SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीपार्श्वनाथचरितेईदृशाः सन्ति दातारः पुण्याख्याः सत्यभाषिणः ॥९८७॥ राज्ञेति सत्कृतो बाढं मोचयित्वा च चण्डिलम् । कुबेरः स्वगृहे गत्वा धर्मकृत्यपरोऽभवत् ॥ ९८८ ॥ ज्ञात्वा साधारणस्याऽपि दानस्य महिमामिति । ' भाव्यं यथाल्पसंतुष्टैः पात्रदानपरैर्नरैः ॥ ९८९ ॥ धनसार इति श्रुत्वा संविग्नः स्माऽऽह सुप्रभो !। यद्येवं तन्ममाऽप्येतत्परिग्रहनियन्त्रणम् ।। ९९० ।। वित्तं यदर्जयिष्येऽशं चतुर्थ तस्य धारयन् । यावजीवमहं शेषं प्रदास्य धर्मकर्मणि ॥ ९९१ ॥ अनाभोगादिवर्ज च कथश्चिज्जानता मया । अद्यप्रभृति न ग्राह्यो दोषः कस्याऽपि सनसन् ॥ ९९२ ॥ प्रपनस्तेन चान्योऽपि गृहिधर्मो जिनोदितः । जन्मान्तरापराधं च केवली क्षामितो भृशम् ॥ ९९३ ॥ अन्यत्र विहते तस्मिन् सोऽपि श्रेष्ठी परिभ्रमन् । तामलिप्त्यां गतः पुर्या वाणिज्यं कुरुते कृती ॥ ९९४ ॥ भाषितादधिकं धर्मे ब्ययन् वित्तमुपार्जितम् । जिनपूजादिना तत्र कश्चित्कालं निनाय सः ।। ९९५ ।। अन्यदा गृहमस्त्येकं व्यन्तरेणाद्वसीकृतम् । तत्र प्रतिमया तस्थौ धनसारः कथश्चन ॥ ९९६ ॥ देवोऽथ कुपितो नानारूपैस्तस्यातिभीषणैः। उपसर्ग व्यधात् तावद् यावत् सूरः समुद्गतः ॥ ९९७ ॥ विकाशिकमलच्छायं शमश्रीशोभितं मुखम् । मेरुधीरं मनचाऽस्य दृष्ट्रा हृष्टः सुरोऽवदत् ॥ ९९८ ॥ धन्योऽसि त्वं महाभाग ! धन्या च जननी तव । यस्यैवं गृहिणोऽप्यासीद् विकारोऽन्तर्बहिर्न हि ॥९९९ ॥ तुष्टोऽस्मि किश्चिद्याचख पुनः पुनरितीरिते । . नापितम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy