________________
प्रथमः सर्गः । १९ विशेषेण पुनर्दोषदृषिता तत् करोमि किम् ? ॥२२४॥ अथवाऽलमुपालम्भैर्दत्तैर्दैवस्य संप्रति । इयं प्राप्तवरा तेन कोऽप्युपायो विधीयते ॥ २२५ ॥ इति निश्चित्य भूपालः कारयामास घोषणाम् । . सर्वत्र पटहध्यानपूर्वकं यदहो ! जनाः ! ॥ २२६ ॥ जितशत्रोः पुत्रिकाया लोचने यः करिष्यति । तस्मै राजा निजं राज्यस्याऽध कन्यां च दास्यति ॥२२७।। भ्रमन्तः सन्ति ते नित्यमित्यादेशकरा नराः। अतः परमहं तत्र न जाने किं भविष्यति ? ॥२२८॥ तच्छ्रुत्वा विस्मयादेक: पप्रच्छ लघुपक्षकः। तात ! कश्चिदुपायोऽपि भवेत् तन्नेत्रसंभवे ।। २२९ ।। जात्यऽन्धायाः कथं नेत्रे भवतो वत्स ! किन्त्विह ? । मणिमन्त्रमहौषध्यः सन्त्येवाऽचिन्त्यशक्तयः ॥ २३० ॥ कथ्यतां तर्हि तेनोक्तः स ऊचे नैव कथ्यते । । तरोरपि यतो जातु रजन्यां भवतः श्रुती ॥ २३१ ।। निर्बन्धेन तथा तेन शिशुभावादपृच्छयत । दिव्यज्ञानी यथा सत्यं भारण्ड इदमाख्यत ॥२३२।। वल्ली याऽस्य तरोः स्कन्धे देशमावेष्ट्य तिष्ठति । . तदीयरससंसेकात् सद्यो नव्यदृशोर्भवः ॥ २३३ ।। तात ! प्रातः क गन्तासि तत्रैव पुरि पुत्रक ?। नयेः सहैव मां तर्हि येन मेऽस्त्यतिकौतुकम् ॥ २३४ ॥ इत्थं संलपतां तेषां प्रमीला क्षणमागमत् । कुमारोऽपि वटाऽधस्थः सर्व श्रुत्वेत्यचिन्तयत् ॥ २३५ ॥ किन्तु सत्यमिदं किंवाऽसत्यमेवाऽत्र को भ्रमः । धर्म एव सतां नित्यं जागर्ति विपदुच्छिदे ॥ २३६ ॥
करस्पर्शाल्लतां ज्ञात्वा छित्त्वा क्षुरिकया च सः । १ श्रवणद्वयम् । २ भाग्रहेण । ३ उत्पत्तिः । ४ निद्रा । ५ चतुर्थ्यन्तमेतत् ।