SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४१२ श्रीपार्श्वनाथचरितेयद्येवं तर्हि मे भर्ता प्रसादात् तव जीवतु । चिरकालमयं व्याधिवैधुर्यरहितः सदा ॥ ४१५ ॥ एवमस्त्विति तामुक्त्वा दिव्याऽलङ्कारभूषिताम् । कृत्वा स्वर्णाम्बुजे न्यस्य ययौ रक्षो यथाऽऽस्पदम् ॥४१६॥ जीवेत्याह जनस्तस्याः शीर्षे पुष्पा-ऽक्षतान् क्षिपन् । निजजीवितदानेन जीवितो दयितो यया ॥४१७ ॥ तुष्टोऽहं तव सत्त्वेन प्रियेऽभीष्टं वरं वृणु। . राज्ञेति भणिता साऽऽह वरोऽभीष्टस्त्वमेव मे ॥ ४१८ ॥ अहं जीवितपुण्येन त्वया देवि ! वशीकृतः।। तत् किश्चिदन्यद् याचस्व सा हसित्वा ततोऽवदत् ॥४१९॥ यद्येवं तर्हि ते चित्तनिधौ तिष्ठत्वयं वरः। प्रस्तावे प्रार्थयिष्येऽहं पुनरेनं तवान्तिकात् ॥ ४२० ॥ अन्यदा प्रार्थिता रत्या पुत्राऽर्थे कुलदेवता । सुतेन जयसुन्दर्या बलिं दास्येऽस्तु मे सुतः ॥ ४२१॥ भवितव्यनियोगेन द्वयोरपि तयोः सुतौ । बहुलक्षणसंपूर्णौ विश्वहृद्यावजायताम् ॥ ४२२ ॥ रतिश्चिन्तयते तुष्टा दत्तो देव्यैष मे सुतः। पुत्रेण जयसुन्दर्या दास्ये त्वस्यै कथं बलिम् ? ॥ ४२३ ॥ चिन्तयन्त्या तयोपायो लब्धः पत्युवरेण यत् । राज्यं कृत्वा वशे सर्व करिष्यामि समीहितम् ॥ ४२४ ॥ इति निश्चित्य भूपालः प्रस्तावे भणितस्तया । नाथ ! प्राक् प्रतिपन्नो यस्तं वरं देहि मेऽधुना ॥ ४२५ ॥ यदिष्टं देवि ! याचख ददे जीवितमप्यहम् । यद्येवं दीयतां तर्हि राज्यं मे पञ्च वासरान् ॥ ४२६ ॥ एवमस्तु मया राज्यं दत्तं तुभ्यमितीरिते । महाप्रसाद इत्युक्त्वा तत् तया प्रत्यपद्यत ॥ ४२७ ॥ पालयन्तीति सा राज्यं अथो यामेऽन्तिमे निशि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy