SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते अथवा किं सुधा दैवोपालम्भेन यथा तथा ? । प्रतिकूलमतीकारे यतितव्यं मनखिना ॥ ७०७ ॥ इति ध्यात्वा भणित्वा च कुमारौ ! साधु साधु भोः ! | माययेति निजाssवासे नृपेण महितावुभौ || ७०८ ॥ पुनस्तस्य वधध्यानाल्लब्घोपायः स भूपतिः । आकार्य निजमातङ्गौ शिक्षयामास निर्जने ॥ ७०९ ॥ अरे ! यः कोऽपि यामिन्यामर्चितुं द्वारवासिनीम् । अद्य सोपस्करो याति स वध्यो निशितासिभिः ॥७१० ॥ इति महित्य वौ तत्र संध्यायाः समये नृपः । वनराजं समाकार्य प्रच्छन्नमिदमब्रवीत् ।। ७११ ॥ जेतुं गतस्य सामन्तं तव क्षेमाऽऽगमेन नु । कथितं द्वारवासिन्या देव्या वत्स ! मयाऽर्च्चनम् ॥७१२॥ तच्च कृत्यं त्वया रात्रौ पूजोपस्करपाणिना । व्रजित्वैकाकिना तत्र यथा स्यां सत्यसङ्गरः ॥ ७१३ ॥ कृतमेवेदमित्युक्त्वा द्वियामसमये निशि । पटलीं बलि-दीपाढ्यां करे कृत्वाऽथ सोऽचलत् ॥७१४॥ तदा च स निजाssवासवातायननिवेशिना । ददृशे नरसिंहेन दीपोद्योताच्च लक्षितः ॥ ७१५ ॥ उत्तीर्य सहसा तस्याऽन्तिकं गत्वा नृपाङ्गजः । पप्रच्छ किमिदं देव ! सोऽपि तत्रमचीकथत् ।। ७१६ ॥ नरसिंहस्ततस्तस्मादादाय पटलीं करात् । तत्राऽहमेव यास्यामीत्युक्त्वा तं प्राहिणोद् गृहम् ॥७१७॥ स्वयं तु द्वारवासिन्या भवनं प्रति निर्भयः । एकाग्रमानसो यावद् गच्छति त्वरितक्रमः ।। ७१८ ॥ तत्राऽऽसन्नगतस्तावदकस्मादेत्य पार्श्वतः | नृपाऽऽदिष्टनिषादाभ्यां स हतो निशिताऽसिभिः ॥७१९ ॥ १ सत्यप्रतिज्ञः । ४३४
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy