________________
- सप्तमः सर्गः। राज्ञेति कथिते संजीवनीनस्यस्तया ददे। जीविता तत्पभावेन देवी सह नृपाशया ॥ ३३२ ॥ तन्निरीक्ष्य जनो हर्षजलप्लावितलोचनः । नरीनर्ति भुजामू/कृत्य तूर्यमहारवैः॥ ३३३ ॥ सर्वाङ्गाभरणैः पादौ पूजयित्वा नृपोऽवदत् । तां परित्राजिकामायें ! ददाम्यद्य यदीहसे ॥ ३३४ ॥ तयाऽभाणि महाभाग ! कार्य केनाऽपि नास्ति मे । संतुष्टा त्वत्पुरे भिक्षाग्रहणेनैव केवलम् ॥ ३३५ ॥ ततः करिवरस्कन्धमारुह्य सह कान्तया । गतः स्वभवनं राजा हर्षोत्सवमकारयत् ॥ ३३६ ॥ काश्चनस्तम्भसोपानां स्फटिकोपलनिर्मिताम् । आर्यायै मठिकां राजा कारयामास तोषतः ॥ ३३७ ।। सा परिव्राजिका देव ! मृत्वार्तध्यानदोषतः।। शुकी जाता पुनः साऽहं समायाता तवाऽन्तिके ।।३३८॥ तव त्वदीयराज्याश्च दर्शनेन ममाऽधुना । जातिस्मृतिरभूत् तेन चरितं ते मयोदितम् ॥ ३३९ ।। निशम्य वचनं तस्या रुदती राज्यवोचत । पूज्ये ! तत् तादृशी मृत्ला कथं जाताऽसि पक्षिणी?॥३४०॥ मा कृशोदरि ! खिद्यस्व दुःखार्ता मम जन्मनः । यतः कर्मवशाजन्तोस्तन्नास्ति यन्न संभवेत् ॥ ३४१ ॥ त्वं नारीविषये राजन् ! तेनोदाहरणं कृतः । तदाकये हृदि प्रीतो व्याजहार शुकीं नृपः ।। ३४२ ॥ सत्य एव त्वया भद्रे ! दृष्टान्तोऽहमिहोदितः । अतस्तुष्टोऽस्मि याचस्व यदिष्टं तद् ददामि ते ॥ ३४३॥ शुकी प्राह नराधीश ! ममाऽभीष्टो निजप्रियः । तदस्मै जीवितं देहि कार्य नाऽन्येन केनचित् ॥ ३४४ ॥ १ लघुमठम् ।