SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। श्रुत्वेनि लज्जितो बाढं भूत्वा जीवितनिस्पृहः । शालिक्षेत्रे च गत्वाऽयमानिन्ये शालिशीर्षकम् ॥ २७९ ॥ एवं प्रतिदिनं राजनराणां रक्षतामपि । मञ्जरीरानयत्येष भार्यादेशेन सोधमः ॥ २८० ॥ अन्यदा नृपतिस्तत्र शालिक्षेत्रे समागतः। विध्वस्तं प्रेक्षते तस्यैकदेशं पक्षिभिभृशम् ॥ २८१ ॥ पृष्टोऽथ भूभुजा शालिरक्षको वद केन भोः । विनाशितमिदं क्षेत्रं सोऽप्युवाच ससंभ्रमम् ? ॥ २८२ ॥ स्वामिन्नेकशुको नित्यं गृहीत्वा शालिमञ्जरीम् । प्रयाति रक्ष्यमाणोऽपि नष्टा झगिति चौरवत् ॥ २८३ ।। अरे ! धृत्वाशु पाशेन तमानय ममान्तिकम् । निगृह्णामि यथा चौरमिवेत्युक्त्वा गतो नृपः ।। २८४ ॥ अथाऽन्यदिवसे तेन पुरुषेण नृपान्तिकम् । नीयते पाशबद्धोऽसौ पश्यन्त्यां कीरयोषिति ॥ २८५ ॥ पृष्ठलग्ना ततो धावत्यश्रुपूर्णाऽम्बका शुकी । दयितेन समं प्राप्ता सुदुःखा नृपमन्दिरम् ।। २८६ ॥ विज्ञप्तः शालिपालेन तत्राऽऽस्थानस्थितो नृपः । देव ! सैष शुको बद्ध्वाऽऽनिन्ये शालिमलिम्लुचः॥२८७॥ तं दृष्ट्रा कुपितो राजा हन्ति यावनिजासिना । सहसैव शुकी तावत् पतिता पत्युरन्तरे ॥ २८८ ॥ अब्रवीच ममैवाऽद्य देहे प्रहर सत्वरम् । मुञ्चेमं दयितं देव ! मम जीवितदायिनम् ।। २८९ ॥ येन मे दोहदो जज्ञे शालिशीर्षोपरि प्रभो ! । सोऽनेन पूरितो मत्वा तृणतुल्यं स्खजीवितम् ।। २९० ॥ हसित्वाऽऽह नृपः कीर ! पाण्डित्यं लोकविश्रुतम् । कथं ते, यः स्त्रियः कार्ये त्यजस्येवं स्वजीवितम् ? ॥२९॥ १ अम्बकं नेत्रम् । १ चौरः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy