________________
-- अष्टमः सर्गः।
४५३
मातुलस्य पुनः क्षेमं धनदत्तस्य पृष्टवान् ॥ ११२ ॥ पान्थः स्माऽऽह धने ग्रामं गते तस्याऽऽदिमः सुतः । क्रीडन् पत्न्या समं नाऽजीगणद् यान्तं पुरोनृपम् ॥११३॥ क्रुद्धोऽतस्तं नृपो गुप्तौ सकुटुम्बमपि न्यधात् । आगतो धनदत्तश्च दत्त्वा दण्डममोचयन् ॥ ११४ ।। दण्डावशेषकोट्यर्थे धनदत्तः स्वसुः सुतम् । नागपुर्या बन्धुदत्तमुद्दिश्य ह्योऽचलद् गृहात् ।। ११५ ॥ तत् श्रुत्वाऽचिन्तयद् बन्धुरहो ! कष्टा विधेर्गतिः। यत्राऽऽशाऽजनि मे सोऽपि मातुलो हाऽभवत् कथम् ? ११६ भग्नाऽऽश इयता द्वेधाऽप्यहं दैव ! हतोऽभवम् । अधुना मत्समो दुःखी मन्ये नान्योऽस्ति भूतले ।। ११७ ॥ अथवा दिनमेकं शशी पूर्णः क्षीणस्तु बहुवासरान् । सुखाद् दुःखं सुराणामप्यधिकं का कथा नृणाम् ? ॥११८॥ तिष्ठाम्यत्रैव तत् तावन्मातुलस्य मिलाम्यहम् । नागपुर्या यतोऽध्वाऽयं ध्यात्वैवं तत्र स स्थितः ॥११९।। अथाऽऽगात् पञ्चभिर्घौर्धनस्तत्र कियत्सखः । तस्मिंश्च व्यश्रमच्चैत्ये बन्धुदत्तोऽथ चाऽब्रवीत् ॥१२०॥ यूयमेताः कुतो गम्यं कुत्र वाऽथ धनोऽब्रवीत् । विशालाया इहाऽऽयाता यामो नागपुरी पुरीम् ।। १२१ ॥ बन्धुरूचेऽहमप्यस्मीत एता किन्तु तत्र वः । कोऽस्ति सोऽपि जगौ बन्धुदत्तो मेऽस्ति स्वसुः सुतः ? १२२ ज्ञात्वाऽप्येवं मातुलं तं बन्धुः स्वं त्वप्रकाशयन् । बन्धुर्मे मित्रमित्युक्त्वा तं तत्राऽस्थापयद् दिनम् ॥१२३॥ प्रातः शौचार्थमेकाकी बन्धुदत्तो गतो नदीम् । कदम्बगह्वरेऽपश्यद् रत्नच्छायाऽरुणां भुवम् ।। १२४ ॥ १ एता आगताः ।