________________
सप्तमः सर्गः।
भुक्त्वा स्वर्गसुखं च्युत्वा कीरजीवस्ततोऽजनि । राजा हेमप्रभो नाम पुरे हेमपुराभिधे ॥ ३७६ ।। शुकीजीवः पुनश्च्युत्वा देवलोकादजायत । तस्यैव भूभुजो भार्या नाम्ना च जयसुन्दरी ॥ ३७७ ॥ द्वितीयाऽपि शुकी भ्रान्त्वा संसारमुदपद्यत । राज्ञो हेमप्रभस्यैव रतिसंज्ञाऽपरा प्रिया ।। ३७८ ।। राज्यो बभूवुरस्याऽन्या अपि पश्चशतीमिताः । प्रसादसदनं किन्तु प्रथमे द्वे अपि प्रिये ॥ ३७९ ॥ अथाऽन्यदा महादाहज्वरार्तोऽभूत् तथा नृपः । चन्दनैः सिच्यमानोऽपि यथा भुवि लुठत्यलम् ॥३८०॥ अङ्गभङ्गिभ्रमिः स्फोटिः शोफः श्वासः शिरोव्यथा । दाहश्च ज्वरवक्त्राणि सप्ताऽपि स्फुटतामगुः ।। ३८१ ॥ आययुर्विविधा वैद्या आयुर्वेदविशारदाः। इत्यहाञ्चक्रिरेऽन्योऽन्यं नृपचेष्टां विलोक्य ते ॥३८२ ॥
अत्यम्बुपानतो घस्रशयनानिशि जागरात् । विण-मूत्रादिनिरोधाच विषमासनतस्तथा ॥ ३८३ ॥ शोक-क्रोधादिचिन्ताभ्यो वनिताऽत्यन्तसङ्गतः । अजीर्णाच भवेद् रोगो धातुतुल्याशनेन च ।। ३८४ ॥ तत्र ज्वरा दश द्वौ च मलाजीर्णत्रिदोषजाः । खेदजो रक्तकालोत्थो दृष्ट्येको द्विव्यहान्तराः ॥ ३८५ ॥ तथाज्वरस्य प्रथमोत्थाने भेषजर्दिनत्रयम् । न देयं कथितं तोयं भेषजं च न रोगिणाम् ॥ ३८६ ॥ प्रवातं नातिनिर्वातं न पथ्यं नैव लवनम् । क्रिया साधारणा कार्या मानुषे ज्वरसंस्थिते ॥ ३८७ ॥ भूत-ताप-श्रमा-ऽनङ्ग-शोक-शङ्कादिसम्भवे । ज्वरे पित्ताधिके चाऽपि न लङ्घनविधिर्मतः ॥ ३८८ ॥ ५२