________________
४०४ श्रीपार्श्वनाथचरिते
समर्प्य मूलिकां दिव्यां सा जगाम यथाऽऽस्पदम् ॥३१८॥ अथाऽसौ मूलिकानस्यमादाय शयिताऽन्तिके । निश्चेष्टा ददृशे राज्ञी गतजीवेव भूभुजा ॥ ३१९ ॥ ततो देवी मृतेत्युच्चैः सहसा नृपमन्दिरे । अत्याक्रन्दरवो राजलोकवक्त्रादुदच्छलत् ॥ ३२० ।। नृपादेशेन मिलिता बहवो वैद्य-मान्त्रिकाः। त्यक्ता मृतेति सा तैरप्यभव्य इव साधुभिः ॥३२१ ॥ युक्तोऽस्या वह्निसंस्कारो देवेति सचिवोदिते । राज्ञाऽभाणि ममाऽप्येष क्रियतामनया सह ॥ ३२२ ॥ लगित्वा पादयोर्लोकः शोकश्याममुखोऽब्रवीत् । विश्वाधारस्य ते देव ! न युक्तं कर्तुपीदृशम् ।। ३२३ ॥ सदुःखं पार्थिवोऽप्याह न स्नेहस्य द्वयी गतिः । तन्मा विलम्ब्यतां यन्मे क्षणोऽप्यब्दसमोऽधुना ॥ ३२४ ॥ द्रुतं चन्दनकाष्ठानि कृष्यन्तां रच्यतां चिता। भणित्वेति समं राझ्या निर्ययौ स स्वमन्दिरात् ॥ ३२५ ॥ दीप्ततूर्यरवेणोच्चै रुदन् नारीनरवजैः । पूरयन्नम्बराऽऽभोगं प्राप्तः प्रेतवनं नृपः ॥ ३२६ ॥ आरोहति चितां यावदसौ प्रियतमायुतः। वजन्ती दूरतस्तावत् तत्राऽऽयाता तपस्विनी ॥ ३२७ ॥ अभाणि च तया देव ! मा साहसमिदं कुरु । राज्ञाऽपि गदितं पूज्ये ! जीवितं मे सहाऽनया ॥३२८॥ यद्येवं तद् विलम्बस्व क्षणं भूर्मा स्म कातरः। जीवयामि यथा लोकसमक्षं खलु ते प्रियाम् ॥ ३२९ ॥ निशम्य तद्वचः कामं नृपस्योच्छूसितं मनः । जीवितादधिकं कान्तालाभसम्भावनं दधत् ॥ ३३० ॥ प्रसीद भगवत्यद्याऽमोघं भूयात् तवोदितम् । दयितानीवदानेन जीवितोऽहमपि त्वया ॥ ३३१ ॥