________________
द्वितीयः सर्गः ।
१४७ नान्यस्याऽपि विशेषात् ते व्रज स्थानं यथेप्सितम् ।।९७४॥ देवता प्राह भो भद्र ! स्वेच्छया गमनं कुतः १ । पुण्यैः परवशाया मे तानि तु त्वयि संप्रति ।। ९७५ ॥ तेन त्वमेव मे स्थानं सोऽथ हृष्टोऽप्यवज्ञया । अब्रवीदिदमप्यस्तु किन्तु त्वं कथमेष्यासि ? ॥ ९७६ ॥ श्रीरवोचदुपायेन कोऽसौ भद्र ! निशम्यताम् ? । श्रीदेव्या भवनेत्रावधूतवेषेण यो भवेत् ।। ९७७ ॥ निमन्त्र्य भोजयित्वाऽसौ मध्यापवरके त्वया । स्पृष्टव्यो लकुटेनांहौ भविता स्वर्णपूरुषः ॥ ९७८ ॥
(युग्मम् ) तथैव विधिना तेन देव्यादेशे कृते सति । सुवर्णपुरुषो जातः खण्डितोऽप्यक्षयो हि यः ॥ ९७९ ॥ तदा तत्रागतः पादक्षालनायकनापितः । चलदृष्टितया सर्व वृत्तान्तं तमुदैक्षत ॥ ९८० ॥ अरेऽमीषां गृहे लक्ष्मीरित्थमेव प्रजायते । तत्करिष्येऽहमप्येतदिति धृत्वा हृदि स्थितः ॥९८१॥ सोऽन्यदा तादृशं वीक्ष्य नरं देवकुलस्थितम् ।। निमन्त्र्य भोजयित्वांहो जघान लकुटेन तम् ॥ ९८२ ॥ प्रहारेण पतन्नुच्चैः स चक्रन्द तथा नरः। यथा श्रुत्वा तलारक्षास्तत्राऽऽजग्मुरुदायुधाः ॥ ९८३ ।। तद् दृष्ट्वा नापितो बद्ध्वा तैः स राज्ञो निवेदितः । पृष्टो राज्ञा च वृत्तान्तं सर्वमाख्यातधानसौ ॥ ९८४ ॥ कुबेरस्य गृहे देव ! यथा स्वर्णनरोऽजनि । मयाऽपि तादृशं चक्रे फलमन्यादृशं त्वभूत् ।। ९८५ ।। अथाऽऽकार्य कुबेरस्तत् पृष्टो भूपेन कौतुकात् । सोऽपि सर्वमिदं मूलादाचचक्षे विचक्षणः ।। ९८६ ॥ ततो राजाऽवदत् तोषाद्धन्योऽहं यस्य मे पुरे।