SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ४१० श्रीपार्श्वनाथचरिते अन्यः प्राहवात-पित्त-कफोद्भूतो रोगः शाम्यति भेषजैः । मानसो ज्ञान-विज्ञान-स्मृति-धैर्य-समाधिभिः ॥ ३८९ ॥ पित्तं राजा शरत्काले वैशाख-ज्येष्ठयोरपि । चैत्र-फाल्गुनयोः श्लेष्मा शेषेषु पवनः पुनः ॥ ३९० ॥ कहा-ऽऽम्ल-लवणैर्वायुः, कषाय-स्वादु-तिक्तकैः। पित्तमेति शर्म, तिक्त-कषाय-कटुभिः कफः ॥ ३९१ ॥ अपरस्त्वाहअजीर्णप्रभवा रोगास्तच्चाऽजीर्ण चतुर्विधम् । आमं विदग्धं विष्टब्धं रसशेषं तथाऽपरम् ॥ ३९२ ॥ आमे सदृशगन्धः स्याद् विदग्धे धूमगन्धता । गात्रभङ्गश्च विष्टब्धे रसशेषे च जाड्यता ॥ ३९३ ॥ आमे च वमनं प्रोक्तं विदग्धे तूष्णमापिवेत् । विष्टब्धे स्वेदनं कुर्याद् रसशेषे पुनः स्वपेत् ।। ३९४ ॥ इति संलप्य तैर्यः कोऽप्युपचारः कृतोत्र सः । अलक्ष्यभेदान्मोघोऽभूद् धानुष्कस्येव सायकः ॥ ३९५ ॥ एवमन्नविहीनोऽस्थानरेन्द्रः सप्त वासरान् । मन्त्र-यन्त्र-कलादक्षाः सर्वे जाताः पराङ्मुखाः ॥ ३९६ ॥ शान्तिरुद्धोष्यते दानं विविधं च प्रदीयते । देवस्थाने पुनः पूजा-ऽभिग्रहादि विधीयते ॥ ३९७ ॥ अथ केलीकिलः कोऽपि प्रकटीभूय राक्षसः । उवाच निशि भूपालं किं तेऽलीककृतैरिमैः ? ।। ३९८ ॥ अद्याऽवतारणीकृत्य यद्यात्मानं तव प्रिया । नृप ! क्षिपत्याग्निकुण्डे तज् जीवस्यन्यथा नहि ॥ ३९९ ॥ भणित्वेति गतं रक्षो दध्यौ राजा च विस्मितः । इन्द्रजालमिदं किन्तु वमो वा रक्ष एव वा ? ॥४००॥ विकल्पसहितस्यैवं व्यतीता भूपतेनिशा ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy