________________
४०२
श्रीपार्श्वनाथचरिते
शुकी जगाद दूरेऽस्तु पितृ-मातृ-धनादिकम् । देव ! कान्तानुरागेण नरः प्राणानपि त्यजेत् ।। २९२॥ स्वं श्रीदेव्याः कृते त्यक्तं जीवितव्यं यथा त्वया । तथाऽन्योऽपि त्यजत्यत्र दोषः कीरस्य कः प्रभो ! १ ॥ २९३ ॥ सगर्भवचनेनास्या विस्मितो रोडचिन्तयत् । जानाति कथमेषा मे वृत्तान्तं हन्त ! पक्षिणी ! ॥ २९४ ॥ अमाक्षीच नृपो भद्रे ! दृष्टान्तोऽस्मि कथं त्वया । कृतः, कथय तत् सर्वे येन मे गुरुकौतुकम् ? ।। २९५ ॥ शुकी प्रोवाच दृष्टान्तो ज्ञातो येनाऽसि तच्छृणु । पुरा परिव्राजिकैका राज्ये देव ! बभूव ते ।। २९६ ॥ महामायाविनी क्षुद्रप्रयोगनिपुणाऽथ सा । उपचर्य चिरं प्रोक्ता श्रीदेव्या तव भार्यया ।। २९७ ॥ अम्ब ! पत्नी नृपस्याsहं बहुभार्यो मम प्रियः । जाता कर्मवशेनाऽहं सर्वासामपि दुर्भगा ।। २९८ ॥ तत् प्रसीद तथा येन भवामि पतिवल्लभा । मयि जीवति जीवन्त्यां मृतायां म्रियते च सः ॥ २९९ ॥ सा तया भणिता वत्से ! स्त्रीणां राजावरोधतः । अन्यन्नास्तीदृशं दुःखं यदुक्तं पण्डितैरिदम् ॥ ३०० ॥ सपत्नीनां शते वासः पुत्रस्याऽपि न दर्शनम् । कार्ये न्याय्येऽपि न स्वेच्छा धिग् जन्म नृपयोषिताम् ॥ ३०९ ॥ प्राणिस्वेच्छाच्छिदः क्रूराः कारागारनियोगिनः । मृत्वा सत्पात्रदानेन जायन्ते नृपयोषितः ॥ ३०२ ॥ गृहाण तदिमां सद्यःप्रत्ययामौषधीं सुते ! | पाने दद्याच येनाशु तव भर्ता वशीभवेत् ॥ ३०३ ॥ प्रवेशोऽपि गृहे तस्य नास्ति मे, दर्शनं कृतः १ । पाने च भगवत्यस्य यच्छामि कथमौषधीम् ? ॥ ३०४ ॥
१ नृपः ।