SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः। सत्कृत्वा बन्धुदत्तस्य स्नान-भोज्यादिगौरवम् । ऊचे खगामिनी विद्यां किं कन्यां वा ददामि ते ॥६०॥ त्वद्विद्या मदशेत्युक्त्वा तूष्णीमिभ्यसुते स्थिते । दध्यौ चित्राङ्गदः कन्यां खल्वेष इयतेच्छति ॥ ६१ ॥ सा कन्याऽस्मै प्रदातव्या सुरूपाऽऽयुष्मती च या । तत् काऽहो! भरतेऽस्तीहक् इत्यपृच्छत् स खेचरान् ? ॥६॥ ततो मृगाङ्कलेखा तद्भात्रङ्गदसुताऽवदत् । अस्तीदृक् तात ! कौशाम्ब्यां सखी मे प्रियदर्शना ॥६३॥ तत्पितुर्जिनदत्तस्य गृहं प्राग् गतया मया । मुनितोऽश्रावि यत् सैकं सुतं सूत्वा व्रतीयिता ॥ ६४ ॥ ततश्चित्राङ्गदो बन्धुदत्तेन सह खेचरान् । प्रैषीदमितगत्यायाः कौशाम्ब्यां तेऽप्यगुः क्षणात् ।।६५॥ आवात्सुर्बहिरुद्याने तत्र श्रीपार्श्वमन्दिरम् । ते प्रविश्याऽनमन् पार्थ बन्धुदत्तोऽस्तवीदथ ॥ ६६ ॥ जय त्रिभुवनोत्तंस ! पार्श्वनाथ जिनेश्वर ! । सुराऽसुरनत ! स्वामित्रमेयमहिमानिधे ! ।। ६७ ॥ तव निध्यानसद्ध्यानसिद्धयोगजुषां जिन !। व्याधिराधिरिवाऽऽसत्तिमियति न कदाचन ॥ ॥६८ ॥ तव शान्तवपुःकान्तिनीरपूरप्लुतात्मनाम् । दुष्टोऽपि दहनोऽनिष्टं द्वेषो वा कर्तुमक्षमः ॥ ६९॥ आस्तामन्य जलोल्लङ्घवार्ता धीरधियः प्रभो ! । त्वामवाप्य सदाधारं तरन्ति भवसागरम् ॥ ७० ॥ ध्यातत्वन्नाममन्त्राणां कथमाशीविषा भिये । नेष्टे दृष्टिविषोऽप्येषां नाथ ! मिथ्यात्वपन्नगः ॥ ७१ ॥ यान्त्य भीष्टं सधन्वा-ऽसित्वत्पादशरणाः पदम् । चौरैरक्षरिवाऽध्वस्ताः क्रान्त्वा भवमिवाष्टवीम् ॥ ७२ ॥ , व्रतमभिलषिष्यति । २ न शक्नोति । . ५७ ..----
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy