SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । दधानः सहसा सूर्यस्याऽपि निर्मितविस्मयः । नेत्रे शस्त्रीकयोत्पाव्य सज्जनाय समर्पयत् ॥ १९८ || (कुलकम् ) सर्वश्री नाशपुष्पस्य धर्मस्वीकारशाखिनः । १७ 40 फलं भुङ्क्ष्वेदमित्युक्त्वा हयारूढोऽन्यतो ययौ ॥ १९९ ॥ अथ तंत्र कुमारोऽपि कृत्याऽन्तरसमापनात् । दुस्तराssपनदीपूर कल्लोलोत्तालमानसः ॥ २०० ॥ दध्याविदमसंभाव्य संभवाच्चेतसि क्षणम् । किमिदं न् ! धर्मै निरतस्य ममाऽभवत् ॥ २०१ ॥ तदीयवचनस्याsपि प्रामाण्यं जाघटोति किम् ? । आः ! ज्ञातमथवा सिद्धिः कष्टेनान्तरिताऽखिला ॥ २०२॥ यथाऽङ्गक्षालकः पूर्व मलाऽपनयनोद्यतः । तैलचूर्णादिकं देहे नियोजयति किञ्चन ।। २०३ ॥ तथा धर्मोऽपि जीवस्य सिद्धिशुद्धिविधित्सया । प्राच्यकर्ममलोच्छियै करोति क्षणमापदम् ॥ २०४ ॥ fara मे मोहतकादिदं वैलोम्यचिन्तनम् | धर्म एव धुवं नाऽन्यो जयहेतुर्जगत्रये ॥ २०५ ॥ तदेकशरणः स्वान्तमित्याऽऽनिन्ये पुनः पथि । दैवायते हि देहे तु सतामास्था न विद्यते ॥ २०६ ॥ दुःखे पतन्तं मुग्धत्वाद् मनः कायमनुव्रजत् । अन्योऽयमिति संबोध्य धीरः स्थिरयते' निजम् ॥ २०७ ॥ तदा तस्य महादुःखं सतोऽप्युच्छेत्तुमक्षमः । अद्रष्टुमित्र सूर्योऽस्त पर्वताऽन्तरितोऽभवत् ।। २०८॥ शब्दायमाना विविधं पक्षिणोऽपि तदाऽऽपदि । क्रन्दन्त इव दुःखेन निलीना नीडवेश्मसु ॥ २०९॥ मुखानि ककुभां सद्यस्तमसा श्यामतामगुः । कुमाराऽऽपत्तिसंजातशोकेनेव प्रसर्पवा ।। २१० ॥ १ स्थिरं करोतीत्यर्थः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy