________________
समः सर्गः ।
४३१
नृपोऽवोचत् त्वया वत्स ! कर्तव्या काऽपि नाऽधृतिः ६६८ समस्तजगतीलोकशरण्यस्य तत्राऽन्तिके । स्थितस्य मम किं दुःखमिति सोऽपि नृपं जगौ ॥ ६६९ ॥ कियन्त्यपि दिनान्येवं स्थापयित्वाऽन्तिके नृपः । समर्प्य निजपादातीन् चक्रे देशैकनायकम् ।। ६७० ।। तत्र देशे गतः सोऽपि स्वाम्यं प्राप्योत्कटं क्रमात् । निजं चक्रे परीवारं प्राहिणोन्नृपसेवकान् ॥ ६७१ ॥ सार्थेशः केशवोऽप्यस्मै बहु प्रेषयते धनम् । तेन तुष्टो विशेषेण बभूव स कुमारराट् || ६७२ ॥ प्रगेऽथ प्रहितो राज्ञा नरसिंहो निजाङ्गजः । सामन्तमेकमुच्छेत्तुं देशोपद्रवकारिणम् || ६७३ ॥ गतोऽपि महता सैन्यसंनिवेशेन राजसूः । निग्रहीतुं न शक्नोति तं दुर्ग- बलदुर्धरम् ।। ६७४ ॥ अतस्तत्र नृसिंहस्य सङ्ग्रामाग्राय भूभुजा । वनराजो निजाऽऽदेशं प्रस्थाप्य प्रहितस्तदा ।। ६७५ ।। अथ तत्र गते तस्मिन् तकं फेन इवाऽऽहिते । सहसा बहलीभूतं नृसिंहबलमुल्लसत् ।। ६७६ ।। सैन्यं समुदितीभूय द्वयोरपि कुमारयोः । वेष्टयित्वाऽभितो दुर्ग तस्थौ कलकलाssकुलम् ॥ ६७७ ॥ अरे ! निर्याहि निर्याहि मृगधूर्तो दमित्र । कथं दुर्ग प्रविश्याsसि स्थितो बिलमिवोन्दुरः ॥ ६७८ ॥ देशविध्वंसपापस्य फलमेतदरेऽधम ! | ब्रुवाणमिति तत् सैन्यं समन्ताद् ढौकितं युधे ॥ ६७९ ॥ कोहलातुमुलैढकानादैर्निवाननिखनैः ।
तदा बुम्बारवैश्वाऽपि स्फुटतीव नभोऽङ्गणम् ॥ ६८० ॥ बहिर्मण्डितयन्त्रोत्थ स्थूलपाषाणगोलकैः ।
१ शृगालः । २ शृङ्गाकारं वाद्यम् ।