________________
प्रथमः सर्गः ः ।
गाढमालिङ्गय दूर्वाभरोमाञ्चैरर्चयन्निव । अङ्कमारोप्य हर्षाश्रुसलिलैः स्त्रपयन्निव ।। २५० ॥ प्रीणयनम्रताssस्वादसोदरैस्तं गिरां रसैः कुमारमिदममाक्षीत् सस्नेहमधुरं नृपः ।। २५१ ॥ किं कुलं वत्स ! का जातिः को देशो निजजन्मना । भवता पावनीचक्रे ब्रूहि यन्मेऽतिकौतुकम् ? ।। २५२ ॥ व्याजहार कुमारोऽपि देव ! किं संभ्रमोदितैः ? | कृत्यमादिश्यतां शीघ्रं तदेवोत्तरमत्र मे ।। २५३ ॥ अहो ! कृत्यैकनिष्ठत्वमस्य नो फल्गु वल्गितम् । ते देतेनानुमीयेत कुलाद्यं सर्वमुत्तमम् ॥ २५४ ॥ विमृश्येति नृपस्तेन समं कन्यागृहं ययौ । श्रुत्वा कृत्यं कुमारोऽपि कन्यान्तिकमुपेयिवान् ।। २५५ ।। चित्रग्राह्यो जनोऽयं तच्चारुपट्टासने स्थितः । सुगन्धद्रव्यमानाय्य विधाय विधिमण्डलम् ।। २५६ ॥ पूजयित्वा च पुष्पाद्यैर्जपित्वा किञ्चन क्षणम् । ध्यानमापूरयामास विस्मापितनरेश्वरम् || २५७ ॥ कटीन्यस्तं लताखण्डं गृहीत्वा तद्रसेन च । अपूरयद् दृशौ तस्याः स्पष्टे जाते च तत्क्षणात् ॥ २५८ ॥ रूपलावण्य सौन्दर्यनिर्जिताऽनङ्गविग्रहम् ।
२१
भारय सौभाग्यनिकर्षं तं वीक्ष्य पुरुषं पुरः ॥ २५९ ॥ हर्षो-त्सुक्य-त्रपा- जाड्यप्रमुखं भावसंकरम् । दधाना कामनामेनां सा चकार नृपात्मजे ।। २६० ॥
( युग्मम् )
इयत्कालं दृशोरान्ध्यमजनिष्ट यथा मम । आजन्माऽपि तथा भूयात् त्वदन्यपुरुषेक्षणे ॥ २६१ ॥ तन्निशम्य जगादैवं नृपः पूर्णमनोरथः । अनेन स्वगुणैरेव त्वमात्ता कनकोत्तमे । ॥ २६२ ॥