SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीपार्श्वनाथचरितेअहो ! जागर्षि शेषे वा तच्छृत्वोत्थाय संभ्रमात् । देवि ! जागर्मि काऽसि त्वमित्युक्ता तेन साऽवदत् ।।९६१॥ श्रीरहं सप्त पर्यायान् यावत्तव गृहे स्थिता। इदानीं गन्तुकामा तु त्वामाप्रष्टुमिहागता ॥ ९६२ ॥ तन्निशम्य महाशोकसङ्कुलः सोऽवदत् पुनः । कथं त्यजसि मां देवि ! त्वयैव सकलं जगत् ? ॥९६३॥ श्रीरुवाच भहाभाग ! ममावऽस्थानकारणम् । भाग्यमेकं क्षयं तच्च जगाम तत्र याम्यतः ॥ ९६४ ॥ सहसोत्पन्नबुद्धित्वादसौ हृष्टोऽभ्यधादथ । प्रसद्य तर्हि मे देवि ! तिष्ठ घस्रचतुष्टयम् ।। ९६५ ।। आमेति प्रतिपद्याऽस्यां प्रयातायां यथागतम् । कुबेरो द्रुतमुत्थाप्य समस्तगृहमानुषान् ।। ९६६ ॥ निखातं प्रकटं द्रव्यं स्वर्ण रूप्यं तथाऽखिलम् । कांस्यदृष्यादि चाकृष्याऽचीकरत् सुमहोत्करान् ॥९६७।। प्रातरुद्धोषणापूर्व सर्वेषामर्थिनां धनम् । अनाथ-दुःस्थ-दीनानां स्वजनानामपीच्छताम् ॥ ९६८ ॥ सर्वज्ञभवनादौ च धर्मकृत्ये तथाऽमुना । चतुर्भिर्दिवसैदत्तं भक्तशेषोऽभवद् यथा ॥ ९६९ ॥ चतुर्थाहे मुदा जाग्रच्छयानं जीर्णमश्चके । निशि श्रीदेवताऽऽगत्य विलक्षा तमभाषत ॥ ९७० ॥ अहो ! जागर्षि शेषे वा यावनैवोत्तरं ददौ ? । तया तावदुपालब्धः स संभ्रान्त इवोत्थितः ॥ ९७१ ॥ क्षम्यतां देवि ! न ज्ञाता दिनानामियतां यतः । निश्चिन्तस्य धनाभावात्सुखनिद्राऽद्य मेऽभवत् ॥ ९७२ ॥ किं करोमीति जल्पन्तं श्रीरूचे ननु संप्रति । किं कार्य येन बद्धाऽहं गत्वर्यपि त्वया दृढम् ? ॥९७३॥ कुबेरोऽप्यब्रवीद् देवि ! कुर्वे कस्याऽपि बन्धनम् । ..
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy