SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेआत्तैकखण्डस्य रसेनाऽक्षिकूपाऽवपूरयत् ॥ २३७ ॥ अथ सद्यो नवोद्भिन्नदिव्यनेत्रो महामनाः । सर्व निरूपयामास वस्तु रात्रावपि स्फुटम् ॥२३८॥ इदं पुष्पावती-राज्यलाभाय मम दैव ! किम् । सर्वम् , तदमुना सार्धं यामीत्यारुह्य तं वटम् ? ॥२३९॥ निलीय पक्षिपक्षान्तस्तस्थावथ निशात्यये । उड्डीय तद्युतः पक्षी चम्पोद्यानवनं ययौ ॥२४॥ ( युग्मम् ) ततः कुमारो निर्गत्य स्नात्वा सरसि निर्मले । कृतस्वादुफलाऽऽहारश्चलितो नमरी प्रति ॥२४१॥ पटहोद्घोषणं शृण्वन् प्रतोलिद्वारमागतः । तस्योपरिष्टाल्लिखितं श्लोकमेवमलकियत् ॥२४२।। जितशत्रोरियं वाचा मत्पुत्रीनेत्रदायिने । राज्यस्याऽध च कन्यां च प्रदास्यामीति नान्यथा ॥२४३॥ वाचयित्वा च तं रात्रीश्रुतसंवाददर्शनात् । शुभसंभावनोत्कर्षादतीव मुमुदे हृदि ॥२४४॥ इङ्गितज्ञैश्च तद् ज्ञात्वा नियुक्त राजपूरुषैः । नृपाय तदनुज्ञातैरिति सर्व निवेदितम् ॥२४५।। दिष्ट्या वर्धाप्यसे देव ! जयेन विजयेन च । प्राप्तो द्वारे पुमानेकस्त्वन्मनोरथपूरकः ॥२४६।। श्रुत्वा तत्कर्णपीयूषं सहर्षोच्छ्वसिताऽऽत्मनि । अादिव तनौ तेषां सर्वाङ्गाभरणं ददौ ॥ २४७ ॥ उत्कण्ठितश्च तं द्रष्टुं सहस्राक्षममन्यत । बाहुं सहस्रबाहुं च तस्याऽऽश्लेषाय भूपतिः ॥ २४८ ॥ शीघ्रमाकार्य दृष्ट्वा च तं गुणाऽधिकरूपिणम् । यत्राऽऽकृतिगुणास्तत्र निश्चिकायेति भाषितम् ॥ २४९ ॥ १-मेकमलोकत, इत्यपि। २ शत्रन्तस्य मा-धातोर्नपूर्वकं प्रथमान्तमेतत् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy