________________
श्रीपार्श्वनाथचरिते
अहो ! कथमऽसौ भावी महात्मेतीव चिन्तया । । क्षणमेकमजायेतां रोदसी अपि निःस्वने ॥ २११ ॥ अत्राऽन्तरे वटे तत्रैकत्र संमिलितास्तदा। भारण्डपक्षिणः स्वैरं संलापमिति चक्रिरे ॥ २१२ ॥ कथ्यतां येन यद् दृष्टं श्रुतं वा काऽपि कौतुकम् । एकेन व्याहृतं तेषु कथयामि निशम्यताम् ॥ २१३॥ इतोऽस्ति ककुभि प्राच्यां चम्पा नाम महापुरी । तस्यां भुवनविख्यातो जितशत्रुर्महीपतिः ॥ २१४ ॥ पुत्री पुष्पावती तस्य जीवितव्यादपि प्रिया। सकलस्याऽपि राज्यस्य रहस्यमिव मूर्तिमत् ।। २१५ ॥ यस्याः क्रमयुगं धत्ते दायादत्वं सरोरुहाम् । ऊरुयुग्मं पुना रम्भास्तम्भगर्भ जिगीषति ॥ २१६ ॥ मध्यदेशः कृशोदर्यास्तुच्छः कृपणचित्तवत् । सविस्तारमुरस्त्वेष्यद्गुणग्रामादिवाऽधिकम् ॥ २१७ ॥ वाहू सह मृणालैः सस्पद्धौं मृदुतरावपि । अधरोऽपि हरत्येव प्रसभं विद्रुमश्रियम् ॥ २१८ ॥ उदारचित्तवद् नासावंशोऽतिसरलोन्नतः । कर्णपाली चलदोलालीलां धत्ते मनोभुवः ॥ २१९ ॥ केशपाशो बर्हिबर्हलक्ष्मीलाभादिवोज्ज्वलः। तद्रूपमथ किं वयं निर्वर्ण्य शुसदामपि ॥ २२० । किं तु सर्व वृथा जज्ञे दैवाचक्षुरभावतः। लक्षाकोऽप्यऽप्रमाणं स्याद् यथा पाश्चात्यबिन्दुना ॥२२१॥ अन्यदा तां सभाऽऽसीनः कन्यामङ्कगतां तथा । . निरूप्य सहसा चिन्ताऽऽचान्तस्वान्तोऽभवद् नृपः॥२२२॥ अहो ! पश्य हताशस्य प्रतीपाऽऽचरितं विधेः।। एवं निर्माय यदियं कथं हन्त ! विडम्बिता ? ॥ २२३ ।। इह तावनिसर्गेण चिन्तायै पुत्रिका पितुः। .