SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते गोफणीमुक्त गोश्व वज्रसंपातदारुणैः ।। ६८१ ॥ तीरी तोमर - नाराच - शल्य - वावल्ल - यष्टिभिः । उत्पत्य निपततीव्रगृध्र संपातसन्निभैः ।। ६८२ ॥ वधिरोऽन्धोऽभवल्लोको दुर्गमध्यगतः क्षणात् । प्राकारं खण्डयित्वान्तर्व्यानशे स बहिर्भटैः ॥ ६८३ || वनराजेन बद्धाऽथ ससामन्तः समर्पितः । नरसिंहस्य सूराणामाकृतेः किमु दुष्करम् ॥ ६८४ ॥ १ अहो ! धैर्यमहो ! धैर्यमिति ख्यातिर्जगत्यपि । वनराजस्य विस्तीर्णा, जागर्ति प्राक् कृतं शुभम् ॥ ६८५ ॥ जगत्सरसि नो केषा मुल्ललास मुखाम्बुजम् । तेजसा तस्य सूरस्य मुक्त्वा तं कुमुदं नृपम् १ ॥ ६८६ ॥ तं तत्राऽप्यक्षयं श्रुत्वा विशेषचकितो नृपः । जनापवादभीरुत्वात् स्वयमेव रहः स्थितः ।। ६८७ ॥ वनराजस्य दातव्यं विषमित्यक्षराङ्कितम् । प्राहिणोन्नरसिंहस्य लिखित्वा लेखमौष्ट्रिकान् ||६८८|| ( युग्मम् ) ४३२ निर्विलम्बं च ते यान्तस्तत्र प्रययुरौष्ट्रिकाः । यत्र सुन्दर यक्षेणाधिष्ठिताऽस्ति महाटवी ।। ६८९ ॥ श्रान्ताश्च निशि तत्रैव यक्षदेवकुलेऽखपन् । प्रयुक्तावधिरज्ञासीत् तं लेखं यक्षराडपि ।। ६९० ॥ अरे ! मदीयपुत्रस्य वधार्थोऽयमुपक्रमः । तत् करिष्ये तथेदानीं भविता सुन्दरं यथा ॥ ६९१ ॥ उत्सार्य स्वप्रभावेण विषदानाऽक्षरावलीम् । कमला वनराजस्य दातव्येति लिलेख सः ॥ ६९२ ॥ औष्ट्रिकाः प्रातरुत्थाय कुमारकटकं गताः । लेखं समर्पयामासुस्तं नृसिंहोऽप्यवाचयत् ।। ६९३ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy