________________
अष्टमः सर्गः 1
४५५
शेषादपि हि कर्माशाच्छुय्यते न कथञ्चन ।। १३८ ॥ षण्मासान्ते पुनः कोऽपि लिङ्गिवेषो विटो निशि । सधनः प्रापि बद्धा चाssरक्षकैर्मन्त्रिणोऽर्पितः || १३९|| वेग वित्तं परिव्राजां चौरोऽयमिति मन्त्रिणा । निर्णय द्वाssदिष्टा भटास्तं निन्यिरे बहिः ॥ १४० ॥ स जातानुशयो दध्यौ यद् वाक्यं नान्यथा मुनेः । मृत एवास्मि तल्लोकं सुखीकुर्वे हृतार्पणात् ॥ १४१ ॥ अब्रवीच्च स आरक्षान् चौसेऽहं मुषितं पुरम् । मयैव, विद्यतेलों सर्व गिरिवनादिषु ।। १४२ ।। तदर्पयतं यद् यस्य निगृह्णीत ततश्च माम् । इति श्रुत्वा समस्तोsपि जनोऽभूत् हृष्टविस्मितः ॥ १४३ ॥ आरक्षा मन्त्रिणे चाssख्यन् मन्त्री चौरोक्तभूमिषु । सर्व ददर्श तद् द्रव्यं विनैकं तं करण्डकम् ॥ १४४ ॥ मन्त्र्यूचे तं परिव्राजं निर्भयो ब्रूहि किं तव ? | भद्रेदं चेष्टितं वेषविरुद्धं सोऽप्यभाषत ।। १४५ ॥ श्रूयतां नगरे पुण्ड्रवर्धनेऽहं द्विजाङ्गजः । श्रीधराख्योऽन्यदाऽपश्यं चौरबुद्ध्या धृतान् नरान् ॥ १४६ ॥ महादुष्टा विहन्यन्ताममी इत्यवदं ततः । अहा ! कष्टमज्ञानमित्येको मुनिरूचिवान् ॥ १४७ ॥ मया नत्वा किमज्ञानमिति पृष्टो मुनिर्जगौ ? । यत् परस्याऽतिपीडाकृदसद्दोषाधिरोपणम् ॥ १४८ ॥ एते माकर्मणा क्लिष्टाः कथं दुष्टास्त्वयोदिताः १ । प्राक्कर्मफलशेषं हि लप्स्यसे त्वमपि ध्रुवम् ।। १४९॥ प्राक्कर्मफलशेषं च मया पृष्टो मुनिर्जगौ । अस्त्यत्र भरते क्षेत्रे नगरं गर्जनाभिधम् ॥ १५० ॥ तत्र त्वं चन्द्रदेवाख्यो द्विजन्माऽभूः श्रुतैकभूः । योगात्मा नाम विख्यातस्तपस्न्येकश्च नैष्ठिकः ॥ १५१ ॥