________________
सप्तमः सर्गः ।
४०७ जिनेन्द्रभवने देवं वन्दित्वैवं तमस्तवीत् ॥ ३५८ ॥ देवः स वः शिवमसौ तनुतां युगायो
यस्यांसपीठलुठितासितिकुन्तलाली । दोस्तम्भयोरुपरि मन्मथ-मोहदर्प
जैत्रप्रशस्तिफलकाश्रयमाश्रयेताम् ॥ ३५९ ।। आदिप्रभोरनिशमंसतटीनिषण्णकेशच्छलेन परितो वदनारविन्दे । किं नालिकादलमिदं तदुपेयुषी वा
सद्गन्धलुब्धमधुपावलिराविभाति ॥ ३६० ॥ निष्कासिताऽविरतियोषिति बाहुदम्भ
स्तम्भोपरिस्थकिशलोपमकेशकान्तिः । श्रीनाभिजस्य हृदयावसथे विशन्त्या दीक्षाश्रियः स्फुरति वन्दनमालिकेव ॥ ३६१ ॥ एषा यदादिमजिनस्य शिरोरुहश्री__ रुद्भूतधूमलहरीव विभोर्विभाति । सद्ब्रह्मरूपमनुमेयमन्धनेद्ध
मन्तःस्फुरत् तदिह नूनमनूनमर्चिः ॥ ३६२ ॥ शङ्के पुरः स्फुरति कोमलकुन्तलश्री
दम्भादमुष्य वृषभस्य विभोरभीक्ष्णम् । स्कन्धाधिरूढदृढसंयमभूरिभार
व्यक्तीभवकिणगणोल्वणकालिकेयम् ॥ ३६३ ॥ सैष प्रभुः कनकभङ्गनिभाऽङ्गयष्टि
लॊकम्पृणो न कथमस्तु यदंसदेशे । मेरोरुपानविलसद्वनराजगर्व
सर्वकषा स्फुरति पेशलकेशलक्ष्मीः ॥ ३६४ ॥ मन्ये विशोध्य विधिरैन्दवमेव बिम्ब १ द्विवचनम् । २ किणो घर्षणचिह्नम् ।