SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४१४ श्रीपार्श्वनाथचरितेमदनाङ्कुर इत्याख्यां कुमारस्याऽपि खेचरैः । विधाय विविधा विद्याः शिक्षितः शिक्षणे पटुः ॥ ४४२ ॥ अन्यदाऽसौ वजन् व्योम्नि सौधवातायनस्थिताम् । अपश्यजननी पुत्रशोकजाश्रुजलप्लुताम् ।। ४४३ ।। अर्थता दर्शनोत्पन्नस्नेहपाशस्खलद्गतिः । उत्क्षिप्याऽऽरोपयामास विमानं मदनाङ्कुरः ॥ ४४४ ॥ 'साऽपि दृष्ट्वा कुमारं तं हर्षजाताश्रुवारिणा । सिञ्चन्ती वीक्षते भूयो भूयः स्नेहलया दृशा ॥ ४४५ ॥ ऊर्ध्वबाहुः पुरीमध्ये जनो व्याहरतेऽखिलः । एषैषा हियते राज्ञो गृहिणीति महास्वरम् ॥ ४४६ ॥ नृपः सूरोऽपि भूस्थत्वान्नाऽत्र किञ्चित्करोऽभवत् । कुब्जः करोति किं दृष्ट्वा तरूच्चशिखरे फलम् ? ॥ ४४७॥ दध्यौ हेमप्रभो राजा क्षारक्षेपः क्षते कृतः । सुतस्य मरणे भार्याहरणं यन्ममाऽजनि ॥ ४४८ ॥ एवमस्ति महादुःखपूरितः स्वपुरे नृपः । गृहिणीहरणाद् दुःखं कस्य न स्याजगत्रये ? ॥४४९॥ इदं चाऽवधिनाऽज्ञासीत् तदाऽपत्यशुकी दिवि । हरते गृहिणीबुद्ध्या मम भ्राता स्वमातरम् ॥ ४५०॥ गत्वाऽथ वपुरासन्नसरस्तीरे कुमारराट् । जनन्या सहितो यावदास्ते चूततरोस्तले ।। ४५१ ॥ तावद् वानर-वानों रूपं देवी विधाय सा। अतिष्ठच्चूतशाखायां तत्रेदं वानरोऽवदत् ॥ ४५२ ॥ प्रियेऽदः कामुकं तीर्थ तिर्यश्चः पतिता इह । लभन्ते खलु मानुष्यं मां देवत्वमुत्तमम् ॥ ४५३ ॥ प्रेक्षस्व द्वाविमौ मत्यौं दिव्यरूपौ सुराविव । आवां मनसिकृत्यैतावस्मिन् तीर्थे पताव तत् ॥ ४५४ ॥ यथा त्वमीदृशी स्त्री स्यान्नरोऽहं पुनरीदृशः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy