________________
सप्तमः सर्गः।
४११
उदयाचलचूलायामाययौ सविता पुनः ॥ ४०१॥ राज्ञा रजनिवृत्तान्तः कथितो मन्त्रिणः पुरः। तेनोक्तं जीवितस्याऽर्थे देवेत्यपि विधीयते ॥ ४०२ ॥ परमाणैर्निजप्राणरक्षां कुर्वन्ति नोत्तमाः । तन्मे भवतु यद् भाव्यं राज्ञा मन्त्रीति जल्पितः॥४०३॥ आकार्य नृपतेर्भार्याः समस्ता अपि मन्त्रिणा । तत्पुरः कथितः सर्वो वृत्तान्तो राक्षसोदितः ॥ ४०४ ॥ तत् श्रुत्वा पाणलोभन सर्वोऽप्यन्तःपुरीजनः । तस्थावधोमुखीभूय दधौ प्रतिवचो न च ॥ ४०५ ।। विकाशवदनोत्थाय रतिराजी वदत्यदः। मज्जीवितेन चेन्जीवेत प्रियो लोभेन किं मया?॥४०६॥ श्रुत्वेति सचिवः सौधं गवाक्षस्याऽवनावधः। विधाप्य कुण्डमगरुदारुभिः पर्यपूरयत् ॥ ४०७॥ अथ सा कृतशृङ्गारा नत्वा वक्ति निजप्रियम् । जीव मे जीवितेन त्वं नाथ ! कुण्डे पताम्यसौ ॥४०८॥ सदुःखं भाषते राजा मत्कृते जीवितं प्रिये !। मा त्याक्षीर्यन्मया कर्म वेदनीयं पुरा कृतम् ॥ ४०९ ॥ विलग्य पादयोः साह मा स्वामिन्नीदृशं वद । यद् याति तव कार्ये तत् सफलं जीवितं मम ॥ ४१० ॥ राज्ञोऽवतारणीकृत्यात्मानं राज्ञी बलादपि । स्थित्वा वातायने तस्मात् कुण्डे दीपानलेऽक्षिपत् ॥४११॥ अथाऽसौ राक्षसस्तस्यास्तुष्टः सत्वेन तत्क्षणात् । अप्राप्तामेव तां कुण्डं दो- दूरमुदक्षिपत् ॥ ४१२ ॥ अब्रवीच रतिं देवि ! तुष्टः सत्त्वेन तेऽधुना । मनोऽभीष्टं वरं ब्रूहि ददाम्येष न संशयः ॥ ४१३ ॥ किमनेन पितृभ्यां मे दत्त एष वरः पुरा। भद्रे ! तथापि याचस्व न मोघं देवदर्शनम् ॥ ४१४ ।।