________________
सप्तमः सर्गः।
४१३ रुदत्या जयसुन्दर्याः पुत्रमानाययद् बलात् ॥ ४२८ ।। स्नपयित्वा चर्चयित्वा श्रीखण्ड-कुसुमा-ऽक्षतैः । पटल्यां न्यस्य तं बालं दासीमूर्धन्यतिष्ठिपत् ।। ४२१ ॥ उच्छलत्तूर्यनादेन नृत्यनारीजनेन च । परिवारयुताऽगच्छदुद्याने देवतागृहम् ।। ४३०॥ अथ काश्चनपूःस्वामी मूरो विद्याधराऽधिपः । वजन्नाकाशमार्गेण तं दारकमवक्षत ।। ४३१ ॥ वियदुद्द्योतयन्नात्मतेजसा भानुमानिव । गृहीतस्तेन सोऽलक्षं मुक्त्वाऽन्यं मृतबालकम् ॥ ४३२ ॥ विमानान्तःशयानाया निजाया हरिणीदृशः। स्थापयित्वाऽन्तिके बालं बभाषे स मृदुस्वरम् ।।४३३॥ कृशोदरि ! लघूत्तिष्ठ पश्य जातं वदारकम् । जागरित्वा च सा सद्यः सखेदमिदमब्रवीत् ॥ ४३४ ॥ किं त्वं हससि देवेन हसिताऽहं दुरात्मना । किं कदापि सुतं वन्ध्या प्रसूते जीवितेश्वर ! ॥४३५॥ सोऽप्याह हसिताऽऽस्यो मे श्रद्धानं वाचि नो यदि । ततः खं स्वयमीक्षख रत्नराशिसमं सुतम् ॥ ४३६ ॥ इति विभ्रान्तचित्तायास्तस्याः सत्यमचीकथत् । वपुत्ररहितायास्ते पुत्र एष सुलोचने ! ॥ ४३७ ॥ प्रतिपद्येति नीतोऽसौ स्वपुरं प्रतिवासरम् । कलाभिर्वर्धते चन्द्रः श्वेतपक्षगतो यथा ॥ ४३८ ॥ राज्ञी रतिरपि प्रीतचित्ता तं मृतबालकम् । देव्याः शीर्षोपरि परिभ्रमय्यास्फालयत् पुरः ॥ ४३९ ।। ततो गत्वा वसत्येषा गृहे पूर्णमनोरथा। वजन्ति जयसुन्दर्याः सुदुःखेन पुनर्दिनाः ॥ ४४० ॥ राज्येका पूर्णिमा तोषादमावास्याऽपरा शुचा । ताभ्यां राजा तदा प्राप पोष-शोषविडम्बनाम् ॥ ४४१।।