________________
श्रीपार्श्वनाथचरितेहसित्वाऽऽह महादेवी देव ! की प्रदीयताम् । भर्ता भोजनदानं च क्रियतां नित्यमेतयोः ॥ ३४५ ॥ नृपेण भणितं भद्रे ! यथास्थानं शुकि ! बज । त्वद्वचोजातसंतोषान्मुक्त एष पतिस्तव ॥ ३४६ ॥ आदिष्टः शालिपालश्च तदहो ! क्षेत्रभूतले । पुञ्जीकृत्याऽनयोर्नित्यं दातव्याः शालितन्दुलाः ॥ ३४७ ।। प्रसादोऽयं कृतो ज्यायानस्माकमुपरि प्रभो ! । कीरयुग्मं गदित्वेति झगित्युड्डीनमम्बरे ।। ३४८ ॥ चूतशाखिनि पूर्वोक्ते गत्वा संपूर्णदोहदा । निजनीडे शुकी रम्यं प्रसूते स्माऽण्डकद्वयम् ॥ ३४९ ॥ तस्मिंश्च समये तस्याः सपत्नी तत्र शाखिनि । पृथग्नीडस्थिता याऽस्ति सा प्रसूतैकमण्डकम् ॥ ३५० ॥ चूणिहेतोगता काऽपि द्रुमं मुक्त्वाऽथ साऽन्यदा। मत्सरेण तदीयाऽण्डं निन्ये प्रथमया ततः ॥३५१॥ अपराऽप्यागता यावनिजाण्डं तत्र नेक्षते ।। शफरीव ततो दुःखतप्ता स्म लुठति क्षितौ ॥ ३५२ ।। विलपन्ती च तां दृष्ट्वा पश्चात्तापेन नोदिता। तदण्डं प्रथमा नीत्वा तत्रैव मुमुचे पुनः ॥ ३५३ ॥ लुठित्वा भूतले यावत् किरी साऽऽरोहति द्रुमम् । खनीडेऽण्डं निजं तावत् सुधासिक्तेव पश्यति ॥ ३५४ ॥ आद्यकीर्या तन्निमित्तं कर्मबद्धं सुदारुणम् । पश्चात्तापहतं तस्थौ योग्यमेकभवस्य तु ।। ३५५॥ शुकी शुकश्च संजातं तत्राऽण्डयुगले द्वयम् । पितृभ्यां संयुतं क्रीडां करोति वनगहरे ॥ ३५६ ॥ शालिक्षेत्रे नृपादेशरचितात् तण्डुलोत्करात् । चञ्च्वाऽऽदाय कणान् नित्यं तत् कीरमिथुनं व्रजेत् ॥३५७।। आगतो ज्ञानवांस्तत्र चारणश्रमणोऽन्यदा ।