________________
४०८
श्रीपार्श्वनाथचरिते- श्रीनाभिपार्थिवभुवो मुखमुच्चकार । तस्य ध्रुवं तदियमंसनिवेशकेश___ च्छायाच्छलादपतदङ्ककलङ्कलेखा ॥ ३६५ ॥ अंसस्थली चिकुरकञ्चुकिता युगादि
देवस्य विग्रहगृहे विहिताश्रयायाः । क्रीडाकृते मरकतोपलबद्धभूमि
शोभां दधाति गुरुसंयमराजलक्ष्म्याः ॥ ३६६ ॥ इत्युदारस्तवं कृत्वा वन्दित्वा च जिनं मुनिः । निविष्टः शुद्धभूभागे वन्दारुजनवेष्टितः ॥ ३६७ ॥ पूजयित्वा नरेन्द्रोऽथ तत्र पुष्पाक्षतैर्जिनम् । फलमक्षतपूजाया मुनि पप्रच्छ सोऽब्रवीत् ॥ ३६८ ।। ध्रुवं रत्नत्रयोपास्तिमनो-वाक्-कायशोधनम् । त्रिशल्योन्मूलने हेतुर्यजन्मत्रयपावनम् ॥ ३६९ ॥ अखण्डस्फुटितैश्चोक्षाऽक्षतैः पुञ्जत्रयं नराः । पुरो जिनस्य कुर्वाणाः प्राप्नुवन्त्यक्षतं सुखम् ॥ ३७० ॥
(युग्मम् ) इत्थं गुरुवचः श्रुत्वाऽक्षतपूजासमुद्यतम् । दृष्टा लोकं शुकी कान्तं निजमेवमवोंचत ॥ ३७१ ॥ अक्षतानां जिनं पुञ्जत्रयेणावामपि प्रिय !। पूजयावोचिरेणैव यथा सिद्धिसुखं भवेत् ॥ ३७२ ।। एवमित्युदिते चञ्चुपुटेनाऽऽदाय तन्दुलान् । जिनस्य पुरतस्ताभ्यां पुञ्जत्रयमरच्यत ॥ ३७३ ॥ अपत्ययुगलं चाभ्यां शिक्षितं यज्जिनेशितुः । मुश्चताग्रेऽक्षतान् सौख्यं येनाऽऽसादयताऽक्षयम् ॥३७४॥ इति प्रतिदिनं कृत्वा जिनस्याऽक्षतपूजनम् । गतान्यायुःक्षये तानि चत्वार्यपि सुरालयम् ॥ ३७५ ॥ १ शरीरगृहे। २ वन्दनशीलाः ।