SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ॥ दध्यौ विज्ञाय लेखार्थं भ्रातृस्नेहेन मेऽन्तिके । आयाताऽस्ति स्वसा साऽस्मै तोषात् तातेन दापिता || ६९४ || निर्विकल्पः कुमारोऽपि वनराजस्य सन्निधौ । गत्वाऽऽख्याय स्वरूपं तद् विवाहविधिमातनोत् । ६९५ ।। निजाssवासपुरः सान्द्रचन्दनोक्षितभूतलम् । पुष्पप्रकरसंभारसुरभीकृतदिङ्मुखम् ।। ६९६ ॥ बद्धाऽगरुघटीभास्वदुत्तम्भस्तम्भशोभितम् दुकूलमयमुल्लोचपद्मकोल्लासिमौक्तिकम् ।। ६९७ । विचित्रमणिमाकन्ददलाढ्यद्वारतोरणम् । । ४३३ वेदिका सुन्दरं सद्यः स मण्डपमकारयत् ।। ६९८ ।। ( विशेषकम् ) उच्छलत्तूर्यनादेन महाधवलमङ्गलैः । महर्द्धिभासुरस्तत्र वनराजः समाययौ ।। ६९९ ॥ महार्घ्यः सोऽथ लब्धाऽर्घः प्रशस्यवनिताजनात् । मण्डपद्वारमुल्लङ्घ्य विवेशाऽन्तर्यथास्थिति ।। ७०० ॥ अथ प्रवरनेपथ्यां कृतकौतुकमङ्गलाम् । कमलां परिणिन्येऽसौ वेदिकान्तः शुभक्षणे ।। ७०१ ।। सतया शुशुभेऽत्यन्तं मूर्तयेव जयश्रिया । कलयेव द्वितीयेन्दुर्विद्युतेव नवाम्बुदः ॥ ७०२ ॥ जयवन्तौ ततस्तौ स्वं पुरं व्यावृत्य जग्मतुः । पुरो न्यस्याहृतं वस्तु राजानं च प्रणेमतुः ॥ ७०३ ॥ विपक्षनिग्रहं कन्यापाणिग्रहमहोत्सवम् । वनराजस्य माहात्म्यं नरसिंहो व्यजिज्ञपत् ।। ७०४ ॥ सामन्तं विजितं श्रुत्वा न तथा मुमुदे नृपः । विवाहं वनराजस्य ज्ञात्वाऽभूद् दुःखितो यथा ।। ७०५ ।। अरे ! दैव ! त्वमेवात्र प्रतिद्वन्द्वी ममाऽभवः । एवं विनाश्यमानोऽपि यदेष भृशमेधते ।। ७०६ ॥ ५५
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy