SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १६ श्रीपार्श्वनाथचरिते १८५ ।। वक्रीकुर्यात्, ततस्तासां माधुर्य काऽपि किं गतम् ॥ १८४ ॥ एक एव सुहृद् धर्मस्तस्माच्च विमुखीभवन् । न भावी भाविभद्राणां कदाऽप्यभिमुखो भवान् ।। सज्जनः प्राह भद्राणि दृश्यन्ते त्वयि कोविद ! | इयता ते किमयाऽपि न पूर्यन्ते मनोरथाः ? ।। १८६ ॥ यथा कोsपि पुरा ग्राम्यो जनन्याऽभाणि यत्त्वया । गृहीतोऽर्थो न मोक्तव्यः कुलपुत्र ! कथंचन ।। १८७ ॥ अन्यदा वृषभं पुच्छे स जग्राह महाबलम् । तेनाऽसौ हन्यमानोऽथ कृष्यमाणो विसंस्थलम् ॥ १८८ ॥ मुच मुश्चेति लोकेन प्रोच्यमानोऽपि नो जडः । पुच्छं मुमोच भोस्तद्वदेकग्राहो भवानपि ।। १८९ ॥ पृच्छयते तर्हि भूयोऽपि कोऽपि किं तु पणस्तव ? | इदानीं विद्यते नान्यश्चक्षुरुत्पाटनं विना ॥ १९० ॥ अमर्षाच्च कुमारेण तदप्यङ्गीकृतं वचः । ततः शाखापुरे गत्वा काऽपि पमच्छिरे जनाः ॥ १९१ ॥ तैरपि प्रागिवाऽऽख्यातं भवितव्यनियोगतः । अथ तं प्रस्थितो मार्गे सज्जनः पुनरूचिवान् ॥ १९२ ॥ सत्यशौण्ड ! कुमारेन्द्र ! परोपकृतिकर्मठ ! | धर्मकर्मनिधे ! ब्रूहि किमिदानीं करिष्यसि ? ॥ १९३ ॥ सोल्लुण्ठवचनैस्तस्य शाणघृष्टकृपाणवत् । भृशमुत्तेजितस्वान्तो गत्वाऽरण्ये बटादधः ॥ १९४ ॥ शृण्वन्तु वनदेव्यो मे लोकपालाच साक्षिणः । एक एव जयी धर्मः, एष ऊर्ध्वकृतो भुजः ॥ १९५॥ न भयान्न तमोभावान्न च धर्मपराजयात् । केवलं वचनं स्वीयं कर्तुं सत्यं करोम्यदः ॥ १९६ ॥ इत्युदित्वा मुदोल्लासिरोमाञ्चैरञ्चितां तनुम् । तत्सच्चतुष्टदेवीभिः पुष्पकोशैरिवाऽर्चिताम् ॥ १९७ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy