SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ पष्ठः सर्गः। ३४१ अर्धरात्रेऽथ तत्रैवाऽतीवजातोदरव्यथा। कृच्छ्रेण सुषुवे पुत्रं सर्वलक्षणसंयुतम् ॥ ८६४ ॥ प्रातः कम्बलरत्नेन वेष्टयित्वा शिशुं करे। श्रीयुगबाहुनामाऽङ्कां तस्य प्रक्षिप्य मुद्रिकाम् ॥ ८६५ ॥ ययौ सरसि चीराणि प्रक्षाल्य स्नातुमग्रतः। प्रविष्टाऽऽदाय सा नीरहस्तिनोल्लालिताऽम्बरे ॥८६६॥ (युग्मम् ) अथ नन्दीश्वरद्वीपप्रस्थितः खेचरो युवा । पतन्तीमम्बराद् राजी जगृहे रूपमोहितः ॥ ८६७ ॥ रुदती करुणं नीता वैताढ्यं तेन साऽवदत् । भो महासत्त्व ! यामिन्यां प्रसूताऽहं सुतं वने ॥ ८६८॥ तं कदलीगृहे मुक्त्वा प्रविष्टाऽहं सरोवरे । तत्रोत्क्षिप्ता जलेभेने पतन्ती जगृहे त्वया ॥ ८६९ ॥ ततो बालः स केनाऽपि श्वापदेन हनिष्यते । आहाररहितः किं वा स्वयमेव विपत्स्यते ॥ ८७० ॥ तद् ममापत्यदानेन प्रसादं कुरु सद्दय !। स इहाऽऽनीयतां किं वा तत्र मां नय सत्वरम् ॥८७१॥ प्राह विद्याधरो भद्रे ! भर्तारं प्रतिपद्यसे । यदि मां तत् सदादेशकारी तव भवाम्यहम् ॥ ८७२ ॥ अन्यच्चवैतान्यखेचरश्रेणिस्वामी रत्नावहे पुरे । मणिचूडाऽभिधो राजा तत्पुत्रोऽहं मणिप्रभः ॥ ८७३ ॥ निर्विण्णः कामभोगानां राज्ये संस्थाप्य मत्पिता । मणिचूडोऽग्रहीद दीक्षां चारणश्रमणान्तिके ॥ ८७४ ॥ क्रमेण विहरनागात् तत्राऽसौ गतवासरे। गतश्च साम्प्रतं नन्दीश्वरे चैत्यानि वन्दितुम् ॥ ८७५ ॥ तमद्य वीक्षितुं भद्रे ! बजता त्वं मयेक्षिता । १ जलहस्तिना।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy