरेणाऽरुणेनैव हृतं तमः । खामिनः सुप्रतापेन समर्थाः पङ्गवोऽपि हि ॥ ५६९ ॥ निलीनमन्धलैमूकैचूंकैगिरिगुहादिषु । स्वयमेव विलीयन्ते काले किल भयङ्कराः ॥५७०॥ दिक्षु सर्वासु पूर्वाऽऽशा सान्ध्यरागवती बभौ। . सत्कुङ्कुमाङ्गरागव दिवा भर्तुः समागमे ॥ ५७१॥ अमिलचक्रयुग्मोघो रुवन्नाख्यन्निवाङ्गिनाम् ॥ दिने प्रतीक्षते भूयो भवत्येवेष्टसङ्गमः ॥ ५७२ ॥ अथैवं समये तस्मिन्नारामे मालिको गतः । सहसा वनमद्राक्षीत् पत्र-पुष्प-फलाऽऽकुलम् ॥५७३॥ प्रायश्छायाऽपि दुष्पापा यत्र पत्रावभावतः। स आरामोऽभिरामोऽभूदन्धकूपोऽपि सोदकः ॥ ५७४ ॥ किमेतदश्रुताऽदृष्टपूर्वमित्यतिविस्मितः। Page #436 -------------------------------------------------------------------------- ________________ ४२४ श्रीपार्श्वनाथचरितेस यावदग्रतो याति तावद् बालं तरोस्तले ॥ ४७५ ॥ अपश्यद् विकसनेत्रपत्रं सत्कण्ठकन्दलम् । विस्फुरत्कान्तिकिञ्जल्कं धारयन्तं मुखाम्बुजम् ॥५७६।। (विशेषकम् ) तं दृष्ट्वा मालिको दध्यौ नूनमस्य प्रभावतः । अचिन्तितमिवाऽकस्माद् बभूव सफलं वनम् ॥ ५७७ ॥ अपुत्रस्य यतः पुत्रं सर्वलक्षणसंयुतम् । अदाद् मदीयभाग्येन तुष्टा मे वनदेवता ।। ५७८ ॥ अर्पये निजगेहिन्या इति निश्चित्य तं हृदि । दोामादाय गत्वाऽसौ स्वगृहे हर्षनिर्भरः ॥ ५७९ ॥ दत्तो देवतया तोषात् पुत्रोऽयं गृह्यतां प्रिये !। इत्युक्त्वा प्रीतितन्मय्याः स्वप्रियायाः समर्पयत् ॥ ५८० ।। मालिन्या गूढगर्भायाः पुत्रो जात इति श्रुतिम् ।। बहिर्विस्तारयामास प्रच्छन्नीकृत्य तामसौ ।। ५८१॥ अथो विचित्रपुष्पाणि प्रकीर्य स्वगृहाङ्गणे । घृतेनोदुम्बरं सिक्त्वा द्वारे सम्पूर्य तोरणम् ॥ ५८२ ॥ आगच्छदक्षतामत्रं संमिलत्स्वजनवजम् । विधीयमानसन्मानं मानिताऽशेषदैवतम् ॥ ५८३ ॥ वाद्यमानमहातूर्य भवद्धवलमङ्गलम् । सत्कारोत्थमुदा नृत्यत्सजातीयाऽङ्गनाजनम् ॥ ५८४ ॥ बालप्रभावसंपन्नं व्ययित्वा द्रविणं बहु । अकारयदयं पुत्रजन्मवर्धापनोत्सवम् ॥ ५८५ ॥ .. (कलापकम्) कुलजज्ञातिसम्बन्धि भक्तसत्कारपूर्वकम् ।। सुदिने नाम बालस्य वनराज इति व्यधात् ॥ ५८६ ॥ यत्नादारामिकेणैष पाल्यमानो निरन्तरम् । नवचम्पकवद् वालः प्राप वृद्धि मनोहराम् ।। ५८७ ॥ Page #437 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । लीननेत्रालिसद्गन्धमुखपुष्पः स बालकः । दोःशाखाग्रस्फुरत्पाणिपल्लवः किं न चम्पकः १ || ५८८ || पांशुक्रीडारसेनाऽसौ देवानामपि दुर्लभम् । ४.२५ भुञ्जानो बाल्यजं सौख्यं संजातः पञ्चवार्षिकः ।। ५८९ ।। वसन्तसमयेऽन्येद्युर्विचित्रकुसुमैः कृतम् । पुष्पाभरणमादाय मालाकारस्य गेहिनी ॥। ५९० ॥ सभाssसीनस्य भूपस्यात्वलगायां गताऽन्तिकम् । कुतूहलेन बालोऽपि ययौ तत्र तया सह ।। ५९१ । तथैवाऽथ नृपासन्नोपविष्टेन पुरोधसा । तं दृष्ट्वा धृतिं शीर्ष नखाच्छोटन पूर्वकम् ।। ५९२ ॥ किमेतदिति संभ्रान्तमानसेन महीभुजा । पृष्टोऽसौ मन्दमाचख्यौ निमित्तज्ञानकोविदः ।। ५९३ ॥ य एव बालको देव ! दृश्यते पुरतः स्थितः । सत्वदीयमिदं सिंहासनमाक्रमिता ध्रुवम् ।। ५९४ ॥ साशङ्कं पुनरप्यूचे नृपो वेत्सि कथं त्विदम् ? | शरीरलक्षणैर्देव ! कानि तानि निशम्यताम् १ ।। ५९५ ।। उक्तं सामुद्रिके शास्त्रे नराणां यच्छुभाशुभम् । लक्षणं तत् समासेन नख - केशाग्रमुच्यते ।। ५९६ ॥ अस्वेदौ पाटलौ श्लिष्टाऽङ्गुली कूर्मोन्नती मृदु । उष्ण ताम्रनखौ गूढगुल्फौ पादौ नृणां शुभौ ।। ५९७॥ सूर्पाकारास्तथा भुग्ना वक्राः शीताः शिरायुताः । सस्वेदाः पाण्डुरा रूक्षावरणास्त्वतिनिन्दिताः ।।५९८ ।। राज्याय पादयो रेखा ध्वज-वज्रा ऽङ्कुशोपमाः । अङ्गुल्योऽपि समा दीर्घाः संहिता समुन्नताः ।। ५९९ ॥ अङ्गुष्ठैर्विपुलैर्दुःखं सदाऽध्वगमनं नृणाम् । वृत्तैस्ताम्रनखैः स्निग्धैर्हसितैस्तु सुखं भवेत् ।। ६०० ॥ ह्रस्वा क्लेशाय भोगायाङ्गुष्ठाद् दीर्घा प्रदेशिनी । ५४ Page #438 -------------------------------------------------------------------------- ________________ ४५६ श्रीपार्श्वनाथचरितेसमा तु मध्यमा श्रेष्ठा धिये दीर्घा कनिष्ठिका ।।६०१॥ असंहिताभिईस्वाभिरङ्गुलिभिस्तु मानवः । दासो वा दासकर्मा वा समुद्रवचनं यथा ॥ ६०२॥ हंसे-भ-वृषभ-क्रौञ्च-सारसानां गतिः शुभा । खरो ष्ट्र-महिष-श्वानगतयस्तु महाधमाः ।। ६०३॥ दुःखिनः काकजङ्घाः स्युर्दीर्घजङ्घा महाऽध्वगाः। बन्धनं चाऽश्वजवानां मृगजवस्तु पार्थिवः ।। ६०४ ॥ जानुनी मांसले स्निग्धे ऊरू विस्तीर्णवर्तुले । इष्टकाऽऽभा कटी शस्या मध्यं तु कुलिशोपमम् ॥६०५॥ मृग-व्याघ्रोदरो भोगी श्व-शृगालोदरोऽधमः । मण्डूकसदृशं यस्योदरं स स्यान्महीपतिः ॥ ६०६ ॥ वर्तुला गर्भगम्भीरा नाभिः शस्या न तूत्रता । गम्भीरे भूपतिः कुक्षावुत्ताने स्त्रीमुखेक्षकः ॥ ६०७ ॥ ईश्वरो व्याघ्रपृष्ठः स्यात् कूर्मपृष्ठस्तु पार्थिवः । समोपचितविस्तीर्णहृदयेन सुभोगभाक् ॥ ६०८ ॥ प्रलम्बबाहुः स्वामी स्याद् इस्वबाहुस्तु किङ्करः । स्वच्छारुणनखौ दीर्घाखली रक्तौ करौ श्रिये ॥ ६०९ ॥ शक्ति-तोमर-दण्डा-ऽसि-धनुश्चक्रा-ऽङ्गदोपमा । यस्य हस्ते भवेद् रेखा राजानं तं विनिर्दिशेत् ॥ ६१० ॥ ध्वज-वज्रा-ऽङ्कुश-च्छत्र-शङ्ख-पद्मादयस्तले । पाणिपादेषु दृश्यन्ते यस्याऽसौ श्रीपतिः पुमान् ॥६११।। स्वस्तिके जनसौभाग्यं मीने सर्वत्र पूज्यता । श्रीवत्से वाञ्छिता लक्ष्मीर्गवाद्यं दामकेन तु ॥ ६१२ ॥ पुत्रदा करभे रेखा कनिष्ठाऽधः कलत्रकृत् । अङ्गुष्ठमूलरेखा तु भ्रातृ-भाण्डानि शंसति ॥ ६१३ ॥ अङ्गुष्ठेषु यवैभाग्यं, विद्या चाऽङ्गुष्ठमूलजैः । ऊर्ध्वाऽऽकारा पुनः पाणितले रेखा महाश्रिये ॥ ६१४ ॥ Page #439 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । यान्त्यां कनिष्ठिकामूलाद् रेखायां तर्जनीं प्रति । वृद्धिः स्यादतिवृद्धायां हीनायां हानिरायुषः ।। ६१५ ।। स्थूलरेखा दरिद्राः स्युः सूक्ष्मरेखा महाधनाः । खण्डित - स्फुटिताभिः स्यादायुषः क्षय एव हि ॥ ६१६ ॥ शङ्खग्रीवाः प्रशस्यन्ते शुष्को -ष्ट्रग्रीव कौ न तु । संपूर्णवदनं फुल्लकपोलफलकं शुभम् || ६१७ ॥ कुन्ददन्तो भवेद् भोगी विद्यावान् दन्तुरः पुनः । दुःखितो विकृते रूक्षैर्दन्तैर्मूषकसन्निभैः ।। ६१८ ॥ द्वात्रिंशद्दशनो राजा भोगी स्यादेकहीनकः । त्रिंशद्दन्तास्तु सुखिन एतद्धीनास्तु दुःखिताः ||६१९ || पद्मपत्रसमा जिह्वा रक्ता सूक्ष्मा सुशोभना । हंस - कौश्चखरो धन्यः क्षीण-भिन्नस्वरोऽधमः ॥ ६२० ॥ पार्थिवः शुकनासः स्यात् ह्रस्वनासस्तु धार्मिकः । शूलाग्रा विकृता नासा येषां ते पातकप्रियाः ||६२१|| श्वानतुल्येक्षणाचौराः पिङ्गाक्षाः क्रूरकर्मठाः । गवाक्षाः सुभगा निम्न के केराक्षा दुराशयाः ।। ६२२ ।। आवर्तकर्णा धनिनः स्निग्धकर्णा महासुखाः । भ्रूयुग्मे मिलिते कूपावर्त गल्ले कुशीलता ।। ६२३ ।। ललाटे चार्धचन्द्रामे राजा धर्मिष्ठ उन्नते । विद्याभागी विशाले स्याद् विषमे नैःस्व्यदुःखितः ||६२४ || रेखाः पञ्च ललाटस्थाः समाः कर्णान्तगोचराः । भणितं यस्य गम्भीरं तं विद्यात् सकलायुषम् ||६२५|| छत्राकारं नरेन्द्राणां शिरो दीर्घं तु दुःखिनाम् । अधमानां घटाकारं पापिनां स्थपुटं पुनः || ६२६॥ मृदुभिः श्यामल स्निग्धैः सूक्ष्मैर्भवति भूपतिः । स्फुटितैः कपिलै स्थूलैः रूक्षैः केशैः सुदुःखितः ॥ ६२७॥ १ केकराक्षो वक्रनेत्रः । २ विषमम् । ४२७ Page #440 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते S क्षुः स्नेहेन सौभाग्यं दन्तस्नेहे सुभोजनम् । त्वचः स्नेहेन सौख्यं स्याद् नखस्ने महाधनम् ||६२८ ॥ लक्षणानां तदेतेषां यत् किश्चिदतिशोभनम् । तदस्मिन् दृश्यते देव ! बालके नात्र शंसयः ||६२९|| विशेषः पुनरेकोsa भ्रुवोर्मध्ये यदीक्ष्यते । ऊर्णाsssयं रोम तेनाsस्य राज्यं नैव विसंवदेत् ||६३०॥ इति वाक्यतमोग्रासग्लपिताऽऽननचन्द्रमाः । विसृज्याऽऽशु जनं राजा चण्डमाहूय पृष्टवान् ॥ ६३१ ॥ अभीस्ते ब्रूहि सत्यं भोः ! त्वया वालो हतो न वा ? | तेनापि कथिते सत्येस किंकृत्याऽऽकुलोऽभवत् ।। ६३२|| ततः सायं समाहूय भीमसेनाऽऽख्यसेवकम् | आदिदेश नृपो बालवधार्थमथ सोऽप्यगात् ।। ६३३॥ अश्वमारुह्य गोधूलिवेलायां मालिकौकसि ? | जगृहे च बलाद् बालं रममाणं गृहाद् बहिः ||६३४॥ गच्छन् पुराद् बहिर्भीमस्तात ! मां कुत्र नेष्यसि । इति बालवचः स्निग्धं श्रुत्वाऽभून्मृदुमानसः १ ॥ ६३५ ॥ ? दृष्ट्रा च करजैरषित्स्पृशन्तं श्मश्रुतः कचान् । रोमाञ्चितवपुर्जातसुतप्रीतिरवोचत ||६३६ ॥ पुत्र ! नेष्यामि तत्र त्वां भविता यत्र सुन्दरम् | इति संतोष्य तं भीमो ययौ खरतराऽटवीम् ॥६३७|| तत्राऽतिभीषणेऽनेकवनेचर-निशाचरैः । आश्वासभवनं यक्षभवनं दिव्यमैक्षत ||६३८ ॥ सोऽश्वादुत्तीर्य तस्याऽन्तः प्रविवेश सबालकः । ४२८ 7 : यक्षस्य सुन्दराऽऽख्यस्य प्रतिमां वीक्ष्य चावदत् ॥६३९॥ त्वदीयशरणे बालो मुक्तोऽयं परमेश्वर ! | न्यस्येति तं तदुत्सङ्गे व्यावृत्य स्वगृहं गतः । ६४० ॥ मोदकं देहि मे तात ! क्षुधितोऽहमिति मृदु । Page #441 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४२९ वदन् बालः कराग्रेण यक्षतुन्दं परामृशत् ।। ६४१ ॥ यक्षः पाषाणरूपोऽपि भिन्नस्तद्वचसा भृशम् । चिन्तिताऽऽहृतमेतस्मै ददौ प्रवरमोदकम् ॥ ६४२ ।। अथ तत्र कृताऽऽवासः सार्थेशः केशवाभिधः । तदा वृषेषु नष्टेषु जाग्रत् सुप्तोऽस्ति चिन्तया ॥ ६४३ ॥ तस्याऽऽदेशं ददौ यक्षो मा कार्षीदधृतिं भवान् । स्वयमेव समेष्यन्ति बलीवास्तव प्रगे ।। ६४४ ॥ अन्यश्च वनराजाऽऽख्यो मदुत्सङ्गगतः सुतः। ग्रहीतव्यस्त्वया येनाऽपुत्रत्वेनासि दुःखितः ।। ६४५ ॥ इति श्रुत्वा स सार्थेशः स्मृतदेव-गुरुक्रमः । जजागार महाहर्षप्रकर्षवशमानसः ॥ ६४६ ॥ निशाऽन्ते च बलीवोऽऽगमं श्रुत्वा परिच्छदात् । समादाय महापूजां यक्षस्य भवनं ययौ ॥ ६४७॥ कृत्वा पूजां स्तुतिं चाऽपि हसिताऽऽस्यं तदङ्कतः । आदाय बालकं तुष्टः स्वप्रियायै समर्पयत् ॥ ६४८ ॥ ततः क्रमेण सार्थेशः खं सुशर्मपुरं ययौ । विभूत्या तत्र पुत्राप्तिवर्धापनमकारयत् ॥ ६४९ ।। कारितः सदुपाध्यायसन्निधौ पठनक्रमम् । सदभ्यस्तकलाशास्त्रो जज्ञे षोडशवार्षिकः ॥ ६५० ॥ अथाऽसौ वनराजेन समं सार्थपतिः पुरे । क्षितिप्रतिष्ठिते सार्थसंवाहेन गतः क्रमात् ॥ ६५१ ॥ साथै निवेश्य सुस्थाने पुत्रेण सहितः स्वयम् । गृहीत्वोपायनं चारु प्रतस्थे सुस्थितं नृपम् ।। ६५२ ॥ आसने दापिते राज्ञा निविष्टे सार्थनायके । वनराजो नृपं पश्यन्नूर्व एव स्म तिष्ठति ॥ ६५३ ।। " पुरोधा वीक्ष्य तं भूयः कुमारममराकृतिम् । विभाव्य च हृदि स्पष्टं तथैवाऽऽच्छोटयनखम् ॥ ६५४ ॥ Page #442 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते पप्रच्छ कारणं भूपो नखाऽऽच्छोटे पुरोधसम् ।। सोऽप्याचख्यौ चतुष्कर्ण देव ! किं तव कथ्यते ? ॥६५५॥ आकृतिय पुरःस्थस्य कुमारस्याऽस्य दृश्यते । ध्रुवमस्याः प्रभावेण तव राज्यं ग्रहीष्यति ॥ ६५६ ॥ भूपोऽपि हृदि साकूतं चिन्तयामास विस्मितः । अरे ! पापः स एवाऽयं यः पूर्व कथितोऽमुना ॥६५७॥ किमसावसुरः कोऽपि व्यन्तरः खेचरोऽपि वा। यो मयाऽऽज्ञापराद् भृत्याद् घातितोऽपि हि जीवति ॥६५८॥ विकल्पकल्पनैः किं वा कोऽप्युपायो विधीयते । तृतीयोड्डयने येन मयूरोऽपि हि गृह्यते ॥६५९॥ इति पप्रच्छ सार्थेशं ननु कोऽयं कुमारकः ।। दृश्यते तव पाश्चात्यः सोऽप्यूचे देव ! मे सुतः ॥६६०॥ नृपोऽप्युवाच यद्येवं कियतोऽपि दिनांस्तदा । अस्तु पार्वं ममैवाऽयं येन मेक्षिगतो भृशम् ॥६६१॥ हसतां रुदतां वापि राजाऽऽदेशः कृतः श्रिये । मत्वेति केशवोऽप्यूचे क्रियतां देव ! यद् वरम् ॥६६२॥ ततः प्रीतो नृपः सर्ववस्तुनो दानमोचनम् । कृत्वा वस्त्रादिसन्मानं स्वहस्तेनाऽस्य निर्ममे ॥६६३॥ अथ सास्रेक्षणो बाढं निर्जीव इव केशवः । अव्यक्तवचनः पुत्रं बाहौ धृत्वेदमूचिवान् ॥ ६६४॥ अनुल्लद्ध्यवचा वत्स ! राजा तत् किं करोम्यहम् । कियन्त्यपि दिनान्यत्र स्थातव्यं ते नृपान्तिके ॥ ६६५ ॥ अधृति, पितुर्मा भूदिति स्मितमुखाऽम्बुजः । एवं तात ! करिष्यामीत्यभाषत कुमारकः ।। ६६६ ॥ ततो राजानमापृच्छय सुतमालिङ्गय केशवः । ययौ स्वस्थानमङ्गेन, हृदा तत्रैव तु स्थितः ॥ ६६७ ।। बहिष्प्रमुदिताऽऽकारः करे कृत्वा कुमारकम् । Page #443 -------------------------------------------------------------------------- ________________ समः सर्गः । ४३१ नृपोऽवोचत् त्वया वत्स ! कर्तव्या काऽपि नाऽधृतिः ६६८ समस्तजगतीलोकशरण्यस्य तत्राऽन्तिके । स्थितस्य मम किं दुःखमिति सोऽपि नृपं जगौ ॥ ६६९ ॥ कियन्त्यपि दिनान्येवं स्थापयित्वाऽन्तिके नृपः । समर्प्य निजपादातीन् चक्रे देशैकनायकम् ।। ६७० ।। तत्र देशे गतः सोऽपि स्वाम्यं प्राप्योत्कटं क्रमात् । निजं चक्रे परीवारं प्राहिणोन्नृपसेवकान् ॥ ६७१ ॥ सार्थेशः केशवोऽप्यस्मै बहु प्रेषयते धनम् । तेन तुष्टो विशेषेण बभूव स कुमारराट् || ६७२ ॥ प्रगेऽथ प्रहितो राज्ञा नरसिंहो निजाङ्गजः । सामन्तमेकमुच्छेत्तुं देशोपद्रवकारिणम् || ६७३ ॥ गतोऽपि महता सैन्यसंनिवेशेन राजसूः । निग्रहीतुं न शक्नोति तं दुर्ग- बलदुर्धरम् ।। ६७४ ॥ अतस्तत्र नृसिंहस्य सङ्ग्रामाग्राय भूभुजा । वनराजो निजाऽऽदेशं प्रस्थाप्य प्रहितस्तदा ।। ६७५ ।। अथ तत्र गते तस्मिन् तकं फेन इवाऽऽहिते । सहसा बहलीभूतं नृसिंहबलमुल्लसत् ।। ६७६ ।। सैन्यं समुदितीभूय द्वयोरपि कुमारयोः । वेष्टयित्वाऽभितो दुर्ग तस्थौ कलकलाssकुलम् ॥ ६७७ ॥ अरे ! निर्याहि निर्याहि मृगधूर्तो दमित्र । कथं दुर्ग प्रविश्याsसि स्थितो बिलमिवोन्दुरः ॥ ६७८ ॥ देशविध्वंसपापस्य फलमेतदरेऽधम ! | ब्रुवाणमिति तत् सैन्यं समन्ताद् ढौकितं युधे ॥ ६७९ ॥ कोहलातुमुलैढकानादैर्निवाननिखनैः । तदा बुम्बारवैश्वाऽपि स्फुटतीव नभोऽङ्गणम् ॥ ६८० ॥ बहिर्मण्डितयन्त्रोत्थ स्थूलपाषाणगोलकैः । १ शृगालः । २ शृङ्गाकारं वाद्यम् । Page #444 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते गोफणीमुक्त गोश्व वज्रसंपातदारुणैः ।। ६८१ ॥ तीरी तोमर - नाराच - शल्य - वावल्ल - यष्टिभिः । उत्पत्य निपततीव्रगृध्र संपातसन्निभैः ।। ६८२ ॥ वधिरोऽन्धोऽभवल्लोको दुर्गमध्यगतः क्षणात् । प्राकारं खण्डयित्वान्तर्व्यानशे स बहिर्भटैः ॥ ६८३ || वनराजेन बद्धाऽथ ससामन्तः समर्पितः । नरसिंहस्य सूराणामाकृतेः किमु दुष्करम् ॥ ६८४ ॥ १ अहो ! धैर्यमहो ! धैर्यमिति ख्यातिर्जगत्यपि । वनराजस्य विस्तीर्णा, जागर्ति प्राक् कृतं शुभम् ॥ ६८५ ॥ जगत्सरसि नो केषा मुल्ललास मुखाम्बुजम् । तेजसा तस्य सूरस्य मुक्त्वा तं कुमुदं नृपम् १ ॥ ६८६ ॥ तं तत्राऽप्यक्षयं श्रुत्वा विशेषचकितो नृपः । जनापवादभीरुत्वात् स्वयमेव रहः स्थितः ।। ६८७ ॥ वनराजस्य दातव्यं विषमित्यक्षराङ्कितम् । प्राहिणोन्नरसिंहस्य लिखित्वा लेखमौष्ट्रिकान् ||६८८|| ( युग्मम् ) ४३२ निर्विलम्बं च ते यान्तस्तत्र प्रययुरौष्ट्रिकाः । यत्र सुन्दर यक्षेणाधिष्ठिताऽस्ति महाटवी ।। ६८९ ॥ श्रान्ताश्च निशि तत्रैव यक्षदेवकुलेऽखपन् । प्रयुक्तावधिरज्ञासीत् तं लेखं यक्षराडपि ।। ६९० ॥ अरे ! मदीयपुत्रस्य वधार्थोऽयमुपक्रमः । तत् करिष्ये तथेदानीं भविता सुन्दरं यथा ॥ ६९१ ॥ उत्सार्य स्वप्रभावेण विषदानाऽक्षरावलीम् । कमला वनराजस्य दातव्येति लिलेख सः ॥ ६९२ ॥ औष्ट्रिकाः प्रातरुत्थाय कुमारकटकं गताः । लेखं समर्पयामासुस्तं नृसिंहोऽप्यवाचयत् ।। ६९३ ॥ Page #445 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ॥ दध्यौ विज्ञाय लेखार्थं भ्रातृस्नेहेन मेऽन्तिके । आयाताऽस्ति स्वसा साऽस्मै तोषात् तातेन दापिता || ६९४ || निर्विकल्पः कुमारोऽपि वनराजस्य सन्निधौ । गत्वाऽऽख्याय स्वरूपं तद् विवाहविधिमातनोत् । ६९५ ।। निजाssवासपुरः सान्द्रचन्दनोक्षितभूतलम् । पुष्पप्रकरसंभारसुरभीकृतदिङ्मुखम् ।। ६९६ ॥ बद्धाऽगरुघटीभास्वदुत्तम्भस्तम्भशोभितम् दुकूलमयमुल्लोचपद्मकोल्लासिमौक्तिकम् ।। ६९७ । विचित्रमणिमाकन्ददलाढ्यद्वारतोरणम् । । ४३३ वेदिका सुन्दरं सद्यः स मण्डपमकारयत् ।। ६९८ ।। ( विशेषकम् ) उच्छलत्तूर्यनादेन महाधवलमङ्गलैः । महर्द्धिभासुरस्तत्र वनराजः समाययौ ।। ६९९ ॥ महार्घ्यः सोऽथ लब्धाऽर्घः प्रशस्यवनिताजनात् । मण्डपद्वारमुल्लङ्घ्य विवेशाऽन्तर्यथास्थिति ।। ७०० ॥ अथ प्रवरनेपथ्यां कृतकौतुकमङ्गलाम् । कमलां परिणिन्येऽसौ वेदिकान्तः शुभक्षणे ।। ७०१ ।। सतया शुशुभेऽत्यन्तं मूर्तयेव जयश्रिया । कलयेव द्वितीयेन्दुर्विद्युतेव नवाम्बुदः ॥ ७०२ ॥ जयवन्तौ ततस्तौ स्वं पुरं व्यावृत्य जग्मतुः । पुरो न्यस्याहृतं वस्तु राजानं च प्रणेमतुः ॥ ७०३ ॥ विपक्षनिग्रहं कन्यापाणिग्रहमहोत्सवम् । वनराजस्य माहात्म्यं नरसिंहो व्यजिज्ञपत् ।। ७०४ ॥ सामन्तं विजितं श्रुत्वा न तथा मुमुदे नृपः । विवाहं वनराजस्य ज्ञात्वाऽभूद् दुःखितो यथा ।। ७०५ ।। अरे ! दैव ! त्वमेवात्र प्रतिद्वन्द्वी ममाऽभवः । एवं विनाश्यमानोऽपि यदेष भृशमेधते ।। ७०६ ॥ ५५ Page #446 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते अथवा किं सुधा दैवोपालम्भेन यथा तथा ? । प्रतिकूलमतीकारे यतितव्यं मनखिना ॥ ७०७ ॥ इति ध्यात्वा भणित्वा च कुमारौ ! साधु साधु भोः ! | माययेति निजाssवासे नृपेण महितावुभौ || ७०८ ॥ पुनस्तस्य वधध्यानाल्लब्घोपायः स भूपतिः । आकार्य निजमातङ्गौ शिक्षयामास निर्जने ॥ ७०९ ॥ अरे ! यः कोऽपि यामिन्यामर्चितुं द्वारवासिनीम् । अद्य सोपस्करो याति स वध्यो निशितासिभिः ॥७१० ॥ इति महित्य वौ तत्र संध्यायाः समये नृपः । वनराजं समाकार्य प्रच्छन्नमिदमब्रवीत् ।। ७११ ॥ जेतुं गतस्य सामन्तं तव क्षेमाऽऽगमेन नु । कथितं द्वारवासिन्या देव्या वत्स ! मयाऽर्च्चनम् ॥७१२॥ तच्च कृत्यं त्वया रात्रौ पूजोपस्करपाणिना । व्रजित्वैकाकिना तत्र यथा स्यां सत्यसङ्गरः ॥ ७१३ ॥ कृतमेवेदमित्युक्त्वा द्वियामसमये निशि । पटलीं बलि-दीपाढ्यां करे कृत्वाऽथ सोऽचलत् ॥७१४॥ तदा च स निजाssवासवातायननिवेशिना । ददृशे नरसिंहेन दीपोद्योताच्च लक्षितः ॥ ७१५ ॥ उत्तीर्य सहसा तस्याऽन्तिकं गत्वा नृपाङ्गजः । पप्रच्छ किमिदं देव ! सोऽपि तत्रमचीकथत् ।। ७१६ ॥ नरसिंहस्ततस्तस्मादादाय पटलीं करात् । तत्राऽहमेव यास्यामीत्युक्त्वा तं प्राहिणोद् गृहम् ॥७१७॥ स्वयं तु द्वारवासिन्या भवनं प्रति निर्भयः । एकाग्रमानसो यावद् गच्छति त्वरितक्रमः ।। ७१८ ॥ तत्राऽऽसन्नगतस्तावदकस्मादेत्य पार्श्वतः | नृपाऽऽदिष्टनिषादाभ्यां स हतो निशिताऽसिभिः ॥७१९ ॥ १ सत्यप्रतिज्ञः । ४३४ Page #447 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४३५ जाते कलकले लोकस्तत्राऽऽगत्य निरीक्ष्य तम् । राजे निवेदयामास सोऽपि तुष्टो भृशं हृदि ॥ ७२० ॥ किमिदं किमिदं हन्तेत्याकुलत्वादिव ब्रुवन् । गत्वा तत्रेक्षते यावत् तावदग्रे निजाङ्गजः ॥ ७२१ ॥ तं परासुं सुतं दृष्टा सुस्थितोऽतीव दुःस्थितः । चेष्टां चक्रे न कां शोकशङ्कुभिन्नमना भृशम् ? ॥ ७२२ ॥ विललाप च हा ! वत्स ! सच्चन्दनरसोचिते. । तवाङ्गे किमु दुर्दैवात् पतिता निशिताऽसयः ॥ ७२३ ॥ तव राज्यकृते पुत्र ! यन्मया चिन्तितं परे । त्वय्येव तत् पपातेदं किं वा मय्येव नो तन्त्र ॥ ७२४ ॥ त्वद्वियोगार्तिसंतापविधुरं द्रुतमेकदा । निर्वापय पितुर्भक्त ! निजवाक्यामृतेन माम् ॥ ७२५ ॥ इत्यादि चिरमारट्य वह्निसंस्कारमङ्गलम् । विधाय निजपुत्रस्य वनराजमथाऽब्रवीत् ॥ ७२६ ॥ वत्स ! वज्रोपमं भाग्यं जयत्येकं तव क्षितौ । मया घनसमानेन यन्न भिनं कथञ्चन ॥७२७॥ महाज्ञाननिधेः किं वा वचस्तस्य पुरोधसः ।। देवेन दानवेनापि कथमप्यन्यथा भवेत् ॥७२८॥ अतिभाग्याऽधिकत्वेन लघिष्ठोऽपि गुरुभवान् । क्षन्तव्यस्तदसौ सर्वोऽप्यपराधो मम त्वया ।।७२९।। गृहाण राज्यमेतच्च तव भाग्यैः समर्पितम् । अहं तु दुष्कृतोच्छित्यै करिष्ये व्रतमुज्ज्वलम् ।।७३०॥ इत्युदित्वोत्तमत्वेनानिच्छन्तमपि तं नृपः। स्वीयसिंहासने न्यस्य राज्यं दत्त्वा वनं ययौ ॥७३॥ वनराजोऽथ भूपालो भाखानिव द्वेषं चरन् । आचक्राम प्रतापेन निखिलानपि भूभृतः ॥७३२।। .-मृतम् । २ धर्म वृपराशिं च । Page #448 -------------------------------------------------------------------------- ________________ ४३६ श्रीपार्श्वनाथचरिते सतीध्वन्तःपुरे गोपपुत्रीष्वपि सहस्रशः । कमलेव हरेस्तस्य कमला पट्टमासदत् ॥८३३॥ अन्यदा नन्दनोद्याने नन्दनाख्यो महामुनिः। आययौ मुनिहंसालिसेव्यमानपदाम्बुजः ॥७३४॥ तद्वन्दनाय गच्छन्तं लोकं दृष्ट्वा नृपोऽपि हि । स्वनराज ज्ञातवृत्तान्तस्तत्र धर्मेच्छया ययौ ॥७३५।। वन्दित्वाऽथ मुनि नीचैरुपविश्यांचितासने । श्रुत्वा तदुपदेशं च पप्रच्छ समये नृपः ॥ ७३६ ॥ किं मया विहितं नाथ ! सुकृतं पूर्वजन्मनि । येनैतदद्भुतं राज्यमासादितमिदं वद ? ।। ७३७ ॥ ज्ञानाऽतिशयसंपन्नस्तस्य प्राच्यभवं मुनिः । कथयामास गम्भीरमधुरध्वनिकोकिलः ॥ ७३८ ॥ कुलपुत्रभवे भूप ! स्तुतिपूजा जिनस्य यत् । श्रद्धया विदधे तेन राज्यमासादितं त्वया ॥ ७३९ ॥ यत् तु चिन्तितमेतेन स्तुतिमात्रेण किं फलम् ? । भविता, तेन ते सौख्यं मध्येऽभूत् किश्चिदन्तरम् ॥७४०॥ अन्तकाले तु यश्चित्तेऽभूदिदं सुकुलेन किम् ? । प्रशस्यं भाग्यमेवैकं तेन ते कुलमीदृशम् ।। ७४१ ॥ इति श्रुत्वा समुत्पनजातिस्मरणतो नृपः । स्मृत्वा पूर्वभवं शुद्धश्रद्धासद्ध्यानमानसः ॥ ७४२ ॥ अङ्गीकृत्य मुनिख्यातं जिनधर्म तदादितः । कारयामास सच्चैत्य-जिनबिम्बान्यनेकशः ॥ ७४३ ॥ विदधे विविधां पूजां स्तुतिपूजां विशेषतः । स्वयं नवनवच्छन्दोबद्धकाव्यैमनोहरैः ॥ ७४४ ॥ वीतरागचरित्राणि शृण्वानो लेखयंश्च सः । तत्तत्त्वं भावयन्नन्तरन्येषां च प्रकाशयन् ॥ ७४५ ॥ भावपूजामयीमेवं स्तुतिपूजां जिनेशितुः । Page #449 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। निर्वाह्य तन्मना भूपः क्रमेणाऽऽप परं पदम् ॥ ७४६ ॥ एवं भव्या न के जग्मुः पूज्यतां जिनपूजया ?। तदहो ! सर्वथा धन्याः प्रयतन्ते जिनार्चने ॥ ७४७ ॥ निराकाङ्क्षतया सा तु कर्तव्या, काङ्क्षया यतः । भक्तिच्छलेन देवस्य प्रत्युताऽऽशातना भवेत् ॥ ७४८ ॥ तथााटव्यामेकत्र गिरिगह्वरमध्यगे । शिवस्य प्रतिमा चैत्ये व्यन्तरेणाऽस्त्यधिष्ठिता ॥ ७४९ ॥ सकलेयमिति ज्ञात्वा मुग्धको नाम धार्मिकः । दूरादागत्य तां मूर्ति नित्यमर्चति सादरम् ।। ७५० ॥ स्नपयित्वा जलैः स्वच्छैर्विलिप्य घनचन्दनैः । प्रपूज्य पुष्पैः सद्गन्धैौकयित्वा बलिं पुरः ॥ ७५१ ॥ प्रधानागरुमुक्षिप्य स्तवं कृत्वा मनोहरम् । नतमूर्धाञ्जलिं बद्धा भाषते नित्यमित्यसौ ॥ ७५२ ॥ (युग्मम् ) त्वयि तुष्टे मम स्वामिन् ! संपत्स्यन्तेऽखिलाः श्रियः । त्वदेकशरणोऽस्म्येष प्रसीद परमेश्वर ! ।। ७५३ ।। इति विज्ञप्तितस्तस्य सचिन्तो जायते सुरः । वृक्षोऽप्यपके पीड्येत च्छिद्यमाने फले ध्रुवम् ॥ ७५४ ॥ अन्यदा धार्मिकः पूजामपनीतां निरीक्ष्य सः। पूजयित्वा पुनः पूजाहृतिं ज्ञातुं रहः स्थितः ॥ ७५५ ।। एकः पुलिन्द्रको यावद् वामहस्ते धनुःशरान् । धृत्वा पुष्पाद्यमन्यस्मिन् जलापूर्णमुखो द्रुतम् ।।७५६।। तत्रागत्य शिवस्याद्यपूजामुत्सार्य चाघ्रिणा । गण्डूषाच्छोटनं कृत्वा क्षिप्त्वा पुष्पौघमानमत् ॥७५७॥ सुरस्तेन समं तोषादालापं कर्तुमुद्यतः। तदेकान्तगतो दृष्ट्वा धार्मिको हृयदूयत ॥७५८॥ पुलिन्द्रे च गते कोपादुपालेभे सुरोऽमुना । Page #450 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेअहो ! यादृक् पुलिन्द्रोऽसौ तादृक् त्वं कटपूतनः ॥७५९॥ एवं विडम्बनारूपं पूजितोऽशुचिमूर्तिना।। येनाऽत्यन्ताऽधमेन त्वं तं साक्षादेव जल्पसि ॥ ७६०॥ येनैवं तु मया चोक्षवस्त्रदेहभृता चिरम् । विधिना पूजितस्तस्य स्वप्नेऽपि स्वं न दर्शयः ।। ७६१ ॥ सुरः प्रोवाच मा कोपं कार्मुिग्ध ! यदन्तरम् । स्वस्य तस्य च कल्ये त्वं ज्ञास्यसि स्वयमेव हि ॥७६२।। द्वितीयदिवसे यावदाययो धार्मिकः शिवम् । एकाक्षिविकलं तावद् ददशैं शुशोच सः ।। ७६३ ॥ हहा ! केनाऽपि पापेन स्वामिनो नेत्रमुद्धृतम् । नीचानां संगतिः किं वा देवानामपि दारुणा ॥ ७६४ ॥ इत्यस्मिन् विलपत्यागात् पुलिन्द्रस्तादृशं शिवम् । वीक्ष्य सद्योऽम्बकं तस्मै भल्ल्योद्धत्य निजं ददौ ॥७६५।। अहो ! सात्त्विक ! याचस्व किमपीष्टमिदं सुरे। वदत्येव निरीहत्वात् पुलिन्द्रोऽगाद् यथागतम् ।।७६६॥ सुरोऽथ धार्मिकं ब्रूते मुग्ध ! दृष्टं त्वयाऽन्तरम् ? । एवं सात्त्विकभक्त्याऽहं तुष्ये नो बाह्यपूजया ।। ७६७ ॥ इत्युदाहरणं ज्ञात्वा पूज्यो धर्मधियैव हि । जिनो येन तरुः सिक्तः स्वयमेव फलिष्यति ॥ ७६८ ॥ तथा केनाऽप्यसंबद्धप्रार्थनावशतः स्फुटम् । अकिञ्चनकर तीर्थमपि लोके विधीयते ॥ ७६९ ॥ तथा देवपुरे सोमनामासीत् कुलपुत्रकः । रूपवांश्चतुरो दाता गुणरागी प्रियंवदः ॥ ७७० ॥ पत्नी च तस्य रुद्राख्या स्तब्धा कर्कशभाषिणी । कुरूपा निर्गुणा किन्तु प्रिये प्रेमवती भृशम् ॥ ७७१ ॥ भर्ता तु दर्शनेनाऽपि स तस्या दूयतेतराम् । , राक्षसः। Page #451 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४३९ वजाहत इवासीच तद्वचःश्रवणात् पुनः ॥ ७७२ ।। इत्थं विडम्बनापायं गृहस्थत्वं तयोरभूत् । एककर्णस्थताङ्कमुखदर्शनसन्निभम् ।।७७३।। भूयोभिरपि सा यावत् प्रकारैस्ताडिता सती । न याति स्नेहबद्धत्वात् तावदेष व्यचिन्तयत् ।। ७७४ ॥ कपिकच्छूर्भुवं मेऽसौ जीवतो नाऽपयास्यति । तथा कुर्वे यथा जन्मान्तरेऽप्येषा न मे भवेत् ।। ७७५ ॥ अन्यदा कामुकं तीर्थ श्रुत्वा पूर्णाभिधे गिरौ । जगाम तत्र सर्वस्वं विहाय मरणोन्मुखः ॥ ७७६ ॥ ममाऽहो ! जन्मनि कापि रुद्रा मा भूत् पुनः प्रिया । इत्यसौ कामनां कृत्वा खं मुमोच शिलातलात् ॥७७७॥ तदेकध्याना रुद्रापि तद् विदित्वा कुतोऽपि हि । द्रुतं जगाम तत्रैव विलम्ब सोदुमक्षमा ।। ७७८ ।। भवान्तरेऽपि मे भर्ता सोमो भवतु सर्वदा । इत्युदित्वाऽपतत् साऽपि विपन्नौ तावुभावपि ॥ ७७९ ॥ तस्य तीर्थाधिदेवस्य संदेहे पतितं मनः । तदयाचनया देवः सेवितः स्यान्महाफलः ।। ७८० ॥ विशेषेण जिनेन्द्रस्य धर्म-मोक्षार्थिभिनेरैः । पूजां कृत्वा न कर्तव्याऽऽशंसा साऽल्पफला यतः ॥७८१॥ इत्यादिसुकृतैः पुंसां गृहिधर्मोऽपि मुक्तये । क्रमात् स्यात् किन्तु तत्रापि कोऽप्यलं कर्मलाघवात् ॥७८२॥ यतित्वं गृहधर्मित्वं तावदास्तामिदं द्वयम् । धर्मश्रद्धानधन्यत्वमपि पुंसां सुदुर्लभम् ॥ ७८३ ॥ प्राप्याऽपि शस्यमानुष्यरत्नद्वीपं भवोदधौ । मूढवद् धारयन्त्येके मूलद्रव्यमपि स्फुटम् ॥ ७८४ ॥ १ कर्णभूषणम् । २ समर्थः । Page #452 -------------------------------------------------------------------------- ________________ ४४० श्रीपार्श्वनाथचरितेतथाहिश्रीवसन्तपुरेऽभूवन् चत्वारः सार्थवाहजाः। चारुयोग्यो हितज्ञश्च मूढश्चेत्यभिधानतः ॥ ७८५ ॥ अन्योऽन्यसुहृदः सर्वे ते वणिज्यार्थमन्यदा । उल्लङ्घय जलधिं रत्नद्वीपं रत्नाकरं ययुः ॥ ७८६ ॥ तत्र चारुः स्वभावेन कौतुक-व्यसनोज्झितः । लोकस्यावर्जको रत्नपरीक्षाकुशलः स्थिरः ।। ७८७ ॥ वज्रे-न्द्रनील-वैडूर्य-पद्मरागा-ऽञ्जनादिकम् । पञ्चवर्ण महानयं स रत्नौघमुपार्जयत् ।। ७८८ ॥ .: योग्योऽपि कुरुते किश्चिद् वाणिज्यं चारुशिक्षया । . जानीते सोऽपि रत्नानां गुण-दोषविचारणाम् ॥ ७८९ ॥ किन्त्वारामसरःक्रीडाकौतुकी भ्रमते बहु । तथापि मिलितान्यस्य माणिक्यानि कियन्त्यपि ॥७९०॥ शृणोति च वचश्वारोमन्यते च करोत्यपि । वर्ततेऽसौ तथा चारौ यथा तस्य हृदि स्थितः ॥ ७९१ ॥ हितज्ञश्च न जानाति स्वयं रत्नपरीक्षणम् । ततोऽसौ यस्य कस्याऽपि कथितं मन्यतेऽखिलम् ॥७९२॥ शृणोति चारुशिक्षां च तुष्टः किन्त्वस्य नो हृदि । किश्चित् तिष्ठति मुग्धत्वान्नाट्यादौ च बहुभ्रमात् ॥७९३॥ अतः परमुखप्रेक्षी स धूतॆर्विप्रतारितः। काचा-ऽश्मगवलादीनि रत्नभ्रान्त्या समग्रहीत् ॥७९४॥ मूढस्तु न स्वयं वेत्ति न चारुमपि पृच्छति । न शृणोत्युदितं तस्य न चाऽपि बहु मन्यते ॥७९५।। दक्षंमन्यतया मूर्खः शङ्ख-शुक्ति-कपदकान् । केवलं मीलयामास कृत्वा भूरि धनव्ययम् ।। ७९६ ।। कुसङ्गतिपरैधूतैर्वञ्च्यमानः स नित्यशः । अविश्वस्तश्च मित्राणां मोहाद् गमयते दिनान् ॥ ७९७ ॥ Page #453 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४४१ अथ संपूर्य बोहित्थं रत्नैः स्तोकदिनैरपि । चारुः कृतार्थः स्वस्थानं प्रति गन्तुमना अभूत् ।।७९८॥ हे ! वयस्याः ! कृतार्थाश्चेत् स्वस्थानं गम्यते तदा। इति त्रीनपि योग्यादीन् चारुराकारयत् सह ॥७९९।। तत् तेषु चारुरत्नानि वीक्ष्य तादृगुपार्जनैः । जातश्रद्धोधिकं योग्यः सदैन्यमिदमूचिवान् ।।८००॥ रत्नद्वीपमपि प्राप्य जानताऽपि मया सखे !। तथाविधानि रत्नानि नार्जितानि प्रमादतः ॥८.१॥ ततो मित्र ! प्रतीक्षस्व यथाऽहमपि सम्प्रति । साररत्नानि संगृह्य कृतार्थस्त्वां व्रजाम्यनु ॥८०२॥ हितज्ञोऽपि निजं काच-गवलादिकमर्जितम् । अदर्शयद् ऋजुत्वेन चारोः सोऽथ तमब्रवीत् ॥८०३।। न स्युरेतानि रत्नानि धूतॆस्त्वं मुग्ध ! वश्चितः । त्यक्त्वैतानि तदद्याऽपि यत्नं रत्नार्जने कुरु ।।८०४॥ ततोऽसौ चारुमम्यर्च्य गुण-दोषपरीक्षणम् । शिक्षयित्वा क्रमाज्जज्ञे सम्यग् रत्नपरीक्षकः ॥ ८०५ ॥ काननाऽऽलोकचित्राचं त्यक्त्वा धृतैश्च सङ्गतिम् । शनै रत्नानि संगृह्य हितज्ञोऽपि तमन्वगात् ।। ८०६ ॥ मूढस्तु चारुणा प्रोक्तो दुष्टोत्तरमिवाऽवदत् । न शम्बलमपि भ्रातरास्ति मे करवै किमु ? ।। ८०७॥ चारुणाऽभाणि ते नीवीमर्पयिष्ये, कुसङ्गतिम् । विहाय कुरु वाणिज्यं नेष्यामस्त्वां प्रपाल्य भोः !॥८०८॥ सर्वोऽपि कृत्रिमस्नेहं धत्ते स्वीयोऽत्र कोऽपि न । तस्मादविघटं स्थानं स्वीयमेव हि गम्यते ॥ ८०९ ॥ मूढः स्माऽऽह महाभाग ! यत्रैव मनसो रतिः । तदेव स्थानकं स्वीयं नैवाऽन्यदिति मे मतिः ।। ८१० ॥ १ प्रवहणम् । २ मूलधनम् । Page #454 -------------------------------------------------------------------------- ________________ ४४२ श्रीपार्श्वनाथचरितेतदहो ! विविधाऽऽराम-रामा-नाट्यादिकौतुकैः । रमणीयमिदं स्थानं मुक्त्वा नाऽन्यत्र मे मनः ॥ ८११ ॥ इति तं बोधविमुखं ज्ञात्वा मुक्त्वा च ते क्रमात् । गताः खस्थानमानन्दं चाऽऽपुश्चावदियः परम् ॥८१२॥ मूढस्तु व्यसनाऽसक्तस्तत्रैव स्वजनोज्झितः। परिक्षीणधनो धृतर्महादुःखेन संस्थितः ॥ ८१३ ॥ दृष्टान्तोऽयं मयाऽऽख्यातोऽधुनोपनय उच्यते । यद् वसन्तपुरं राशिरेष सांव्यवहारिकः ॥ ८१४ ॥ ये वयस्याश्च चत्वारस्ते यति-श्राद्ध-भद्रकाः । मिथ्यादृष्टिश्च, यो रत्नद्वीपो मर्त्य भवो हि सः ॥ ८१५ ॥ समुद्रलङ्घनं यत् तद् जीवयोन्यवगाहनम् । यानेन द्वीपप्राप्तिर्या तन्मय॑त्वं सुकर्मणा ॥ ८१६ ॥ चारोः पञ्चविधै रत्नैर्यच्च बोहित्थपूरणम् । व्रतानां न्यसनं ब्रह्मपञ्चमानां तदात्मनि ॥८१७।। योग्यस्य काननेच्छा या खल्परत्नार्जनं च यत् । गृहिणो विषयासेवापूर्व सोऽणुव्रतोद्यमः ॥ ८१८ ॥ यद् हितज्ञस्य मुग्धत्वात् काचखण्डादिसंग्रहः । भद्रकत्वेन जीवस्य सा सर्वत्राऽपि धर्मधीः॥ ८१९ ॥ मूढस्य यच्च शुक्त्यादिग्रहणं धूर्तवचनात् । स कुधर्मग्रहो मिथ्यादृशो वैधर्मिकाऽऽज्ञया ॥ ८२० ॥ यत् स्वाऽऽस्पदं गमी योग्य-हितज्ञौ चारुरूचिवान् । यतेरासनमोक्षस्य तज् ज्ञेयं भव्यबोधनम् ॥ ८२१ ॥ यच्च तौ चारुमभ्यर्च्य रत्नान्यार्जयतां पुनः। श्राद्ध-भद्रकयोः साधुधर्माङ्गीकरणं हि तत् ॥ ८२२॥ शिष्टोऽपि चारुणा मूढः स्वस्थानं नाऽगमद् यथा । गुर्वादेशेऽप्यभव्यस्य तथा मुक्तावनादरः॥ ८२३ ॥ १ ब्रह्म ब्रह्मचर्य पञ्चमं येषु तेषाम् । Page #455 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। ४४३ चार्वाद्या इव यत्याद्या मुक्तिस्वस्थानमियति । भवाऽब्धौ मूढवद् दुःखी मिथ्यादृष्टिस्तु तिष्ठति ।।८२४॥ अन्तरङ्गमिमं सारोपदेशं हृदि विभ्रता । पश्चादपि हि मोक्षाय यतितव्यं मनीषिणा ।। ८२५॥ इत्यादिदेशनां कृत्वा विरते गणभृद्वरे । प्रणम्य सर्वे श्रीपार्थ स्थानं निजनिजं ययुः ॥ ८२६ ॥ तत्तीर्थसंभवः पार्थनामा श्यामश्चतुर्भुजः । यक्षः फणिफणच्छत्रो गजाऽऽस्यः कूर्मवाहनः ॥ ८२७ ॥ नकुला-ऽही वामदोभा बीजपूरो-रगौ पुनः । दक्षिणाभ्यां दधद् दोभ्यों भक्तः पार्थोऽभवद् विभोः॥८२८ तदा पद्मावती नाम्ना देवी तत्तीर्थभूरभूत् । स्वर्णवर्णा प्रभावाऽऽन्या कुर्कुटो-रगवाहना ।। ८२९ ।। दक्षिणाभ्यां पद्म-पाशौ वामाभ्यां च फला-ऽङ्कुशे । कराभ्यां दधती स्वामिपार्थे शासनदेवता ॥ ८३० ।। अथ योति पुरो धर्मचक्रे सिंहासने च खे । दुन्दुभौ ध्वनति च्छत्र-चामरैरुपशोभितः ॥ ८३१ ॥ विजहार ततोऽन्यत्र वर्णाम्भोजेषु सञ्चरन् । अवस्थितकच-श्मश्रु-नखः सङ्घान्वितो विभुः ॥ ८३२ ॥ . (युग्मम् ) . गच्छतोऽस्याऽभवन् नम्रा द्रुमा न्युब्जाश्च कण्टकाः। ऋत्वि-न्द्रियार्थ-मरुतोऽनुकूलाः शकुना अपि ॥८३३॥ प्रभुप्रभावतो नेशुरायोजनशतं गदाः। तद्विहाराऽवनौ चासन्नेति-वैराग्रुपप्लवाः ॥८३४॥ सर्वातिशयवानेवं कोटिसङ्ख्यैः सदा सुरैः। सेव्यमानपदाम्भोजः स व्यहार्षीद् विभुर्भुवम् ॥८३५॥ यस्योचैः कमठाम्बुदोज्झितजलैरुद्भूतभोगीश्वरो१ गच्छन्ति । २ सप्तम्यन्तम् । ३ अधोमुखाः । Page #456 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथ चरिते त्सर्पद्भोगलतावितानममलं भेजे तथा मूर्धनि । येनाsयाऽपि तदाश्रितं जगदपि प्रीतिं परामश्नुते सोऽव्याद् वः शुभभावदेवविनतः श्रीपार्श्वनाथः प्रभुः ॥ ८३६ ॥ इति श्रीकालिकाचार्य संतानीय श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरिते महाकाव्येऽष्टसर्गे भावाङ्के भगवद्गणधर देशना शासनदेवतावर्णनो नाम सप्तमः सर्गः ॥ ७ ॥ ४४४ अर्हम् । अथाष्टमः सर्गः । शश्वद् विश्वत्रयस्वामी विश्वानुग्रहहेतवे । विहरन्नन्यदा पुण्डदेशे तत्सुकृतैरगात् || १ || इतश्च पूर्वदेशेऽभूत् ताम्रलिप्त्यां तदा पुरि । सुधीः सागरदत्ताऽऽख्यः सार्थवाहसुतो युवा ॥ २॥ स तु प्राच्यभवे विप्रः पत्न्याऽन्याऽऽसक्तया विषम् । दरवाज्ञो वहिः क्षिप्तो गोकुलिन्या च जीवितः ॥ ३ ॥ परिवाद् भूत्वा मृत्वा च तत्र श्रेष्ठिसुतोऽभवत् । जातजातिस्मृतिश्चैष विरक्तः स्त्रीषु सर्वथा ॥ ४ ॥ लोकधर्मरता मृत्वा मोकुलिन्यप्यऽभूत् सुता । तत्रैवेभ्यस्य रूपाढ्या स तां स्निग्धदृशेक्षते ॥ ५ ॥ तज् ज्ञात्वा साग़रार्थे सा वृता लब्धा च बन्धुभिः । तस्यामपि पुनस्तस्य रता दृष्टिर्मनस्तु न ।। ६ ।। स स्त्रीः शस्त्रीरिवाऽमंस्त भिया हि प्राग्भवं स्मरन् । साऽथ पत्रे लिखित्वेमं श्लोकं मैषीदखिन्नधीः ॥ ७ ॥ कुलीनामनुरक्तां च किं स्त्रीं त्यजसि कोविंद ! १ । १ मूर्छितः । २ संन्यासी | Page #457 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । ४४५ कौमुद्या हि शशी भाति विद्युताऽब्दो गृही स्त्रिया ॥ ८ ॥ सागरो वाचयित्वैनं लिखित्वा च दृढाशयः । प्रजिघाय प्रति श्लोकं साऽपि चैवमवाचयत् ॥ ९ ॥ स्त्री नदीवत् स्वभावेन चपला नीचगामिनी । उद्वृत्ता च जडात्माऽसौ पक्षद्वयविनाशिनी ॥ १० ॥ दध्यौ च यत् स्मरत्येष स्त्रीदोषं प्राच्यजन्मजम् । ततः प्रेषीत् पुनः श्लोकं सोऽप्येवमवाचयत् ॥ ११ ॥ एकस्या दूषणे सर्वा तज्जातिर्नैव दुष्यति । अमावास्येव रात्रित्वात् त्याज्येन्दोः पूर्णिमाऽपि किम् ११२ ॥ इति तस्याः प्रबोधेन वैदग्ध्येन च रञ्जितः । विवाहं सागरचक्रे भोगांव बुभुजे मुदा ॥ १३॥ इभ्यः सागरदत्तोऽथ व्यवहर्तुं जलाध्वना । प्रचक्रमे सप्तवारान् यानं चाऽभज्यताऽम्बुधौ ॥ १४ ॥ आगतः सन्नऽपुण्योऽयमिति लौकैः स हस्यते । दध्यौ च धिक् कथं दैवं विरुद्धं मयि शत्रुवत् १ ।। १५ ।। इति किंकृत्यतामूढोऽनिशं भ्राम्यन्नितस्ततः । सोऽन्यदा कूपिकातोऽम्भः कर्षन्तं कश्चिदैक्षत ॥ १६ ॥ सप्तवारान् जलं नाऽऽगादागाद् वारेऽष्टमे पुनः । तद् दृष्ट्वा सोऽस्मरद् मूलमनिर्वेदः श्रियो ध्रुवम् ॥ १७ ॥ यतः दैवोऽपि शङ्कते तेभ्यः कृत्वा विघ्नांश्च खिद्यते । विरस्खलितोत्साहाः प्रारब्धं न त्यजन्ति ये ॥ १८ ॥ ध्यात्वैवं शकुनं मत्वा स चचालाऽधिसिंहलम् । पोतेन रनद्वीपं च प्राप वातवशादसौ ॥ १९ ॥ तत्र रत्नानि संगृह्य प्रतस्थे स्वपुरीं प्रति । रनलुब्धैश्च नियमैः स क्षिप्तो निशि वारिधौ ॥ २० ॥ दैवाच्च फलकं पाप्य तटेऽगात् पाटलापथम् । Page #458 -------------------------------------------------------------------------- ________________ ४४६ श्रीपार्श्वनाथचरितेपुरं तत्रैक्षि वाणिज्याऽऽगतेन श्वशुरेण सः ॥ २१ ॥ तेन नीतो गृहं स्नातभुक्तोऽसौ सर्वमाख्यत । स्थापितः श्वशुरेणाऽस्थात् कियत् तत्रैव सागरः ॥ २२ ॥ तद् यानमपि तत्राऽऽगानिर्यामा रोधिता नृपात् । रत्नान्यादाय च पुनर्मोचिताः सागरेण ते ॥ २३ ॥ विशेषादर्जितश्रीकः स तत्रायातबन्धुषु । सत्कारादर्थिदानाच्च चकार सफलं धनम् ॥ २४ ॥ रत्नबिम्बचिकीः सोऽथ धर्मार्थी धर्मतीथिकान् । को देवो मुक्तिदायीत्यपृच्छत् तेऽन्योऽन्यमूचिरे १ ॥ २५॥ ततोऽस्याऽऽख्यत कोऽप्याप्तः सदनमधिवास्य भोः ।। कृताऽष्टमो ध्याय देवीं त्वदिष्टं काऽपि वक्ष्यति ॥२६॥ तथैव सागरश्चक्रे देवतैका ततोऽर्हतः । सुवर्णवर्णा प्रतिमा पुरो मुक्वेत्यभाषत ॥ २७ ॥ देवोऽयं तात्त्विको भद्र ! स्वरूपं त्वस्य साधवः । वदन्तीति गदित्वाऽसौ देवताऽगाद् यथागतम् ॥ २८ ॥ सोऽपि साध्वन्तिके गत्वा प्रदर्य प्रतिमामिमाम् । कोऽयं देवः प्रतिष्ठा स्यात् कथं चाऽस्येति पृष्टवान् ॥२९॥ साधवोऽपि जिनाऽऽख्यातं धर्ममुक्त्वेदमूचिरे । पार्श्वनाथपभुः पुण्ड्रदेशेऽस्ति ननु पृच्छ तम् ॥ ३०॥ श्रावकत्वं प्रपद्य श्रीपार्थ चाऽभ्येत्य सागरः। प्रणम्य च तदपाक्षीत् स्वाम्यप्य«द्गुणान् जगौ ॥ ३१॥ जिनार्ची स्थापनां चाऽख्यत् सागरोऽपि यथाविधि । अर्हद्विम्बमिति प्रीतः प्रतिष्ठाप्य वपूपुजत् ॥ ३२ ॥ संविनः सागरोऽन्येयुः प्रवबाजाऽन्तिके प्रभोः। नाथोऽपि सपरीवारो विजहार ततोऽन्यतः ॥ ३३ ॥ अथोऽभूवन प्रभोः शिष्याश्चत्वारः शुद्धवंशजाः । १ चिकीः कर्तुमिच्छुः । Page #459 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ४४७ शिवः सुन्दर-सोमौ च जयश्चेत्यभिधानतः॥ ३४ ॥ चिराऽऽचीर्णव्रता भूरिश्रुताः किन्तु परीषहै। जिताः सन्तो जिनेन्द्रं ते प्रणम्येदं व्यजिज्ञपन् ॥ ३५ ॥ सिद्धिरस्मिन् भवेऽस्माकं भविता भगवन् ! न वा। प्रभुर्जगाद चरमदेहाः सेत्स्यथ सम्पति ॥३६॥ ततस्तैश्चिन्तितं तावद् यतित्वे कष्टमन्वहम् । गृहिणोऽप्याधि-बाधाभिः सदैवाऽतीवदुःखिताः ॥३७॥ हुं ज्ञातं बौद्धतीर्थेऽस्ति ध्रुवं सौख्यं मनीषितम् । यतो बुद्धो जिनः स्वीययतीनामिदमादिशत् ॥ ३८ ॥ मनोझं भोजनं भुक्त्वा मनोज्ञशयना-ऽऽसनः। मनोज्ञे भवने तिष्ठन् मनोज्ञं ध्यायति व्रती ॥ ३९ ॥ तथामृद्वी शय्या प्रगे पेया भक्तं मध्ये परेऽहनि । पानकं शर्करा द्राक्षा नक्तमन्ते पुनः शिवम् ॥ ४०॥ ततस्तत्रैव गत्वाऽतिवाहयामः सुखं दिनान् । अवश्यंभाविनि शिवे किं वृथा कष्टकल्पना ॥४१॥ इति निर्णीय ते तस्थुर्गत्वा सुगतदर्शने । तेषां कालेन चाऽऽसन्नमोक्षत्वादित्यभून्मनः ॥ ४२ ॥ अहो ! विश्वत्रयाऽऽधारं पार्श्वनाथं गुरुं गुरुम् । प्राप्याऽपि भ्रंशितोऽस्माभिर्धिगात्मा शिथिलैरिति ॥४३॥ सच्चारित्रजलेऽस्माभिः स्नात्वा मातङ्गवत् कथम् । कुसंसर्गरजस्यात्मा लोठितो हन्त ! सम्पति ॥ ४४ ॥ प्रमादनिद्रावैवश्याजिनधर्मसुधाघटम् । अस्माकं क्षिपतां पादैः का गतिर्भविता हहा ! १ ॥४५॥ अनन्यशरणानां नः सर्वथा शरणं भवान् । प्रसद्याऽऽलम्बनं देहि पार्श्वनाथपभोऽधुना ॥ ४६॥ १ मनोऽभिलषितम् । Page #460 -------------------------------------------------------------------------- ________________ ४४८ श्रीपार्श्वनाथचरितेइतिध्यानभवाऽपूर्ववीर्योल्लासितयाऽऽत्मनः ।। क्षयकश्रेणिनिःश्रेणिमारुरुहुः क्षणेन ते ॥ ४७ ॥ प्राप्याऽथ केवलज्ञानं शैलेशीकरणाद् द्रुतम् । तेऽपि सिद्धिपदं प्रापुः प्रसादः कटरे ! प्रभो ! ॥४८॥ इतश्चाऽऽसीनागपुर्या पुर्या धनपतिर्धनी । तत्सूनुश्वारुतारुण्यो बन्धुदत्ताऽभिधः सुधीः ।।-४९ ॥ वसुनन्दसुतां चन्द्रलेखां स परिणायितः। पित्रा, कङ्कणहस्तैव साहिदष्टा मृता निशि ॥ ५० ॥ तस्यैवं षण्मृता भार्या ऊढमात्रा विधेर्वशात् । विषहस्तोऽयमित्यन्यां कन्यां लेभे पुनः स न ॥५१॥ क्षीयमाणं च तं कृष्णपक्षचन्द्रमिवाऽन्वहम् । जनको वीक्ष्य तच्चित्तव्यासंङ्गाय प्रचक्रमे ।। ५२ ।। सुतं धनपतिः प्रैषीद् यानं संवाह्य सिंहलान् । सोऽपि पित्राज्ञया तत्र गत्वा भूरि स्वमार्जयत् ॥ ५३ ।। बहुलाभेन तुष्टोऽसौ प्रतस्थे स्वपुरी प्रति । गच्छतश्चाऽस्य दुर्वाताद् वा| यानमभज्यत ॥ ५४ ॥ प्राप्याऽथ काष्ठफलकं स रत्नद्वीपमासदत । नीचैरुच्चैश्च पुंसां हि चक्रनेमिक्रमाद् दशा ॥ ५५ ॥ पादचारी फलाहारी रत्नाद्रिं स ययौ क्रमात् । तत्राऽऽरूढो ददशैंकं चैत्यं रत्नमयं महत् ।। ५६ ॥ प्रविश्य च स तस्यान्तः श्रीनेमेविम्बमानमत् । यं श्रितोऽङ्कच्छलाच्छो वृत्तौज्ज्वल्ययुतो ध्रुवम् ।। ५७ ॥ तत्स्थान् साधूंश्च वन्दित्वा खोदन्तं सर्वमाख्यत । तत्राऽऽद्यमुनिनाऽग्राहि जिनधर्म प्रबोध्य सः ॥ ५८ ॥ तत्र चित्राङ्गदो नाम खेचरो जिनधार्मिकः । साधर्मिकतया प्रीतोऽभ्यर्थ्य तं स्वगृहेऽनयत् ॥ ५९॥ १ व्यासङ्गश्चैककार्यस्थैर्यम् । Page #461 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। सत्कृत्वा बन्धुदत्तस्य स्नान-भोज्यादिगौरवम् । ऊचे खगामिनी विद्यां किं कन्यां वा ददामि ते ॥६०॥ त्वद्विद्या मदशेत्युक्त्वा तूष्णीमिभ्यसुते स्थिते । दध्यौ चित्राङ्गदः कन्यां खल्वेष इयतेच्छति ॥ ६१ ॥ सा कन्याऽस्मै प्रदातव्या सुरूपाऽऽयुष्मती च या । तत् काऽहो! भरतेऽस्तीहक् इत्यपृच्छत् स खेचरान् ? ॥६॥ ततो मृगाङ्कलेखा तद्भात्रङ्गदसुताऽवदत् । अस्तीदृक् तात ! कौशाम्ब्यां सखी मे प्रियदर्शना ॥६३॥ तत्पितुर्जिनदत्तस्य गृहं प्राग् गतया मया । मुनितोऽश्रावि यत् सैकं सुतं सूत्वा व्रतीयिता ॥ ६४ ॥ ततश्चित्राङ्गदो बन्धुदत्तेन सह खेचरान् । प्रैषीदमितगत्यायाः कौशाम्ब्यां तेऽप्यगुः क्षणात् ।।६५॥ आवात्सुर्बहिरुद्याने तत्र श्रीपार्श्वमन्दिरम् । ते प्रविश्याऽनमन् पार्थ बन्धुदत्तोऽस्तवीदथ ॥ ६६ ॥ जय त्रिभुवनोत्तंस ! पार्श्वनाथ जिनेश्वर ! । सुराऽसुरनत ! स्वामित्रमेयमहिमानिधे ! ।। ६७ ॥ तव निध्यानसद्ध्यानसिद्धयोगजुषां जिन !। व्याधिराधिरिवाऽऽसत्तिमियति न कदाचन ॥ ॥६८ ॥ तव शान्तवपुःकान्तिनीरपूरप्लुतात्मनाम् । दुष्टोऽपि दहनोऽनिष्टं द्वेषो वा कर्तुमक्षमः ॥ ६९॥ आस्तामन्य जलोल्लङ्घवार्ता धीरधियः प्रभो ! । त्वामवाप्य सदाधारं तरन्ति भवसागरम् ॥ ७० ॥ ध्यातत्वन्नाममन्त्राणां कथमाशीविषा भिये । नेष्टे दृष्टिविषोऽप्येषां नाथ ! मिथ्यात्वपन्नगः ॥ ७१ ॥ यान्त्य भीष्टं सधन्वा-ऽसित्वत्पादशरणाः पदम् । चौरैरक्षरिवाऽध्वस्ताः क्रान्त्वा भवमिवाष्टवीम् ॥ ७२ ॥ , व्रतमभिलषिष्यति । २ न शक्नोति । . ५७ ..---- Page #462 -------------------------------------------------------------------------- ________________ ४५० श्रीपार्श्वनाथचरितेप्रभोः फणिमणिज्योतिःप्लुष्टाऽन्तर्वैरिभूरुहाम् । तत्पल्लवनिभाः पुंसां अन्ये सन्त्येव नाऽरयः ।। ७३ ॥ सनाथानां त्वया नाथ ! श्वापदा विषदे कुतः । तेषां कर्माष्टपाद् मोहशरभः करभायते ।। ७४ ॥ अत्राऽमुत्राऽपि नो तेषां दोष-दौर्गत्यजा विपत् । भवन्तं ये सदानन्दश्रेयोनिधिमधिश्रिताः ॥ ७५ ।। रोगाऽनल-जल-व्याल-चौरा-रि-श्वापदा-ऽऽपदः । बहिरन्तरपि स्वामिन्न भिये त्वयि वीक्षिते ॥ ७६ ॥ तव स्तवनवज्राङ्गीकृतरक्षाः सदा प्रभो!। यान्ति दुर्गमपि श्रेयो भावदेवमुनिस्तुत !॥ ७७ ॥ इति स्तुतिपरे तस्मिन् जिनदत्तोऽर्चितुं जिनम् । तत्रागात् खेचरान् बन्धुं तथा दृष्ट्वा च तुष्टवान् ॥७८।। साधर्मिकत्ववात्सल्यं कर्तुमभ्यर्थ्य ते निजम् । तेनाऽऽनीता गृहं तेषां स्वागतं च कृतं बहु ॥ ७९ ॥ पृष्टाश्चाऽऽगमने हेतुं खेचराः कार्यमैहिकम् । किञ्चित् कूटं विना न स्यादिति ध्यात्वेदमूचिरे ॥८॥ वयं रत्नाचलानेमि नन्तुं रैवतकाचले । गतास्तत्राऽमिलद् बन्धुदत्तोऽयं स्निग्धबन्धुवत् ॥ ८१॥ चक्रे साधर्मिकत्वं च धार्मिकोऽयं ततो वयम् । प्रीत्याऽनेन युताः श्रीमत्पार्थ नन्तुमिहाऽऽगताः ॥ ८२॥ जिनदत्तस्ततो बन्धुदत्तं तद्धर्मरञ्जितः । खेचरैरुपरोध्यैनं स्वपुच्या पर्यणाययत् ॥ ८३ ॥ स्वस्थानं खेचरा जग्मुबन्धुदत्तश्च सप्रियः । तत्रैवाऽस्थाच्चतुर्वर्षी धर्मकृत्यपरः सुखम् ।। ८४ ॥ अथ गुा गुणैर्गुळ प्रियदर्शनयाऽन्वितः । आपृच्छय श्वशुरं बन्धुदत्तः स्वां प्रस्थितः पुरीम् ॥८५॥ १ कर्माण्येवाष्टौ पादा यस्य । २ गर्भिण्या । Page #463 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ४५१ गच्छन्नतुच्छसार्थोऽसौ भीष्मां पद्माटवीं ययौ । ज्यहेणोल्लङ्घय चैकस्य सरसस्तीरमावसत् ॥ ८६ ॥ चण्डसेनाऽभिधस्याऽथ सार्थे तस्मिन्नचिन्तिताः । पल्लीशस्य यमस्येव भिल्लाः शल्या इवाऽपतन् ॥ ८७ ॥ ते तत्सर्वस्वमादाय प्रियदर्शनया सह । पल्लिशायाऽर्पयन् सोऽपि तां दीनां वीक्ष्य दुःखितः ।।८८॥ केयं कस्येत्यपृच्छच्च तच्चेटी साऽप्यचीकथत् । कौशाम्ब्यां जिनदत्तस्य पुत्रीयं प्रियदर्शना ॥ ८९ ॥ तत् श्रुत्वा सहसाऽमूछेल्लब्धसंज्ञश्च पल्लिराद् । नत्वोचे भगिनी मे त्वमुपकारिसुताऽसि यत् ।। ९० ॥ शृणु प्रागस्मि कौशाम्ब्यां गतश्चौरैर्वृतो बहिः । सायं मयं पिस्तत्र निरीक्ष्याऽऽरक्षकैधृतः ॥११॥ वधार्थ नीयमानोऽहं पौषधान्ते निजं गृहम् । त्वपित्रा गच्छता दृष्ट्वा नृपं विज्ञप्य मोचितः ॥ ९२ ॥ तत् तेऽहं किं करोम्यद्य तेनेत्युक्तांऽथ साऽब्रवीत् । पतिं दर्शय मे बन्धुदत्तं धाव्या वियोजितम् ॥ ९३ ।। कृतमेवेदमित्युक्त्वा पल्लीशस्तां सुरीमिव । पश्यन् भक्त्या गृहे मुक्त्वा तत्पतिं वीक्षितुं ययौ ॥१४॥ भ्रान्त्वा बन्धुमसंप्राप्य पुनः स्वगृहमागतः । स बन्धुदत्तभार्यायाः साक्ष्यं प्रत्यशृणोदिति ॥१५॥ षण्मासान्ते बन्धुदत्तं नाऽऽनयामि समीक्ष्य चेत् । ज्वलज्ज्वालाकुले नूनं तदा वह्नौ विशाम्यहम् ।। ९६ ॥ भैषीच सर्वतो भिल्लान् भ्रान्तास्तेऽपि चिरं परम् । बन्धुं नाऽऽपुर्विलक्षाऽऽस्यः पल्लीशोऽथेत्यचिन्तयत् ।।९७॥ धारयन्नक्षमः प्राणान् प्रियाविश्लेषदुःखितः । भृगुपातादिना काऽपि बन्धुदत्तो तो ध्रुवम् ॥ ९८ ॥ गताः सन्धाऽवधेर्मासाश्चत्वारः साम्प्रतं पुनः । Page #464 -------------------------------------------------------------------------- ________________ ४५२ श्रीपार्श्वनाथचरितेप्रसूतायां बन्धुपत्न्यां कौशाम्ब्यां तत्सुतां नये ॥ ९९ ॥ ततो वह्नि प्रवेक्ष्यामि ध्यायन्निति झगित्यसौ । अवधि चेट्या यत् पुत्रं प्रसूता प्रियदर्शना ॥ १० ॥ तोषदानं च दत्त्वाऽस्याः पल्लीशः कुलदेवताम् । चण्डसेनाऽभिधामेवमुपायाचत भक्तितः ॥ १०१ ॥ मासं यदि सपुत्राऽसौ वसा कुशलिनी मम । भविष्यति तदा दास्ये बलिं ते दशभिर्नरैः ॥ १०२ ॥ क्षेमेण च व्यतीतायां दिनानां पञ्चविंशतौ । आनेतुं बलियोग्यान् नृन् स प्रैषीत् सर्वतो नरान् ॥१०३।। इतश्च बन्धुदत्तोऽपि प्रियाविरहतो भ्रमन् । हिन्तालवनमासाद्याऽपश्यत् सप्तच्छदद्रुमम् ॥ १०४ ॥ मां विना क्षणमप्येकं न जीवेत् प्रियदर्शना । तन्नियेऽहमपीह स्खं तरावुद्ध्य सम्प्रति ॥ १०५॥ ध्यात्वेति तं द्रुमं यावत् सोऽभ्यगात तावदग्रतः। सरस्तीरे ददशैकं हंसं हंसीवियोगिनम् ॥ १०६ ।। दुःखितं तं सदुःखेऽस्मिन् पश्यत्येव क्षणादपि । राजहंसोऽमिलद् हंस्या पाच्छायानिलीनया ।। १०७ ॥ तद् दृष्ट्वेभ्यसुतो दध्यौ संयोगो जीवतां पुनः । स्यादेव तत् पुरीं यामि स्वां निस्वो यामि वा कथम्?१०८ कौशाम्ब्यामपि नो युक्तं गमनं प्रियया विना । तदुपैमि विशालायां धनदत्तं स्वमातुलम् ॥ १०९ ॥ तस्माद् द्रव्यं गृहीत्वाऽहं दत्त्वा च शबरेशितुः । मोचयामि प्रियां पश्चाद् दास्येऽर्थ स्वपुरी गतः ॥११॥ ध्यात्वेति योन् द्वितीयेऽह्नि प्राप्य स्थानं गिरिस्थलम् । विश्रान्तो यक्षगेहेऽसौ तत्रैकश्चाऽऽगतोऽध्वगः ॥ १११ ।। पृष्ट्रा ज्ञात्वा विशालाया बन्धुदत्तस्तमागतम् । . १ गच्छन् । Page #465 -------------------------------------------------------------------------- ________________ -- अष्टमः सर्गः। ४५३ मातुलस्य पुनः क्षेमं धनदत्तस्य पृष्टवान् ॥ ११२ ॥ पान्थः स्माऽऽह धने ग्रामं गते तस्याऽऽदिमः सुतः । क्रीडन् पत्न्या समं नाऽजीगणद् यान्तं पुरोनृपम् ॥११३॥ क्रुद्धोऽतस्तं नृपो गुप्तौ सकुटुम्बमपि न्यधात् । आगतो धनदत्तश्च दत्त्वा दण्डममोचयन् ॥ ११४ ।। दण्डावशेषकोट्यर्थे धनदत्तः स्वसुः सुतम् । नागपुर्या बन्धुदत्तमुद्दिश्य ह्योऽचलद् गृहात् ।। ११५ ॥ तत् श्रुत्वाऽचिन्तयद् बन्धुरहो ! कष्टा विधेर्गतिः। यत्राऽऽशाऽजनि मे सोऽपि मातुलो हाऽभवत् कथम् ? ११६ भग्नाऽऽश इयता द्वेधाऽप्यहं दैव ! हतोऽभवम् । अधुना मत्समो दुःखी मन्ये नान्योऽस्ति भूतले ।। ११७ ॥ अथवा दिनमेकं शशी पूर्णः क्षीणस्तु बहुवासरान् । सुखाद् दुःखं सुराणामप्यधिकं का कथा नृणाम् ? ॥११८॥ तिष्ठाम्यत्रैव तत् तावन्मातुलस्य मिलाम्यहम् । नागपुर्या यतोऽध्वाऽयं ध्यात्वैवं तत्र स स्थितः ॥११९।। अथाऽऽगात् पञ्चभिर्घौर्धनस्तत्र कियत्सखः । तस्मिंश्च व्यश्रमच्चैत्ये बन्धुदत्तोऽथ चाऽब्रवीत् ॥१२०॥ यूयमेताः कुतो गम्यं कुत्र वाऽथ धनोऽब्रवीत् । विशालाया इहाऽऽयाता यामो नागपुरी पुरीम् ।। १२१ ॥ बन्धुरूचेऽहमप्यस्मीत एता किन्तु तत्र वः । कोऽस्ति सोऽपि जगौ बन्धुदत्तो मेऽस्ति स्वसुः सुतः ? १२२ ज्ञात्वाऽप्येवं मातुलं तं बन्धुः स्वं त्वप्रकाशयन् । बन्धुर्मे मित्रमित्युक्त्वा तं तत्राऽस्थापयद् दिनम् ॥१२३॥ प्रातः शौचार्थमेकाकी बन्धुदत्तो गतो नदीम् । कदम्बगह्वरेऽपश्यद् रत्नच्छायाऽरुणां भुवम् ।। १२४ ॥ १ एता आगताः । Page #466 -------------------------------------------------------------------------- ________________ ४५४ श्रीपार्श्वनाथचरितेतां खनन् रत्नालङ्कारपूर्ण ताम्रकरण्डकम् । स लेभे छन्नमादाय धनदत्तमुपेयिवान् ॥ १२५ ।। खं प्रकाश्य स नत्वाऽऽख्यद् मया पान्थात् तवाऽखिला। लब्धा प्रवृत्तिस्त्वत्पुण्यैः करण्डोऽयं च गृह्यताम् ।।१२६।। द्रव्येणाऽनेन मोच्यन्तां मानुषाणि नृपगृहात् । संभ्रमाद् धनदत्तोऽवक हा ! कथं ते दशेदृशी? ॥१२७।। स्ववृत्ते बन्धुनाऽऽख्याते धनदत्तोऽभ्यधात् पुनः । वत्स ! प्राग मोचयिष्यामि भिल्लेभ्यः प्रियदर्शनाम् ।।१२८॥ अत्राऽन्तरे भटा राज्ञोऽकस्मादेयुरुदायुधाः ।। पान्थांस्तत्राषितान् सर्वान् दध्रुस्ते चौरशङ्कया ॥१२९ ॥ धनदत्त-बन्धुदत्तौ भयाद् यक्षाऽऽलयाऽन्तिके । द्रव्यं क्षिपन्तौ तैदृष्टौ पृष्टौ च किमिदं न्विति ? ॥१३०॥ ऊचतुस्तौ निजं वित्तं स्थगन्तौ स्तो भयेन वः । सवित्तौ तावुपामात्यं भटैः पान्थाश्च निन्यिरे ॥ १३१॥ पान्थान् निरीक्ष्य मुक्त्वा च मन्त्री जामेय-मातुलौ । उवाच कौ युवां कस्य वित्तमस्ति करण्डके ? ॥ १३२ ॥ ताभ्यामूचे विशालायामावामिभ्यसुतावुभौ । प्रस्थिती लाटदेशाय वित्तं नः पूर्वजार्जितम् ॥ १३३ ।। किं किमस्तीति मे ब्रूतं मन्त्रिणेत्युदितौ पुनः। अभिज्ञानाऽनभिज्ञानाच्चक्रतुौनेमव तौ ।। १३४ ॥ मन्त्री स्वयमथोद्वाट्य करण्डं यावदैवत ।। ददर्श नृपनामाकं तावद् रत्नविभूषणम् ॥ १३५ ॥ मन्त्री दध्याविदं नूनं मध्यात् प्राग्गतवस्तुनः । आजहतुरिमावन्यदपि तज् ज्ञास्यतोऽखिलम् ।। १३६ ॥ ताडयित्वाऽथ तौ पृष्टौ वस्त्वन्यदपि कथ्यताम् । तावब्रूतां वयं नैव विद्मः किञ्चिदतः परम् ॥ १३७ ॥ मन्त्र्यथो नरकाऽऽकारकारायां तावुभौ न्यधात् । Page #467 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः 1 ४५५ शेषादपि हि कर्माशाच्छुय्यते न कथञ्चन ।। १३८ ॥ षण्मासान्ते पुनः कोऽपि लिङ्गिवेषो विटो निशि । सधनः प्रापि बद्धा चाssरक्षकैर्मन्त्रिणोऽर्पितः || १३९|| वेग वित्तं परिव्राजां चौरोऽयमिति मन्त्रिणा । निर्णय द्वाssदिष्टा भटास्तं निन्यिरे बहिः ॥ १४० ॥ स जातानुशयो दध्यौ यद् वाक्यं नान्यथा मुनेः । मृत एवास्मि तल्लोकं सुखीकुर्वे हृतार्पणात् ॥ १४१ ॥ अब्रवीच्च स आरक्षान् चौसेऽहं मुषितं पुरम् । मयैव, विद्यतेलों सर्व गिरिवनादिषु ।। १४२ ।। तदर्पयतं यद् यस्य निगृह्णीत ततश्च माम् । इति श्रुत्वा समस्तोsपि जनोऽभूत् हृष्टविस्मितः ॥ १४३ ॥ आरक्षा मन्त्रिणे चाssख्यन् मन्त्री चौरोक्तभूमिषु । सर्व ददर्श तद् द्रव्यं विनैकं तं करण्डकम् ॥ १४४ ॥ मन्त्र्यूचे तं परिव्राजं निर्भयो ब्रूहि किं तव ? | भद्रेदं चेष्टितं वेषविरुद्धं सोऽप्यभाषत ।। १४५ ॥ श्रूयतां नगरे पुण्ड्रवर्धनेऽहं द्विजाङ्गजः । श्रीधराख्योऽन्यदाऽपश्यं चौरबुद्ध्या धृतान् नरान् ॥ १४६ ॥ महादुष्टा विहन्यन्ताममी इत्यवदं ततः । अहा ! कष्टमज्ञानमित्येको मुनिरूचिवान् ॥ १४७ ॥ मया नत्वा किमज्ञानमिति पृष्टो मुनिर्जगौ ? । यत् परस्याऽतिपीडाकृदसद्दोषाधिरोपणम् ॥ १४८ ॥ एते माकर्मणा क्लिष्टाः कथं दुष्टास्त्वयोदिताः १ । प्राक्कर्मफलशेषं हि लप्स्यसे त्वमपि ध्रुवम् ।। १४९॥ प्राक्कर्मफलशेषं च मया पृष्टो मुनिर्जगौ । अस्त्यत्र भरते क्षेत्रे नगरं गर्जनाभिधम् ॥ १५० ॥ तत्र त्वं चन्द्रदेवाख्यो द्विजन्माऽभूः श्रुतैकभूः । योगात्मा नाम विख्यातस्तपस्न्येकश्च नैष्ठिकः ॥ १५१ ॥ Page #468 -------------------------------------------------------------------------- ________________ ४५६ श्रीपार्श्वनाथचरिते अथैका वीरमत्याख्या तत्रत्यश्रेष्ठिनः सुता। विधवा सिंहलाऽऽख्येन मालिकेन सहाऽगमत् ॥१५२॥ दैवात् तदिन एवाऽगाद् योगात्माऽप्यन्यतः कचित् । गता वीरमती काऽपीत्यभूद् वार्ताऽखिले पुरे ॥१५३॥ त्वयोचे सा ययौ योगात्मना साध न संशयः । तच्छ्रुत्वाऽभूज नो योगात्मनि धर्मेऽप्यनादरः ॥१५४॥ इत्थं निकाचितं कर्म कृत्वा मृत्वा क्रमादभूः । एडको जम्बुको वेश्यासुतस्तुर्ये भवे पुनः ॥ १५५ ॥ मुखरोगान्मृतः सर्वभवेष्वासीद् द्विजोऽधुना । अतस्ते कर्मणस्तस्य शेषमद्याऽपि तिष्ठति ॥ १५६ ॥ तन्निशम्य समुत्पन्नभिया सुगुरुसन्निधौ । मयतज्जगृहे भद्र ! परिव्राजकदर्शनम् ॥ १५७ ॥ भक्तत्वान्मे गुरुः प्रान्ते ददौ विद्यां खगामिनीम् । तालोद्घाटनिकां चापि यत्नान्मां चेत्यशिक्षयत् ॥१५८॥ इमे विद्ये त्वया धर्म-देहरक्षां विनाऽन्यतः । न प्रयोज्ये मृषावाक्यं वर्जनीयं च सर्वथा ॥ १५९ ॥ प्रमादाच्चेन्मृषोक्तं स्यानाभिदघ्ने तदाऽम्भसि । प्रविश्योर्श्वभुजोऽष्टाग्रसहस्रं विद्ययोर्जपेः ॥ १६० ॥ सम्यग् दत्त्वेति मे शिक्षा परलोकं गतो गुरुः । पापोऽहं व्यसनासक्तस्तत् सर्व चकराऽन्यथा ॥ १६१ ॥ वो दिने च वने स्त्रीभिः पृष्टो वैराग्यकारणम् । पत्नीमृत्युमभाषिषं प्रायश्चित्तं च न व्यधाम् ॥ १६२ ॥ कृत्वाऽद्य चौरिकां रात्रौ व्रजन्नारक्षकैरहम् । धृतः खगामिनीविद्या नास्फुरत् तत् कुरूचितम् ॥ १६३ ।। मन्त्र्यूचे किं न सम्प्राप्त एको रनकरण्डकः । स स्माऽह दैवतो ज्ञात्वा पथिकः कोऽप्यपाहरत् ॥१६४ ॥ Page #469 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । तत् श्रुत्वा तं परिव्राजं महात्मा सचिवोऽमुचत् । कण्डकरौ तौ चाssहास्त जामेय-मातुलौ ॥ १६५ ॥ पृष्टौ तेनाऽभयं दच्चा यथावस्थं शशंसतुः । अथ सत्याविमौ मत्वा नीतिज्ञो मन्त्रयमुञ्चत ।। १६६ ॥ ततस्तौ चलितौ स्वस्य मन्यमानौ नवं जनुः । प्राप्तौ च पथि पल्लीशन रैर्बलिन रेक्षिभिः ॥ १६७ ॥ धृत्वा पद्माटवीदेव्याश्चण्डाया भवने च तौ । क्षिप्तौ बन्दिनृणां मध्ये, धृतानां वधहेतवे ॥ १६८ ॥ चण्डसेनोऽथ तत्राऽऽगात् सपुत्रां प्रियदर्शनाम् । आनाय्य बालमादाय देव्यै प्राणमयत् स्वयम् ॥ १६९॥ देवीं रौद्रं च कर्मेदं द्रष्टुं नेयं क्षमेति सः । पल्लीशोबन्धुभार्याया नयने वाससाऽप्यधात् ॥ १७० ॥ समय देवीपूजार्थमेतस्या रक्तचन्दनम् । भिल्लैरानाययच्चैकं देव्या वृन्दनरं पुरः ।। १७१ ॥ तैश्व दैववशाद् बन्धुदत्त एवोपढौकितः । कोशान्निखिंशमाकर्षन्निस्त्रिंशोऽथ स पल्लिराद ।। १७२ ।। बन्धुपत्नी ततो दध्यौ हा ! कष्टं श्रावके कुले । जताया अपि मे कार्ये हन्यन्ते इति पूरुषाः ॥ १७३ ॥ बन्धुरप्यागतां स्वस्य मृतिं ज्ञात्वा सुधीरधीः । परमेष्ठिनमस्कारोच्चारमारभत द्रुतम् ॥ १७४ ॥ निशम्य तद्ध्वनिं भर्तृशङ्कया प्रियदर्शना । दृशा वुद्घाटयामास ददर्श च पतिं पुरः ॥ १७५ ॥ पल्लीशं च जगौ भ्रातः ! सत्यसन्धो भवानभूत् । मा शंसेथाः स एवाग्रे यत्तेऽयं भगिनीपतिः ॥ १७६ ॥ ततो हृष्टविषण्णोऽसौ पल्लीशो बन्धुपादयोः । पतित्वाऽऽख्यद् ममाज्ञानाऽपराधः क्षम्यतां विभो ! ।। १७७ ।। १ आच्छादयामास । ५८ ४५७ Page #470 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते बन्धुदत्तः प्रियां वीक्ष्य मुदितस्तमभाषत । कोऽपराधस्तवाऽयं यः प्रियया माममेलयत् १ ॥१७८॥ इदं तु किं स्वयाssरेभे वृत्तान्तं सोऽप्यचीकथत् । उपयाचितपर्यन्तं बन्धुदत्तस्ततोऽब्रवीत् ॥ १७९ ॥ पुष्पाद्यैरेव पूज्यन्ते देवा जीववधैर्न तु । क्रव्यादा एवं क्रव्यादा देवा देव्यस्तु नेदृशाः || १८० ॥ हिंसामसत्यमन्यस्वं परस्त्रीमतिलोभताम् । वर्जयेरिति बन्धूक्तं स सर्व प्रत्यपद्यत ।। १८१ ॥ बन्धुदत्ताज्ञयाऽमुञ्चत् पल्लीशः सर्ववृन्दगान् । देव्यूचे पात्रगा चार्ध्या पुष्पाद्यैरस्म्यतः परम् ॥ १८२ ॥ तत् श्रुत्वा बहवो भिल्ला बभूवुर्भद्रकास्तदा । प्रियदर्शनया पुत्रो बन्धुदत्तस्य चाऽर्पितः ॥ १८३ ॥ आर्पयद् बन्धुदत्तोऽपि धनदत्ताय तं सुतम् । ममायं मातुल इति निजपत्न्यै शशंस च ॥ १८४ ॥ कृतनीरङ्गिका साऽपि श्वशुरं दूरतोऽनमत् । दत्ताशीः सोऽप्युवाचैवं सूनोर्नामाऽद्य युज्यते ॥ १८५ ॥ बान्धवानामसौ जीवदानादानन्दको हि यत् । बान्धवानन्द इत्याख्यां पितरौ चक्रतुस्तयोः ॥ १८६॥ सकुटुम्बं गृहे नीत्वा नीत्या बन्धुमभोजयत् । भिल्लेशस्तस्य लोप्त्रं च दन्तिमुक्तादि चार्पयत् ॥ १८७॥ बन्धुर्यथेप्सितं दवा प्रेष्य स्वौकसि मातुलम् । ससार्थचण्ड सेनेनान्वितो नागपुरीमगात् ॥ १८८ ॥ तत्राऽभ्येत्य नृपेणाऽसौ गजारूढः प्रवेशितः । पृष्टश्च नृपबन्धूनां स्वोदन्तं सर्वमाख्यत ॥ १८९ ॥ तथा च जिनधर्मानुभावाऽद्वैतं तदाऽवदत् । यथाभूत् सङ्गतो वाढमपि स्याद्वादवादिनाम् ॥ १९० ॥ ५ राक्षसाः । २ मांसाशिनः । ४५८ Page #471 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ४५९ बन्धोः स्वानुभवाऽऽख्यानाजिनधर्मे बहुर्जनः। रक्तोऽभूदथ पल्लीशं सत्कृत्याऽसौ विसृष्टवान् ।। १९१ ॥ सुखेन तस्थुषस्तत्र बन्धुदत्तस्य धर्मिणः । द्वादशाब्दी व्यतिक्रान्ता शरत्कालोऽन्यदाऽभवत् ॥१९२॥ यत्र सन्मार्गगा नद्यो निर्मलाश्वाऽभवन् पुनः । क्षीणे वित्ते यथा प्रायः पुंसां चित्तप्रवृत्तयः ॥१९३ ॥ सरो हृद्याम्बुजं जज्ञे गगनं स्पष्टतारकम् । . स्वच्छभावेन साधूनां यथा चित्तं लसद्गुणम् ॥ १९४ ॥ आसेन्दुर्भानुजं तापं विवेक इव मानजम् । सुसङ्गतिरिवाऽभूद् भूः प्रशस्यफलशालिनी ।। १९५॥ मयूरा मौनिनोऽभूवन् ज्ञाततत्त्वा इवर्षयः । हंसाश्च स्पष्टतां भेजुर्घनान्ते धार्मिका इव ॥ १९५ ॥ सरसां नीरमर्काशुशोष्यमाणं शनैस्तटम् । तत्याज गृहिणा द्वन्द्वदग्धं चित्तं ममत्ववत् ॥ १९६॥ श्रीपार्थः समवासार्षीनागपुर्या तदा बहिः। तल्लोकं सुकृताऽस्तोकं स व्यधादुत्तमोत्तमम् ॥ १९७ ॥ महा बन्धुदत्तोऽपि तत्र सप्रियदर्शनः। गत्वा नत्वा प्रभु श्रुत्वा देशनामिति पृष्टवान् ॥ १९८ ॥ केन मे कर्मणा स्वामिन्नूढमात्रा अपि प्रियाः षण्मृता विरहवासीद् बन्दिता च कथं मम ॥ १९९ ॥ स्वाम्याख्यदत्र विन्ध्याद्रौ हिंस्रात्मा शबरेश्वरः। नाना शिखरसेनोऽभूत् श्रीमत्याख्या च तत्प्रिया ॥२०॥ मार्गभ्रष्टोऽन्यदा साधुगच्छस्तत्राऽऽगतः स तम् । दृष्ट्दैत्य कृपयाऽपृच्छद् यूयं भ्रमत किं न्विह ? ॥ २०१॥ मार्गे भ्रष्टा वयमिति तैरुक्ते पतिमब्रवीत् । श्रीमती भोजयित्वैतान् फलायैलंगयाऽध्वनि ॥२०२॥ १ चिक्षेप । Page #472 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेतैरूचे वर्णगन्धादिरहितं नः फलादिकम् । चिरकालगृहीतं वा कल्पते नेतरत् पुनः ॥ २०३ ।। ततोऽसौ तादृशैः कन्दादिभिस्तान् प्रत्यलाभयत् । निन्ये चावन्यथो धर्म नमस्कारं च तेऽदिशन् ॥ २०४॥ पक्षान्तार्दन एकस्मिन् त्वया सावद्यमुज्झता । नमस्कारोऽयमेकान्ते स्मर्तव्य इति चादिशन् ॥ २०५॥ अन्यच्च यदि ते कोऽपि तदा द्रुह्येत् तथापि हि । मा कार्षीः कोपमेवं ते स्वर्गश्रीः खलु हस्तगा ॥ २०६॥ तथेति प्रतिपद्यैतत् कुर्वतस्तस्य चान्यदा।। सिंहस्तत्र कुतोऽप्यागाद् भीता च श्रीमती भृशम् ॥२०७॥ मा भैषीरिति जल्पंश्च द्वार भिल्लेशोऽग्रहीद् धनुः । . श्रीमत्या स्मारितश्चासौ नियमं गुरुभाषितम् ॥ २०८ ॥ सहसा निश्चलः सोऽभूत् श्रीमती चाथ भक्षितौ ।। उभौ सिंहेन सौधर्मेऽभूतां पल्यायुषौ सुरौ ॥ २०९ ॥ च्युत्वा भिल्लो विदेहेषु चक्रपुर्या महीभुजः। . सुतः कुरुमृगाङ्कस्याभूच्छबरो मृगाङ्ककः ।। २१० ॥ कुरुमृगाङ्कश्यालस्याऽभूत् सुभूषणभूपतेः । ... सुता वसन्तसेनाऽऽख्या श्रीमत्यपि दिवश्च्युता ॥ २११॥ यौवनेऽथ तयो रागं मिथो रूप-गुणश्रुतेः । जातं ज्ञात्वा पितृभ्यां तावन्योन्यं परिणायितौ ॥ २१२॥ कृतकृत्योऽथ शबरमृगाङ्कस्य पिता बने । तापसोऽभूत् क्षमाधारः कुमारस्तु स्वयं नृपः ॥ २१३ ॥ लीनात्मा सोऽभवत् पनीरूपे सद्गुणशालिनि । सद्रत्नखचितस्वर्णालङ्कार इव हारिणि ॥ २१४ ॥ तिर्यवियोजनं तस्य कर्म भिल्लभवोद्भवम् । तदानीमुदगात् तेन यज्जातं तनिशम्यताम् ॥ २१५ ॥ तत्राऽऽसीद् वर्धनो नाम राजा जयपुरे बली। ... Page #473 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ४६१ निर्हेतुक्रुद्धः शबरमृगाकं सोऽवदद् नरैः ॥ २१६ ॥ वसन्तसेनां मे यच्छ मन्यस्वाऽऽज्ञां ममेयता। भुझ्व राज्यसुखं नो वा युद्धाय प्रगुणो भव ॥ २१७ ॥ श्रुत्वैवं सोऽत्यमर्षेण ससैन्यो निरगाद् युधि । तदा च वर्धनो राजा जितो नंष्ट्रा ययौ कचित् ॥२१८।। तप्तसंज्ञेन राज्ञाऽथ योधयित्वा निशुम्भितः । रौद्रध्यानवशात् षष्ठं मृगाङ्को नरकं ययौ ॥ २१९ ।। अग्निं वसन्तसेनाऽपि प्रविश्य सहसा मृता। तत्रैवोत्पद्य नरके पतिमार्गाऽनुगाऽभवत् ॥ २२० । उद्धृत्य पुष्करद्वीपे भरते रौरगेहयोः। पुत्र-पुत्र्यावजायतां परिणीतौ च तो मिथः ॥२२॥ ताभ्यां च स्वगृहस्थाभ्यां साध्व्यो ददृशिरेऽन्यदा । .. उत्थाय भक्त्याऽन्नपानः प्रत्यलाभन्त चाऽऽदरात् ॥२२२॥ पृष्टा च बालचन्द्राया गणिन्यास्तौ प्रतिश्रये । अपराह्ने गतौ धर्म शृणुतः स्म च तन्मुखात् ॥ २२३ ॥ .. गृहिधर्म प्रपद्याऽन्ते ब्रह्मलोकं गतावुभौ । ततश्च्युताविमौ जातौ युवामिभ्यसुताविह ॥ २२४ ॥ : ततो भिल्लभवे तिर्यवियोगो यः कृतस्त्वया । अन्वमोद्यनया चासीत् तत्पाकाद् दुःखमीदृशम् ॥२२५।। ... बन्धुदत्तस्ततः माह नाऽन्यो धन्योऽस्ति मत्समः । येनाप्तोऽसि विभो ! जन्मकोटिदुर्लभदर्शनः ॥ २२६ ॥ .. . तव प्रभावतः स्वामिन्नेवमात्मानमुच्चकैः। . श्लाघमानोऽपि नो दोषं प्रत्युताऽहं गुणं लभे ॥ २२७ ॥ . . तमोत्तस्य मे स्वामिनधे व्यक्तीकृते त्वया। दीपेनेवोरगे जातं यातं चाऽद्याऽखिलं भयम् ॥२२८॥ : . इदानीमिह मे नाथ ! यत् कर्तव्यं तदादिश। १ मारितः। २ उपाश्रये । Page #474 -------------------------------------------------------------------------- ________________ ४६२ श्रीपार्श्वनाथचरितेतेनेति श्रद्धया नत्वा विज्ञप्तः प्रभुरादिशत् ।। २२९ ॥ ऐहिका-ऽमुष्मिकं सौख्यमिच्छता भविना सदा । कर्तव्यः साधुसंसर्गः परिहार्या कुसङ्गतिः ॥२३०॥ न लडनीयमौचित्यं मान्यः सेव्यश्च सद्गुरुः । प्रवर्तितव्यं दानादौ चिन्तनीया तथाऽऽयतिः ॥२३१॥ विक्षेपः परिहर्तव्यः प्रक्रम्यं योगसिद्धये । नित्यमन्तर्मुखैर्भाव्यं भाव्या वैराग्यभावना ।। २३२ ॥ कार्यो मङ्गलजापश्च गर्हणीयं स्वदुष्कृतम् । चतुःशरणमाराध्यं कार्य पुण्यानुमोदनम् ॥ २३३ ॥ यतितव्यं परे ज्ञाने विचिन्त्यं सन्निदर्शनम् । श्रोतव्यं धर्मशास्त्रं च भावनीयं प्रयत्नतः ॥ २३४ ॥ यतः सद्धर्मशास्त्रस्य पदमात्रमपि श्रुतम् । महारसायनं जन्तोः श्रीगुप्तोऽत्र निदर्शनम् ॥ २३५ ॥ तथाहिअस्त्यत्र भरते नाम्ना वैजयन्ती पुरी वरा । तत्र राजा नलो न्यायवल्लीविस्तारमण्डपः ॥ २३६ ॥ तस्य प्रसादवित्तोऽस्ति सार्थवाहो महीधरः। अशेषव्यसनाऽऽसक्तः श्रीगुप्तो नाम तत्सुतः ॥ २३७ ॥ पुत्रीयाऽनर्थसन्तप्तः सार्थवाहोऽन्यदा ययौ । आगामिदोषरोधार्थ द्वाःस्थमुक्तो नृपान्तिकम् ॥२३८ ॥ सगौरवं स भूपेनाऽऽलाप्य पृष्टः प्रयोजनम् । अधोवीक्ष्य सनिःश्वासं जगाद भयदीनवाक् ॥ २३९ ॥ उत्पन्नं दुःखमन्यस्मात् सुखेनाऽऽख्यायते विभो । शक्यते स्वसमुत्थं तु नाऽऽख्यातुं नैव गोपितुम् ।। २४०॥ राहकान्ते ततो दत्ते विश्रब्धं स व्यजिज्ञपत् । स्वामिन् ! कुलकलङ्कोऽस्ति श्रीगुप्तो नाम मे सुतः ॥२४१॥ , द्वाःस्थो द्वारपालः। Page #475 -------------------------------------------------------------------------- ________________ - अष्टमः सर्गः। द्यूतादिव्यसनैस्तेन ममाऽर्थः पूर्वसश्चितः । क्षपितो वारितोऽप्युच्चैः कुसङ्गान निवर्तते ॥ २४२ ॥ यतः प्रभुरपि च्छेत्तुं खाङ्गजं दोषमक्षमः । न मेघो विद्युतं विध्यायपत्यौ न चाऽम्बुधिः ॥२४३॥ किश्चगुणो दुष्पकृतेने स्यादन्वयात् सङ्गतोऽपि वा । दहेच्चन्दनजोऽप्यग्निर्गन्धाऽऽध्या लशुने वृथा ॥२४२।। द्यूतकारगृहात् स खं मोचयित्वा कथञ्चन । सोमवेष्ठिगृहे खात्रं दत्वा सर्वस्वमग्रहीत् ॥ १४५ ॥ तदिष्टदासिकावक्त्रादिदं ज्ञात्वा भयादहम् । अत्रायातस्ततः सर्व गृह्यता मे पराधिनः २४६ ॥ यतःचौरश्चौरापको मन्त्री भेदज्ञः काणकक्रया। अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ॥ २४७ ॥ विश्रब्धो भव सार्थेश ! मदाऽऽयत्तं धनं तव । धीरयित्वेति भूपेन सन्मान्य च व्यसर्जि सः २४८ ॥ अन्याय इति पूत्कुर्वन् अथाऽऽगात् तत्र पूर्जनः । नृपेणाऽऽकार्य पृष्टोऽसौ चौर्योदन्तं व्यजिज्ञपत् ॥ २४९ ॥ पुनः पृष्टं नृपेणाऽहो ! कियत्सङ्ख्यं गतं धनम् । पौरैः स्वर्णसहस्त्राणां कथिता पञ्चविंशतिः ॥ २५० ॥ प्रदाप्य तन्नृपः कोशाद् विससर्ज पुजिनम् । क्षणं निर्भय॑ चाऽऽरक्षमथ श्रीगुप्तमाहयत् ॥ २५१ ॥ तमधिक्षिप्य राज्ञोक्तं रे ! हृतं स्वर्णमर्पय । स ऊचे किं विभो ! राजा प्राह यन्मुषितं निशि ॥२५२॥ तेनोक्तं किं कुलेऽस्माकं कदाप्येवं विधीयते । राजाऽपि कुपितः प्राह तर्हि दिव्यं कुरुष्व भोः ! ॥२५३॥ १ पीतयूथिका। Page #476 -------------------------------------------------------------------------- ________________ ४६४ श्री पार्श्वनाथचरिते स उवाच भवत्वेवं स्थाता शिरसि कः पुनः ? 1 स्थास्येऽहमिति जल्पित्वाऽऽदिशत कीरणिकान् नृपः ||२५ विधिनाऽथ मिलित्वा ते तत्करे फालमक्षिपन् । सिद्धमन्त्रं पुरा लब्धं दिव्यस्तम्भाय सोऽस्मरत् ।। २५५ || तस्याऽनुभावतः स्वल्पमपि स्पृष्टो न वह्निना । पतिताः शुद्धतालाच नृपः कृष्णमुखोऽजनि ।। २५६ ॥ दध्यौ च दिव्यकृच्छुद्धौ शिरःस्थो दण्ड्यते नृपैः । शिरःप्रतिज्ञां तत् कृत्वाऽधुना किं जीवितेन मे ? || २५७|| इति मर्तुमना भूपः सर्वानाकार्य मन्त्रिणः । आदिशद् यदहो ! शुद्धः श्रीगुप्तो दिव्यतः स्फुटम् || २५८ अहं तु शिरसि स्थित्वा जातोऽलीकस्तदात्मनि । चौरदण्डं करिष्येऽय राज्ये कार्य यथोचितम् ॥ २५९ ॥ अश्रोतव्यमिदं नाथ ! किं वयं श्राविता इति । उक्त्वा तैर्युक्तिभिर्वा बोधितोऽपि न बुध्यते ॥ २६० ॥ तत् श्रुत्वा सार्थवाहोऽपि झगित्यागत्य पार्थिवम् । उवाच किमिदं स्वामिन्नारब्धं विश्ववैशसम् ॥ २६१ ॥ विकल्पः कोपि यथास्ते तन्ममैवेदमादिश । हेतुर्यदहमेवास्मिन्नर्थे दण्डोऽस्तु मे ततः ।। २६२ ॥ राज्ञांचे भद्र ! मा खेदं कार्षीः पुनरिदं वद । यन्ममाग्रे त्वयाऽख्यायि तत् सत्यमथ संशयः १ ॥ २६३ ॥ महीधरोऽवदन्नाथ ! किमलीकं पुरस्तव । कथ्यते सत्यमेवेदं प्रलयेऽप्यन्यथा नहि ? || २६४ ॥ तत् श्रुत्वा मन्त्रिणः प्राहुर्यद्येवं तर्हि स ध्रुवम् । मन्त्रेणाऽस्तम्भयद् वह्निं दिव्या दिव्यस्य वा गतिः ॥२६५॥ तदद्य कुशली नामाऽस्त्यागतो दिव्यमान्त्रिकः । तं पार्श्वीकृत्य श्रीगुप्तोऽग्निदिव्यं कार्यतां पुनः ॥ २६६ ॥ १ दिव्यपरीक्षकान् । १ Page #477 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ४६५ राज्ञा तथाकृते तस्य हतशक्तेः करद्वयम् ।। अदह्यत नृपस्योचैर्जयध्वनिरुदच्छलत् ॥ २६७ ॥ विविधाः सर्वतस्तत्र प्रवृत्ता मङ्गलोत्सवाः । श्रीगुप्तोऽपि तदा पृष्टः सर्वमाख्यद् यथातथम् ॥ २६८ ॥ लज्जया सार्थवाहस्य जीवन मुक्तः स भूभुजा । देशानिष्कासितो भ्राम्यन् ययौ गजपुरं क्रमात् ॥२६९॥ भवितव्यवशात् तत्र दृष्ट्वा कुशलमान्त्रिकम् । क्रुद्धो दध्यावरे ! सोऽयमकारणरिपुर्मम ॥ २७० ॥ ततः खङ्गेन कुशलं हत्वा कुर्वन् पलायनम् । स धृत्वाऽऽरक्षकैस्तत्रार्पितः कारणिकेशितुः ॥ २७१॥ तेनाऽऽदिष्टो वधायाऽसौ नीत्वाऽऽरक्षनरैर्बहिः । श्रीगुप्तः कम्पमानाङ्गः शाखायां लम्बितस्तरोः ॥२७२॥ स्वस्थानं ते नरा जग्मुः कण्ठपाशादितः स तु । भ्रमिते रोदसी पश्यन् कामप्याप क्षणं दशाम् ॥२७३॥ भारेण त्रुटिते पाशे श्रीगुप्तः पतितो भुवि । शीतवातेन चैतन्यं प्राप्य भीत्या पलायितः ॥२७४।। गच्छन् वननिकुञ्जेऽसौ प्रविष्टो मधुरध्वनिम् । शृण्वंस्तत्र ददशैंकं मुनि स्वाध्यायतत्परम् ॥२७५॥ तं पठन्तं भिया वृक्षाऽन्तरितीभूय सोऽशृणोत् । तदा चेत्यपठत् साधुर्जगद्वृत्तं विभावयन् ॥२७६॥ आस्तामन्यजनो हन्त ! स्वीयः स्वात्माऽपि नो भवेत् । एष दुःखावहं पापं करोति कथमन्यथा ? ॥ २७७ ।। किंवासत्यशौचपरा धीराः सद्देव-गुरुमानिनः । पूर्णकामा गुणै:ज्याः पुण्यैः पुण्यानुबन्धिभिः ॥ २७८ ॥ कूपस्य खनको यद् धूलीभिर्मलिनीकृतम् । क्षालयेत् तज्जलेनाङ्ग तथैव पुरुषो यदा ॥ २७९ ॥ Page #478 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरितेधर्मस्थानविधानायाऽऽरम्भज मलमात्मनः । छिन्द्यात् तदुत्थपुण्येन पापं पुण्यानुबन्धि तत् ॥ २८० ॥ विद्या-रूप-बलैश्वर्याऽभिमानः सुखिनाः पुनः । अन्यायनिरताः खैराः स्युः पुण्यैः पातकोत्तरैः ॥२८१॥ जन्तुघातकराः क्रूरा दोषैकनिधयोऽधमाः। जायन्ते दुःखिता नित्यं पापैः पापोत्तरैर्नराः ॥ २८२ ॥ पुण्य-पापचतुर्भङ्गीमिति ज्ञात्वा विपश्चितः । आधभेदद्वये सक्ता विरतिं कुर्वते परे ॥ २८३ ॥ यदि मोक्षफलं काले भविता धर्मशाखिनः। सिक्तस्तथापि संसारसौख्यच्छायां करोत्यसौ ॥ २८४ ॥ अतः सिञ्चन्ति तं पुण्यक्रियानीरेण पण्डिताः। अनाचारकुठारेण पुनश्छिन्दन्ति वालिशाः ॥ २८५ ॥ पठ्यमानमिदं श्रुत्वा श्रीगुप्तो हृद्यचिन्तयत् । अहो ! सुपठितं साधोरमुमेवाऽऽश्रये ततः ॥ २८६ ॥ किंवा काऽपि न विश्वासो युज्यते मादृशां खलु ।। ततो यामीति निश्चित्य वनमध्येन सोऽचलत् ॥ २८७ ॥ कियद्भूमिं गतो यावत् तावदस्तमितो रविः । ततोऽसौ वटवृक्षस्य शाखामारुह्य सुप्तवान् ॥ २८८॥ रात्रेराये गते यामे तत्रैव वटकोटरे। .... आगादेकः शुको दक्षः शुक्या चाऽभ्युत्थितो मुदा॥२८९॥ पृष्टश्च किं प्रियाऽद्याऽभूदियद् विक्षेपकारणम् । स ऊचे किं तवाऽकथ्यं प्रिये ! तत् तन्मनाः शृणु ॥२९॥ अद्य रेवानदीतीरे केदारे शालितण्डुलान् । सुगन्धानहमाकण्ठं भक्षयित्वा निवृत्तवान् ॥२९१ ॥ श्रमान्नानावनच्छन्ने विश्रान्तोऽशोकपादपे । धर्म दिशन्तमद्राक्षं मुनि विद्याधरं प्रति ॥ २९२ ॥ प्रतिबुद्धेन तेनाऽसौ पृष्टः प्राच्यभवं मुनिः। Page #479 -------------------------------------------------------------------------- ________________ ४६७ अष्टमः सर्गः। यथाऽवस्थितमाचख्यौ ततो मेऽजनि कौतुकम् ॥ २९३ ॥ अशोकादवतीर्याऽऽशु तदधास्थं मुनीश्वरम् । भक्त्या ननाम तेनाऽपि स्पृष्टोऽहं मृदु पाणिना ।। २९४॥ ततो मयाऽतिहृष्टेन पृष्टः प्राच्यभवं निजम् । मुनिरूचे भव्यजीवः श्रावस्त्यां त्वं पुराऽभवः ॥ २९५ ॥ व्रतमादाय वैराग्यात् समायं च विधाय तत् । विपद्य व्यन्तरो भूत्वा शुको जातोऽसि सम्प्रति ॥ २९६॥ तत् श्रुत्वा पृष्टवान् जातजातिस्मृतिरहं मुनिम् । नाऽधुनाऽहं प्रभो ! योग्यस्त्वत्सेवाया व्रतस्य च ॥२९७।। ततः कृत्वा प्रसादं मे तत् तीर्थ किश्चिदादिश । यत्र गत्वा निजं कायं व्युत्सृजामि समाधिना ॥२९८॥ साधुः प्राहाऽपरं तीर्थ शत्रुञ्जयसमं नहि । सिद्धाः श्रीपुण्डरीकाद्याः साधवो यत्र कोटिशः ॥२९९।। यदध्यासितमर्हद्भिरसंख्यातैमुनीश्वरैः । सिद्धानां विदधे यत्र महिमाऽनेकशः सुरैः ॥३०॥ (युग्मम् ) युगादिजिनसंपर्कात् नवरं स गिरिष्वयम् ।. विमलाऽऽख्यां दधौ कुर्याद् विमलं जगदप्यसौ ॥३०१॥ तत्र दानं तपो ध्यानं तन्वपि श्रद्धया कृतम् ।। स्यात् कालकरणं चाऽपि विशिष्टफलसाधकम् ॥३०२॥ एवमेव मृताः पायो यत्र शत्रुञ्जयेऽङ्गिनः। गच्छन्ति सुगति तस्य माहात्म्यं किमु वर्ण्यते ? ॥३०३॥ मयोक्तं तर्हि तत्रैव तीर्थेऽनशनमाश्रये । मुनिर्जगाद निर्विघ्नं वाञ्छितं तव सिध्यतु ॥३०४॥ ततो मया भवेऽन्यस्मिन् इहाऽपि तव विप्रियम् । यत् कृतं तस्य मिथ्या दुष्कृतं दातुमिहाऽऽगमम् ॥३०५॥ १ सकपटम् । २ मरणम् । Page #480 -------------------------------------------------------------------------- ________________ ४६८ श्रीपार्श्वनाथचरितेतन्निशम्य वटाधस्थः श्रीगुप्तोऽचिन्तयद् ध्रुवम् । स एवाऽसौ मुनिः पूर्व यो दृष्टः सुपठन् मया ॥३०६॥ जगाद च शुकं धन्यो भवान् भद्रेति यो मुनिम् । सिषेवेऽहमधन्यस्तु यस्तं दृष्टा नतोऽपि न ॥३०७॥ किंवाऽतीतस्य शोकेन शुकराज ! त्वमेव मे । अधुना गुरुरादेशं देहि धर्मविधौ बुध ! ॥३०८।। तस्याऽथ तत्वं सद्देव-गुरु-धर्मगतं शुकः । आख्याय क्षमयित्वा च ययौ शत्रुञ्जयाचलम् ॥३०९॥ इतश्च पुत्रदुःखेन सार्थवाहो महीधरः। वणिज्यामिषतः पुत्रान्वेषी देशान्तरं ययौ ॥३१०॥ स्थाने स्थाने स तच्छुद्धिं कुर्वस्तत्राऽऽगतः पुरे । अकस्माच तदाऽपश्यनिर्गच्छन्तं वनात् सुतम् ॥३१॥ श्रीगुप्तं वीक्ष्य संजातपुलकाङ्गो महीधरः । आकार्याऽऽलिङ्गितं स्नेहादूचे वत्स ! कुतो भवान् ?॥३१२॥ तेनाऽपि रुदता सर्ववृत्तान्ते कथिते पिता । उवाच पुत्र ! दीक्षायाः कोऽधुना समयो मम?॥३१३॥ किन्तु त्वां वीक्षितुं गेहाद् निर्गतोऽहं ततोऽधुना । सफलो मे श्रमो जज्ञे दृष्टोऽसि त्वं यदक्षतः ॥३१४॥ तथा कथमपीदानी वर्तितव्यं त्वया यथा । आयो भवसि साधूनां याति वंशः समुन्नतिम् ।। ३१५ ॥ श्रीगुप्तोऽपि रुदन्नाह किं तात ! बहुना मयि । अद्यप्रभृत्यविश्वासः काऽपि कार्यो नहि त्वया ॥ ३१६ ॥ ततः पुत्रं सहाऽऽदाय सार्थेशः स्वपुरं ययौ । राज्ञः श्रीगुप्तरत्तान्तः शिष्टो हृष्टश्च पार्थिवः ॥ ३१७ ॥ श्रीगुप्तोऽपि तदारभ्य शुकवाक्यं हृदि स्मरन् । जिनधर्मे तथा सक्तो यथा सत्सु धुरि स्थितः ॥ ३१८ ॥ १ प्रत्यक्षेण । Page #481 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ४६९ निशामुखेऽन्यदा तस्य सामायिकमुपेयुषः । कृतोद्दयोतः सुरोऽकस्मादेत्य नत्वेदमब्रवीत् ॥ ३१९॥ अहो ! श्रीगुप्त ! ते धर्मकृत्यं निर्वहते सुखम् । स ऊचे गुरु-देवानां प्रसादेन शुकस्य च ॥ ३२० ॥ शुकः क इति देवेन पृष्टे श्रीगुप्त ऊचिवान् । शुकोपकारवृत्तान्तं, ततस्तुष्टः सुरोऽवदत् ।। ३२१॥ स एवाऽहं शुकः शत्रुञ्जयाद्रावशनोज्झनात् । मृत्वा सनत्कुमाराऽऽख्ये कल्पे जातो महान् सुरः ॥३२२॥ साम्प्रतं ते स्थिरीकर्तुं धर्म कार्यान्तरं च भोः ।। आख्यातुमागतोऽस्मीह तदाकर्णय बान्धव ! ॥ ३२३ ॥ सप्तमे दिवसे तेऽयदिनाद् मृत्युभविष्यति । तद् धर्मः सम्यगाराध्य इत्युक्त्वाऽगात सुरो दिवम्॥३२४॥ श्रीगुप्तोऽपि सपद्येव जिनाऽऽयतनपूजनम् । क्षामणां सर्वसत्वेवु कृत्वाऽन्ते व्रतमाहीत् ॥ ३२५ ॥ विहिताऽनशनः पश्चनमस्कारपरायणः । विपद्यागाद् दिवं सिद्धिमपि यास्यति स क्रमात् ॥३२६॥ इत्यमेषोऽतिदुष्टोऽपि धर्मवाक्यश्रुतेः क्षणात् । शशाम तप्ततैलं वा जात्यचन्दनविन्दुतः ।। ३२७ ॥ श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा सिद्धिमवामोति शास्त्रं श्रव्यमतः सदा ॥३२८॥ किञ्च, शास्त्रं श्रुत्वा पठित्वाऽपि भृशं सूक्ष्मविचारणम् । जानाति यदि कोऽप्येको वृद्धापुत्राऽऽगमज्ञवत् ॥३२९॥ तथाहिपुरे काऽपि पुरा छात्रौ द्वौ सहाऽध्यायिनी नदीम् । गतौ तीरे श्रियं तस्याः पश्यन्तावूर्ध्वतःस्थता ॥३३०॥ अथैका स्थविरा शीर्षे न्यस्य नीरभृतं घटम् । Page #482 -------------------------------------------------------------------------- ________________ ४७० श्रीपार्श्वनाथचरितेनद्या वलन्त्यदर्शन तौ सुमूर्ती पुस्तिकाकरौ ॥ ३३१ ॥ साऽतिहृष्टा ततोऽपृच्छद् दत्ताऽऽशीस्तत्पुरः स्थिता । देशान्तरगतस्याऽऽत्मपुत्रस्य कुशलाऽऽगमम् ॥३३२॥ पुत्रस्मृतिभवाद् दुःखादथाऽस्या वाद्धकादपि । कम्पिताङ्गया घटो मूर्ध्नः पतित्वाऽभज्यत क्षितौ ॥३३३॥ तद् दृष्टा सहसा स्थूलमतिरेकस्तयोगी । जानेऽहं घटभङ्गेन वृद्धे ! तव सुतो मृतः ॥ ३३४ ॥ द्वितीयस्त्वाह मा भ्रातरेवमाकस्मिकं वद । हे ! मातः सत्वरं गच्छ पुत्रस्ते गृहमागतः ॥ ३३५ ॥ मृतप्रत्युज्जीवितेव सा यावत् सदनं ययौ । निविष्टोऽस्ति पुरस्तावदुभूलितपदः सुतः ।। ३३६ ।। ततो हर्षोत्सुका वृद्धा ययौ विद्यामठं गुरोः । पुरश्चोपायनं मुक्त्वा तत् स्वरूपं न्यवेदयत् ॥ ३३७ ॥ उपाध्यायोऽपि तं ज्ञात्वाऽपृच्छद् वत्स ! कथं त्वया । घटभङ्गापशकुनात् कथितोऽस्याः सुताऽऽगमः ॥ ३३८ ॥ शिष्योऽसौ लज्जितः स्माऽऽह प्रभो ! युष्मत्प्रसादतः । उपाध्यायेन भूयोऽपि स्पष्टं पृष्टोऽथ सोऽवदत् ॥ ३३९ ।। मयेत्यनुमितं तावद् घटभङ्गाद् यथाऽमिलत् । मृत्स्ना भूमेजलं नद्यास्तथाऽस्या मिलितः सुतः ।। २४० ॥ ततो हृष्टो गुरुढिमालिङ्ग्य प्रशशंस तम् । अहो ! कुशाग्रसादृश्या मतिरस्य लघोरपि ॥ ३४१ ॥ भद्र ! ज्ञात्वा त्वयाऽप्येवं सूक्ष्मतत्त्व विचारणा ।। गम्भीरमतिना कार्या यथा स्यों महतां गुरुः ॥ ३४२ ॥ बन्धुदत्त इति श्रुत्वा दध्यावेवंविधं श्रुतम् । नित्यं प्रभुपदोपास्ति विना न स्याद् महागुणम् ॥३४३॥ १ क्रियापदम् । Page #483 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ः । ४७१ यतः महान् भेदः सरस्तीरतरोर्वनतरोरपि । इति व्रतमना बन्धुर्नत्वाऽपृच्छत् पुनर्विभुम् ॥ ३४४ ॥ अतो नाथ ! क यास्यावः कियांश्च भव आवयोः । स्वाम्याचख्यौ युवां मृत्वा सहस्रारे वजिष्यथः ॥ ३४५ ।। च्युत्वा चक्री विदेहे त्वं भावी ते च महिष्यसौ । भुक्तभोगौ परिव्रज्य ततः सिद्धिं प्रयास्यथः ॥ ३४६ ॥ तत् श्रुत्वाssसनमोक्षत्वादुच्छन्नविषयस्पृहः | बन्धुदत्तः सपत्नीकस्तदैव व्रतमाददे || ३४७ ॥ बाह्यं भवाय मोक्षायाऽभ्यन्तरं पुनरित्यसौ । बाह्यं मुक्त्वाऽऽश्रितो धर्ममन्तरङ्गकुटुम्बकम् ॥ ३४८ ॥ श्रुताऽभ्यासः पिता यत्र जिनभक्तिर्जनन्यथ । विवेकः सोदरो जामिः सुमतिर्दयिता क्षमा ॥ ३४९ ॥ विनयस्तनयो मित्रं संतोषो भवनं शमः । बन्धवस्तु गुणाः शेषाः कुटुम्बमिदमान्तरम् ॥ ३५० ॥ अनेन च कुटुम्बेन सदा सन्निहितेन सः । निवृर्तात्मा सुखं चारु चारित्रं निरवाहयत् || ३५१ ।। यत्र रागान्धता. धूमः शिखी द्वेषः क्षमा मरुत् । धूर्ता वैधर्मिकाः खिङ्गा नास्तिकस्तुमलः कलिः ॥ ३५२ || प्रदीप भवाssख्येऽस्मिन्नज्ञाङ्गाः सङ्गिपङ्गवः। दह्यन्ते निःसरन्त्येव ये पुनश्चरणक्षमाः || ३५३ ॥ ( युग्मम् ) यो हल्लराभिधे ग्रामेऽशोकाख्यो मालिकोऽजनि । आरोप्य नवपुष्पाणि श्रिया चटद्भवोऽभवत् ।। ३५४ ॥ तथाहि द्रम्माणां नवलक्षाणि कोटयोऽस्य तथाऽभवन् । एवं स्वर्णस्य रत्नानामित्यभूत् सप्तमो भवः ।। ३५५ ॥ Page #484 -------------------------------------------------------------------------- ________________ ४७२ श्रीपार्श्वनाथचरितेअष्टमे तु नवग्रामलक्षेशः स भवेऽभवत् । क्रमेण नवमे जातो राजा नवनिधीश्वरः ॥ ३५६ ॥ सोऽप्यन्येाः प्रभोरन्ते श्रुत्वा प्राच्यभवं निजम् । प्रव्रज्य नवमं तत्वं मोक्षाख्यं नवमं व्यधात् ॥ ३५७ ॥ (कलापकम् ) एवं विरहतो भर्तुः सहस्राः षोडशर्षयः। अष्टात्रिंशत् सहस्राणि साध्वीनां तु महात्मनाम् ॥३५८॥ श्रावकाणां लक्षमेकं चतुःषष्टिसहस्रयुक् । त्रिलक्षी श्राविकाणां तु सहस्राः सप्तविंशतिः॥ ३५९ ॥ शयत्रयी सपश्चाशत् श्रीचतुर्दशपूर्विणाम् । अवधिज्ञानिसाधूनां चतुर्दशशतानि तु ॥ ३६० ॥ मनोविदा सप्तशती सार्धा केवलिनां पुनः । सहस्रं वैक्रियलब्धिमतां त्वेकशतोत्तरम् ॥ ३६१ ॥ संपनवादलब्धीनां पद्शतानि महात्मनाम् । परिवारः समभवत् केवलज्ञानवासरात् ॥ ३६२ ॥ ज्ञात्वा निर्वाणमासनं सम्मेताद्रिं ययौ विभुः । योऽजिताद्यर्हतां सिद्धिस्थानभावादिवोन्नतः ॥ ३६३ ॥ इतश्च खलु यन्मूर्ध्नि च्छत्रं भूभृत्सु राजते । वातान्दोलितनानाद्रुपुष्पोद्भूतरजश्छलात् ॥ ३६४ ॥ उत्पताक इवोद्दण्डचण्डधामोपलांशुभिः। यो यश्च निर्झराम्भोभिः कृतस्नानादिवोज्ज्वलः ॥३६५॥ किंनरीगीतिभिः साधुस्वाध्यायध्वनिना च यः। धत्ते रागं विरागं च सुदुर्भेद्यहदामपि ॥ ३६६ ॥ मदमत्ता रतासक्ता यक्षिण्यो विरताऽऽमदाः । मुनयश्च सुखं सन्तो यस्यान्तः ख्यान्ति गौरवम् ॥३६७॥ मोक्षपद्यामिवाऽऽरुह्य तं गिरिं त्रिजगद्गुरुः । त्रयस्त्रिंशन्मुनियुतः सन्न्यासं मासिकं व्यधात् ।। ३६८ ॥ Page #485 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः 1 श्रावणस्य सिताष्टम्यां विशाखायां स वासरे । बादरौ चित्त-वाग्योगौ काययोगस्थितोऽरुधत् ॥ ३७० ॥ सूक्ष्मेण काययोगेन काययोगं च बादरम् । रुद्ध्वा नाथोऽरुधत् सूक्ष्मौ योगौ वाक्-चित्तलक्षणौ ३७१ इति सूक्ष्मक्रियं नाम शुक्लध्यानं तृतीयकम् । अस्तसूक्ष्मतनूयोगं क्रमात् प्रभुरसाधयत् ।। ३७२ ॥ ततश्च ध्यानमुत्सन्नक्रियं नाम चतुर्थकम् । पञ्चहस्वाक्षरोच्चारमिति कालमशिश्रियत् ।। ३७३ ॥ क्षीणकर्मा निष्ठितार्थः सर्वदुःखमलोज्झितः । अनन्तदर्शन-ज्ञान-सुख वीर्यचतुष्टयः ॥ ३७४ ॥ बन्धाभावादूर्ध्वगतिरेरण्डफलबीजवत् । स्वभावाद् ऋजुमार्गेण प्रभुर्लोकाग्रमासदत् ।। ३७५ ।। (युग्मम् ) स्वामिवन्निर्वृतास्तेऽपि त्रयस्त्रिंशन्मुनीश्वराः । कल्याणायाऽभवद् विश्वे निर्वाणमपि वैभवम् ।। ३७६ ।। गार्हस्थ्ये त्रिंशदब्दानि व्रतभावे तु सप्ततिः । सर्वायुरित्यब्दशतं श्रीमत्पार्श्वप्रभोरभूत् ।। ३७७ ॥ क्षीराम्भोधिजलैः शक्रः स्नपयित्वा वपुः प्रभोः । गोशीर्षचन्दनैर्लिप्त्वाऽभूषयद् दिव्यभूषणैः ॥ ३७८ ॥ देवदृष्येन चाऽऽच्छाद्य तनीत्वा वासवो रुदन् । शिविकायां न्यधादेवं शेषर्षीणां सुरा व्यधुः ॥ ३७९ ॥ गन्धाम्बु- सुमनोवर्षे धूपघट्यादिधारणम् । गीतं नृत्यं च वाद्यं च क्रन्दनं परिदेवनम् ॥ ३८० ॥ स्तुतिं पूजां च पुष्पाद्यैः स्ववीयोत्कलिकावशात् । शुचा भक्त्या च कुर्वाणे देवदेवीगणे पुरः ।। ३८१ ॥ स्वामिनः शिविकां शक्रः साधूनां शिविकां सुराः । उद्घृत्य निन्युः श्रीखण्डा-गुरुदारुचितां चिताम् ||३८२|| ( विशेषकम् ) ४७३ Page #486 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथचरिते इन्द्रादेशादथो तत्र चितयोर्न्यस्तदेहयोः । कर्पूर- मधु-सपपि बहुशश्चिक्षिपुः सुराः ।। ३८३ ॥ विकुर्व्यवह्नि वातं च वह्नि वायुकुमारकाः । संचस्करुः क्षणेनैव देहान् स्वामि तपस्विनाम् || ३८४ ॥ अस्थिवर्जजिनाङ्गस्थ दग्धेष्वखिलधातुषु । ४७४ 1 चितां व्यध्यापयन् क्षीराम्भोभिर्मेघकुमारकाः ।। ३८५ ।। दंष्ट्रे जगृहतुः शक्रे - शानावुपरिगे प्रभोः । दक्षिण- वामे चमर-बली चाऽधः स्थिते क्रमात् ॥ ३८६ अन्ये तु वासवा दन्तानार्चितुं दुरितच्छिदे | स्वीचक्रुरितरेऽस्थीनि देवा भस्मादि मानवाः || ३८७ ॥ रत्नस्तूपं चितास्थाने व्यधुस्तुङ्गं सुराः प्रभोः । विश्वाधारं विना भ्रश्यच्चित्तस्याधारदण्डवत् ॥ ३८८ ॥ शोकाख्यं प्रसरद् नाथसूरे दूरं गते तमः । मिथः संबोधदीपेन रुरुधुर्वासवादयः || ३८९ ॥ ततो नन्दीश्वरद्वीपे शाश्वतप्रतिमोत्सवम् । विधाय सर्वे गीर्वाणाः सेन्द्राः स्वस्वाssस्पदं ययुः ॥ ३९० ॥ इन्द्राः स्वस्वविमानेषु सुधर्मायां च पर्षदि । अधिमाणवकस्तम्भं वृत्तवज्रसमुद्रके ।। ३९१ ॥ आवेशयन् स्वामिदंष्ट्रा आनर्चुश्च निरन्तरम् । तासां प्रभावात् तेषां च सदा विजय मङ्गले ॥। ३९२ ।। विश्वातिशायिमहिमा धरणोरगेन्द्रपद्मावती सतत सेवितपादपीठः । अन्तर्बहिश्च दुरितच्छिदनन्तशर्मा देवः क्रियादुदयिनीं शुभभावलक्ष्मीम् || ३९३ ॥ इति श्रीकालिकाचार्यसन्तानीय श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरिते महाकाव्येऽष्टसर्गे भावाङ्के भगवद्विहारवर्णननिवार्णवर्णनो नामाष्टमः सर्गः ॥ ८ ॥ Page #487 -------------------------------------------------------------------------- ________________ प्रशस्तिः । कलिकुण्डे मथुरायां स्तम्भनके चारुवप्रशङ्खपुरे । नागदे लाटहदे स्वर्णगिरिप्रमुखतीर्थेषु || १ || कलिकलुप गर्वसर्वकषनखमणिकिरणसजलपदपीठः । एकातपत्रमहिमा जयति श्रीपार्श्वनाथजिनः ॥ २॥ ( युग्मम् ) कलास्थानकभावेन कलिमानकदर्थनः । कजार्चेन कवित्वेन कल्पितानजते जिनः ॥ ३ ॥ आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्यक्रमः श्रीमान् कालिकसूरिरद्भुत गुणग्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिमासादतुङ्गाचल भ्राजिष्णुर्मुनिरत्न गौरवनिधिः खण्डिल्लगच्छाम्बुधिः ||१४|| तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशो ज्योत्स्नापूरितविष्टो विधुरिव श्रीभावदेवो गुरुः । यस्याऽऽख्यानसमानमेष बहुशो व्याचक्ष्यमाणोऽधुना गच्छोऽगच्छदतुच्छ गूर्जर भुवि प्रष्ठां प्रतिष्ठामिमाम् ||५|| मनसि घनविवेकस्नेहसं सेकदीप्तो द्युतिमतनुत यस्य ज्ञानरूपः प्रदीपः । असमतमतमांसि ध्वंसयन्नञ्जसाऽसौ न खलु मलिनिमानं किन्तु कुत्राऽपि चक्रे ॥ ६ ॥ श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्रमुक्तावलीविमलनायकतां वितेने । ज्योतिस्तदुज्ज्वलतरं विकिरन् धरित्र्यां चित्रं न यस्तरलतां कलयांचकार ॥ ७ ॥ 1 दाक्षिण्यैकनिधिर्व्यधान्न सहजे देहेऽप्यहो ! वाञ्छितं Page #488 -------------------------------------------------------------------------- ________________ ४७६ श्रीपार्श्वनाथचरितेकारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्माऽनुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमा-ऽश्मनोः ॥८॥ तदीयपट्टेऽजनि वीरसूरियन्मानसे निर्मलदर्पणाऽऽभे । निरूपयामास सरखती सा त्रैविद्यविद्यामयमात्मरूपम् ॥९॥ सदाभ्यासावेशप्रथितपृथुमन्थानमाथिता दवाप्तं तर्काब्धेर्विबुधपतिसिद्धेशमहितम् । यदीयं वागब्रह्माऽमृतमकृत दर्पज्वरभर प्रशान्ति निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥१०॥ तस्मादभूत संयमराज्यनेता मुनीश्वरः श्रीजिनदेवमूरिः। यो धर्ममारोप्य गुणे विशुद्ध ध्यानेषुणा मोहरिपुं विभेद ॥ ११ ॥ आद्यनामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाऽऽख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽभिरज्य ल्लक्ष्मीलीलानिवासान्त्रिमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः॥१३॥ तेषां विनयविनयी बहु भावदेव सूरिः प्रसन्नजिनदेवगुरुप्रसादात् । श्रीपत्तनाऽऽख्यनगरे रविविश्व (१३१२) वर्षे पार्श्वप्रभोश्चरितरत्नमिदं ततान ॥ १४ ॥ समीक्ष्य बहुशास्त्राणि श्रुत्वा श्रुतधराऽऽननात् । ग्रन्थोऽयं ग्रथितः स्वल्पसूत्रेणापि मया रसात् ॥ १५ ॥ काऽपि दृष्टान्तमात्रस्तु यः कोऽपि कथितो मया। खधिया सोऽपि जैनाज्ञानुसारेण गुणेच्छुना ॥ १६ ॥ Page #489 -------------------------------------------------------------------------- ________________ प्रशस्तिः । यतः चरितं कल्पितं चापि द्विधोदाहरणं मतम् । परस्मिन् साधनायार्थस्यौदनस्य यथेन्धनम् ॥ १७ ॥ अथवोक्तम् अनादिनिधने काले जीवानां चित्रकर्मणाम् । संविधानं हि तन्नास्ति संसारे यन्न संभवेत् ।। १८ ।। अतोऽस्मिन् ग्रन्थे यन्न्यूनमधिकं वा कृतं मया । तदप्यनेनाssधारेण तत् क्षन्तव्यं ममाऽखिलम् ॥ १९ ॥ श्री पार्श्वचरितं तैस्तैर्वर्णितं यन्महात्मभिः । ४७७ इत्थं मयाऽपि यत् तत्रोपक्रान्तं धार्यमेव तत् ॥ २० ॥ किञ्च, २१ ॥ उत्तुङ्गचङ्गचत्यानि महेभ्यैः कारितानि चेत् । तद् देवकुलिकामल्पधनो न विदधाति किम् ? ॥ पूजितो यदि देवेन्द्रैर्जिनो मन्दारदामभिः । पूजयन्ति न किं तत् तान् मर्त्या मरुबकादिभिः ? ॥२२॥ अध्वानमवतीर्णा यं गुरुगत्या महागजाः । न सञ्चरति किं तत्र करिपोतः स्खलद्गतिः १ ॥ २३ ॥ तन्मयाऽपि प्रभोर्भक्तिप्रकर्षवशचेतसा । यतः चरित्रं चरितं सन्धाऽनुमतं च न दुष्यति ॥ २४ ॥ यदत्र किञ्चिन्मूढत्वादलीकं ग्रथितं भवेत् । सर्व माये कृपां कृत्वा संशोध्यं तन्मनीषिभिः ।। २५ ।। निशम्य सम्यक् श्रीपार्श्वस्वामिनश्चरितं वरम् । भविकैस्तत्तात्पर्यार्थो धारणीयः सदा हृदि ॥ २६ ॥ - गुरुमेघगतीं विभ्रत् सरोवत् कमलोज्ज्वलः । दृश्यते स्फुटमुत्तानः स्थूलवत् तु रजोमयः ॥ २७ ॥ अ लवादपि यथा पटुतां सुधायाः Page #490 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथचरिते कल्याणतां भजति सिद्धरसस्य लोहम् । सच्चन्दनस्य हिमतामतितप्ततैलं जीवस्तथा जिनमतस्य हि सिद्धभावम् ॥ २८ ॥ दशभववरपत्रं पार्श्वभर्तुश्चरित्रं कमलमुदयनालं पुण्यलक्ष्पीविशालम् । प्रमुदितमुनिभृङ्गं सौरभोद्वारच विलसतु बुधचेतः पल्वले नित्यमेतत् ।। २९ ।। ग्रन्थः सर्वाग्रमानेन प्रत्येकं वर्णसङ्ख्यया । चतुःसप्तत्युपेतानि षट्सहस्राण्यनुष्टुभाम् ॥ ३० ॥ ममाप्तमिदं श्रीपार्श्वनाथचरितम् । ४७८ Page #491 -------------------------------------------------------------------------- ________________ अशुद्धिशोधनदलम् । टिप्पण्यशुद्धिः। पृष्ठे, श्लोकस्य अश्रुद्धम् ।। शुद्धम् । १५ १७६ १मां न प्रयासि न प्राप्नोषि, १ दक्षिणस्यां दिशि। २० २४७ २ प्रथमान्तमेतत्, २ द्वितीयान्तमेतत् । ६२ ७८१ २ गिर्जने २ निर्जने । ९७ ३३९ ३ मुले ३ मूले। २४३ ३४ २ कदली देवाङ्गनां च । कदली देवाङ्गना च । मूलो। संस्करणाशुद्धिः। सर्गे प्रथमे, श्लोके, अशुद्धम् ।। शुद्धम् । ८ मुर्द्धनि मूर्धनि । __ ५१ -मुलो शिर्षों -शीर्षों। -संगा. -सङ्गा-। १४९ दिवा बल- दिवाबल-। १५८ प्रपच्छ पप्रच्छ। १६८ व्याध! व्याधः। -न्ताऽकृष्ट -न्ताऽऽकृष्ट । -नाऽऽगमः -नागमः। दक्षिणे न दक्षिणेन । प्रयासि - प्रयासि । १९१ प्रच्छिरे -पृच्छिरे। समर्पयत् समार्पयत् । .. -च्छयत च्छयत । २५४ तेदे तदे। -ग्रहण ग्रह। २७३ -पह -पट्ट। २८० सजन: सजन !। १९८ २३२ Page #492 -------------------------------------------------------------------------- ________________ ( २ ) सर्गे प्रथमे, श्लोके, अशुद्धम् । शुद्धम् । ३०० सत्कृतस्त्रा-.. सस्कृतः स्वा। विष्टां विष्ठां। ३२० -संग-संग -सङ्ग। ३२२ -संगो -सङ्गो। पृष्टव्य प्रष्टव्य। ३४४ -मारऽऽ. •मारा-1 माऽश्वा. माश्वा । ४४५ संनिभाः सन्निभाः । ४४७ -पथमपू- -पथपू। ४७५ मुखोद्यो मुखोद्यो-। ४८१ संग सङ्गम्। ५०४ -लोभाय -लाभाय । ५३१ चाऽऽभ्या- चाऽभ्या-। ५७० -पूजा दया दान दाक्ष्य. -पूजा-दया-दान-दाक्ष्य । ५९३ -स्थमा रा स्थमारा। ५९४ पप्रछ पप्रच्छ । ६२५ धामग धाम ग-। ६५२ स्वच्छो स्वच्छौ। ६६. विभोः विभो!। ६८८ चतुथी चतुर्थी। पुरिमध्ये पुरीमध्ये। ७०३ शिरोऽधरः शिरोधरः । तथाचित्ते तथा चित्ते। ७३६ -च्छवि -च्छविम् । ७५५ चेद् भवेद् । ७५६ 'एभ्यो येभ्यो। ७६९ यावद् यावत् । . : तावत् तावद् । ७७५ येनैवं ये नैवम् । ८५८ . कमठो शा- कमठोऽशा-। ८७१ . -तिस्वर्गो -तिः स्वर्गो। द्वितीये १२ त्रीभिः, स्त्रीभिः धात्रीभिः । ७१५ Page #493 -------------------------------------------------------------------------- ________________ सर्गे, द्वितीये, श्लोके अशुद्धम् । ३५ पैत्रिकी २४७ धन्या २५२ सिन्धूराणां २५३ -लेकिताः ३२४ क्षित्प्वा स्वान्त्वेन अलिकं अद्य प्रभृ४१० -त्सुकाः ४२४ भव्य भाव -वनेसुर४४४ सोऽपि ४४७ केनाप्यकृत४४८ त्वां पुत्र ! भिक्षा दूत६२६ अचितन्यच ७२४ परं च १००१ महर्धिकः १०४४ ज्ञानात्मावि -धर्माऽबाध लब्ध्वास्वा१.४७ वेक्षेत न्यवर्तत प्रतिज्ञा २७० प्रपच्छ महिभुजे ३८३ महा ४१४ कुलिना ५१७ . पृष्टे ५२४ घुर्णित- ५६४ सै वृक्ष. शुद्धम् । पैतृकीम् । धन्याः । सिन्धुराणाम् । -लोकिताः । क्षिप्त्वा । सान्त्वेन । अलीकम् । अद्यप्रभृः। -त्सुका । भव्य-भाव। -वने सुर-। सापि केनापि कृततां। पुत्रभिक्षा। द्यूतअचिन्तयश्च । च परम् । महर्द्धिकः । ज्ञानात्मा वि-। -धर्माबाध-। लब्धास्वा-। द्रष्टु-। वेक्ष्येत । न्यवय॑त । प्रतिज्ञा पप्रच्छ । महीमुजे। महा । कुलीना। पृष्ठे। पूर्णित- । . -संसैर्वृक्ष-। २४ Page #494 -------------------------------------------------------------------------- ________________ सर्गे, तृतीये, श्लोके । अशुद्धम् । ....... बुद्धम् । ५६५ . लेन्दुस्त्री- . -लेन्दु स्त्री। ५७२ मेदनीम् ........ मेदिनीम् । ७६१. निर्लप निलम्प-। ८४२ नृपेणोक्ते नृपेणोक्तो। तत् प्रण तत्प्रण। आलम्बने न आलम्बनेन । त्याद्यानु- -त्याद्यनु-। १०३९ मत मते । १०६४ राजापु राजपु.। १०८६ मनो मर्क- मनोमर्क। १०९९ अति भीषणम् अतिभीषणम्। ११०८ ११०९ ११०८ भूभृद्दद भूभृद्द-। १२ -दर्शना कु- -दर्शनाकु-। पयाणे पर्याणं। रम्भां सौ रम्भासौ-। ६७ -मागता? -मागताः । ७४ स मे समे- । ७६ -गातिर्दु:- गार्तिदुः-। चैव चैवं। ---लाऽऽस्या -ला स्या। ८७ श्रये श्रयः। ९९ महा महा । १२६ प्लावविष्यति प्लावयिष्यति । २९ पञ्चमे १६२ नवमिाक प्रेसन : :: :: :: नता १८० २१८ १७१ '२५४ ३४६ नवमिका । प्रसेन-। नताः । उपकूपं। भामण्डलं । परेणात्ते। उपकुपं भामण्डल - परणात्ते .. Page #495 -------------------------------------------------------------------------- ________________ सर्गे, षष्ठे श्लोके । ५११ ५१७ ५६० ६३३ ६३७ ७६० ९१५ ९४१ ९४५ ९५१ १००५ १०६० १०८५ ११०७ "" މ "" در 39 93 " "3 " " " " "" " सप्तमे "" "" 99 "" "3 در " 19 ८०५ "" अष्टमे २५० 22 "" "" ,, "" "" २ ४० १६३ २०१ २४३ ३१८ ५२८ ६२० ७७६ 23 ( ५ ) 93 ३३० ३५१ ३५२ ३६० अशुद्धम् । -मुन्मत्त -कारि तुल्यं अह टुवा - अति - यासु कर्म तत् क्षणाद् -च्छय दूरं ततः नृपः तया न्यस्य -स्त्रीपु पात्री - मुद्दिश्य -धर्म -हर्काय -नाऽस्ते -दधिका वर्तीणौ -स्त्रिया -र्णवास्या - -कौञ्च तीर्थ -मम्यर्च्य सहस्त्राणां २७८ गुणैर्पूज्याः २८१ -मानः सुखिनाः स्थिता निवृर्ता -स्तुमल: शयत्रयी शुद्धम् । मुन्मत्तक । कारितुल्यं । अद्र तदति । -या सुकर्म- । तत्क्षणाद् । - च्छ्थ । दुरन्ततः । नृप । तयाऽन्यस्य । -स्त्रीषु । पात्रीं । - मुद्दिश्य । -धर्मे I -हकार्य - | -नाssस्ते । -दीर्घिका -वतीर्णौ । -स्त्रियाः । -र्णवस्था । -क्रौञ्च- । तीर्थ । मभ्यर्च्य | सहस्राणां । गुणैः पूज्याः । -मानाः । सुखिनः । स्थिता । निर्वृता । -स्तुमुलः । शतत्रयी । Page #496 --------------------------------------------------------------------------  Page #497 -------------------------------------------------------------------------- ________________ श्रीयशोविजय जैनग्रन्थमाला मां आजसुघी छपाइने प्रकाशित थएला ग्रन्थो नुं सूचीपत्र | - १. प्रमाणनयतत्वालोकालङ्कार - मूल श्रीवादिदेवसूरि ०८-० २. हैमलिङ्गानुशासन - श्रीहेमचन्द्रसूरि ३. सिद्धहेमशब्दानुशासन - लघुवृत्तिसहित ४. गुर्वावलि - मुनिसुन्दरसूरिरचित बीजी आवृति ५. रत्नाकरावतारिका-बे परिच्छेद टि. पं. सहित ६. सिद्धहेमशब्दानुशासन - मूलमात्र ७. स्तोत्र संग्रह - भाग - १ सीलीक मां नथी ८. मुद्रितकुमुदचन्द्रप्रकरण - श्रावक यशश्चन्द्रकृत ९. स्तोत्र संग्रह - भाग - २ सीलीक मां नथी ०-५-० ३-०-० ०-४-० १-०-० ०-५-० ०-६-० 、 ००८-० १-०-० २-०-० १०. क्रियारत्नसमुच्चय - श्रीगुणरत्नसूरिविरचित ११. श्रीसिद्धहेमशब्दानुशासनसूची अकारादि अनुक्रम ०-४-० १२. कविकल्पद्रुम - श्रीहर्षकुलगणिरचित श्लोकबद्ध धातुपाठ ०-४-० १३. सम्मतितकाख्यप्रकरण- प्रथमखण्ड न्यायनोअलौकिक ग्रन्थ श्रीसिद्धसेनदिवाकर विरचित ३-०-० "7 १४. श्रीजगद्गुरुकाव्य- श्रीहीरविजयसूरि नुं चरित्र १५. श्री शालिभद्रचरित्र - टिप्पणसहित पत्राकार १६. श्रीपर्वकथासंग्रह - प्रथमभाग पत्राकार १७. षड्दर्शनसमुच्चय- राजशेखरसूरिकृत १८. शीलदूतकाव्य - चारित्रसुन्दरगणिकृत १९. निर्भय भीमव्यायोग- श्रीरामचन्द्रसूरिकृत २०. श्रीशान्तिनाथचरित्र - श्रीमुनिभद्रसूरिविरचित ३-०-० २१. रत्नाकरावतारिका - रत्नप्रभाचार्यकृत परिच्छेद ३थी८ १-८-० " 17 97 २२. १-२ १-०-० 99 संपर्ण पार्क पुंटुं. ३-०-० ०-४-० १-४-० ०-४-०. ०-४-० 0-8-0 ०-४-० Page #498 -------------------------------------------------------------------------- ________________ ( २ ) २३. ५-०-० उपदेश तरङ्गिणी- पत्राकार - उपदेशतथारसीक कथाओ ३-०-० न्यायार्थमञ्जूषा - सिद्ध है मनी परिभाषाओनी व्याख्या ३-०-० . गुरुगुणरत्नाकरकाव्य - लक्ष्मीसागरसूरिनो इतिहास ०-८-० २४. विजयप्रशस्तिमहाकाव्य- सटीक - हेम विजयगणी २६. गद्यपाण्डवचरित्र-पण्डित देवविजयजीगणीए बनावेलं, घणुं सरल अने बोधदायक छे. सामान्य संस्कृत जाणनाराओ पण वांचननो सारो लाभ मेलवी शके छे. वधारे खात्री अनुभवथी करो किमत मात्र रु. ४-०-० २९. मल्लिनाथमहाकाव्य- (पुस्तकाकारे तेमज पत्राकारे) आ महाकाव्य श्रीविनयचन्द्रसूरिए बनावेलुं छे. जेमां मल्लिनाथस्वामीना चरित्र उपरान्त प्रासङ्गिक केटलीक रसिक कथाओ सरल संस्कृतमां आपवामां आवीछे. साधारण संस्कृत जाणनाराओ पण तेनो लाभ लई शके छे. किमत. ३-०-० ३०. स्याद्वादमञ्जरी - (पत्राकारे) आ पुस्तक केटलेक स्थळे मुद्रित छे, तो पण अमे शुद्धता तेमज अल्प मूल्यथी ते प्राप्त थई शके तेटला सारू छपाव्युं छे किमत मात्र 8-0-0 ३२. पार्श्वनाथ चरित्र - भावदेवसूरिविरचित घणुंज रसिक तथा सरल छे, पुस्तकाकारे तथा पत्राकारे श्लोकबद्ध कीमत रु. ३-०-० शास्त्रविशारद जैनाचार्य - श्री विजय धर्मसूरिजी विरचितं पुस्तको । १. जैनतश्वदिग्दर्शन २. जैनशिक्षादिग्दर्शन 19 ३. ४. पुरुषार्थदिग्दर्शन ५. आत्मोन्नतिदिग्दर्शन ६. अहिंसादिग्दर्शन ७. 17 B (हिन्दी भाषा ) " (गुजराती) (हिन्दी भाषा ) (गुजराती) पोस्टेज, (हिन्दी भाषा ) (बंगला) ०-२-० ०-२-० ०-२-० 0-8-0 0-0-& ०-४-० ०-४-० Page #499 -------------------------------------------------------------------------- ________________ ( ३ ) . एशीयाटीक सोसायटी ओफ बंगालमां छपाएला जैन ग्रन्थो. १. योगशास्त्र -त्रण अंको प्रत्येकना २. शान्तिनाथचरित्र - त्रण अंक दरेकना ३. षड्दर्शनसमुच्चय-बे अंक, प्रत्येकना १-४-० ०-१०-० 0-20-0 ४. समराइच्चकहा- चार अंक, प्रत्येकना 0-80-0 ५. प्रबन्धचिन्तामणि- (इंग्रेजी भाषामां) त्रण अंक प्रत्येकना १-४-० ६. परीक्षामुख - लघुवृत्तिसहित, न्यायनो ग्रन्थ. 8-0-0 " ७. न्यायसार - सटीक . R-0-0 ८. तवार्थाधिगमसूत्र - भाष्य सहित, त्रण अंक, प्रत्येकना ०-१०-० ९. उपमितिभवप्रपञ्चाकथा - (त्रीजो तथा चोथो अंक छोडी) १३ अंक संपूर्ण. प्रत्येक अंकना 0-80-0 १०. उपासकदशाङ्गसूत्र - मूल तथा टीका. प्राकृत शब्दोनो कोश पण साथे छे. ११. प्राकृतलक्षण-चण्डकृत - प्राकृतव्याकरण १२. बौद्धप्रकरणसंग्रह - बौद्ध न्यायशास्त्रानां न्हानां न्हानां छ प्रकरणोनो समावेश छे. ६-०-० १-८-० ०-१०-० १. श्रीधर्ममहोदय - (संस्कृत) श्रीरत्नविजयजी विरचित २. श्रीविजयधर्मसूरिचरित्र - ( गूजराती) पोस्टेज ३. सुजनसम्मेलनम् - ( हिन्दी ) महामहोपाध्याय श्रीराममिश्र शास्त्रीजीनुं व्याख्यान तेमां जैनधर्मनी प्राचीनतासिद्ध करी छे.. 0-8-0 ०-१-० ०-१-० 'जैन - शासन' या पत्र दरेक पूर्णिमा तथा अमावास्याए प्रगट थाय छे. पो Page #500 -------------------------------------------------------------------------- ________________ स्टेज सहित वार्षिक लवाजम रु. 2) प्राहक थवा इच्छनारे पोतार्नु . नाम, गाम, ठाम शुद्ध अक्षरे लखी मोकलबुं / श्रीयशोविजयजैनग्रन्थमाला. (संस्कृत मासिक पुस्तक ) श्रीयशोविजय जैन ग्रन्थमाळा मासिकमां एक सो पृष्ठ संस्कृत भने प्राकृत साहित्यने माटे रोकवामां आवेछे, जेनी अंदर न्याय, कोश, तथा महाकान्यना ग्रंथो प्रसिद्ध करवामां आवेछे. पोस्टखर्च साथे वार्षिक लवाजम रु-८) प्रथमथी लेवामां आवे छे. नमूना दाखल काइने अंक मोकलवामां आवतो नथी. 25 27 28 विशेषावश्यकभाष्य. बृहवृत्तिसहित. पहेलो बीजोत्रीजो अने चोथो भाग दरेक 200 पानानां. ... जलदी मंगावी ल्यो, व्हेलो ते पहेलो, ग्राहक थनारने दर त्रण त्रण मासे बसो बसो पानानो एक एक भाग मोकलवामां आवशे. संपूर्ण ग्रन्थनी कि० रु. 25) अगाउथीज लेवामां आवे छे. पाछळीं प्राहक थनार पासेथी रु. 32) लेवामां आवशे. प्राकृत मार्गोपदेशिका. आ पुस्तक मी० भाण्डारकरनी रीतीने अनुसरि तैयार करवामां आव्युं छे. संस्कृत शिख्या वगर मात्र गुजराती भाषा जाणनाराओ पण ' मा पुस्तक द्वारा प्राकृत भाषा सारी रीते शिखी शकेले. की.०-१२-० मलवानुं ठेका[-शाह हर्षचन्द्र भूराभाई, पीर सं-२४३८ दीवाली। अंग्रेजी कोठी, बनारस सिटी. : Dharmabhyudaya Prosw, Benares City..