________________
षष्ठः सर्गः ।
३४३
प्रपूज्य वन्दिता भक्त्या प्रतिमाः शाश्वताईताम् ॥ ८८९ ॥ ऋषभचन्द्राननश्च वारिषेणाभिधस्तथा । वर्धमानश्च चत्वारः शाश्वता जिनपुङ्गवाः ।। ८९० ॥ तद्वन्दनावसाने च मणिचूडं मुनीश्वरम् । नमस्कृत्य यथौचित्यमुभावपि निषीदतः ।। ८९१ ॥ ज्ञात्वा मदनरेखाया ज्ञानी व्यतिकरं मुनिः । सद्धर्मदेशनापूर्व मणिप्रभमबोधयत् ।। ८९२ ।। क्षमयित्वा ततो राज्ञी भणिता खेचरेण मे । अद्यप्रभृति यामिस्त्वमधुना किं करोमि ते १ ॥ ८९३ ॥ राइयाऽभाणि कृतं सर्वं त्वयैतत्तीर्थदर्शनात् । पृष्ट स मुनिः पुत्रप्रवृत्तिमिति शंसति ।। ८९४ ॥ मागास्तां राजपुत्रौ द्वौ देवौ राजसुतौ सुरौ । तयोरेकः पद्मरथो द्वितीयस्ते सुतोऽभवत् ।। ८९५ ।। तेन पद्मरथेनाऽश्वापहृतेन तवात्मजः । गृहीत्वा पुष्पमालायाः स्वप्रियायाः समर्पितः ।। ८९६ ॥ तुष्टः पूर्वभवस्नेहाद् मिथिलायां महोत्सवम् ।
राजा पद्मरथोऽकार्षीत् पुत्रस्तत्राऽस्ति ते सुखी ।। ८९७ ।। ऐवंवाचि मुनौ व्योनि जितसूर - शशिप्रभम् । नौ निर्मितं मुक्तादामशोभिलसध्वजम् ॥। ८९८ ॥ किङ्किणीध्वानमुखरमुच्छलत्तूर्यनिःस्वनम् । विमानमाययावेकं देवैः कृतजयारवम् ।। ८९९ ।। ( युग्मम् )
"
ततो विनिर्ययौ देवस्तेजःप्रसरभासुरः । गीयमानगुणो देवखीभिः प्रवरभूषणः ॥ ९०० ॥ दत्त्वा मदनरेखायाः स च तिस्रः प्रदक्षिणाः । निपत्य पादयोः पश्चाद् मुनिं नत्वा निषण्णवान् ॥ ९०९ ॥
१ भगिनी । २ एवमित्थं वायू वाणी यस्य तस्मिन् ।