SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ४१५ वानर्या भणितं कान्त ! नामाऽप्यस्य न गृह्यते ॥ ४५५ ।। य इमां जननीं स्वीयां हरते गृहिणीधिया । अहं तस्याऽपि पापस्य रूपमिच्छामि किं प्रिय ! ? ॥४५६॥ वानर्या वचनं श्रुत्वा विस्मितौ तावुभावपि । कुमारोऽचिन्तयद् हन्त ! जनन्येषा कथं मम ? ॥ ४५७ ॥ स्नेहेनाऽपहृता मातृबुद्धिं मे जनयत्यलम् । राज्ञी साऽपीदृशं दध्यौ कथमेष सुतो मम ? ॥ ४५८ ।। दृष्टमात्रेऽपि चैतस्मिन् निजाऽङ्गज इवाऽधिकम् । उल्लसत्पुत्रवात्सल्यमिदं धावति मे मनः ॥ ४५९ ॥ कुमारो वानरी शङ्काऽऽकुलः पप्रच्छ सादरम् । किं नु सत्यमिदं भद्रे ! यत् त्वया भाषितं वचः ? ॥४६०॥ तयोचे सत्यमेवेदं संदेहोऽद्यापि ते यदि । ततो वननिकुञ्जेऽस्मिन् पृच्छ ज्ञानधरं मुनिम् ॥ ४६१ ॥ उक्त्वेत्यदर्शनीभूतं तद् वानरयुगं क्षणात् । सुविस्मितः कुमारोऽपि गत्वा पप्रच्छ तं मुनिम् ॥ ४६२ ॥ भगवंस्तत् कथं सत्यं वानर्या यदभाणि मे । मुनिरप्याह भो भद्र ! सत्यमेवेति नाऽन्यथा ॥ ४६३ ॥ स्थितोऽस्मि सततं ध्याने कर्मणां क्षयकारणे। तत् ते हेमपुरे व्यक्तं सर्व वक्ष्यति केवली ।। ४६४ ॥ ततो नत्वा मुनि मातृसहितः स गतो गृहम् । पितृभ्यामतिहृष्टाभ्यां ददृशे विमना भृशम् ॥ ४६५ ॥ तेन विद्याधरीमाता लगित्वा पादयो रहः । पृष्टा ब्रूहि स्फुटं मातः! का मे माता पिता च कः १ ॥४६६॥ पृच्छत्येवं किमेषोऽद्य सवितर्केति साऽवदत् । . वत्स ! नो वेत्सि किं माता तवाऽहं जनकस्त्वयम् ॥४६७॥ अस्त्येवं किन्तु पृच्छामि पितरौ जन्मदायकौ । परमार्थ पिता तर्हि तव ज्ञास्यति पुत्रक ! ॥ ४६८ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy