________________
४५४
श्रीपार्श्वनाथचरितेतां खनन् रत्नालङ्कारपूर्ण ताम्रकरण्डकम् । स लेभे छन्नमादाय धनदत्तमुपेयिवान् ॥ १२५ ।। खं प्रकाश्य स नत्वाऽऽख्यद् मया पान्थात् तवाऽखिला। लब्धा प्रवृत्तिस्त्वत्पुण्यैः करण्डोऽयं च गृह्यताम् ।।१२६।। द्रव्येणाऽनेन मोच्यन्तां मानुषाणि नृपगृहात् । संभ्रमाद् धनदत्तोऽवक हा ! कथं ते दशेदृशी? ॥१२७।। स्ववृत्ते बन्धुनाऽऽख्याते धनदत्तोऽभ्यधात् पुनः । वत्स ! प्राग मोचयिष्यामि भिल्लेभ्यः प्रियदर्शनाम् ।।१२८॥ अत्राऽन्तरे भटा राज्ञोऽकस्मादेयुरुदायुधाः ।। पान्थांस्तत्राषितान् सर्वान् दध्रुस्ते चौरशङ्कया ॥१२९ ॥ धनदत्त-बन्धुदत्तौ भयाद् यक्षाऽऽलयाऽन्तिके । द्रव्यं क्षिपन्तौ तैदृष्टौ पृष्टौ च किमिदं न्विति ? ॥१३०॥ ऊचतुस्तौ निजं वित्तं स्थगन्तौ स्तो भयेन वः । सवित्तौ तावुपामात्यं भटैः पान्थाश्च निन्यिरे ॥ १३१॥ पान्थान् निरीक्ष्य मुक्त्वा च मन्त्री जामेय-मातुलौ । उवाच कौ युवां कस्य वित्तमस्ति करण्डके ? ॥ १३२ ॥ ताभ्यामूचे विशालायामावामिभ्यसुतावुभौ । प्रस्थिती लाटदेशाय वित्तं नः पूर्वजार्जितम् ॥ १३३ ।। किं किमस्तीति मे ब्रूतं मन्त्रिणेत्युदितौ पुनः। अभिज्ञानाऽनभिज्ञानाच्चक्रतुौनेमव तौ ।। १३४ ॥ मन्त्री स्वयमथोद्वाट्य करण्डं यावदैवत ।। ददर्श नृपनामाकं तावद् रत्नविभूषणम् ॥ १३५ ॥ मन्त्री दध्याविदं नूनं मध्यात् प्राग्गतवस्तुनः । आजहतुरिमावन्यदपि तज् ज्ञास्यतोऽखिलम् ।। १३६ ॥ ताडयित्वाऽथ तौ पृष्टौ वस्त्वन्यदपि कथ्यताम् । तावब्रूतां वयं नैव विद्मः किञ्चिदतः परम् ॥ १३७ ॥ मन्त्र्यथो नरकाऽऽकारकारायां तावुभौ न्यधात् ।