________________
४०३
सप्तमः सर्गः। यद्येवं तर्हि भद्रे ! त्वं गृहीत्वाऽद्य मदन्तिकात् । साधयैकमना मन्त्रं सौभाग्यजननं परम् ॥ ३०५ ॥ इत्युदित्वा तपस्विन्या दत्तो मन्त्रः शुभक्षणे । पूजां विधाय राज्याऽपि गृहीतो विधिपूर्वकम् ।। ३०६ ॥ यावद् ध्यायति सा देवी सततं मन्त्रमादरात् । . तावत् तत्र प्रतीहारी नृपेण प्रहिताऽवदत् ॥ ३०७ ॥ आज्ञापयति देवि ! त्वां देवो यद् वासमन्दिरे । आगन्तव्यं विमुच्यांऽय कुविकल्पं त्वया ध्रुवम् ॥३०८॥ अद्याऽसौ कृतशृङ्गारा राजलोकसमन्विता । करिणीस्कन्धमारुह्य नृपधाम समाययौ ॥ ३०९ ॥ राज्ञा च कृतसन्माना दौर्भाग्यं शेषयोषिताम् । दत्त्वा सौभाग्यमादाय महादेवी बभूव सा ॥ ३१० ।। राज्ये यत् कृत्तिकासौख्यं भुञ्जाना सा मनोमतम् । तुष्टाऽभीष्टपदं दत्ते रुष्टा मूलं निकृन्तति ।। ३११ ॥ नारी स्वयंप्रभा पत्युः प्रसादात् स्यान्नरो न तु । रात्रिरिन्दु विनाऽपि स्याद् दिवसो न रविं विना ॥३१२॥ अथाऽन्यदिवसे देवी परिवाजिकया तया । पृच्छयते स्म यथा वत्से ! संपूर्णास्ते मनोरथाः ॥३१३।। स्वामिनि ! त्वत्प्रसादेन तन्न यन्न भवेदिह । तथाऽज्यद्याऽपि हृदयं मम दोलायतेतराम् ।। ३१४ ॥ यदि जीवति जीवन्त्यां मृतायां म्रियते मयि । ज्ञायते निबिडस्नेहस्तदा राजा ममोपरि ।। ३१५ ॥ यद्येवं तर्हि गृह्णीष्व नस्यं मूलिकयाऽनया । येन त्वं गतजीवेव जीवन्त्यपि हि लक्ष्यसे ॥ ३१६ ।। - द्वितीयमूलिकायास्तु नस्यं दत्त्वा वपुस्तव । पुनर्नवं करिष्यामि मा भैषीमऽन्तिके स्थिता ॥ ३१७॥ मातरेवं करिष्यामीत्युक्तवत्या नृपस्त्रिया।