________________
३४२
श्रीपार्श्वनाथचरिते
तद् भव स्वामिनी सर्वखेचरीणां प्रपद्य माम् ॥ ८७६ ॥ अन्यच्च स तनूजस्ते तुरङ्गापहृतेन हि । मिथिलापतिना पद्मरथेन ददृशे वने ॥ ८७७ ॥ : आदाय पुष्पमालायाः स्वप्रियायाः समर्पितः । पाल्यमानः सुतत्वेन तथा तिष्ठत्यसौ सुखी ८७८ ॥ प्रज्ञप्तिविद्यया ज्ञातं मयैतनाऽन्यथा भवेत् । तत् प्रसन्नमना भूत्वा मम राज्यमलङ्कुरु ।। ८७९ ॥ तच्छ्रुत्वा चिन्तितं राझ्या ममाऽहो ! कर्म कीदृशम् । अन्याऽन्यव्यसनश्रेणी यद् ममैषा पुरः स्थिता ॥ ८८० ॥ तावच्छीलस्य रक्षार्थमियद् दूरं समागमम् । तस्य भङ्गस्तथैवाऽयमिहाऽपि समुपस्थितः ।। ८८१ ।। तन्मया नियतं तावद् रक्षितव्यं सतीव्रतम् । अयं च प्रसूतानङ्गमषीलिप्साक्षरक्रमः ॥ ८८२ ॥ ततो न गणयेत् पापं न चाऽपि वचनीयताम् । न लज्जा न कुलावधं विचारविकलो नरः ।। ८८३ ।। व्याक्षेपः कोऽपि तद् युक्तो नोपायोऽस्त्यपरः पुनः। अशुभस्योच्यते कालहरण कोविदैर्यतः ।। ८८४ ॥ इति संकल्प्य साऽजल्पदहो ! नन्दीश्वरे जिनान् । तावद् दर्शय मे पश्चात् करिष्ये खलु ते प्रियम् ।।८८५।। ततस्तुष्टेन तेनाऽसौ नीता नन्दीश्वरे क्षणात् । तत्र शाश्वतचैत्यानि सन्ति तेषां त्वियं स्थितिः ।।८८६॥ चत्वारोऽञ्जनशैलेषु दधिमुख्येषु षोडश । द्वात्रिंशच रतिकराऽभिधानेषु जिनालयाः ॥ ८८७ ॥ योजनानां शतं दीर्घाः पश्चाशद् विस्तृताश्च ते । द्विसप्तत्युच्छ्रिताः सर्वे द्विपश्चाशद् भवन्त्यमी ।। ८८८ ॥ विमानादवतीर्याऽथ तत्र ताभ्यां यथाविधि । . निन्दनीयताम् ।