________________
४५०
श्रीपार्श्वनाथचरितेप्रभोः फणिमणिज्योतिःप्लुष्टाऽन्तर्वैरिभूरुहाम् । तत्पल्लवनिभाः पुंसां अन्ये सन्त्येव नाऽरयः ।। ७३ ॥ सनाथानां त्वया नाथ ! श्वापदा विषदे कुतः । तेषां कर्माष्टपाद् मोहशरभः करभायते ।। ७४ ॥ अत्राऽमुत्राऽपि नो तेषां दोष-दौर्गत्यजा विपत् । भवन्तं ये सदानन्दश्रेयोनिधिमधिश्रिताः ॥ ७५ ।। रोगाऽनल-जल-व्याल-चौरा-रि-श्वापदा-ऽऽपदः । बहिरन्तरपि स्वामिन्न भिये त्वयि वीक्षिते ॥ ७६ ॥ तव स्तवनवज्राङ्गीकृतरक्षाः सदा प्रभो!। यान्ति दुर्गमपि श्रेयो भावदेवमुनिस्तुत !॥ ७७ ॥ इति स्तुतिपरे तस्मिन् जिनदत्तोऽर्चितुं जिनम् । तत्रागात् खेचरान् बन्धुं तथा दृष्ट्वा च तुष्टवान् ॥७८।। साधर्मिकत्ववात्सल्यं कर्तुमभ्यर्थ्य ते निजम् । तेनाऽऽनीता गृहं तेषां स्वागतं च कृतं बहु ॥ ७९ ॥ पृष्टाश्चाऽऽगमने हेतुं खेचराः कार्यमैहिकम् । किञ्चित् कूटं विना न स्यादिति ध्यात्वेदमूचिरे ॥८॥ वयं रत्नाचलानेमि नन्तुं रैवतकाचले । गतास्तत्राऽमिलद् बन्धुदत्तोऽयं स्निग्धबन्धुवत् ॥ ८१॥ चक्रे साधर्मिकत्वं च धार्मिकोऽयं ततो वयम् । प्रीत्याऽनेन युताः श्रीमत्पार्थ नन्तुमिहाऽऽगताः ॥ ८२॥ जिनदत्तस्ततो बन्धुदत्तं तद्धर्मरञ्जितः । खेचरैरुपरोध्यैनं स्वपुच्या पर्यणाययत् ॥ ८३ ॥ स्वस्थानं खेचरा जग्मुबन्धुदत्तश्च सप्रियः । तत्रैवाऽस्थाच्चतुर्वर्षी धर्मकृत्यपरः सुखम् ।। ८४ ॥ अथ गुा गुणैर्गुळ प्रियदर्शनयाऽन्वितः । आपृच्छय श्वशुरं बन्धुदत्तः स्वां प्रस्थितः पुरीम् ॥८५॥ १ कर्माण्येवाष्टौ पादा यस्य । २ गर्भिण्या ।